विश्वास-प्रस्तुतिः
ऋषय ऊचुः
अहो धन्यस्त्वया सूत श्राद्धकल्पः प्रकीर्तितः ।
श्रुता नः श्राद्धकल्पास्तु ऋषिभिर्ये प्रकीर्त्तिताः ॥ २.१५.१ ॥
मूलम्

अतीव विस्तरो ह्यस्य विशेषेण तु कीर्त्तितः ।
देवाशेषं महाप्राज्ञ ऋषेस्तस्य मतं यथा ॥ २.१५.२ ॥

सूत उवाच
कीर्त्तयिष्यामि वो विप्रा ऋषेस्तस्य मतं तु यत् ।
श्राद्धं प्रति महाभागस्तन्मे श्रुणुत विस्तरात् ॥ २.१५.३ ॥

उक्तं श्राद्धम्मया पूर्वं विधिश्च श्राद्धकर्मणि ।
परिशिष्टं प्रवक्ष्यामि ब्रह्मणानां परिक्षणम् ॥ २.१५.४ ॥

न मीमांस्याः सदा विप्राः पवित्रंह्येतदुत्तमम् ।
दैवे पित्र्ये च नियतं श्रूयते वै परीक्षणम् ॥ २.१५.५ ॥

यस्मिन्दोषाः प्रदृश्येरम्स हि कार्येषु वर्जितः ।
जानीयाद्वापि संवासाद्वर्जयेत्तं प्रयत्नतः ॥ २.१५.६ ॥

अविज्ञातं द्विजं श्राद्धे न परीक्षेत पण्डितः ।
सिद्धा हि विप्ररूपेण चरन्ति पृथिवीमिमाम् ॥ २.१५.७ ॥

तस्मादतिथिमायान्तमभिगच्छेत्कृताञ्जलिः ।
पूजयेच्चार्घ्यपाद्याभ्यां तथाभ्यञ्जनभोजनैः ॥ २.१५.८ ॥

उर्वी सागरपर्यन्तां देवा योगेश्वरः सदा ।
नानारूपैश्चरन्त्येते प्रजा धर्मेण योजयन् ॥ २.१५.९ ॥

तस्माद्दद्यात्सदा दान्तः समभ्यार्च्यातिथिं नरः ।
व्यञ्जनानि तु वक्ष्यामि फलं तेषां तथैव च ॥ २.१५.१० ॥

अग्निष्टोमं पयसा प्राप्नुयाद्वै फलं तथोक्थस्य च पायसेन ।
सषोडशी सत्रफलं घृतेन मध्वातिरात्रस्य फलं तथैव ॥ २.१५.११ ॥

तथाप्नुयाच्छ्रद्दधा नो नरो वै सर्वैः कामैर्भोजयेद्यस्तु विप्रान् ।
सर्वार्थदं सर्वविप्रातिथेयं फलं च भुङ्क्ते सर्वमेधस्य नित्यम् ॥ २.१५.१२ ॥

यस्तु श्राद्धेऽतिथिं प्राप्तं दैवे चाप्यवमन्यते ।
तं वै देवा निरस्यन्ति हतो यद्वत्परावसुः ॥ २.१५.१३ ॥

देवाश्च पितरश्चैव तेमेवान्तर्हिता द्विजम् ।
आविश्य विप्रं मोक्ष्यन्ति लोकानुग्रहकारणात् ॥ २.१५.१४ ॥

अपूजितो दहत्येष दिशेत्कामांश्च पूजितः ।
सर्वस्वेनापि तस्माद्धि पूजयेदतिथिं सदा ॥ २.१५.१५ ॥

वानप्रस्थो गृहस्थश्च सतामभ्यागतो यथा ।
वालखिल्यो यतिश्चैव विज्ञेयो ह्यतिथिः सदा ॥ २.१५.१६ ॥

