००६

विश्वास-प्रस्तुतिः

सूत उवाच
अभवन्दनुपुत्रास्तु वंशे ख्याता महासुराः ।
विप्रचित्तिप्रधा नास्तेऽचिन्तनीयपराक्रमाः ॥ २.६.१ ॥

मूलम्

सर्वे लब्धवराश्चैव ते तप्ततपसस्तथा ।
सत्यसन्धाः पराक्रान्ताः क्रूरा मायाविनश्च ते ॥ २.६.२ ॥

महाबलास्ते जवना ब्रह्मिष्ठा ये च साग्नयः ।
कीर्त्यमानान्मया सर्वान्प्राधान्येन निबोधत ॥ २.६.३ ॥

द्विमूर्द्धा शम्बरश्चैव तथा शङ्कुरथो विभुः ।
शङ्कुकर्णो विपादश्च गविष्ठो दुन्दुभिस्तथा ॥ २.६.४ ॥

अयोमुखस्तु मघवान्कपिलो वामनो मयः ।
मरीचिरसिपाश्चैव महा मायोऽशिरा भृशी ॥ २.६.५ ॥

विक्षोभश्च सुकेतुश्च केतुवीर्यशताह्वयौ ।
इन्द्रजिद्विविदश्चैव तथा भद्रश्च देवजित् ॥ २.६.६ ॥

एकचक्रो महा बाहुस्तारकश्च महाबलः ।
वैश्वानरः पुलोमा च प्रापणोऽथ महाशिराः ॥ २.६.७ ॥

स्वर्भानुर्वृषपर्वा च पुरुण्डश्च महासुरः ।
धृतराष्ट्रश्च सूर्यश्चचन्द्रमा इन्द्रतापनः ॥ २.६.८ ॥

सूक्ष्मश्चैव निचन्द्रश्च चूर्णनाभो महागिरिः ।
असिलोमा सुकेशश्च शठश्च मूलकोदरः ॥ २.६.९ ॥

जम्भो गगनमूर्द्धा चकुम्भमानो महोदकः ।
प्रमदोऽद्मश्च कुपथो ह्यश्वग्रीवश्च वीर्यवान् ॥ २.६.१० ॥

वैमृगः सविरूपाक्षः सुपथश्च हला हलौ ।
अक्षो हिरण्मयश्चैव शतग्रीवश्च शम्बरः ॥ २.६.११ ॥

शरभः श्वलभश्चैव सूर्याचन्द्रमसावुभौ ।
असुराणां स्मृतावेतौ सुराणां च प्रभाविणौ ॥ २.६.१२ ॥

इति पुत्रा दनोर्वंशप्रधानाः परिकीर्त्तिताः ।
तेषामपरिसङ्ख्येयं पुत्रपौत्रमनन्तकम् ॥ २.६.१३ ॥

इत्येत असुराः तक्रान्ता दैतेया दानवास्तथा ।
सुत्वानस्तु स्मृता दैत्या असुत्वानो दनोः सुताः ॥ २.६.१४ ॥

इमे च वंशानुगता दनोः पुत्रान्वयाः स्मृताः ।
एकाक्षेश्वप्रभारिष्टः प्रलम्बनरकावपि ॥ २.६.१५ ॥

इन्द्रबाधनकेशी च पुरुषः शेषवानुरुः ।
गरिष्ठश्च गवाक्षश्च तालकेतुश्च वीर्यवान् ॥ २.६.१६ ॥

एते मनुष्या वध्यास्तु दनुपुत्रान्वयाः स्मृताः ।
दैत्यदानवसंयोगे जाता भीमपराक्रमाः ॥ २.६.१७ ॥

सिंहिकायामथोत्पन्ना विप्रचित्तेः सुता इमे ।
सैंहिकेयाः समाख्याताश्चतुर्दश महासुराः ॥ २.६.१८ ॥

शलश्च शलभश्चैव सव्यसिव्यस्तथैव च ।
इल्वलो नमुचिश्चैव वातापिस्तु सुपुञ्जिकः ॥ २.६.१९ ॥

