विश्वास-प्रस्तुतिः
बृहस्पतिरुवाच
यमस्तु यानि श्राद्धानि प्रोवाच शशबिन्दवे ।
तानि मे शृणु कार्याणि नक्षत्रेषु पृथक्पृथक् ॥ २.१८.१ ॥
मूलम्

श्राद्धं यः कृत्तिकायोगं कुरुते सततं नरः ।
अग्नीनाधाय स स्वर्गे राजते सुदृढव्रतः ॥ २.१८.२ ॥

अपत्यकामो रोहिण्यां सौम्ये तेजस्विना भवेत् ।
प्रायशः क्रूरकर्माणि आर्द्रायां श्राद्धमाचरन् ॥ २.१८.३ ॥

क्षेत्रभागी भवेत्पुत्री श्राद्धं कृत्वा पुनर्वसौ ।
पुष्टिकामः पुनस्तिष्ये श्राद्धं कुर्वीत मानवः ॥ २.१८.४ ॥

आश्लेषासु पितॄनर्चन्वीरान्पुत्रानवाप्नुयात् ।
जातीनां भवति श्रेष्ठो मघासु श्राद्धमाचरन् ॥ २.१८.५ ॥

फाल्गुनीषु पितॄनर्चन्सौभाग्यं लभते नरः ।
प्रदानशीलः सापत्य उत्तरासु करोति यः ॥ २.१८.६ ॥

संसत्सु मुख्यो भवति हस्तेऽभ्यर्च्य पितॄनपि ।
चित्रायां चैव यः कुर्यात्पश्येद्रूपवतः सुतान् ॥ २.१८.७ ॥

स्वातिना चैव यः कुर्याद्वाणिज्ये लाभमाप्नुयात् ।
पुत्रार्थी तु विशाखासु श्राद्धमीहेत मालवः ॥ २.१८.८ ॥

अनुराधासु कुर्वाणो नरश्चक्रं प्रवर्त्तयेत् ।
आधिपत्यं भवेच्छ्रेष्ठं ज्येष्ठायां सततं तु यः ॥ २.१८.९ ॥

मूलेनारोग्यमिच्छन्ति ह्याषाढासु महद्यशः ।
उत्तरासु तु कुर्वाणो वीतशोको भवेन्नरः ॥ २.१८.१० ॥

श्रवणेन तु लोकेषु प्राप्नुयात्परमां गतिम् ।
राज्यभागी धनिष्ठासु प्राप्नुया द्विपुलं धनम् ॥ २.१८.११ ॥

श्राद्धनिर्जितलोकश्च वेदान् साङ्गानवाप्नुयात् ।
नक्षत्रैर्वारुणैः कुर्वन्भिषक्सिद्धिमवाप्नुयात् ॥ २.१८.१२ ॥

पूर्वप्रौष्ठ पदे कुर्वन्विन्देताजीविकान्बहून् ।
उत्तरास्वनतिक्रम्य विन्देद्गा वै सहस्रशः ॥ २.१८.१३ ॥

बहुकुप्यकृतं द्रव्यं विन्देत्कुर्वन्सुरेवतीम् ।
अश्वानश्वयुजा भक्तो भरण्यां साधुसत्तमः ॥ २.१८.१४ ॥

इमं श्राद्धविधिं कुर्वञ्छशबिन्दुर्महीमिमाम् ।
कृत्स्नां बलेन सोऽक्लिष्ठो लभ्ध्वा च प्रशशास ह ॥ २.१८.१५ ॥

इति श्री ब्रहामाण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे
श्राद्धकल्पे नक्षत्रश्राद्धं नाम अष्टादशोऽध्यायः ॥ १८॥