०२१

विश्वास-प्रस्तुतिः

समाप्तश्चायं श्राद्धकल्पः ।
वसिष्ठ उवाच
इत्थं प्रवर्त्तमानस्य जमदग्नेर्महात्मनः ।
वर्षाणि कतिचिद्राजन्व्यतीयुरमितौजसः ॥ २.२१.१ ॥

मूलम्

रामोऽपि नृपशार्दूल सर्वधर्मभृतां वरः ।
वेदवेदाङ्गतत्त्वज्ञः सर्वशास्त्रविशारदः ॥ २.२१.२ ॥

पित्रोश्चकार शुश्रूषां विनीतात्मा महामतिः ।
प्रीतिं च निजचेष्टाभिरन्वहं पर्यवर्त्तयत् ॥ २.२१.३ ॥

इत्थं प्रवर्त्तमानस्य वर्षाणि कतिचिन्नृप ।
पित्रोः शुश्रूषयानैषीद्रामो मतिमतां वरः ॥ २.२१.४ ॥

स कदाचिन्महातेजाः पितामह गुहं प्रति ।
गन्तुं व्यवसितो राजन्दैवेन च नियोजितः ॥ २.२१.५ ॥

निपीड्य शिरसा पित्रोश्चरणौ भृगुपुङ्गवः ।
उवाच प्राञ्जलिर्भूतवा सप्रश्रयमिदं वचः ॥ २.२१.६ ॥

कञ्चिदर्थमहं तात मातरं त्वां च साम्प्रतम् ।
विज्ञापयितुमिच्छामि मम तच्छ्रोतुमर्हथः ॥ २.२१.७ ॥

पितामहमहं द्रष्टुमुत्कण्ठितमनाश्चिरम् ।
तस्मात्तत्पार्श्वमधुना गमिष्ये वामनुज्ञया ॥ २.२१.८ ॥

आहूतश्चासकृत्तात सोत्कण्ठं प्रीयमाणया ।
पितामह्या बहुमुखैरिच्छन्त्या मम दर्शनम् ॥ २.२१.९ ॥

पितॄन्पितामहस्यापि प्रियमेव प्रदर्शनम् ।
सदीयं तेन तत्पार्श्वं गन्तुं मामनुजानत ॥ २.२१.१० ॥

इति तस्य वचः श्रुत्वा सम्भ्रान्तं समुदीरितम् ।
हर्षेण महता युक्तौ साश्रुनेत्रौ बभूवतुः ॥ २.२१.११ ॥

तमालिङ्ग्य महाभागं मूर्ध्न्युपाघ्राय सादरम् ।
अभिनन्द्याशिषा तात ह्युभौ ताविदमाहतुः ॥ २.२१.१२ ॥

पितामहगृहं तात प्रयाहि त्वं यथासुखम् ।
पितामहपितामह्योः प्रीतये दर्शनाय च ॥ २.२१.१३ ॥

तत्र गत्वा यथान्यायं तं शुश्रूषा परायणः ।
कञ्चित्कालं तयोर्वत्स प्रीतये वस तद्गृहे ॥ २.२१.१४ ॥

स्थित्वा नातिचिरं कालं तयोर्भूयोऽप्यनुशय ।
अत्रागच्छ महाभाग क्षेमेणास्मद्दिदृक्षया ॥ २.२१.१५ ॥

क्षणार्द्धमपि शक्ताः स्थो न विना पुत्रदर्शनम् ।
तस्मात्पितामह गृहे न चिरात्स्थातुमर्हसि ॥ २.२१.१६ ॥

तदाज्ञयाथ वा पुत्र प्रपितामहसन्निधिम् ।
गतोऽपि शीघ्रमागच्छ क्रमेण तदनुज्ञया ॥ २.२१.१७ ॥

इत्युक्तस्तौ परिक्रम्य प्रणम्य च महामतिः ।
पितरावप्यनुज्ञाप्य पितामहगृहं ततः ॥ २.२१.१८ ॥

स गत्वा भृगुवर्यस्य ऋचीकस्य महात्मनः ।
प्रविवेशाश्रमं रामो मुनिशिष्योपशोभितम् ॥ २.२१.१९ ॥