अभ्यागतः पाकचारदतिथिः स्यादपावकः ।
अतिथेरतिथिः प्रोक्तः सोऽतिथिर्योग उच्यते ॥ २.१५.१७ ॥

नाव्रती न च सङ्कीर्णो नाविद्यो नाविशेषवित् ।
न च सन्तानसम्बद्धो न देवी नागसेऽतिथिः ॥ २.१५.१८ ॥

पिपासिताय श्रान्ताय भ्रान्तायातिबुभुक्षते ।
तस्मै सत्कृत्य दातव्यं यज्ञम्य फलमिच्छता ॥ २.१५.१९ ॥

न वक्तव्यं सदा विप्र क्षुधिते नास्ति किञ्चन ।
तस्मै सत्कृत्य दातव्यं सदापचितिरेव सः ॥ २.१५.२० ॥

अक्लिष्ट मव्रणं युक्तं कृशवृत्तिमयाचकम् ।
एकान्तशीलं धीमन्तं सदा श्राद्धेषु भोजयेत् ॥ २.१५.२१ ॥

नो ददामि तमित्येवं ब्रूयाद्यो वै दुरात्मवान् ।
अपि जातिशतं गत्वा न स मुच्येत किल्बिषात् ॥ २.१५.२२ ॥

समोदं भोजयेद्विप्रानेकपङ्क्त्यां तु यो नरः ।
नियुक्तो ह्यनि युक्तो वा पङ्क्त्या हरति किल्बिषम् ॥ २.१५.२३ ॥

पाप्मानं गृह्यते क्षिप्रमिष्टापूर्त्तं च नश्यति ।
यतिस्तु सर्वविप्राणां सर्वेषामग्रतो भवेत् ॥ २.१५.२४ ॥

पञ्च वेदान्सेतिहासान्यः पठेद्द्विजसत्तमः ।
योगादनन्तरं सोऽथ नियोक्तव्यो विजानता ॥ २.१५.२५ ॥

त्रिवेदोऽनन्तरं तस्य द्विवेदस्तदनन्तरम् ।
एकवेदस्ततः पश्चादुपाध्यायस्ततः परम् ॥ २.१५.२६ ॥

पावना येऽत्र सङ्ख्यातास्तान्प्रवक्ष्ये निबोधत ।
य एते पूर्वनिर्द्दिष्टाः सर्वे ते ह्यनुपूर्वशः ॥ २.१५.२७ ॥

षडङ्गविद्ध्यानयोगौ सर्वतत्रस्तथैव च ।
यायावरश्च पञ्चैते विज्ञेयाः पङ्क्तिपावनाः ॥ २.१५.२८ ॥

श्राद्धकल्पे भवेद्यस्तु सन्निपत्य तु पावनः ।
चतुर्दशानां विद्यानामेकस्यामपि पारगाः ॥ २.१५.२९ ॥

यथावद्वर्त्तमानाश्च सर्वे ते पङ्क्तिपावनाः ।
असन्देहस्तु सौपर्णाः पञ्चाग्नेयाश्च सामगाः ॥ २.१५.३० ॥

यश्चरेद्विधिवद्विप्र समा द्वादश सन्ततः ।
त्रिनाचिकेतस्त्रै विद्यो यश्च धर्मान्द्विजः पठेत् ॥ २.१५.३१ ॥

बार्हस्पत्ये महाशास्त्रे यश्च पारङ्गतो द्विजः ।
सर्वे ते पावना विप्राः पङ्क्तीनां समुदात्दृताः ॥ २.१५.३२ ॥

आमन्त्रितस्तु यः श्राद्धे योषितं सेवते द्विजः ।
पितरस्तस्य तन्मासं तस्मिन्रितसि शेरते ॥ २.१५.३३ ॥

ध्याननिष्ठाय दातव्यं सानुक्रोशाय धीमते ।
यतिं वा वालखिल्यं वा भोजयेच्छ्राद्दकर्मणि ॥ २.१५.३४ ॥

