०२५

विश्वास-प्रस्तुतिः

वसिष्ठ उवाच
ततस्त द्रक्तियोगेन स प्रीतात्मा जगत्पतिः ।
प्रत्यक्षमगमत्तस्य सर्वैः सह मरुद्गणैः ॥ २.२५.१ ॥

मूलम्

तं दृष्ट्वा देवदेवेशं त्रिनेत्रं चन्द्रशेखरम् ।
वृषेन्द्रवाहनं शम्भुं भूतकोटिसमन्वितम् ॥ २.२५.२ ॥

ससम्भ्रमं समुत्थाय हर्षेणाकुललोचनः ।
प्रणाममकरोद्भक्त्या शर्वाय भुवि भार्गवः ॥ २.२५.३ ॥

उत्थायोत्थाय देवेशं प्रणम्य शिरसासकृत् ।
कृताञ्जलिपुटो रामस्तुष्टाव च जगत्पतिम् ॥ २.२५.४ ॥

राम उवाच
नमस्ते देवदेवेश नमस्ते परमेश्वर ।
नमस्ते जगतो नाथ नमस्ते त्रिपुरान्तक ॥ २.२५.५ ॥

नमस्ते सकलाध्यक्ष नमस्ते भक्तवत्सल ।
नमस्ते सर्वभूतेश नमस्ते वृषभध्वज ॥ २.२५.६ ॥

नमस्ते सकलाधीश नमस्ते करुणाकर ।
नमस्ते सकलावास नमस्ते नीललोहित ॥ २.२५.७ ॥

नमः सकलदेवारिगणनाशाय शूलिने ।
कपालिने नमस्तुभ्यं सर्वलोकैकपालिने ॥ २.२५.८ ॥

श्मशानवासिने नित्यं नमः कैलासवासिने ।
नमोऽस्तु पाशिने तुभ्यं कालकूटविषाशिने ॥ २.२५.९ ॥

विभवेऽमरवन्द्याय प्रभवे ते स्वयम्भुवे ।
नमोऽखिलजगत्कर्मसाक्षिभूताय शम्भवे ॥ २.२५.१० ॥

नमस्त्रिपथ गाफेनभासिगार्द्धन्दुमौलिने ।
महाभोगीन्द्रहाराय शिवाय परमात्मने ॥ २.२५.११ ॥

भस्मसञ्च्छन्नदेहाय नमोर्ऽकाग्नीन्दुचक्षुषे ।
कपर्दिने नमस्तुभ्यमन्धकासुरमर्द्दिने ॥ २.२५.१२ ॥

त्रिपुरध्वंसिने दक्षयज्ञविध्वंसिने नमः ।
गिरिजाकुचकाश्मीरविरञ्जितमहोरसे ॥ २.२५.१३ ॥

महादेवाय मह ते नमस्ते कृत्तिवाससे ।
योगिध्येयस्वरूपाय शिवायाचिन्त्यतेजसे ॥ २.२५.१४ ॥

स्वभक्तहृदयाम्भोजकर्णिकामध्यवर्त्तिने ।
सकलागमसिद्धान्तसाररूपाय ते नमः ॥ २.२५.१५ ॥

नमो निखिलयोगेन्द्रबोधनायामृतात्मने ।
शङ्करायाखिलव्याप्तमहिम्ने परमात्मने ॥ २.२५.१६ ॥

नमः शर्वाय शान्ताय ब्रह्मणे विश्वरुपिणे ।
आदिमध्यान्तहीनाय नित्यायाव्यक्तमूर्त्तये ॥ २.२५.१७ ॥

व्यक्ताव्यक्तस्वरूपाय स्थूलसूक्ष्मात्मने नमः ।
नमो वेदान्तवेद्याय विश्वविज्ञानरूपिणे ॥ २.२५.१८ ॥

