विश्वास-प्रस्तुतिः
बृहस्पतिरुवाच
अत ऊर्द्ध्वं प्रवक्ष्यामि श्राद्धकर्मणि पूजितम् ।
काम्यं नैमित्तिकाजस्रं श्राद्धकर्मणि नित्यशः ॥ २.१७.१ ॥
मूलम्

पुत्रदारनिमित्ताः स्युरष्टकास्तिस्न एव तु ।
कृष्णपक्षे वरिष्ठा हि पूर्वाखण्डलदेवता ॥ २.१७.२ ॥

प्राजापत्या द्वितीया स्यात्तृतीया वैश्वदेविका ।
आद्यापूपैः सदाकार्या मांसैरन्या सदा भवेत् ॥ २.१७.३ ॥

शाकैः कार्या तृतीया स्यादेवं द्रव्यगतो विधिः ।
अत्रापीष्टं पितॄणां वै नित्यमेव विधीयते ॥ २.१७.४ ॥

या चाप्यन्या चतुर्थी स्यात्तां च कुर्याद्विशेषतः ।
आसु श्राद्धं बुधः कुर्वन्सर्वस्वेनापि नित्यशः ॥ २.१७.५ ॥

क्षिप्रमाप्नोति हि श्रेयः परत्रेह च मोदते ।
पितरः पर्वकालेषु तिथिकालेषु देवताः ॥ २.१७.६ ॥

सर्वेषु पुरुषा यान्ति निपातमिव धेनवः ।
मासान्ते प्रतिगच्छेयुरष्टकासु ह्यपूजिताः ॥ २.१७.७ ॥

मोघास्तस्य भवन्त्याशाः परत्रेह च सर्वशः ।
पूजकानां समुत्कर्षो नास्तिकानामधोगतिः ॥ २.१७.८ ॥

देवास्तु दायिनो यान्ति तिर्यग्गच्छन्त्यदायिनः ।
पुष्टिं प्रजां स्मृतिं मेधां पुत्रानैश्वर्यमेव च ॥ २.१७.९ ॥

कुर्वाणः पूजनं चासु सर्वं पूर्णं समश्नुते ।
प्रतिपद्धनलाभाय लब्धं चास्य न नश्यति ॥ २.१७.१० ॥

द्वितीयायां तु यः कुर्याद्द्विपदाधिम्पतिर्भवेत् ।
वरार्थिनां तृतीया तु शत्रुघ्नी पापनाशिनी ॥ २.१७.११ ॥

चतुर्थ्यां तु प्रकुर्वाणः शत्रुच्छिद्राणि पश्यति ।
पञ्चम्यां चापिकुर्वाणः प्राप्नोति महतीं श्रियम् ॥ २.१७.१२ ॥

षष्ठ्यां श्राद्धानि कुर्वाणः सम्पूज्यः स्यात्प्रयत्नतः ।
कुरुते यस्तु सप्तम्यां श्राद्धानि सततं नरः ॥ २.१७.१३ ॥

महीशत्वमवाप्नोति गणानां चाधिपो भवेत् ।
सम्पूर्णामृद्धिमाप्नोति योऽष्टम्यां कुरुते नरः ॥ २.१७.१४ ॥

श्राद्धं नवम्यां कर्त्तव्यमैश्वर्यं स्त्रीश्च काङ्क्षता ।
कुर्वन्दशम्यां तु नरो ब्राह्मीं श्रियमवाप्नुयात् ॥ २.१७.१५ ॥

वेदांश्चैवाप्नुयात्सर्वान्विप्राणां समतां व्रजेत् ।
एकादश्यां परं दानमैश्वर्य सततं तथा ॥ २.१७.१६ ॥

द्वादश्यां जयलाभं च राज्यमायुर्वसूनि च ।
प्रजावृद्धिं पशून्मेधां स्वातन्त्र्यं पुष्टिमुत्तमाम् ॥ २.१७.१७ ॥

दीर्घमायुरथैश्वर्यं कुर्वाणस्तु त्रयोदशीम् ।
युवानश्च गृहे यस्य मृतास्तेभ्यः प्रदापयेत् ॥ २.१७.१८ ॥

शस्त्रेण वा हता ये च तेषां दद्याच्चतुर्दशीम् ।
अमावास्यां प्रयत्नेन श्राद्धं कुर्यात्सदा शुचिः ॥ २.१७.१९ ॥

सर्वकामानवाप्नोति स्वर्गं चानन्तमश्नुते ।
तथाविषमजातानां यमलानां च सर्वशः ॥ २.१७.२० ॥

श्राद्धं दद्यादमावास्यां सर्वकामानवाप्नुयात् ।
मघासु कुर्वञ्छ्राद्धानि सर्वकामानवाप्नुयात् ॥ २.१७.२१ ॥

प्रत्यक्षमर्चितास्तेन भवन्ति पितरस्तदा ।
पितृदवा मघा यस्मात्तस्मात्तास्वक्षयं स्मृतम् ॥ २.१७.२२ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे
श्राद्धकल्पे तिथिश्राद्धवर्णनं नाम सप्तदशोऽध्यायः ॥ १७॥