वानप्रस्थाय कुर्वाणः पूजामात्रेण तुष्यते ।
गृहस्थं भोजयेद्यस्तु विश्वेदेवास्तु पूजिताः ॥ २.१५.३५ ॥

वानप्रस्थेन ऋषयो वालखिल्यैः पुरन्दरः ।
यतीनां तु कृता पूजा साक्षाद्ब्रह्मा तुं पूजितः ॥ २.१५.३६ ॥

आश्रमोऽपावनो यस्तु पञ्चमस्सङ्करात्मकः ।
चत्वारस्त्वाश्रमाः पूच्याः श्राद्धे देवे तथैव च ॥ २.१५.३७ ॥

चतुराश्रमबाह्येभ्य स्तेभ्यः श्राद्धे न दापयेत् ।
यस्तिष्ठेद्वायुभक्षश्च चातुराश्रमबाह्यतः ॥ २.१५.३८ ॥

अनाश्रमीतपस्तेपे न तं तत्र निमन्त्रयेत् ।
अयतिर्मोक्षवादी च श्रुतौ तौ पङ्क्तिदूषकौ ॥ २.१५.३९ ॥

उग्रेण तपसा युक्ता बहुज्ञाश्चित्रवादिनः ।
निन्दन्ति च द्विजातिभ्यः सर्वे ते पङ्क्तिदूषकाः ॥ २.१५.४० ॥

औपवस्तास्तथा साङ्ख्या नास्तिका वेदनिन्दकाः ।
ध्यानं निन्दन्ति ये केचित्सर्वे ते पङ्क्तिदूषकाः ॥ २.१५.४१ ॥

वृथा मुण्डाश्च जटिलाः सर्वे कार्पटिकास्तथा ।
निर्घृणान्भिन्नवृत्तांश्च सर्वभक्षांश्च वर्जयेत् ॥ २.१५.४२ ॥

कारुकादीननाचारांल्लोकवेदबहिष्कृतान् ।
गाय नान्वेदवृत्तांश्च हव्यकव्ये न भोजयेत् ॥ २.१५.४३ ॥

एतैस्तु वर्त्तयेद्यस्तु कृष्णवर्णं स गच्छति ।
योऽश्नाति सह शूद्रेणा सर्वे ते पङ्क्तिदूषणाः ॥ २.१५.४४ ॥

व्याकर्षणं सत्त्वनिबर्हणं च कृषिर्वणिज्या पशुपालनं च ।
शुश्रूषणं चाप्यगुरोररेर्वाप्यकार्यमेतद्धि सदा द्विजानाम् ॥ २.१५.४५ ॥

मिथ्यासङ्कल्पिनः सर्वानुद्वृत्तांश्च विवर्जयेत् ।
मिथ्याप्रवादी निन्दाकृत्तथा सूचकदाम्भिकौ ॥ २.१५.४६ ॥

उपपातकसंयुक्ताः पातकैश्च विशेषतः ।
वेदे नियोगदातारो लोभमोहफलर्थिनः ॥ २.१५.४७ ॥

ब्रह्मविक्रयिणस्तान्वै श्राद्धकर्मणि वर्जयेत् ।
न वियोगास्तु वेदानां यो नियुङ्क्ते स पापकृत् ॥ २.१५.४८ ॥

वक्ता वेदफलाद्भ्रश्येद्दाता दानफलात्तथा ।
भृतकोऽध्यापयेद्यस्तु भृतकाध्यापितस्तु यः ॥ २.१५.४९ ॥

नार्हतस्तावपि श्राद्धे ब्रह्माणः क्रयविक्रयी ।
क्रयश्च विक्रयश्चैवाजीवितार्थे विगर्हितौ ॥ २.१५.५० ॥

वृत्तिरेषा तु वैश्यस्य ब्राह्मणस्य तु पातकम् ।
आहरेद्भृतितो वेदान् वेदेभ्यश्चोपजीवति ॥ २.१५.५१ ॥