नमः सुरासुरश्रेणिमौलिपुष्पार्चिताङ्घ्रये ।
श्रीकण्ठाय जगद्धात्रे लोककर्त्रे नमोनमः ॥ २.२५.१९ ॥

रजोगुणात्मने तुभ्यं विश्वसृष्टिविधायिने ।
हिरण्यगर्भरूपाय हराय जगदादये ॥ २.२५.२० ॥

नमो विश्वात्मने लोकस्थितिव्या पारकारिणे ।
सत्त्वविज्ञानरुपाय पराय प्रत्यगात्मने ॥ २.२५.२१ ॥

तमोगुणविकाराय जगत्संहारकारिणे ।
क्ल्पान्ते रुद्ररूपाय परापर विदे नमः ॥ २.२५.२२ ॥

अविकाराय नित्याय नमः सदसदात्मने ।
बुद्धिबुद्धिप्रबोधाय बुद्धीन्द्रियविकारिणे ॥ २.२५.२३ ॥

वस्वादित्यमरुद्भिश्च साध्यरुद्राश्विभेदतः ।
यन्मायाभिन्नमतयो देवास्तस्मै नमोनमः ॥ २.२५.२४ ॥

अविकारमजं नित्यं सूक्ष्मरूपमनौपमम् ।
तव यत्तन्न जानन्ति योगिनोऽपि सदामलाः ॥ २.२५.२५ ॥

त्वामविज्ञाय दुर्ज्ञेयं सम्यग्ब्रह्मादयोऽपि हि ।
संसरन्ति भवे नूनं न तत्कर्मात्मकाश्चिरम् ॥ २.२५.२६ ॥

यावन्नोपैति चरणौ तवाज्ञानविघातिनः ।
तावद्भ्रमति संसारे पण्डितोऽचेतनोऽपि वा ॥ २.२५.२७ ॥

स एव दक्षः स कृती स मुनिः स च पण्डितः ।
भवतश्चरणाम्भोजे येन बुद्धिः स्थिरीकृता ॥ २.२५.२८ ॥

सुसूक्ष्मत्वेन गहनः सद्भावस्ते त्रयीमयः ।
विदुषामपि मूढेन स मया ज्ञायते कथम् ॥ २.२५.२९ ॥

अशब्दगोजरत्वेन महिम्नस्तव साम्प्रतम् ।
स्तोतुमप्यनलं सम्यक्त्वा महं जडधीर्यतः ॥ २.२५.३० ॥

तस्मादज्ञानतो वापि मया भक्त्यैव संस्तुतः ।
प्रीतश्च भव देवेश ननु त्वं भक्तवत्सलः ॥ २.२५.३१ ॥

इति स्तुतस्तदा तेन भक्त्या रामेण शङ्करः ।
मेघगम्भीरया वाचा तमुवाच हसन्निव ॥ २.२५.३२ ॥

भगवानुवाच
रामाहं सुप्रसन्नोऽस्मि शोर्ंयशालितया तव ।
तपसा मयि भक्त्या च स्तोत्रेण च विशेषतः ॥ २.२५.३३ ॥

वरं वरय तस्मात्त्वं यद्यदिच्छसि चेतसा ।
तुभ्यं तत्तदशेषेण दास्याम्यहमशेषतः ॥ २.२५.३४ ॥

इत्युक्तो देवदेवेन तं प्रणम्य भृगूद्वहः ।
कृताञ्जलिपुटो भूत्वा राजन्निदमुवाच ह ॥ २.२५.३५ ॥

यदि देव प्रसन्नस्त्वं वारर्हेऽस्मि च यद्यहम् ।
भवतस्तदभीप्सामि हेतुमस्त्राण्यशेषतः ॥ २.२५.३६ ॥

अस्त्रे शस्त्रे च शास्त्रे च न मत्तोऽभ्यधिको भवेत् ।
लोकेषु मांरणेजेता न भवेत्त्वत्प्रसादतः ॥ २.२५.३७ ॥

