विश्वास-प्रस्तुतिः
वसिष्ठ उवाच
इत्येवमुक्तो भृगुणा तथेत्युक्त्वा प्रणम्य च ।
रामस्तेनाभ्यनुज्ञातश्चकार गमने मनः ॥ २.२२.१ ॥
मूलम्
वसिष्ठ उवाच
इत्येवमुक्तो भृगुणा तथेत्युक्त्वा प्रणम्य च ।
रामस्तेनाभ्यनुज्ञातश्चकार गमने मनः ॥ २.२२.१ ॥
विश्वास-प्रस्तुतिः
भृगुं ख्यातिं च विधिवत्परिक्रम्य प्रणम्यच ।
परिष्वक्तस्तथा ताभ्यामाशीर्भिराभिनन्दितः ॥ २.२२.२ ॥
मूलम्
भृगुं ख्यातिं च विधिवत्परिक्रम्य प्रणम्यच ।
परिष्वक्तस्तथा ताभ्यामाशीर्भिराभिनन्दितः ॥ २.२२.२ ॥
विश्वास-प्रस्तुतिः
मुनींश्च तान्नमस्कृत्य तैः सर्वैरनुमोदितः ।
निश्चक्रमाश्रमात्तस्मात्तपसे कृतनिश्चयः ॥ २.२२.३ ॥
मूलम्
मुनींश्च तान्नमस्कृत्य तैः सर्वैरनुमोदितः ।
निश्चक्रमाश्रमात्तस्मात्तपसे कृतनिश्चयः ॥ २.२२.३ ॥
विश्वास-प्रस्तुतिः
ततो गुरुनियोगेन तदुक्तेनैव वर्त्मना ।
हिमवन्तं गिरिवरं ययौ रामो महामनाः ॥ २.२२.४ ॥
मूलम्
ततो गुरुनियोगेन तदुक्तेनैव वर्त्मना ।
हिमवन्तं गिरिवरं ययौ रामो महामनाः ॥ २.२२.४ ॥
विश्वास-प्रस्तुतिः
सोऽतीत्य विविधान्देशान्पर्वतान्सरितस्तथा ।
वनानि मुनिमुख्यानामावासांश्चात्यगाच्छनैः ॥ २.२२.५ ॥
मूलम्
सोऽतीत्य विविधान्देशान्पर्वतान्सरितस्तथा ।
वनानि मुनिमुख्यानामावासांश्चात्यगाच्छनैः ॥ २.२२.५ ॥
विश्वास-प्रस्तुतिः
तत्रतत्र निवासेषु मुनीनां निवसन्पथि ।
तीर्थेषु क्षेत्रमुख्येषु निवसन्वा ययौ शनैः ॥ २.२२.६ ॥
मूलम्
तत्रतत्र निवासेषु मुनीनां निवसन्पथि ।
तीर्थेषु क्षेत्रमुख्येषु निवसन्वा ययौ शनैः ॥ २.२२.६ ॥
विश्वास-प्रस्तुतिः
अतीत्य सुबहून्देशान्पश्यन्नपि मनोरमान् ।
आससादच लश्रेष्ठं हिमवन्तमनुत्तमम् ॥ २.२२.७ ॥
मूलम्
अतीत्य सुबहून्देशान्पश्यन्नपि मनोरमान् ।
आससादच लश्रेष्ठं हिमवन्तमनुत्तमम् ॥ २.२२.७ ॥
विश्वास-प्रस्तुतिः
स गत्वा पर्वतवरं नानाद्रुमलतास्थितम् ।
ददर्श विपुलैः शृङ्गैरुल्लिखन्तमिवाम्बरम् ॥ २.२२.८ ॥
मूलम्
स गत्वा पर्वतवरं नानाद्रुमलतास्थितम् ।
ददर्श विपुलैः शृङ्गैरुल्लिखन्तमिवाम्बरम् ॥ २.२२.८ ॥
विश्वास-प्रस्तुतिः
नानाधातुविचित्रैश्च प्रदेशैरुपशोभितम् ।
रत्नौषधीभिरभितः स्फुरद्भिरभिशोभितम् ॥ २.२२.९ ॥
मूलम्
नानाधातुविचित्रैश्च प्रदेशैरुपशोभितम् ।
रत्नौषधीभिरभितः स्फुरद्भिरभिशोभितम् ॥ २.२२.९ ॥
विश्वास-प्रस्तुतिः
मरुत्सङ्घट्टनाघृष्टनीरसाङ्घ्रिपजन्मना ।
सानिलेनानलेनोच्छैर्दह्यमानं नवं क्वचित् ॥ २.२२.१० ॥
मूलम्
मरुत्सङ्घट्टनाघृष्टनीरसाङ्घ्रिपजन्मना ।
सानिलेनानलेनोच्छैर्दह्यमानं नवं क्वचित् ॥ २.२२.१० ॥