रहकल्पः कालनाभो भौमश्च कनकस्तथा ।
राहुर्ज्येष्ठस्तु तेषां वै सूर्यचन्द्रप्रमर्द्दनः ॥ २.६.२० ॥

इत्योते सिंहिकापुत्रा देवैरपि दुरासदाः ।
दारुणाभिजनाः क्रूराः सर्वे ब्रह्महणश्च ते ॥ २.६.२१ ॥

दश तानि सहस्राणिसैंहिकेया गणाः स्मृताः ।
निहता जामदग्न्येन भार्गवेण बलीयसा ॥ २.६.२२ ॥

स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता ।
उपदानवी सदस्याथ शर्मिष्ठा वृषपर्वणः ॥ २.६.२३ ॥

पुलोमा कालिका चैव वैश्वानरसुते उभे ।
प्रभायां नहुषः पुत्रो जयन्तस्तु शचीसुतः ॥ २.६.२४ ॥

पुरुं जज्ञेऽथ शर्मिष्ठा दुष्यन्तसुपदानवी ।
वैश्वानरसुते एते पुलोमा कालका तथा ॥ २.६.२५ ॥

बह्वपत्ये उभे कन्ये मारीचस्य परिग्रहः ।
तयोः पुत्रसहस्राणि षष्टिर्दानवपुङ्गवाः ॥ २.६.२६ ॥

चतुर्दश तथान्यानि हिरण्यपुरवासिनाम् ।
पौलोमाः कालकेयाश्च दानवाः सुमरा बलाः ॥ २.६.२७ ॥

अवध्या देवतानां ते निहताः सव्यमाचिना ।
मयस्य जाता रम्भायां पुत्राः षट्च महाबलाः ॥ २.६.२८ ॥

मायावी दुन्दुभिश्चैव पुत्रश्च महिषस्तथा ।
कालिकश्चाजकर्णश्चकन्या मन्दोदरी तथा ॥ २.६.२९ ॥

दैत्यानां दानवानां च सर्ग एष प्रकीर्त्तितः ।
अनायुषायाः पुत्रास्ते स्मृताः पञ्च महाबलाः ॥ २.६.३० ॥

अररुर्बलवृत्रौ च विज्वरश्च वृषस्तथा ।
अररोस्तनयः क्रूरो धुन्धुर्नाम महासुरः ॥ २.६.३१ ॥

निहतः कुवलाश्वेन उत्तङ्कवचनाद्बिले ।
बलपुत्रौ महावीर्यौं तेजसाप्रतिमावुभौ ॥ २.६.३२ ॥

निकुम्भश्चक्रवर्मा च स कर्णः पूर्वजन्मनि ।
विजरस्यापि पुत्रौ द्वौ कालकश्च खरश्च तौ ॥ २.६.३३ ॥

वृषस्य तु पुनः पुत्राश्चत्वारः क्रूरकर्मणः ।
श्राद्धादो यज्ञहा चैव ब्रह्महा पशुहा तथा ॥ २.६.३४ ॥

क्रान्ता ह्यनायुषः पुत्रा वृत्र स्यापि निबोधत ।
जज्ञिरेऽसुमहाघोरा वृत्रस्येन्द्रेण युध्यता ॥ २.६.३५ ॥

बका नाम समाख्याता राक्षसाः सुमहाबलाः ।
शतं तानि सहस्राणि महेन्द्रानुचराः स्मृताः ॥ २.६.३६ ॥

सर्वे ब्रह्मविदः सौम्या धार्मिकाः सूक्ष्ममूर्त्तयः ।
प्रजास्वन्तर्गताः सर्वे निवसन्ति क्रुधावृताः ॥ २.६.३७ ॥

क्रोधा त्वप्रतिमान्पुत्रान् जज्ञे वै गायनोत्तमान् ।
सिद्धः पूर्णश्च वह्वीच पूर्णाशश्चैव वीर्यवान् ॥ २.६.३८ ॥

ब्रह्मचारी शतगुणः सुपर्णश्चैव मप्तमः ।
विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा ।
इत्येते देवगन्धर्वाः क्रोधायाः परिरीर्त्तिताः ॥ २.६.३९ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे दनुवंशकीर्त्तनं नाम षष्ठोऽध्याय