विश्वास-प्रस्तुतिः
वसिष्ठ उवाच
इत्युक्तस्तेन भूपाल रामो मतिमतां वरः ।
निरूप्य मनसा भूयस्तमुवाचाभिविस्मितम् ॥ २.२४.१ ॥
मूलम्

राम उवाच
कस्त्वं ब्रूहि महाभाग न वै प्राकृतपूरुषः ।
इन्द्रस्येवानुभावेन वपुरालक्ष्यते तव ॥ २.२४.२ ॥

विचित्रार्थपदौदार्यगुणगाम्भीर्यजातिभिः ।
सर्वज्ञस्यैव ते वाणी श्रूयतेऽतिमनोहरा ॥ २.२४.३ ॥

इन्द्रो वह्निर्यमो धाता वरुणो वा धनाधिपः ।
ईशानस्तपनो ब्रह्मा वायुः सोमो गुरुर्गुहः ॥ २.२४.४ ॥

एषामन्यतमः प्रायो भवान्भवितुमर्हति ।
अनुभावेन जातिस्ते हृदिशङ्कां तनोति मे ॥ २.२४.५ ॥

मायावी भगवान्विष्णुः श्रूयते पुरुषोत्तमः ।
को वा त्वं वपुषानेन ब्रूहि मां समुपागतः ॥ २.२४.६ ॥

अथ वा जगतां नाथः सर्वज्ञः परमेश्वरः ।
परमात्मात्मसम्भूतिरात्मारामः सनातनः ॥ २.२४.७ ॥

स्वच्छन्दचारी भगवाञ्छिवः सर्वजगन्मयः ।
वपुषानेन संयुक्ते भवान्भवितुमर्हति ॥ २.२४.८ ॥

नान्यस्येदृग्भवेल्लोके प्रभावानुगतं वपुः ।
जात्यर्थसौष्ठवोपेता वाणी चौदार्यशालिनी ॥ २.२४.९ ॥

मन्येऽहं भक्तवात्सल्याद्वानेन वपुषाहरः ।
प्रत्यक्षतामुपगतो सन्देहोऽस्मत्परीक्षया ॥ २.२४.१० ॥

न केवलं भवान् व्याधस्तेषां नेदृग्विधाकृतिः ।
तस्मात्तुभ्यं नमस्तस्मै सुरुपं सम्प्रदर्शय ॥ २.२४.११ ॥

आविष्कुर्वन्प्रसीदात्ममहिमानुगुणं वपुः ।
ममानेकविधा शङ्कामुच्येत येन मानसी ॥ २.२४.१२ ॥

प्रसीद सर्वभावेन बुद्धिमोहौ ममाधुना ।
प्रणाशय स्वरूपस्य ग्रहणादेव केवलम् ॥ २.२४.१३ ॥

प्रार्थयेत्वां महाभाग प्रणम्य शिरसासकृत् ।
कस्त्वं मे दर्शयात्मानं बद्धोऽयं ते मयाञ्जलिः ॥ २.२४.१४ ॥

इत्युक्त्वा तं महाभाग ज्ञातुमिच्छन्भृगूद्वहः ।
उपविश्य ततो भूमौ ध्यानमास्ते समाहितः ॥ २.२४.१५ ॥

बद्धपद्मासनो मौनी यतवाक्कायमानसः ।
निरुद्धप्राणसञ्चारो दध्यौ चिरमुदारधीः ॥ २.२४.१६ ॥

सन्नियम्येन्द्रियग्रामं मनो हृदि निरुध्य च ।
चिन्तयामास देवेशं ध्यानदृष्ट्या जगद्गुरुम् ॥ २.२४.१७ ॥

अपश्यच्च जगन्नाथमात्मसन्धानचक्षुषा ।
स्वभक्तानुग्रहकरं मृगव्याधस्वरूपिणम् ॥ २.२४.१८ ॥

तत उन्मील्य नयने शीघ्रमुत्थाय भार्गवः ।
ददर्श देवं तेनैव वपुषा पुरतः स्थितम् ॥ २.२४.१९ ॥

आत्मनोऽनुग्रहार्थाय शरण्यं भक्तवत्सलम् ।
आविर्भूतं महाराज दृष्ट्वा रामः ससम्भ्रमम् ॥ २.२४.२० ॥

रोमाञ्छोद्भिन्नसर्वाङ्गो हर्षाश्रुप्लुतलोचनः ।
पपात पादयोर्भूमौ भक्त्या तस्य महामतिः ॥ २.२४.२१ ॥

स गद्गदमुवाचैनं सम्भ्रमाकुलया गिरा ।
शरणं भव शर्वेति शङ्करेत्यसकृन्नृप ॥ २.२४.२२ ॥

