०२३

विश्वास-प्रस्तुतिः

वसिष्ठ उवाच
तपस्विनं तदा राममेकाग्रमनसं भवे ।
रहस्येकान्तनिरतं नियतं शंसितव्रतम् ॥ २.२३.१ ॥

मूलम्

श्रुत्वा तमृषयः सर्वे तपोनिर्धूतकल्मषाः ।
ज्ञानकर्मवयोवृद्धा महान्तः शंसितव्रताः ॥ २.२३.२ ॥

दिदृक्षवः समाजग्मुः कुतूहलसमन्विताः ।
ख्यापयन्तस्तपः श्रेष्ठं तस्य राजन्महात्मनः ॥ २.२३.३ ॥

भृग्वत्रिक्रतुजाबालिवामदेवमृकण्डवः ।
सम्भावयन्तस्ते रामं मुनयो वृद्धसम्मताः ॥ २.२३.४ ॥

आजग्मुराश्रमं तस्य रामस्य तपसस्तपः ।
दूरादेव महान्तस्ते पुण्यक्षेत्रनिवासिनः ॥ २.२३.५ ॥

गरीयः सर्वलोकेषु तपोऽग्र्यं ज्ञानमेव च ।
प्रशस्य तस्य ते सर्वेप्रययुः स्वं स्वमाश्रमम् ॥ २.२३.६ ॥

एवं प्रवर्त्ततस्तस्य रामस्य भगवाञ्छिवः ।
प्रसन्नचेता नितरां बभूव नृपसत्तम ॥ २.२३.७ ॥

जिज्ञासुस्तस्य भगवान् भक्तिमात्मनि शङ्करः ।
मृगव्याधवपुर्भूत्वा ययौ राजंस्तदन्तिकम् ॥ २.२३.८ ॥

भिन्नाञ्जनचयप्रख्यो रक्तान्तायतलोचनः ।
शरचापधरः प्रांशुर्वज्रसंहननो युवा ॥ २.२३.९ ॥

उत्तुङ्गहनुबाह्वंसः पिङ्गलश्मश्रुमूर्द्धजः ।
मांसविस्रवसागन्धी सर्वप्राणिविहिंसकः ॥ २.२३.१० ॥

सकण्टकुलतास्पर्शक्षतारूषितविग्रहः ।
सामटक्सञ्चर्वमाणश्च मांसखण्डमनेकशः ॥ २.२३.११ ॥

मांसभारद्वयालम्बिविधानानतकन्धरः ।
आरुजंस्तरसा वृक्षानूरुवेगेन सङ्घशः ॥ २.२३.१२ ॥

अभ्यवर्त्तत तं देशं पादचारीव पर्वतः ।
आसाद्य सरसस्तस्य तीरं कुसुमितद्रुमम् ॥ २.२३.१३ ॥

न्यदधान्मासभारं च स मूले कस्यचित्तरोः ।
निषसाद क्षणन्तत्र तरुच्छायामुपाश्रितः ॥ २.२३.१४ ॥

तिष्ठन्तं सरसस्तीरे सोऽपश्यद्भृगुनन्दनम् ।
ततः स शीघ्रमुत्थाय समीपमुपसृत्य च ॥ २.२३.१५ ॥

रामाय सेषुचापाभ्यां कराभ्यां विदधेंऽजलिम् ।
सजलाम्भोदसन्नादगम्भीरेण स्वरेण च ॥ २.२३.१६ ॥

जगाद भृगुशार्दूलं गुहान्तरविसर्पिणा ।
तोषप्रवर्षव्याधोऽहं वसाम्यस्मिन्महावने ॥ २.२३.१७ ॥

ईशोऽहमस्य देशस्य सप्राणितरुवीरुधः ।
चरामि समचित्तात्मा नानासत्त्वा मिषाशनः ॥ २.२३.१८ ॥

समश्च सर्वभूतेषु न च पित्रादयोऽपि मे ।
अभक्ष्यागम्यपेयादिच्छन्दवस्तुषु कुत्रचित् ॥ २.२३.१९ ॥

कृत्याकृत्यविधौचैव न विशेषितधीरहम् ।
प्रपन्नो नाभिगमनं निवासमपि कस्यचित् ॥ २.२३.२० ॥