स्वाध्यायघोषैर्विपुलैः सर्वतः प्रतिनादितम् ।
प्रशान्तवैर सत्त्वाढ्यं सर्वसत्त्वमनोहरम् ॥ २.२१.२० ॥

स प्रविश्यश्रमं रम्यमृचीकं स्थितमासने ।
ददर्श रामो राजेन्द्र स पितामहमग्रतः ॥ २.२१.२१ ॥

जाज्वल्यमानं तपसा धिष्ण्यस्थमिव पावकम् ।
उपासितं सत्यवत्या यथा दक्षिणायऽध्वरम् ॥ २.२१.२२ ॥

स्वसमीपमुपायान्तं राममालोक्य तौ नृप ।
सुचिरं तं विमर्शेतां समाज्ञापूर्वदर्शनौ ॥ २.२१.२३ ॥

कोऽयमेष तपोराशिः सर्वलत्रणपूजितः ।
बालोऽयं बलवान्भातिगाम्भीर्यात्प्रश्रयेण च ॥ २.२१.२४ ॥

एवं तयोश्चिन्तयतोः सहर्षं हृदि कौतुकात् ।
आससाद शनै रामः समीपे विनयान्वितः ॥ २.२१.२५ ॥

स्वनामगोत्रे मतिमानुक्त्वा पित्रोर्मुदान्वितः ।
संस्पृशंश्चरणौ मूर्ध्ना हस्ताभ्यां चाभ्यवादयत् ॥ २.२१.२६ ॥

ततस्तौ प्रीतमनसौ समुथाप्य च सत्तमम् ।
आशीर्भिरभिनन्देतां पृथक्पृथगुभावपि ॥ २.२१.२७ ॥

तमाश्लिष्याङ्कमारोप्य हर्णाश्रुप्लुतलोचनौ ।
वीक्षन्तौ तन्मुखाम्भोजं परं हर्षमवापतुः ॥ २.२१.२८ ॥

ततः सुखोपविष्टं तमात्मवंशसमुद्वहम् ।
अनामयमपृच्छेतां तावुभौ दम्पती तदा ॥ २.२१.२९ ॥

पितरौ ते कुशलिनो वत्स किम्भ्रातरस्तथा ।
अनायासेन ते वृत्तिर्वर्तते चाथ कर्हिचित् ॥ २.२१.३० ॥

समस्ताभ्यां ततो राजन्नाचचक्षे यथोदितः ।
तथा स्वानुगतं पित्रोर्भ्रातॄणां चैव चेष्टितम् ॥ २.२१.३१ ॥

एवं तयोर्महाराज सत्प्रीतिजनितैगुणैः ।
प्रीयमाणोऽवसद्रामः पितुः पित्रोर्न्निवेशने ॥ २.२१.३२ ॥

स तस्मिन्सर्वभूतानां मनोनयननन्दनः ।
उवास कतिचिन्मासांस्तच्छुश्रूषापरायणः ॥ २.२१.३३ ॥

अथानुज्ञाप्य तौ राजन्भृगुवर्यो महामनाः ।
पितामहगुरोर्गन्तुमियेषाश्रयमाश्रमम् ॥ २.२१.३४ ॥

स ताभ्यां प्रीतियुक्ताभ्यामाशीर्भिरभिनन्दितः ।
यथा चाभ्यां प्रदिष्टेन यया वौर्वाश्रमं प्रति ॥ २.२१.३५ ॥

तं नमस्कृत्य विधिवच्च्यवनं च महातपाः ।
सप्रहर्षं तदाज्ञातः प्रययावाश्रमं भृगोः ॥ २.२१.३६ ॥

स गत्वामुनिमुख्यस्य भृगोराश्रममण्डलम् ।
ददर्श शान्तचेतोभिर्मुनिभिः सर्वतो वृतम् ॥ २.२१.३७ ॥

सुस्निग्धशीतलच्छायैः सर्वर्तुकगुणान्वितैः ।
तरुभिः संवृतं प्रीतः फलपुष्पोत्तरान्वितैः ॥ २.२१.३८ ॥

नानाखगकुलारावैर्मनःश्रोत्रसुखावहैः ।
ब्रह्मघोषैश्च विविधैः सर्वतः प्रतिनादितम् ॥ २.२१.३९ ॥

समन्त्राहुतिहोमोत्थधूमगन्धेन सर्वतः ।
निरस्तनिखिलाघौघं वनान्तरविसर्पिणा ॥ २.२१.४० ॥