तथेत्युक्त्वा ततः शम्भुरस्त्रशस्त्राण्यशेषतः ।
ददौ रामाय सुप्रीतः समन्त्राणि क्रमान्नृप ॥ २.२५.३८ ॥

सप्रयोगं ससंहारमस्त्रग्रामं चतुर्विधम् ।
प्रसादाभिमुखो रामं ग्राहयामास शङ्करः ॥ २.२५.३९ ॥

असङ्गवेगं शुभ्राश्वं सुध्वजं च रथोत्तमम् ।
इषुधी चाक्षयशरौ ददौ रामाय शङ्करः ॥ २.२५.४० ॥

अभेद्यमजरं दिव्यं दृढज्यं विजयं धनुः ।
सर्वशस्त्रसहं चित्रं कवचं च महाधनम् ॥ २.२५.४१ ॥

अजेयत्वं च युद्धेषु शौर्यं चाप्रतिमं भुवि ।
स्वेच्छया धारणे शाक्तिं प्राणानां च नराधिप ॥ २.२५.४२ ॥

ख्यातिं च बीजमेत्रेण तन्नाम्ना सर्वलौकिकीम् ।
तपः प्रभावं च महत्प्रददौ भार्गवाय सः ॥ २.२५.४३ ॥

भक्ति चात्मनि रामाय दत्त्वा राजन्यथोचिताम् ।
सहितः सकलैर्भूतैश्चामरैश्चन्द्रशेखरः ॥ २.२५.४४ ॥

तेनैव वपुषा शम्भुः क्षिप्रमन्तरधाद्धरः ।
कृतकृत्यस्ततो रामो लब्ध्वा सर्वमभीप्सितम् ॥ २.२५.४५ ॥

अदृश्यतां गते शर्वे महोदरमुवाच ह ।
महोदर मदर्थे त्वमिदं सर्वमशेषतः ॥ २.२५.४६ ॥

रथचापादिकं तावत्परिरक्षितुमर्हसि ।
यदा कृत्यं ममैतेन तदानीं त्वं मया स्मृतः ।
रथचापादिकं सर्वं प्रहिणु त्वं मदन्तिकम् ॥ २.२५.४७ ॥

तथेत्युक्त्वा गते तस्मिन्भृगुवर्यो महोदरे ।
कृतकृत्यो गुरुजनं द्रष्टुं गन्तुमियेष सः ॥ २.२५.४८ ॥

गच्छन्नथ तदासौ तु हिमाद्रिवनगह्वरे ।
विवेश कन्दरं रामो भाविकर्मप्रचोदितः ॥ २.२५.४९ ॥

स तत्र ददृशे बालं धृतप्राणमनुद्रुतम् ।
व्याघ्रेण विप्रतनयं रुदन्तं भीतभीतवत् ॥ २.२५.५० ॥

दृष्ट्वानुकम्पहृदयस्तत्परित्राणकातरः ।
तिष्ठतिष्ठेति तं व्याघ्रं वदन्नुच्चैरथान्वयात् ॥ २.२५.५१ ॥

तमनुद्रुत्य वेगेन चिरादिव भृगूद्वहः ।
आससाद वने घोरं शार्दूलमतिभीषणम् ॥ २.२५.५२ ॥

व्याघ्रेणानुद्रुतः सोऽपि पलायन्वनगह्वरे ।
निपपात द्विजसुतस्त्रस्तः प्राणभयातुरः ॥ २.२५.५३ ॥

रामोऽपि क्रोधरक्ताक्षो विप्रपुत्रपरीप्सया ।
तृणमूलं समादाय कुशास्त्रेणाभ्यमन्त्रयत् ॥ २.२५.५४ ॥

तावत्तरक्षुर्बलवानाद्रवत्पतितं द्विजम् ।
दृष्ट्वा ननादसुभृशं रोदसी कम्पयन्निव ॥ २.२५.५५ ॥