विश्वास-प्रस्तुतिः
क्वचिद्रविकरामर्शज्वलदर्केपलाग्निभिः ।
द्रवद्धिमाशिलाजातुजलशान्तदवानलम् ॥ २.२२.११ ॥
मूलम्
क्वचिद्रविकरामर्शज्वलदर्केपलाग्निभिः ।
द्रवद्धिमाशिलाजातुजलशान्तदवानलम् ॥ २.२२.११ ॥
विश्वास-प्रस्तुतिः
स्फटिकाञ्जनदुर्वर्णस्वर्णराशिप्रभाकरैः ।
स्फुरत्परस्परच्छायाशरैर्द्दीप्तवनं क्वचित् ॥ २.२२.१२ ॥
मूलम्
स्फटिकाञ्जनदुर्वर्णस्वर्णराशिप्रभाकरैः ।
स्फुरत्परस्परच्छायाशरैर्द्दीप्तवनं क्वचित् ॥ २.२२.१२ ॥
विश्वास-प्रस्तुतिः
उपत्यकशिलापृष्ठवालातपनिषेविभिः ।
तुषारक्लिन्नसिद्धौघौरुद्भासितवनं क्वचित् ॥ २.२२.१३ ॥
मूलम्
उपत्यकशिलापृष्ठवालातपनिषेविभिः ।
तुषारक्लिन्नसिद्धौघौरुद्भासितवनं क्वचित् ॥ २.२२.१३ ॥
विश्वास-प्रस्तुतिः
क्वचिदर्काशुसम्भिन्नश्चामीकरशिलाश्रितैः ।
यक्षौघैर्भासितोपान्तं विशद्भिरिवपावकम् ॥ २.२२.१४ ॥
मूलम्
क्वचिदर्काशुसम्भिन्नश्चामीकरशिलाश्रितैः ।
यक्षौघैर्भासितोपान्तं विशद्भिरिवपावकम् ॥ २.२२.१४ ॥
विश्वास-प्रस्तुतिः
दरीमुखविनिष्क्रान्ततरक्षूत्पतनाकुलैः ।
मृगयूथार्त्तसन्नादैरापूरितगुहं क्वचित् ॥ २.२२.१५ ॥
मूलम्
दरीमुखविनिष्क्रान्ततरक्षूत्पतनाकुलैः ।
मृगयूथार्त्तसन्नादैरापूरितगुहं क्वचित् ॥ २.२२.१५ ॥
विश्वास-प्रस्तुतिः
युद्ध्यद्वराहशार्दूलयूथपैरित स्तेरम् ।
प्रसभोन्मृष्टकान्तोरुशिलातरुतटं क्वचित् ॥ २.२२.१६ ॥
मूलम्
युद्ध्यद्वराहशार्दूलयूथपैरित स्तेरम् ।
प्रसभोन्मृष्टकान्तोरुशिलातरुतटं क्वचित् ॥ २.२२.१६ ॥
विश्वास-प्रस्तुतिः
कलभोन्मेषणाकृष्टकरिणीभिरनुद्रुतैः ।
गवयैः खुरसङ्क्षुण्णशिलाप्रस्थतटङ्क्वचित् ॥ २.२२.१७ ॥
मूलम्
कलभोन्मेषणाकृष्टकरिणीभिरनुद्रुतैः ।
गवयैः खुरसङ्क्षुण्णशिलाप्रस्थतटङ्क्वचित् ॥ २.२२.१७ ॥
विश्वास-प्रस्तुतिः
वासितर्थेऽभिसंवृद्धमदोन्मत्तमतङ्गजैः ।
युद्ध्यद्भिश्चूर्णितानेकगण्डशैलवनं क्वचित् ॥ २.२२.१८ ॥
मूलम्
वासितर्थेऽभिसंवृद्धमदोन्मत्तमतङ्गजैः ।
युद्ध्यद्भिश्चूर्णितानेकगण्डशैलवनं क्वचित् ॥ २.२२.१८ ॥
विश्वास-प्रस्तुतिः
बृंहितश्रवणामर्षान्मातं गानभिधावताम् ।
सिंहानां चरणक्षुण्णनखभिन्नोपरं क्वचित् ॥ २.२२.१९ ॥
मूलम्
बृंहितश्रवणामर्षान्मातं गानभिधावताम् ।
सिंहानां चरणक्षुण्णनखभिन्नोपरं क्वचित् ॥ २.२२.१९ ॥
विश्वास-प्रस्तुतिः
सहसा निपतत्सिंहनखनिर्भिन्नमस्तकैः ।
गजैराक्रन्दनादेन पूर्यमामं वनं क्वचित् ॥ २.२२.२० ॥
मूलम्
सहसा निपतत्सिंहनखनिर्भिन्नमस्तकैः ।
गजैराक्रन्दनादेन पूर्यमामं वनं क्वचित् ॥ २.२२.२० ॥