ततः स्वरुपधृक्शम्भुस्तद्भक्तिपरितोषितः ।
राममुत्थापयामास प्रणा मावनतं भुवि ॥ २.२४.२३ ॥

उत्थापितो जगद्धात्रा स्वहस्ताभ्यां भृगूद्वहः ।
तुष्टाव देवदेवेशं पुरः स्थित्वा कृताजलिः ॥ २.२४.२४ ॥

नमस्ते देवदेवाय शङ्करायादिमूर्त्तये ।
नमः शर्वाय शान्ताय शाश्वताय नमोनमः ॥ २.२४.२५ ॥

नमस्ते नीलकण्ठाय नीललोहितमूर्त्तये ।
नमस्ते भूतनाथाय भूतवासाय ते नमः ॥ २.२४.२६ ॥

व्यक्ताव्यक्तस्वरूपाय महादेवाय मीढुषे ।
शिवाय बहुरूपाय त्रिनेत्राय नमोनमः ॥ २.२४.२७ ॥

शरणं भव मे शर्व त्वद्भक्तस्य जगत्पते ।
भूयोऽनन्याश्रयाणां तु त्वमेव हि परायणम् ॥ २.२४.२८ ॥

यन्मयापकृतं देव दुरुक्तं वापि शङ्कर ।
अजानता त्वां भगवन्मम तत्क्षन्तुमर्हसि ॥ २.२४.२९ ॥

अनन्यवेद्यरुपस्य सद्भावमिहकः पुमान् ।
त्वामृते तव सर्वेश सम्यक्शक्रोति वेदितुम् ॥ २.२४.३० ॥

तस्मात्त्वं सर्वभावेन प्रसीद मम शङ्कर ।
नान्यास्ति मे गतिस्तुभ्यं नमो भूयो नमो नमः ॥ २.२४.३१ ॥

इति संस्तूयमानस्तु कृताञ्जलिपुटं पुरः ।
तिष्ठन्तमाह भगवान्प्रसन्नात्मा जगन्मयः ॥ २.२४.३२ ॥

भगवानुवाच
प्रीतोऽस्मि भवते तात तपसानेन साम्प्रतम् ।
भक्त्या चैवानपायिन्या ह्यपि भार्गवसत्तम ॥ २.२४.३३ ॥

दास्ये चाभि मतं सवे भवतेऽहं त्वया वृतम् ।
भक्तो हि मे त्वमत्यर्थं नात्र कार्या विचारणा ॥ २.२४.३४ ॥

मयैवावगतं सर्वं त्दृदि वत्तेऽद्यवर्त्तते ।
तस्माद्ब्रवीमि यत्त्वाहं तत्कुरुष्वाविशङ्कितम् ॥ २.२४.३५ ॥

नास्त्राणां धारणे वत्स विद्यते शक्तिरद्य ते ।
रौद्राणां तेन भूयोऽपि तपो घोरं समाचर ॥ २.२४.३६ ॥

परीत्य पृथिवीं सर्वां सर्वतीर्थेषु च क्रमात् ।
स्रात्वा पवित्रदेहस्त्तवं सर्वाण्यस्त्राण्यवाप्स्यसि ॥ २.२४.३७ ॥

इत्युक्त्वान्तर्दधे देवस्तेनैव वपुषा विभुः ।
रामस्य पश्यतो राजन्क्षणेन भवभागकृत् ॥ २.२४.३८ ॥

अन्तर्हिते जगन्नाथे रामो नत्वा तु शङ्करम् ।
परीत्यवसुधां सर्वां तीर्थस्नानेऽकरोन्मनः ॥ २.२४.३९ ॥

ततः स पृथिवीं सर्वां परिक्रम्य यथाक्रमम् ।
चकार सर्वतीर्थेषु स्नानं विधिवदात्मवान् ॥ २.२४.४० ॥

तीर्थेषु क्षेत्रमुख्येषु तथा देवालयेषु च ।
पितॄन्देवांश्च विधिवदतर्पयदतन्द्रितः ॥ २.२४.४१ ॥

उपवासतपोहोमजपस्नानादिसुक्रियाः ।
तीर्थेषु विधिवत्कुर्वन्परिचक्राम मेदिनीम् ॥ २.२४.४२ ॥

एवं क्रमेण तीर्थेषु स्नात्वा चैव वसुन्धराम् ।
प्रदक्षिणीकृत्य शनैः शुद्धदेहोऽभवन्नृप ॥ २.२४.४३ ॥

परीत्यैवं वसुमतीं भार्गवः शम्भुशासनात् ।
जगां भूयस्तं देशं यत्र पूर्वमुवास सः ॥ २.२४.४४ ॥