दग्ध्वा त्वस्त्राग्निना व्याघ्रं प्रहरन्तं नखाङ्कुरैः ।
अकृतव्रणमेवाशु मोक्षयामास तं द्विजम् ॥ २.२५.५६ ॥

सोऽपि ब्रह्माग्निनिर्दग्धदेहः पाप्मा नभस्तले ।
गान्धर्वं वपुरास्थाय राममाहेति सादरम् ॥ २.२५.५७ ॥

विप्रशापेन भोपूर्वमहं प्राप्तस्तरक्षुताम् ।
गच्छामि मोचितः शापात्त्वयाहमधुना दिवम् ॥ २.२५.५८ ॥

इत्युक्त्वा तु गते तस्मिन्रामो वेगेन विस्मितः ।
पतितं द्विजपुत्रं तं कृपया व्यवपद्यत ॥ २.२५.५९ ॥

माभैरेवं वदन्वाणीमारादेव द्विजात्मजम् ।
परमृशत्तदङ्गानि शनैरुज्जीवयन्नृप ॥ २.२५.६० ॥

रामेणोत्थापितश्चैवं स तदोन्मील्य लोचने ।
विलोकयन्ददर्शाग्रे भृगुश्रेष्ठमवस्थितम् ॥ २.२५.६१ ॥

भस्मीकृतं च शार्दूलं दृष्टवा विस्मयमागतः ।
गतभीराह कस्त्वं भोः कथं वेह समागतः ॥ २.२५.६२ ॥

केन वायं निहन्तुं मामुद्यतो भस्मसात्कृतः ।
तरक्षुर्भीषणाकारः साक्षान्मृत्युरिवापरः ॥ २.२५.६३ ॥

भयसम्मूढमनमो ममाद्यापि महामते ।
हतेऽपि तस्मिन्नखिला भान्ति वै तन्मया दिशः ॥ २.२५.६४ ॥

त्वामेव मन्ये सकलं पिता माता सुत्दृद्गुरू ।
परमापदमापन्नं त्वं मां समुपजीवयन् ॥ २.२५.६५ ॥

आसीन्मुनिवरः कश्चिच्छान्तो नाम महातपाः ।
पुत्रस्तस्यास्मि तीर्थार्थी शालग्राममयासिषम् ॥ २.२५.६६ ॥

तस्मात्सम्प्रस्थितश्शैलं दिदृक्षुर्गन्धमादनम् ।
नानामुनिगणैर्जुष्टं पुण्यं बदरिकाश्रमम् ॥ २.२५.६७ ॥

गन्तुकामोऽपहायाहं पन्थानं तु हिमाचले ।
प्रविशन्गहनं रम्यं प्रदेशालोकनाकुलम् ॥ २.२५.६८ ॥

दिशम्प्राचीं समुद्दिश्य क्रोशमात्रमयासिषम् ।
ततो दिष्टवशेनाहं प्राद्रवं भयपीडितः ॥ २.२५.६९ ॥

पतितश्च त्वया भूयोभूमेरुत्थापितोऽधुना ।
पित्रेव नितरां पुत्रः प्रेम्णात्यर्थं दयालुना ।
इत्येष मम वृत्तान्तः साकल्येनोदितस्तव ॥ २.२५.७० ॥

इति पृष्टस्तदा तेन स्ववृत्तान्तमशेषतः ।
कथयामास राजेन्द्र रामस्तस्मै यथाक्रमम् ॥ २.२५.७१ ॥

ततस्तौ प्रीतिसंयुक्तौ कथयन्तौ परस्परम् ।
स्थित्वा नातिचिरं कालमथ गन्तुमियेष सः ॥ २.२५.७२ ॥

अन्वीयमानस्तेनाथ रामस्तस्माद्गुहामुखात् ।
निष्क्रम्यावसथं पित्रोः सम्प्रतस्थे मुदान्वितः ॥ २.२५.७३ ॥