विश्वास-प्रस्तुतिः
अष्टपादबलाकृष्टकेसरा दारुणाखैः ।
भेद्यमानाखिलशिलागम्भीरकुहरं क्वचित् ॥ २.२२.२१ ॥
मूलम्
अष्टपादबलाकृष्टकेसरा दारुणाखैः ।
भेद्यमानाखिलशिलागम्भीरकुहरं क्वचित् ॥ २.२२.२१ ॥
विश्वास-प्रस्तुतिः
संरब्धा नेकशबरप्रसक्तैरृयूथपैः ।
इतरेतरसम्मर्दं विप्रभग्नदृषत्क्वचित् ॥ २.२२.२२ ॥
मूलम्
संरब्धा नेकशबरप्रसक्तैरृयूथपैः ।
इतरेतरसम्मर्दं विप्रभग्नदृषत्क्वचित् ॥ २.२२.२२ ॥
विश्वास-प्रस्तुतिः
गिरिकुञ्जेषु सङ्क्रीडत्करिणीमद्विपं क्वचित् ।
करेणुमाद्रवन्मत्तगजाकलितकाननम् ॥ २.२२.२३ ॥
मूलम्
गिरिकुञ्जेषु सङ्क्रीडत्करिणीमद्विपं क्वचित् ।
करेणुमाद्रवन्मत्तगजाकलितकाननम् ॥ २.२२.२३ ॥
विश्वास-प्रस्तुतिः
स्वपत्सिंहमुखश्वासमरुत्पुर्मदरीशतम् ।
गहनेषु गुरुत्राससाशङ्कविहरन्मृगम् ॥ २.२२.२४ ॥
मूलम्
स्वपत्सिंहमुखश्वासमरुत्पुर्मदरीशतम् ।
गहनेषु गुरुत्राससाशङ्कविहरन्मृगम् ॥ २.२२.२४ ॥
विश्वास-प्रस्तुतिः
कण्टाकश्लिष्टलाङ्गूललोमत्रुटनकातरैः ।
क्रीडितं चमरीयूथैर्मन्दमन्दविचारिभिः ॥ २.२२.२५ ॥
मूलम्
कण्टाकश्लिष्टलाङ्गूललोमत्रुटनकातरैः ।
क्रीडितं चमरीयूथैर्मन्दमन्दविचारिभिः ॥ २.२२.२५ ॥
विश्वास-प्रस्तुतिः
गिरिकन्दरसंसक्तकिन्नरीसमुदीरितैः ।
सतालनादैरुदिनैर्भृताशेषदिशामुखम् ॥ २.२२.२६ ॥
मूलम्
गिरिकन्दरसंसक्तकिन्नरीसमुदीरितैः ।
सतालनादैरुदिनैर्भृताशेषदिशामुखम् ॥ २.२२.२६ ॥
विश्वास-प्रस्तुतिः
अरण्यदेवतानां च चरेतीनामितस्ततः ।
अलक्तकरसक्लिन्नचरणाङ्कितभूतलम् ॥ २.२२.२७ ॥
मूलम्
अरण्यदेवतानां च चरेतीनामितस्ततः ।
अलक्तकरसक्लिन्नचरणाङ्कितभूतलम् ॥ २.२२.२७ ॥
विश्वास-प्रस्तुतिः
मयूरकेकिरीवृन्दैः सङ्गीत मधुरस्वरैः ।
प्रवृत्तनृत्तं परितो विततोदग्रबर्हिभिः ॥ २.२२.२८ ॥
मूलम्
मयूरकेकिरीवृन्दैः सङ्गीत मधुरस्वरैः ।
प्रवृत्तनृत्तं परितो विततोदग्रबर्हिभिः ॥ २.२२.२८ ॥
विश्वास-प्रस्तुतिः
जलस्थलरुहानेककुसुमोत्करवर्षिभिः ।
गात्राह्लादकरैर्मन्दं वीज्यमानं वनानिलैः ॥ २.२२.२९ ॥
मूलम्
जलस्थलरुहानेककुसुमोत्करवर्षिभिः ।
गात्राह्लादकरैर्मन्दं वीज्यमानं वनानिलैः ॥ २.२२.२९ ॥
विश्वास-प्रस्तुतिः
भूतार्त्तवरसास्वादमाद्यत्पुंस्कोकिलारवैः ।
आकुलीकृतपर्यन्तसहकारवनान्तरम् ॥ २.२२.३० ॥
मूलम्
भूतार्त्तवरसास्वादमाद्यत्पुंस्कोकिलारवैः ।
आकुलीकृतपर्यन्तसहकारवनान्तरम् ॥ २.२२.३० ॥
विश्वास-प्रस्तुतिः
नानापुष्पासवोन्माद्यद्भृङ्गसङ्गीतनादितम् ।
अनेकविहगारावबधिरीकृतकाननम् ॥ २.२२.३१ ॥
मूलम्
नानापुष्पासवोन्माद्यद्भृङ्गसङ्गीतनादितम् ।