शक्रस्यापि बलेनाहमनुमन्ये न संशयः ।
जानते तध्यथा सर्वे देशोऽयं मदुपाश्रयः ॥ २.२३.२१ ॥

तस्मान्न कश्चिदायाति ममात्रानुमतिं विना ।
इत्येष मम वृत्तान्तः कार्त्स्न्येन कथितस्तव ॥ २.२३.२२ ॥

त्वं च मे ब्रूहि तत्त्वेन निजवृत्तमशेषतः ।
कस्त्वं कस्मादिहायातः किमर्थमिह धिष्ठितः ।
उद्यतोऽन्यत्र वा गन्तुं किं वा तव चिकीर्षितम् ॥ २.२३.२३ ॥

इत्येवमुक्तः प्रहसंस्तेन रामो महाद्युतिः ।
तूष्णीं क्षणमिव स्थित्वा दध्यौ किञ्चिदवाङ्मुखः ॥ २.२३.२४ ॥

कोऽयमेव दुराधर्षः सजलाम्भोदनिस्वनः ।
ब्रवीति च गिरोऽत्यर्थं विस्पष्टार्थपदाक्षराः ॥ २.२३.२५ ॥

किं तु मे महतीं शङ्कां तनुरस्य तनोति वै ।
विजातिसंश्रयत्वेन रमणीया तथा शराः ॥ २.२३.२६ ॥

एवं चिन्तयतस्तस्य निमित्तानि शुभानि वै ।
बभूवुर्भुवि देहे च स्वाभिप्रेतार्थदान्यलम् ॥ २.२३.२७ ॥

ततो विमृश्य बहुशो मनसाभृगुपुङ्गवः ।
उवाच शनकैर्व्याधं वचनं सूनृताक्षरम् ॥ २.२३.२८ ॥

जामदग्न्योऽस्मि भद्रं ते रामो नाम्ना तु भार्गवः ।
तपश्चर्तुमिहायातः साम्प्रतं गुरुशासनात् ॥ २.२३.२९ ॥

तपसा सर्वलोकेशं भक्त्या च नियमेन च ।
आराधयितुमस्मिंस्तु चिरायाहं समुद्यतः ॥ २.२३.३० ॥

तस्मात्मर्वेश्वरं सर्वशरण्यमभयप्रदम् ।
त्रिनेत्रं पापदमनं शङ्करं भक्तवत्सलम् ॥ २.२३.३१ ॥

तपसा तोषयिष्यामि सर्वज्ञं त्रिपुरान्तकम् ।
आश्रमेऽस्मिनसरस्तीरे नियमं समुपाश्रितः ॥ २.२३.३२ ॥

भक्तानुकम्पी भगवान्यावत्प्रत्यक्षतां हरः ।
उपैति तावदत्रैव स्थास्यामीति मतिर्मम ॥ २.२३.३३ ॥

तस्मादितस्त्वयाद्यैव गन्तुमन्यत्र युज्यते ।
न चेद्भवति मे हानिः स्वकृतेर्नियमस्य च ॥ २.२३.३४ ॥

माननीयोऽथ वाहं ते भक्त्या देशान्तरातिथिः ।
स्वनिवासमुपायातस्तपस्वी च तथा मुनिः ॥ २.२३.३५ ॥

त्वतसन्निधौ निवासो मे भवेत्पापाय केवलम् ।
तव चाप्यसुखोदर्कं मत्समीपनिषेवणम् ॥ २.२३.३६ ॥

स त्वम्मदाश्रमोपान्ते परिचङ्क्रमणादिकम् ।
परित्यज्य सुखीभूया लोकयोरुभयोरपि ॥ २.२३.३७ ॥

इति तस्य वचः श्रुत्वा स भूयो भृगुपुङ्गवम् ।
उवाच रोषताम्राक्षस्ताम्राक्षमिदमुत्तरम् ॥ २.२३.३८ ॥

ब्रह्मन् किमिदमत्यर्थं समीपे वसतिं मम ।
परिगर्हयसे येन कृतघ्नस्येव काम्प्रतम् ॥ २.२३.३९ ॥

किं मयापकृतं लोके भवतोऽन्यस्य वा क्वचित् ।
अनागस्कारिणं दान्तं कोऽवमन्येत नामतः ॥ २.२३.४० ॥

