०२०

विश्वास-प्रस्तुतिः

बृहस्पतिरुवाच
इत्येते पितरो देवा देवानामपि देवताः ।
सप्तस्वेते स्थिता नित्यं स्थानेषु पितरोऽव्ययाः ॥ २.२०.१ ॥

मूलम्

प्रजापतिसुता ह्येते सर्वेषां तु महात्मनाम् ।
आद्यो गणस्तु योगानामनुयोगविवर्द्धनः ॥ २.२०.२ ॥

द्वितीयो देवतानां तु तृतीयो दानवादिनाम् ।
शेषास्तु वर्णिन्नां ज्ञेया इति सर्वे प्रकीर्त्तिताः ॥ २.२०.३ ॥

देवास्छैतान्यजन्ते वै सर्वज्ञानेष्ववस्थितान् ।
आश्रमश्च यजन्त्येनांश्चत्वारस्तु यथाक्रमम् ॥ २.२०.४ ॥

सर्वे वर्णा यजन्त्येनांश्चत्वारस्तु यथागमम् ।
तथा सङ्करजात्यश्च म्लेच्छाश्चापि यजन्ति वै ॥ २.२०.५ ॥

पितृंस्तु यो यजेद्भक्त्या पितरः प्रीणयन्ति ते ।
पितरः पुष्टिकामस्य प्रजाकामस्य वा पुनः ॥ २.२०.६ ॥

पुष्टिं प्रजां तु स्वर्गं च प्रयच्छन्ति पितामहाः ।
देवकार्यादपि तथा पितृकार्यं विशिष्यते ॥ २.२०.७ ॥

देवतानां हि पितरः पूर्वमाप्यायनं स्मृताः ।
न हि योगगतिः सूक्ष्मा पितॄणां ज्ञायते नरैः ॥ २.२०.८ ॥

तपसा हि प्रसिद्धेन किं पुनर्मांसचक्षुषा ।
सर्वेषां राजतं पात्रमथ वा रजतान्वितम् ॥ २.२०.९ ॥

पावनं ह्युत्तमं प्रोक्तं देवानां पितृभिः सह ।
येषां दास्यन्ति पिण्डांस्त्रीन्बान्धवा नामगोत्रतः ॥ २.२०.१० ॥

भूमौ कुशोत्तरायां च अपसव्यविधानतः ।
सर्वत्र वर्त्तमानास्ते पिण्डाः प्रीणन्ति वै पितॄन् ॥ २.२०.११ ॥

यदाहारो भवेज्जन्तुराहारः सोऽस्य जायते ।
यथा गोष्ठे प्रनष्टां वै वत्सो विन्दति मातरम् ॥ २.२०.१२ ॥

तथा तं नयते मन्त्रो जन्तुर्यत्रावतिष्ठति ।
नामगोत्रं च मन्त्रं च दत्तमन्नं नयन्ति तम् ॥ २.२०.१३ ॥

अपि योनिशतं प्राप्तांस्तृप्तिस्ताननुगच्छति ।
एवमेषा स्थिता सत्ता ब्रह्मणः परमेष्ठिनः ॥ २.२०.१४ ॥

पितॄणमादिसर्गेतु लोकानामक्षयार्थिनाम् ।
इत्येते पितरश्चैव लोका दुहितरस्तथा ॥ २.२०.१५ ॥

दौहित्रा यजमानश्च प्रोक्ताश्चैव मयानघ ।
कीर्त्तिताः पितरस्ते वै तव पुत्र यथाक्रमम् ॥ २.२०.१६ ॥

शंयुरुवाच
अहो दिव्यस्त्वया तात पितृसर्गस्तु कीर्तितः ।
लोका दुहितरश्चैव दोहित्राश्च श्रुतास्तथा ॥ २.२०.१७ ॥

दानानि सह शौचेन कीर्त्तितानि फलानि च ।
अक्षय्यत्वं द्विजांश्चैव सर्वमेतदुदाहृतम् ।
अद्यप्रभृति कर्त्तास्मि सर्वमेतद्यथातथम् ॥ २.२०.१८ ॥

इत्येतदङ्गिराः पूर्वमृषीणामुक्तवान्प्रभुः ।
पृष्टश्च संशयान्सर्वानृषीनाह नृसंसदि ॥ २.२०.१९ ॥

सत्रे तु वितते पूर्वं तथा वर्षसहस्रके ।
यस्मिन्सदस्पतिस्नातो ब्रह्मा सीद्देवताप्रभुः ॥ २.२०.२० ॥

गतानि तत्र वर्षाणां पञ्चाशच्च शतानि वै ।
श्लोकाश्चात्र पुरा गीता ऋषिभिर्ब्रह्मवादिभिः ॥ २.२०.२१ ॥

दीक्षितस्य पुरा सत्रे ब्रह्ममः परमात्मनः ।
तत्रैव दत्तमन्नाग्रं पितॄणामक्षयर्थिनाम् ।
लोकानां च हितार्थाय ब्रह्मणा परमेष्ठिना ॥ २.२०.२२ ॥

सूत उवाच
एवं बृहस्पतिः पूर्वं पृष्टः पुत्रेण धीमता ।
प्रोवाच पितृसर्गं तु यश्चैव समुदाहृत ॥ २.२०.२३ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे
श्राद्धकल्पो नाम विंशतितमोऽध्यायः ॥ २०॥