अनेकविहगारावबधिरीकृतकाननम् ॥ २.२२.३१ ॥
विश्वास-प्रस्तुतिः
मधुद्रवार्द्राविरलप्रत्यग्रकुसुमोत्करैः ।
वनान्तमारुताकीर्णैरलङ्कृतमहीतलम् ॥ २.२२.३२ ॥
मूलम्
मधुद्रवार्द्राविरलप्रत्यग्रकुसुमोत्करैः ।
वनान्तमारुताकीर्णैरलङ्कृतमहीतलम् ॥ २.२२.३२ ॥
विश्वास-प्रस्तुतिः
उपरिष्टान्निपततां विषमोपलसङ्कटे ।
निर्झराणां महारावैः समन्ताद्बधिरीकृतम् ॥ २.२२.३३ ॥
मूलम्
उपरिष्टान्निपततां विषमोपलसङ्कटे ।
निर्झराणां महारावैः समन्ताद्बधिरीकृतम् ॥ २.२२.३३ ॥
विश्वास-प्रस्तुतिः
विततानेकसंसक्तशाखाग्राविरलच्छदैः ।
पाटलैर्विटपच्छायैरुपशल्यसमुत्थितैः ॥ २.२२.३४ ॥
मूलम्
विततानेकसंसक्तशाखाग्राविरलच्छदैः ।
पाटलैर्विटपच्छायैरुपशल्यसमुत्थितैः ॥ २.२२.३४ ॥
विश्वास-प्रस्तुतिः
कदम्बनिम्बहिन्तालसर्जबेधूकतिन्दुकैः ।
कपित्थपनसाशोकसहकारेगुदाशनैः ॥ २.२२.३५ ॥
मूलम्
कदम्बनिम्बहिन्तालसर्जबेधूकतिन्दुकैः ।
कपित्थपनसाशोकसहकारेगुदाशनैः ॥ २.२२.३५ ॥
विश्वास-प्रस्तुतिः
नागचम्पकपुन्नागकोविदारप्रियङ्गुभिः ।
प्रियालनीपबकुलबन्धूकाक्षतमालकैः ॥ २.२२.३६ ॥
मूलम्
नागचम्पकपुन्नागकोविदारप्रियङ्गुभिः ।
प्रियालनीपबकुलबन्धूकाक्षतमालकैः ॥ २.२२.३६ ॥
विश्वास-प्रस्तुतिः
द्राक्षामधूकामलकजम्बूकङ्कोलजातिभिः ।
बिल्वार्जुनकरञ्जाम्रबीजपूराङ्घ्रिपैरपि ॥ २.२२.३७ ॥
मूलम्
द्राक्षामधूकामलकजम्बूकङ्कोलजातिभिः ।
बिल्वार्जुनकरञ्जाम्रबीजपूराङ्घ्रिपैरपि ॥ २.२२.३७ ॥
विश्वास-प्रस्तुतिः
पिचुलाम्बष्ठकनकवैकङ्कतशमीधवैः ।
पुत्रजीवाभयारिष्टलोहोदुम्बरपिप्पलैः ॥ २.२२.३८ ॥
मूलम्
पिचुलाम्बष्ठकनकवैकङ्कतशमीधवैः ।
पुत्रजीवाभयारिष्टलोहोदुम्बरपिप्पलैः ॥ २.२२.३८ ॥
विश्वास-प्रस्तुतिः
अन्यैश्च विविधैर्वृक्षैः समन्तादुपशोभितम् ।
निरन्तरतरुच्छायासुदूरविनिवारितैः ॥ २.२२.३९ ॥
मूलम्
अन्यैश्च विविधैर्वृक्षैः समन्तादुपशोभितम् ।
निरन्तरतरुच्छायासुदूरविनिवारितैः ॥ २.२२.३९ ॥
विश्वास-प्रस्तुतिः
समन्तादर्ककिरणैरनासादितभूतलम् ।
नानापक्वफलास्वादबलपुष्टैः प्लवेगमैः ॥ २.२२.४० ॥
मूलम्
समन्तादर्ककिरणैरनासादितभूतलम् ।
नानापक्वफलास्वादबलपुष्टैः प्लवेगमैः ॥ २.२२.४० ॥
विश्वास-प्रस्तुतिः
आक्रान्तचकितानेकवनपङ्क्तिशताकुलम् ।
तत्र तत्रातिरम्यैश्च शिलाकुहरनिर्गतैः ॥ २.२२.४१ ॥
मूलम्
आक्रान्तचकितानेकवनपङ्क्तिशताकुलम् ।
तत्र तत्रातिरम्यैश्च शिलाकुहरनिर्गतैः ॥ २.२२.४१ ॥
विश्वास-प्रस्तुतिः
प्रतापविषमैराजन्ह्रास्यमानं सरिच्छतैः ।
सारोवरैश्च विपुलैः कुमुदोत्पलमण्डितैः ॥ २.२२.४२ ॥