सन्निधिः परिहर्त्तव्यो यदि मे विप्रपुङ्गव ।
दर्शनं सह संवासः सम्भाषणमथापि च ॥ २.२३.४१ ॥

आयुष्मताधुनैवास्मादपसर्त्तव्यमाश्रमात् ।
स्वसंश्रयं परित्यज्य क्वाहं यास्ये बुभुक्षितः ॥ २.२३.४२ ॥

स्वाधिवासं परित्यज्य भवता योदितः कथम् ।
इतोऽन्यस्मिन् गामिष्यामि दूरे नाहं विशेषतः ॥ २.२३.४३ ॥

गम्यतां भवतान्यत्र स्थीयतामत्र वेच्छया ।
नाहं चालयितुं शक्यः स्थानादस्मात्कथञ्चन ॥ २.२३.४४ ॥

तच्छ्रुत्वा वचनं तस्य किञ्चित्कोपसमन्वितः ।
तमुवाच पुनर्वाक्यमिदं राजन्भृगूद्वहः ॥ २.२३.४५ ॥

व्याधजातिरियं क्रूरा सर्वसत्त्वभयावहा ।
खलकर्मरता नित्यं धिक्कृता सर्वजन्तुभिः ॥ २.२३.४६ ॥

तस्यां जातोऽसि पापीयान्सर्वप्राणिविहिंसकः ।
स कथं न परित्याज्यः सुजनैः स्यात्तु दुर्मते ॥ २.२३.४७ ॥

तस्माद्विहीनजातीयं विदित्वात्मानमब्यथ ।
शीघ्रमस्माद्व्रजान्यत्र नात्र कार्या विचारणा ॥ २.२३.४८ ॥

शरीरत्राणकारुण्यात्समीपं नोपसर्पसि ।
यथा त्वं कण्टकादीनामसहिष्णुतया व्यथाम् ॥ २.२३.४९ ॥

तथावेहि समस्तानां प्रियाः प्राणाः शरीरिणाम् ।
व्यथा चाभिहतानां तु विद्यते भवतोऽन्यथा ॥ २.२३.५० ॥

अहिंसा सर्वभूतानामिति धर्मः सनातनः ।
एतद्विरुद्धाचरणान्नित्यं सद्भिर्विगर्हितः ॥ २.२३.५१ ॥

आत्मप्राणाभिरक्षार्थं त्वमशेषशरीरिणः ।
हनिष्यसि कथं सत्सुनाप्नोषि वचनीयताम् ॥ २.२३.५२ ॥

तस्माच्छीघ्रं तु भोगच्छ त्वमेव पुरुषाधम ।
त्वया मे कृत्यदोषस्य हानिश्च न भविष्यति ॥ २.२३.५३ ॥

न चत्स्वयमितो गच्छेश्ततस्तव बलादपि ।
अपसर्पणताबुद्धिमहमुत्पादये स्फुटम् ॥ २.२३.५४ ॥

क्षणार्द्धमपि ते पाप श्रेयसी नेह संस्थितिः ।
विरुद्धाचरणो नित्यं धर्मद्रिष्को लभेच्च शाम् ॥ २.२३.५५ ॥

रामस्य वचनं श्रुत्वा प्रीतोऽपि तमिदं वचः ।
उवाच सङ्क्रुद्ध इव व्याधरूपी पिनाकधृक् ॥ २.२३.५६ ॥

सर्वमेतदहं मन्यं व्यर्थं व्यवसितं तव ।
कुतस्त्वं प्रथमो ज्ञानी कुतः शम्भुः कुतस्तपः ॥ २.२३.५७ ॥

कुतस्त्वं क्लिश्यसे मूढ तपसा तेन तेऽधुना ।
घ्रुवं मिथ्याप्रवृत्तस्य न हि तुष्यति शङ्करः ॥ २.२३.५८ ॥

विरुद्धलोकाचरणः शम्भुस्तस्य वितुष्टये ।
प्रतपत्यबुधो मर्त्त्यस्त्वां विना कः मुदुर्मते ॥ २.२३.५९ ॥

अथ वा च गतं मेऽद्य युक्तमेतदसंशयम् ।
सम्पूज्य पूजकविद्धौ शम्भोस्तव च सङ्गमः ॥ २.२३.६० ॥

त्वया पूजयितुं युक्तः स एव भुवने रतः ।
सम्पूजकोऽपि तस्य त्वं योग्यो नात्र विचारणा ॥ २.२३.६१ ॥