गत्वा राजन्सतत्रैव स्थित्वा देवमुमापतिम् ।
भक्त्या सम्पूजयामास तपोभिर्न्नियमैरपि ॥ २.२४.४५ ॥

एतस्मिन्नेव काले तु देवानामसुरैः सह ।
बभूव सुचिरं राजन्सङ्ग्रामो रोमहर्षणः ॥ २.२४.४६ ॥

ततो देवान्पराजित्य युद्धेऽतिबलिनोऽसुराः ।
अवापुरमरैश्वर्यमशेषमकुतोभयाः ॥ २.२४.४७ ॥

युद्धे पराजिता देवाः सकला वासवादयः ।
शङ्करं शरणं चग्मुर्हतैश्वर्या ह्यरातिभिः ॥ २.२४.४८ ॥

तोषयित्वा जगन्नाथं प्रणामजय संस्तवैः ।
प्रार्थयामासुरसुरान्हन्तुं देवाः पिनाकिनम् ॥ २.२४.४९ ॥

ततस्तेषां प्रतिश्रुत्य दानवानां वधं नृप ।
देवानां वरदः शम्भुर्महो दरमुवाच ह ॥ २.२४.५० ॥

हिमद्रेर्दक्षिणे भागे रामो नाम महातपाः ।
मुनिपुत्रोऽतितेजस्वी मामुद्दिश्य तपस्यति ॥ २.२४.५१ ॥

तत्र गत्वात्वमद्यैव निवेद्य मम शासनम् ।
महोदर तपस्यन्तं तमिहानय माचिरम् ॥ २.२४.५२ ॥

इत्याज्ञप्रस्तथेत्युक्त्वा प्रणभ्येशं महोदरः ।
जगाम वायुवेगेन यत्र रामो व्यवस्थितः ॥ २.२४.५३ ॥

समासाद्य स तं देशं दृष्ट्वा रामं महामुनिम् ।
तपस्यन्तमिदं वाक्यमुवाच विनयान्वितः ॥ २.२४.५४ ॥

द्रष्टुमिच्छति शम्भुस्त्वां भृगुवर्यं तदाज्ञया ।
आगतोऽहं तदागच्छ तत्पादाम्बुजसन्निधिम् ॥ २.२४.५५ ॥

तच्छ्रुत्वा वचनं तस्य शीघ्रमुत्थाय भार्गवः ।
तदाज्ञां शिरसानन्द्य तथेति प्रत्यभाषत ॥ २.२४.५६ ॥

ततो रामं त्वरोपेतः शम्भुपार्श्वं महोदरः ।
प्रापयामास सहसा कैलासे नागसत्तमे ॥ २.२४.५७ ॥

सहितं सकलैर्भूतैरिन्द्राद्यैश्च सहामरैः ।
ददर्श भार्गवश्रेष्ठः शङ्करं भक्तवत्सलम् ॥ २.२४.५८ ॥

संस्तूयमानं मुनिभिर्नारदाद्यैस्तपोधनैः ।
गन्धर्वैरुपगायद्भिर्नृत्यद्भिश्चाप्सरोगणैः ॥ २.२४.५९ ॥

उपास्यमानं देवेशं गजचर्मधृताम्बरम् ।
भस्मोद्धूलितसर्वाङ्गं त्रिनेत्रं चन्द्रशेखरम् ॥ २.२४.६० ॥

धृतपिङ्गजटाभारं नागाभरमभूषितम् ।
प्रलम्बोष्ठभुजं सौम्यं प्रसन्नमुखपङ्कजम् ॥ २.२४.६१ ॥

आस्थितं काञ्चने पट्टे गीर्वाणसमितौ नृप ।
उपासर्पत्तु देवेशं भृगुवर्यः कृताञ्जलिः ॥ २.२४.६२ ॥

श्रीकण्ठदर्शनोद्वत्तरोमाञ्चाञ्चितविग्रहः ।
बाष्पत्तु सिक्तकायेन स तु गत्वा हरान्तिकम् ॥ २.२४.६३ ॥

भक्त्या ससम्भ्रमं वाचा हर्षगद्गदयासकृत् ।
नमस्ते देवदेवेति व्यालपन्नाकुलाक्षरम् ॥ २.२४.६४ ॥

पपात संस्पृशन्मूर्ध्ना चरणौ पुरविद्विषः ।
पश्यतां देववृन्दानां मध्ये भृगुकुलोद्वहम् ॥ २.२४.६५ ॥

तमुत्थाप्य शिवः प्रीतः प्रसन्नमुखपङ्कजम् ।
रामं मधुरया वाचा प्रहसन्नाह सादरम् ॥ २.२४.६६ ॥