उभौ तौ नार्हतः श्राद्धं पुत्रिकापतिरेव च ।
वृथा दारांश्च यो गच्छेद्यो यजेत वृथाध्वरैः ॥ २.१५.५२ ॥

नार्हतस्तावपि श्राद्धं द्विजो यश्चैव वार्धुषी ।
स्त्रियो रक्तान्तरा येषां परदारपराश्च ये ॥ २.१५.५३ ॥

अर्थकामरताश्चैव न ताञ्छ्राद्धेषु भोजयेत् ।
वर्णाश्रमाणां धर्मेषु विरुद्धाःसर्वकर्मणि ॥ २.१५.५४ ॥

स्तेनश्च सर्वयाजी च सर्वे ते पङ्क्तिदूषकाः ।
यश्च सूकरवद्भुङ्क्ते यश्च पाणितले द्विजः ॥ २.१५.५५ ॥

न तदश्नन्ति पितरो यश्च वाच्यं समश्नुते ।
स्त्रीशूद्रायान्नमेतद्वै श्राद्धोच्छिष्टं न दापयेत् ॥ २.१५.५६ ॥

यो दद्याच्चानुसम्मोहान्न तद्गच्छति वै पितॄन् ।
तस्मान्न देयमन्नाद्यमुच्छिष्टं श्राद्धकर्मणि ॥ २.१५.५७ ॥

अन्यच्च दधिसर्पिर्भ्यां शिष्टं पुत्राय नान्यथा ।
अवशेषं तु दातव्यमन्नाद्यं तु विशेषतः ॥ २.१५.५८ ॥

पुष्पमूलफलैर्वापि तुष्टा गच्छेयुरन्ततः ।
यावन्न श्रपितं चान्नं यावतौष्ण्यं न मुञ्चति ॥ २.१५.५९ ॥

तावदश्नन्ति पितरो यावदश्नन्ति वाग्यताः ।
दत्तं प्रतिग्रहो होमो भोजनं बलिरेव च ॥ २.१५.६० ॥

साङ्गुष्ठेन तथा पाद्यं नासुरेभ्यो यथा भवेत् ।
एतान्येव च सर्वाणि दानानि च विशेषतः ॥ २.१५.६१ ॥

अन्तर्जानूपविष्टेन तद्वदाचमनं भवेत् ।
मुण्डाञ्जटिलकाषायाञ्श्राद्धकर्मणि वर्जयेत् ॥ २.१५.६२ ॥

ये तु वृत्ते स्थिता नित्यं ज्ञानिनो ध्यानिनस्तथा ।
देवभक्ता महात्मानः पुनीयुर्दर्शनादपि ॥ २.१५.६३ ॥

शिखिभ्यो धातुरक्तेभ्यस्त्रिदण्डेभ्यः प्रदापयेत् ।
सर्वं योगेश्वरैर्व्याप्तं त्रैलोक्यं हि निरन्तरम् ॥ २.१५.६४ ॥

तस्मात्पश्यन्ति ते सर्वं यत्किञ्चिज्जगतीगतम् ।
व्यक्ताव्यक्तं वशे कृत्वा सर्वस्यापि च यत्परम् ॥ २.१५.६५ ॥

सत्यासत्यं च यद्दृष्टं सद सच्च महात्मभिः ।
सर्वज्ञानानि सृष्टानि मोक्षादीनिमहात्मभिः ॥ २.१५.६६ ॥

तस्मात्तेषां सदा भक्तः फलं प्राप्नोति वोत्तमम् ॥ २.१५.६७ ॥
विश्वास-प्रस्तुतिः
ऋचश्च यो वेद स वेद वेदान्यजूंषि यो वेद यज्ञम् ।
सामानि यो वेद स वेद ब्रह्म यो मानसं वेद स वेद सर्वम् ॥ २.१५.६८ ॥

इति श्री ब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पे ब्राह्मणपरीक्षा नाम पञ्चदशोऽध्यायः ॥ १५॥