पितामहस्य लोकानां ब्रह्मणः परमेष्ठिनः ।
शिरश्छित्त्वा पुनः शम्भुर्ब्रह्महत्यामवाप्तवान् ॥ २.२३.६२ ॥

ब्रह्महत्याभिभूतेन प्रायस्त्वं शम्भुना द्विज ।
उपदिष्टोऽसि तत्कर्तुं नोचेदेवं कथं कृथाः ॥ २.२३.६३ ॥

तादात्म्यगुणसंयोगान्मन्यं रुद्रस्य तेऽधुना ।
तपः सिद्धिरनुप्राप्ता कोलेनाल्पीयसा मुने ॥ २.२३.६४ ॥

प्रायोऽद्य मातरं हत्वा सर्वैलोङ्कैर्निराकृतः ।
तपोव्याजेन गहने निर्जने सम्प्रवर्त्तसे ॥ २.२३.६५ ॥

गुरुस्त्रीब्रह्महत्योत्थपातकक्षपणाय च ।
तपश्चरसि नानेन तपसा तत्प्रणश्यति ॥ २.२३.६६ ॥

पातकानां किलान्येषां प्रायश्चित्तानि सन्त्यपि ।
मातृद्रुहामवेहि त्वं न क्वचित्किल निष्कृतिः ॥ २.२३.६७ ॥

अहिंसालक्षणो धर्मो लोकेषु यदि ते मतः ।
स्वहस्तेन कथं राम मातरं कृत्तवानसि ॥ २.२३.६८ ॥

कृत्वा मातृवधं घोरं सर्वलोकविगर्हितम् ।
त्वं पुनर्धार्मिको भूत्वा कामतोऽन्यान्विनिन्दसि ॥ २.२३.६९ ॥

पश्यता हसतामोघं आत्मदोषमजानता ।
अपर्याप्तमहं नन्यं परं दोषविमर्शनाम् ॥ २.२३.७० ॥

स्वधर्मं यद्यहं त्यक्त्वा वर्त्तेयमकुलोभयम् ।
तर्हि गर्हय मां कामं निरुप्य मनसा स्वयम् ॥ २.२३.७१ ॥

मातापितृसुतादीनां भरणायैव केवलम् ।
क्रियते प्राणिहननं निजधर्मतया मया ॥ २.२३.७२ ॥

स्वधर्मादामिषेणाहं सकुटुम्बो दिनेदिने ।
वर्त्तामि सापि मे वृत्तिर्विधात्रा विहिता पुरा ॥ २.२३.७३ ॥

मांसेन यावता मे स्यान्नित्यं पित्रादि पोषणम् ।
हनिष्ये चेत्तदधिकं तर्हि युज्येयमेनसा ॥ २.२३.७४ ॥

यावत्पोषणघातेन न वयं स्याम निन्दिताः ।
तदेतत्सम्प्रधार्य त्वं निन्दवा मां प्रशंस वा ॥ २.२३.७५ ॥

साधु वासाधु वा कर्म यस्य यद्विहितं पुरा ।
तदेव तेन कर्त्तव्यमापद्यपि कथञ्चन ॥ २.२३.७६ ॥

निरूपय स्वभुद्ध्या त्वमात्मनो मम चान्तरम् ।
अहं तु सर्वभावेन मित्रादिभरणे रतः ॥ २.२३.७७ ॥

सन्त्यज्य पितरं वृद्धं विनिहत्य च मातरम् ।
भूत्वा तु धार्मिकस्त्वं तु तपश्चर्तुमिहागतः ॥ २.२३.७८ ॥

ये तु मूलविदस्तेषां विस्पष्टं यत्र दर्शनम् ।
यथाजिह्वं भवेन्नात्र वचसापि समीहितुम् ॥ २.२३.७९ ॥

अहं तु सम्यग्जानामि तव वृत्तमशेषतः ।
तस्मादलं ते तपसा निष्फलेन भृगूद्वह ॥ २.२३.८० ॥

सुखमिच्छसि चेत्त्यक्त्वा कायक्लेशकरं तपः ।
याहि राम त्वमन्यत्र यत्र वा न विदुर्जनाः ॥ २.२३.८१ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे त्रयोविंशतितमोऽध्यायः