अकृतव्रण एवासौ व्याघ्रेण भुवि पातितः ।
रामेण रक्षितश्चाभुद्यस्माद्ध्याघ्रं विनिघ्नता ॥ २.२५.७४ ॥

तस्मात्तदेव नामास्य बभूव प्रथितं भुवि ।
विप्रपुत्रस्य राजेन्द्र तदेतत्सोऽकृतव्रणः ॥ २.२५.७५ ॥

तदा प्रभृति रामस्य च्छायेवातपगा भुवि ।
बभूव मित्रमत्यर्थं सर्वावस्थासु पार्थिव ॥ २.२५.७६ ॥

स तेनानुगतो राजन्भृगोरासाद्य सन्निधिम् ।
दृष्ट्वा ख्यातिं च सोऽभ्येत्य विनयेनाभ्यवादयत् ॥ २.२५.७७ ॥

स ताभ्यां प्रियमाणाभ्यामाशीर्भिरभिनन्दितः ।
दिनानि कतिचित्तत्र न्यवसत्तत्प्रियेप्सया ॥ २.२५.७८ ॥

ततस्तयोरनुमते च्यवनस्य महामुनेः ।
आश्रमं प्रतिचक्राम शिष्यसङ्घैः समावृतम् ॥ २.२५.७९ ॥

नियन्त्रितान्तः करणं तं च संशान्तमानसम् ।
सुकन्याचापि तद्भार्यामवन्दत महामनाः ॥ २.२५.८० ॥

ताभ्यां च प्रीतियुक्ताभ्यां रामः समभिनन्दितः ।
और्वाश्रमं समापेदे द्रष्टुकामस्तपोनिधिम् ॥ २.२५.८१ ॥

तं चाभिवाद्य मेधावी तेन च प्रतिनन्दितः ।
उवास तत्र तत्प्रीत्या दिनानि कतिचिन्नृप ॥ २.२५.८२ ॥

विसृष्टस्तेन शनकैरृचीकभवनं मुदा ।
प्रतस्थे भार्गवः श्रीमानकृतव्रणसंयुतः ॥ २.२५.८३ ॥

अवन्दत पितुः पित्रोर्नत्वा पादौ पृथक्पृथक् ।
तौ च तं नृप संहर्षाच्चाशिषा प्रत्यनन्दताम् ॥ २.२५.८४ ॥

पृष्टश्च ताभ्यामखिलं निजवृत्तमुदारधीः ।
कथयामास राजेन्द्र यथावृत्तमनुक्रमात् ॥ २.२५.८५ ॥

स्थित्वा दिनानि कतिचित्तत्रापि तदनुज्ञया ।
जगामावसथं पित्रोर्मुदा परमया युतः ॥ २.२५.८६ ॥

अभ्येत्य पितरौ राजन्नासी नावाश्रमोत्तमे ।
अवन्दत तयोः पादौ यथावद्भृगुनन्दन ॥ २.२५.८७ ॥

पादप्रणामावनतं समुत्थाप्य च सादरम् ।
आश्लिष्य नेत्रसलिलैर्नन्दन्तौ पर्यषिञ्चताम् ॥ २.२५.८८ ॥

आशीर्भिरभिनन्द्याङ्के समारोप्य सुहुर्मुखम् ।
विक्षन्तौ तस्य चाङ्गानि परिस्पृश्यापतुर्मुदम् ॥ २.२५.८९ ॥

अपृच्छताञ्च तौ रामं कलेनैतावता त्वया ।
किं कृतं पुत्र को वायं कुत्र वा त्वमुपस्थितः ॥ २.२५.९० ॥

कथं सह सकाशे त्वमास्थितो वात्र वागतः ।
त्वयेतदखिलं वत्स कथ्यतां तथ्यमावयोः ॥ २.२५.९१ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादेर्ऽजुनोपाख्याने भार्गवचरिते पञ्चविंशतितमोऽध्यायः ॥ २५॥