मूलम्
प्रतापविषमैराजन्ह्रास्यमानं सरिच्छतैः ।
सारोवरैश्च विपुलैः कुमुदोत्पलमण्डितैः ॥ २.२२.४२ ॥
विश्वास-प्रस्तुतिः
नानाविहगसङ्घुष्टैः समन्तादुपशोभितम् ।
समासाद्यथ शैलेन्द्रं तुषारशिशिरं गिरिम् ॥ २.२२.४३ ॥
मूलम्
नानाविहगसङ्घुष्टैः समन्तादुपशोभितम् ।
समासाद्यथ शैलेन्द्रं तुषारशिशिरं गिरिम् ॥ २.२२.४३ ॥
विश्वास-प्रस्तुतिः
आरुरोह भगुश्रेष्ठस्तरसा तं मुदान्वितः ।
तस्य प्रविश्य गहनं वनं रामो महामनाः ॥ २.२२.४४ ॥
मूलम्
आरुरोह भगुश्रेष्ठस्तरसा तं मुदान्वितः ।
तस्य प्रविश्य गहनं वनं रामो महामनाः ॥ २.२२.४४ ॥
विश्वास-प्रस्तुतिः
विचचार शनै राजन्नुपशल्यमहीरुहम् ।
स तत्र विचरन्दिक्षु हरिणीभिः समन्ततः ॥ २.२२.४५ ॥
मूलम्
विचचार शनै राजन्नुपशल्यमहीरुहम् ।
स तत्र विचरन्दिक्षु हरिणीभिः समन्ततः ॥ २.२२.४५ ॥
विश्वास-प्रस्तुतिः
विक्ष्यमाणो मुदं लेभे साशङ्कं मुग्धदृष्टिभिः ।
स तत्र कुसुमामोदगन्धिभिर्वनवायुभिः ॥ २.२२.४६ ॥
मूलम्
विक्ष्यमाणो मुदं लेभे साशङ्कं मुग्धदृष्टिभिः ।
स तत्र कुसुमामोदगन्धिभिर्वनवायुभिः ॥ २.२२.४६ ॥
विश्वास-प्रस्तुतिः
वीज्यमानो जहर्षे स वीक्ष्योदारां वनश्रियम् ।
विविधाश्च स्थरीः सूक्ष्ममुपरिक्रम्य भार्गवः ॥ २.२२.४७ ॥
मूलम्
वीज्यमानो जहर्षे स वीक्ष्योदारां वनश्रियम् ।
विविधाश्च स्थरीः सूक्ष्ममुपरिक्रम्य भार्गवः ॥ २.२२.४७ ॥
विश्वास-प्रस्तुतिः
द्वन्द्वांश्च धातून्विविधान्पश्यन्नेवमतर्कयत् ।
अहोऽयं सर्वशैलानामाधिपत्येऽभिषेचितः ॥ २.२२.४८ ॥
मूलम्
द्वन्द्वांश्च धातून्विविधान्पश्यन्नेवमतर्कयत् ।
अहोऽयं सर्वशैलानामाधिपत्येऽभिषेचितः ॥ २.२२.४८ ॥
विश्वास-प्रस्तुतिः
ब्रह्मणा यज्ञभाक्चैव स्थाने सम्प्रतिपादितः ।
अस्य शैलाधिराजत्वं सुव्यक्तमभिलक्ष्यते ॥ २.२२.४९ ॥
मूलम्
ब्रह्मणा यज्ञभाक्चैव स्थाने सम्प्रतिपादितः ।
अस्य शैलाधिराजत्वं सुव्यक्तमभिलक्ष्यते ॥ २.२२.४९ ॥
विश्वास-प्रस्तुतिः
रवैः कीचकवेणुनां मधुरीकृतकाननः ।
नितम्बस्थलसंसक्ततुषारनिचयैग्यम् ॥ २.२२.५० ॥
मूलम्
रवैः कीचकवेणुनां मधुरीकृतकाननः ।
नितम्बस्थलसंसक्ततुषारनिचयैग्यम् ॥ २.२२.५० ॥
विश्वास-प्रस्तुतिः
विभातीवाहितस्वच्छपरीतधवलांशुकः ।
निबिडश्रितनीहारनिकरेण तथोपरि ॥ २.२२.५१ ॥
मूलम्
विभातीवाहितस्वच्छपरीतधवलांशुकः ।
निबिडश्रितनीहारनिकरेण तथोपरि ॥ २.२२.५१ ॥
विश्वास-प्रस्तुतिः
नानावर्णोत्तरासङ्गावृत्ताङ्ग इवल्क्ष्यते ।
चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमादिभिः ॥ २.२२.५२ ॥