समित्कुशाहरैर्दण्डमेखलाजिनमण्डितैः ।
अभितः शोभितं राजन्रम्यैर्मुनिकुमारकैः ॥ २.२१.४१ ॥

प्रसूनजलसम्पूर्मपात्रहस्ताभिरन्तरा ।
शोभितं मुनिकल्याभिश्चरन्तीभिरितस्ततः ॥ २.२१.४२ ॥

सपोतहरिणीयूथैर्विस्रम्भादविशङ्किभिः ।
उटजाङ्गणपर्यन्ततरुच्छायास्वधिष्ठितम् ॥ २.२१.४३ ॥

रोमन्थतः परामृष्टियूथ साक्षिकमुत्प्रदैः ।
प्रारब्धताण्डवं केकीमयूरैर्मधुरस्वरैः ॥ २.२१.४४ ॥

प्रविकीर्णकणोद्देशं मृगशब्दैः समीपगैः ।
अनालीढातपच्छायाशुष्यन्नीवारराशिभिः ॥ २.२१.४५ ॥

हूयमानानलं काले पूज्यमानातिथिव्रजम् ।
अभ्यस्यमानच्छन्दौघं चिन्त्यमानगमोदितम् ॥ २.२१.४६ ॥

पठ्यमानाखिलस्मार्त्तं श्रौतार्थप्रविचारणम् ।
प्रारब्धपितृदेवेज्यं सर्वभूतमनोहरम् ॥ २.२१.४७ ॥

तपस्विजनभूयिष्ठमाकापुरुषसेवितम् ।
तपोवृद्धिकरं पुण्यं सर्वसत्त्वसुखास्पदम् ॥ २.२१.४८ ॥

तपोधनानन्दकरं ब्रह्मलोकमिवापरम् ।
प्रसूनसौरभभ्राम्यन्मधुपारावनादितम् ॥ २.२१.४९ ॥

सर्वतो वीज्यमानेन विविधेन नभस्वता ।
एवंविधगुणोपेतं पश्यन्नाश्रममुत्तमम् ॥ २.२१.५० ॥

प्रविवेश विनीतात्मा सुकृतीवामरालयम् ।
सम्प्रविश्यश्रमोपान्तं रामः स्वप्रपितामहम् ॥ २.२१.५१ ॥

ददर्श परितो राजन्मुनिशिष्यशतावृतम् ।
व्याख्यानवेदिकामध्ये निविष्टं कुशविष्टरे ।
सितश्मश्रुजटाकूर्चब्रह्मसूत्रोपशोभितम् ॥ २.२१.५२ ॥

वामेतरोरुमध्यास्त वामजङ्घेन जानुना ॥ २.२१.५३ ॥

विश्वास-प्रस्तुतिः

योगपट्टेन संवीतस्वदेहमृषिपुङ्गवम् ।
व्याख्यानमुद्राविलसत्सव्यपाणितलाम्बुजम् ॥ २.२१.५४ ॥

योगपट्टोपरिन्यस्तविभ्राजद्वामपाणिकम् ।
सम्यगारण्यवाक्यानां सूक्ष्मतत्त्वार्थसंहतिम् ॥ २.२१.५५ ॥

विवृत्य मुनिमुख्येभ्यः श्रावयन्तं तपोनिधिम् ।
पितुः पितामहं द्दष्ट्वा रामस्तस्य महात्मनः ॥ २.२१.५६ ॥

शनैरिवमहाराज समीपं समुपागमत् ।
तमागतमुपालक्ष्य तत्प्रभावप्रधर्षिताः ॥ २.२१.५७ ॥

शङ्कामवापुर्मुनयो दूरादेवाखिला नृप ।
तावदूभृगुरमेयात्मा तदागमनतोषितः ॥ २.२१.५८ ॥

निवृत्तान्यकथालापस्तं पश्यन्नास पार्थिव ।
रामोऽपि तमुपागम्य विनयावनताननः ॥ २.२१.५९ ॥

अवन्दत यथान्ययमुपेन्द्र इव वेधसम् ।
अभिवाद्य यथान्यायं ख्यातिं च विनयान्वितः ॥ २.२१.६० ॥