इमे दैत्यगणैः क्रान्ताः स्वाधिष्ठानात्परिच्युताः ।
अशक्रुवन्तस्तान्हन्तुं गीर्वाणा मामुपागताः ॥ २.२४.६७ ॥

तस्मान्ममाज्ञया राम देवानां च प्रियेप्सया ।
जहि दैत्यगणान्सर्वान्समर्थस्त्वं हि मे मतः ॥ २.२४.६८ ॥

ततो रामोऽब्रवीच्छर्वं प्रणिपत्य कृताञ्जलिः ।
शृण्वतां सर्वदेवानां सप्रश्रयमिदं वचः ॥ २.२४.६९ ॥

स्वामिन्न विदितं किं ते सर्वज्ञस्याखिलात्मनः ।
तथापि विज्ञापयतो वचनं मेऽवधारय ॥ २.२४.७० ॥

यदि शक्रादिभिर्देवैरखिलैरमरारयः ।
न शक्या हन्तुमेकस्य शक्याः स्यस्ते कथं मम ॥ २.२४.७१ ॥

अनस्त्रज्ञोऽस्मि देवेश युद्धानामप्यकोविदः ।
कथं हनिष्ये सकलान्सुरशत्रूननायुधः ॥ २.२४.७२ ॥

इत्युक्तस्तेन देवेशः सितं कालाग्निसप्रभम् ।
शैवमस्त्रमयं तेजो ददौ तस्मै महात्मने ॥ २.२४.७३ ॥

आत्मीयं परशुं दत्वा सर्वशस्त्राभिभावकम् ।
रामपाह प्रसन्नात्मा गीर्वाणानां तु शृण्वतम् ॥ २.२४.७४ ॥

मत्प्रसादेन सकलान्सुरशत्रून्विनिघ्नतः ।
शक्तिर्भवतु ते सौम्य समस्तारिदुरासदा ॥ २.२४.७५ ॥

अनेनैवायुधेन त्वं गच्छ युध्यस्व शत्रुभिः ।
स्वयमेव च वेत्सि त्वं यथावद्युद्धकौशलम् ॥ २.२४.७६ ॥

एवमुक्तस्ततो रामः शम्भुना तं प्रणम्य च ।
जग्राह परशुं शैव विबुधारिवधोद्यतः ॥ २.२४.७७ ॥

ततः स शुशुभे रामो विष्णुतेर्ञ्जोऽशसम्भवः ।
रुद्रभक्त्या समायुक्तो द्युत्येव सवितुर्महः ॥ २.२४.७८ ॥

सोऽनुज्ञातस्त्रिनेत्रेण देवैः सर्वैः समन्वितः ।
जगाम हन्तुमसुरान्युद्धाय कृतनिश्चयः ॥ २.२४.७९ ॥

ततोऽभवत्पुनर्युद्धं देवानामसुरैः सह ।
त्रैलोक्यविजयोद्युक्तै राजन्नतिभयङ्करम् ॥ २.२४.८० ॥

अथ रामो महाबाहुस्तस्मिन्युद्धे सुदारुणे ।
कुद्धः परशुना तेन निजघान महासुरान् ॥ २.२४.८१ ॥

प्रहारैरशनिप्रख्यैर्निघ्नन्दैत्यान्सहस्रशः ।
चचार समरे रामः क्रुद्धः काल इवापरः ॥ २.२४.८२ ॥

हत्वा तु सकलान्दैत्यान्देवान्सर्वानहर्षयत् ।
क्षणेन नाशयामास रामः प्रहरतां वरः ॥ २.२४.८३ ॥

रामेण हन्यमा नास्तु समस्ता दैत्यदानवाः ।
ददृशुः सर्वतो रामं हतशेषा भयान्विताः ॥ २.२४.८४ ॥

हतेष्वसुरसङ्घेषु विद्रुतेषु च कृत्स्नशः ।
राममामन्त्र्य विबुधाः प्रययुस्त्रिदिवं पुनः ॥ २.२४.८५ ॥

रामोऽपि हत्वा दितिजानभ्यनुज्ञाप्य चामरान् ।
स्वमाश्रमं समापेदे तपस्यासक्तमानसः ॥ २.२४.८६ ॥

मृगव्याधप्रतिकृतिं कृत्वा शम्भोर्महामतिः ।
भक्त्या सम्पूजयामास स तस्मिन्नाश्रमेवशी ॥ २.२४.८७ ॥

गन्धैः पुष्पैस्तथा हृद्यैर्नैवेद्यैरभिवन्दनैः ।
स्तोत्रैश्च विधिवद्भक्त्या परां प्रीतिमुपानयत् ॥ २.२४.८८ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादेर्ऽजुनोपाख्याने चतुर्विंशतितमोऽध्यायः ॥ २४॥