मूलम्
नानावर्णोत्तरासङ्गावृत्ताङ्ग इवल्क्ष्यते ।
चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमादिभिः ॥ २.२२.५२ ॥
विश्वास-प्रस्तुतिः
अलङ्कृतागः सुव्यक्तं दृश्यतेऽही विलासिवत् ।
मृगेन्द्राहतदन्तीन्द्रकुम्भस्थलपरिच्युतैः ॥ २.२२.५३ ॥
मूलम्
अलङ्कृतागः सुव्यक्तं दृश्यतेऽही विलासिवत् ।
मृगेन्द्राहतदन्तीन्द्रकुम्भस्थलपरिच्युतैः ॥ २.२२.५३ ॥
विश्वास-प्रस्तुतिः
स्थूलमुक्तोत्करैरेष विभाति परितो गिरिः ।
नानावृक्षलतावल्लीपुष्पालङ्कृतमूर्द्धजः ॥ २.२२.५४ ॥
मूलम्
स्थूलमुक्तोत्करैरेष विभाति परितो गिरिः ।
नानावृक्षलतावल्लीपुष्पालङ्कृतमूर्द्धजः ॥ २.२२.५४ ॥
विश्वास-प्रस्तुतिः
नीरन्ध्राञ्चितमे घौघवितानसमलङ्कृतः ।
नानाधातुविचित्राङ्गः सर्वरत्नविभूषितः ॥ २.२२.५५ ॥
मूलम्
नीरन्ध्राञ्चितमे घौघवितानसमलङ्कृतः ।
नानाधातुविचित्राङ्गः सर्वरत्नविभूषितः ॥ २.२२.५५ ॥
विश्वास-प्रस्तुतिः
कैलासव्याजविलसत्सितच्छत्रविराजितः ।
गजाश्वमुखयूथैश्च समन्तात्परिवारितः ॥ २.२२.५६ ॥
मूलम्
कैलासव्याजविलसत्सितच्छत्रविराजितः ।
गजाश्वमुखयूथैश्च समन्तात्परिवारितः ॥ २.२२.५६ ॥
विश्वास-प्रस्तुतिः
रत्नद्वीपमहाद्वारशिलाकन्दरमन्दिरः ।
विविक्तगह्वरास्थानमध्यसिंहासनाश्रयः ॥ २.२२.५७ ॥
मूलम्
रत्नद्वीपमहाद्वारशिलाकन्दरमन्दिरः ।
विविक्तगह्वरास्थानमध्यसिंहासनाश्रयः ॥ २.२२.५७ ॥
विश्वास-प्रस्तुतिः
समन्तात्प्रतिसंसक्ततरुवेत्रवतां शनैः ।
दृष्ट्वा जनैरनासाद्यो महाराजाधिराजवत् ॥ २.२२.५८ ॥
मूलम्
समन्तात्प्रतिसंसक्ततरुवेत्रवतां शनैः ।
दृष्ट्वा जनैरनासाद्यो महाराजाधिराजवत् ॥ २.२२.५८ ॥
विश्वास-प्रस्तुतिः
दोधूयमानो विचरच्चमरीचा रुचामरैः ।
मयूरैरुपनृत्यद्भिर्गायद्भिश्चैव किन्नरैः ॥ २.२२.५९ ॥
मूलम्
दोधूयमानो विचरच्चमरीचा रुचामरैः ।
मयूरैरुपनृत्यद्भिर्गायद्भिश्चैव किन्नरैः ॥ २.२२.५९ ॥
विश्वास-प्रस्तुतिः
सत्त्वजातैरनेकैश्च सेव्यमानो विराजते ।
व्यक्तमेवाचलेन्द्राणामधिराज्यपदे स्थितः ॥ २.२२.६० ॥
मूलम्
सत्त्वजातैरनेकैश्च सेव्यमानो विराजते ।
व्यक्तमेवाचलेन्द्राणामधिराज्यपदे स्थितः ॥ २.२२.६० ॥
विश्वास-प्रस्तुतिः
भुनक्त्याक्रम्य वसुधां समग्रां श्रियमोजसा ।
एवं सञ्चिन्तयानः स हिमाद्रिवनगह्वरे ॥ २.२२.६१ ॥
मूलम्
भुनक्त्याक्रम्य वसुधां समग्रां श्रियमोजसा ।
एवं सञ्चिन्तयानः स हिमाद्रिवनगह्वरे ॥ २.२२.६१ ॥
विश्वास-प्रस्तुतिः
विचचार चिरं रामो मुदा परमया युतः ।
आससाद वने तस्मिन्विपुले भृगुपुङ्गवः ॥ २.२२.६२ ॥