तांश्च सम्भावयामास मुनीन्रामोयथावयः ।
तैश्च सर्वैर्मुदोपेतैराशीर्भिरभिवर्द्धितः ॥ २.२१.६१ ॥

उपाविवेश मेधावी भूमौ तेषामनुज्ञया ।
उपविष्टं ततो राममाशीर्भिरभिनन्दितम् ॥ २.२१.६२ ॥

पप्रच्छकुशलप्रश्नं तमालोक्य भृगुस्तदा ।
कुशलं खलु ते वत्स पित्रोश्च किमनामयम् ॥ २.२१.६३ ॥

भ्रातॄणां चैव भवतःपितुः पित्रोस्तथैव च ।
किमर्थमागतोऽत्र त्वमधुनामम सन्निधिम् ॥ २.२१.६४ ॥

केनापि वा त्वमादिष्टः स्वयमेवाथवागतः ।
ततोरामो यथान्यायं तस्मै सर्वमशेषतः ॥ २.२१.६५ ॥

कथयामास यत्पृष्टं तदा तेन महात्मना ।
पितुर्मातुश्च वृत्तान्त भ्रातॄणां च महात्मनाम् ॥ २.२१.६६ ॥

पितुः प्रित्रोश्चकौशल्य दर्शनं च तयोर्नृप ।
एतदन्यच्च सकलं भृगोः सप्रश्रयं मुदा ॥ २.२१.६७ ॥

न्यवेदयद्यथान्यायमात्मनश्च समीहितम् ।
श्रुत्वैतदखिलं राजन्रामेण समुदीरितम् ॥ २.२१.६८ ॥

तं च दृष्ट्वा विशेषेण भृगुः प्रीतोऽभ्यनन्दत ।
एवं तस्य प्रियं कुर्वन्नुत्कृष्टैरात्मकर्मभिः ॥ २.२१.६९ ॥

तत्राश्रमेऽवसद्रामो दिनानि कतिचिन्नृप ।
ततः कदाचिदेकान्ते रामं मुनिवरोत्तमः ॥ २.२१.७० ॥

वत्सागच्छेति तं राजन्नुपाह्वयदुपह्वरे ।
सोऽभिगम्य तमासीनमभिवाद्य कृताञ्जलिः ॥ २.२१.७१ ॥

तस्थौ तत्पुरतो रामः सुप्रीतेनान्तरात्मना ।
आशीर्भिरभिनन्द्याथ भृगुस्तं प्रीत मानसः ॥ २.२१.७२ ॥

प्राह नाधिगताशङ्कं राममालोक्य सादरम् ।
श्रुणु वत्स वचो मह्य यत्त्वां वक्ष्यामि साम्प्रतम् ॥ २.२१.७३ ॥

हितार्थं सर्वलोकानां तव चास्माकमेव च ।
गच्छ पुत्र ममादेशाद्धिमवन्तं महागिरिम् ॥ २.२१.७४ ॥

अधुनैवाश्रमादस्मात्तपसे धृतमानसः ।
तत्रगत्वा महाभाग कृत्वाश्रमापदं शुभम् ॥ २.२१.७५ ॥

आराधय महादेवं तपसा नियमेन च ।
प्रीतिमुत्पाद्य तस्य त्वं भक्त्यानन्यगया चिरात् ॥ २.२१.७६ ॥

श्रेयो महदवाप्नोषि नात्र कार्या विजारणा ।
तरसा तव भक्त्या च प्रीतो भवति शङ्करः ॥ २.२१.७७ ॥

करिष्यति च ते सर्वं मनसा यद्यदिच्छसि ।
तुष्टे तस्मिञ्जगन्नाथे शङ्करे भक्तवत्सले ॥ २.२१.७८ ॥

अस्त्रग्राममशेषं त्वं वणु पुत्र यथेप्सितम् ।
त्वया हितार्थं देवानां करणीयं सुदुष्करम् ॥ २.२१.७९ ॥

विद्यतेऽभ्यधिकं कर्म शस्त्रसाध्यमनेकशः ।
तस्मात्त्वं देवदेवेशं समाराधय शङ्करम् ॥ २.२१.८० ॥

भक्त्या परमया युक्तस्ततोऽभीष्टमवाप्स्यसि ॥ २.२१.८१ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे एकविंशति तमौध्यायः ॥ २१॥