मूलम्
विचचार चिरं रामो मुदा परमया युतः ।
आससाद वने तस्मिन्विपुले भृगुपुङ्गवः ॥ २.२२.६२ ॥
विश्वास-प्रस्तुतिः
सरोवरं महाराज विपुलं विमलोदकम् ।
कुमुदोत्पलकह्लारनिकरैरुपसोभितम् ॥ २.२२.६३ ॥
मूलम्
सरोवरं महाराज विपुलं विमलोदकम् ।
कुमुदोत्पलकह्लारनिकरैरुपसोभितम् ॥ २.२२.६३ ॥
विश्वास-प्रस्तुतिः
पङ्कजैरुत्पलैश्चैव रक्तपीतैः सितासितैः ।
अन्यैश्च जलचैर्वक्षैः सर्वतः समलङ्कृतम् ॥ २.२२.६४ ॥
मूलम्
पङ्कजैरुत्पलैश्चैव रक्तपीतैः सितासितैः ।
अन्यैश्च जलचैर्वक्षैः सर्वतः समलङ्कृतम् ॥ २.२२.६४ ॥
विश्वास-प्रस्तुतिः
हंससारसदात्यूहकारण्डवशतैरपि ।
जीवजीवकचक्राह्वकुररभ्रमरोत्करैः ॥ २.२२.६५ ॥
मूलम्
हंससारसदात्यूहकारण्डवशतैरपि ।
जीवजीवकचक्राह्वकुररभ्रमरोत्करैः ॥ २.२२.६५ ॥
विश्वास-प्रस्तुतिः
सङ्घुष्यमाणं परितः सेवितं मन्दवायुना ।
शफरीमत्स्यसङ्घैश्च विचरद्भिरितस्ततः ॥ २.२२.६६ ॥
मूलम्
सङ्घुष्यमाणं परितः सेवितं मन्दवायुना ।
शफरीमत्स्यसङ्घैश्च विचरद्भिरितस्ततः ॥ २.२२.६६ ॥
विश्वास-प्रस्तुतिः
अन्तर्जनितकल्लोलैर्नृत्यमानमिवाभितः ।
आससाद भृगुश्रेष्ठस्तत्सरोवरमुत्तमम् ॥ २.२२.६७ ॥
मूलम्
अन्तर्जनितकल्लोलैर्नृत्यमानमिवाभितः ।
आससाद भृगुश्रेष्ठस्तत्सरोवरमुत्तमम् ॥ २.२२.६७ ॥
विश्वास-प्रस्तुतिः
नानापतत्र्रिविरुतैर्मधुरीकृतदिक्तटम् ।
स तस्य तीरे विपुलं कृत्वाश्रमपदं शुभम् ॥ २.२२.६८ ॥
मूलम्
नानापतत्र्रिविरुतैर्मधुरीकृतदिक्तटम् ।
स तस्य तीरे विपुलं कृत्वाश्रमपदं शुभम् ॥ २.२२.६८ ॥
विश्वास-प्रस्तुतिः
रामो मतिमतां श्रेष्ठस्तपसे च मनो दधे ।
शाकमूलफलाहारो नियतं नियतेन्द्रियः ॥ २.२२.६९ ॥
मूलम्
रामो मतिमतां श्रेष्ठस्तपसे च मनो दधे ।
शाकमूलफलाहारो नियतं नियतेन्द्रियः ॥ २.२२.६९ ॥
विश्वास-प्रस्तुतिः
तपश्चचार देवेशं विनिवेश्यात्ममानसे ।
भृगूपदिष्टमार्गेण भक्त्या परमया युतः ॥ २.२२.७० ॥
मूलम्
तपश्चचार देवेशं विनिवेश्यात्ममानसे ।
भृगूपदिष्टमार्गेण भक्त्या परमया युतः ॥ २.२२.७० ॥
विश्वास-प्रस्तुतिः
पूजयामास देवेशमेकाग्रमनसा नृप ।
अनिकेतः स वर्षासु शिशिरे जलसंश्रयः ॥ २.२२.७१ ॥
मूलम्
पूजयामास देवेशमेकाग्रमनसा नृप ।
अनिकेतः स वर्षासु शिशिरे जलसंश्रयः ॥ २.२२.७१ ॥
विश्वास-प्रस्तुतिः
ग्रीष्मे पञ्जाग्निमध्यस्थश्चचारैवं तपश्चिरम् ।
रिपून्निर्जित्य कामादीनूर्मिषषट्कं विधूय च ॥ २.२२.७२ ॥
मूलम्
ग्रीष्मे पञ्जाग्निमध्यस्थश्चचारैवं तपश्चिरम् ।
रिपून्निर्जित्य कामादीनूर्मिषषट्कं विधूय च ॥ २.२२.७२ ॥
विश्वास-प्रस्तुतिः
द्वन्द्वैरनुद्वेजितधीस्तापदोषैरनाकुलः ।
यमैः सनियमैश्चैव शुद्धदेहः समाहितः ॥ २.२२.७३ ॥
मूलम्
द्वन्द्वैरनुद्वेजितधीस्तापदोषैरनाकुलः ।
यमैः सनियमैश्चैव शुद्धदेहः समाहितः ॥ २.२२.७३ ॥
विश्वास-प्रस्तुतिः
वशी चकार पवनं प्राणायामेन देहगम् ।
जितपद्मासनो मौनी स्थिरचित्तो महामुनिः ॥ २.२२.७४ ॥
मूलम्
वशी चकार पवनं प्राणायामेन देहगम् ।
जितपद्मासनो मौनी स्थिरचित्तो महामुनिः ॥ २.२२.७४ ॥
विश्वास-प्रस्तुतिः
वशी चकार चाक्षाणि प्रत्याहारपरायणः ।
धारणाभिः स्थिरीचक्रे मनश्चञ्चलमात्मवान् ॥ २.२२.७५ ॥
मूलम्
वशी चकार चाक्षाणि प्रत्याहारपरायणः ।
धारणाभिः स्थिरीचक्रे मनश्चञ्चलमात्मवान् ॥ २.२२.७५ ॥
विश्वास-प्रस्तुतिः
ध्यानेन देवदेवेशं ददर्श परमेश्वरम् ।
स्वस्थान्तः करणो मैत्रः सर्वबाधाविवर्जितः ॥ २.२२.७६ ॥
मूलम्
ध्यानेन देवदेवेशं ददर्श परमेश्वरम् ।
स्वस्थान्तः करणो मैत्रः सर्वबाधाविवर्जितः ॥ २.२२.७६ ॥
विश्वास-प्रस्तुतिः
चिन्तयामास देवेशं ध्याने दृष्ट्वा जगद्गुरुम् ।
ध्येयावस्थि तचित्तात्मा निश्चलेद्रियदेहवान् ॥ २.२२.७७ ॥
मूलम्
चिन्तयामास देवेशं ध्याने दृष्ट्वा जगद्गुरुम् ।
ध्येयावस्थि तचित्तात्मा निश्चलेद्रियदेहवान् ॥ २.२२.७७ ॥
विश्वास-प्रस्तुतिः
आकालावधि सोऽतिष्ठन्निवातस्थप्रदीपवत् ।
जपंश्च देवदेवेशं ध्यायंश्च स्वमनीषया ॥ २.२२.७८ ॥
मूलम्
आकालावधि सोऽतिष्ठन्निवातस्थप्रदीपवत् ।
जपंश्च देवदेवेशं ध्यायंश्च स्वमनीषया ॥ २.२२.७८ ॥
विश्वास-प्रस्तुतिः
आराधयदमेयात्मा सर्वभावस्थमीश्वरम् ।
ततः स निष्फलं रूपमैश्वरं यन्निरञ्जनम् ॥ २.२२.७९ ॥
मूलम्
आराधयदमेयात्मा सर्वभावस्थमीश्वरम् ।
ततः स निष्फलं रूपमैश्वरं यन्निरञ्जनम् ॥ २.२२.७९ ॥
विश्वास-प्रस्तुतिः
परं ज्योतिरचिन्त्यं यद्योगिध्येयमनुत्त मम् ।
नित्यं शुद्धं सदा शान्तमतीन्द्रियमनौपमम् ।
आनन्दमात्रमचलं व्याप्ताशेषचराचरम् ॥ २.२२.८० ॥
मूलम्
परं ज्योतिरचिन्त्यं यद्योगिध्येयमनुत्त मम् ।
नित्यं शुद्धं सदा शान्तमतीन्द्रियमनौपमम् ।
आनन्दमात्रमचलं व्याप्ताशेषचराचरम् ॥ २.२२.८० ॥
विश्वास-प्रस्तुतिः
चिन्तयामास तद्रूपं देवदेवस्य भार्गवः ।
नित्यं शुद्धं सदा शान्तमतीन्द्रियमनौपमम् ॥ २.२२.८१ ॥
मूलम्
चिन्तयामास तद्रूपं देवदेवस्य भार्गवः ।
नित्यं शुद्धं सदा शान्तमतीन्द्रियमनौपमम् ॥ २.२२.८१ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये उपोद्धातपादे वसिष्ठसगरसंवादे अर्चुनोपाख्याने जामदग्न्यतपश्चरणं नाम द्वाविंशतितमोऽध्यायः ॥ २२॥