००५

विश्वास-प्रस्तुतिः

ऋषिरुवाच
दैत्यानां दानवानां च गन्धर्वोरगरक्षसाम् ।
सर्पभूतापिशा चानां वसूनां पक्षिवीरुधाम् ॥ २.५.१ ॥

मूलम्

उत्पत्तिं निधनं चैव विस्तारात्कथयस्व नः ।
एवमुक्तस्तदा सूतः प्रत्युवाचर्षिसत्तमम् ॥ २.५.२ ॥

सूत उवाच
दितेः पुत्रद्वयं जज्ञे कन्या चैका महाबला ।
कश्यपस्यात्मजौ तौ तु सर्वेभ्यः पूर्वजौ स्मृतौ ॥ २.५.३ ॥

सौत्येऽहन्यतिरा त्रस्य कश्यपस्याश्वमेधिकाः ।
हिरण्यकशिपुर्नाम प्रथितं पृथगासनम् ॥ २.५.४ ॥

दित्या गर्भाद्विनिः सृत्य तत्रासीनः समन्ततः ।
हिरण्य कशिपुस्तस्मात्कर्मणा तेन स समृतः ॥ २.५.५ ॥

ऋषय ऊचुः
हिरण्यकशिपोर्जन्म नाम चैव महात्मनः ।
प्रभावं चैव दैत्यस्य विस्ताराद्ब्रूहि नः प्रभो ॥ २.५.६ ॥

कश्यपस्याश्वमेधोऽभूत्पुण्ये वै पुष्करे तदा ।
ऋषिभिदेंवताभिश्च गन्धर्वैरुपशोभितः ॥ २.५.७ ॥

उत्सृष्टे स्वे च विधिना आख्यानादौ यथाविधि ।
आसनान्युपकॢप्तानि सौवर्णानि तु पञ्च वै ॥ २.५.८ ॥

कुलस्पदापि? त्रीण्यत्र कूर्चः फलकमेव च ।
मुख्यर्त्विजस्तु चत्वारस्तेषां तान्युपकल्पयन् ॥ २.५.९ ॥

कॢप्त तत्रासनं चैकं होतुरर्थे हिरण्यम् ।
निषसाद सगर्भोऽत्र तत्रासीनः शशंस च ॥ २.५.१० ॥

आख्यानमानुपूर्व्येण महर्षिः कश्यपो यथा ।
तं दृष्ट्वा ऋषयस्तस्य नाम कुर्वन्ति वर्द्धितम् ॥ २.५.११ ॥

हिरण्यकशिपुस्तस्मात्कर्मणा तेन स स्मृतः ।
हिरण्यक्षोऽनुजस्तस्य सिंहिका तस्य चानुजा ॥ २.५.१२ ॥

राहोः सा जननी देवी विप्र चित्तेः परिग्रहः ।
हिरण्यकशिपुर्दैत्यश्चचार परमं तपः ॥ २.५.१३ ॥

शतं वर्षसहस्राणां निराहारो ह्यधःशिराः ।
वरयामास ब्रह्माणं तुष्टं दैत्यो वरेण तु ॥ २.५.१४ ॥

सर्वामरत्वमवधं सर्वभूतेभ्य एव हि ।
योगद्देवान् विनिर्जित्य सर्वदेवत्वमास्थितः ॥ २.५.१५ ॥

कारयेऽहमिहैश्वर्यं बलवीर्यसमन्वितः ।
दानवास्त्वसुराश्चैव देवाश्च सह चारणैः ॥ २.५.१६ ॥

भवन्तु वशगाः सर्वे मत्समीपानुभोजनाः ।
आर्द्रशुष्कैरवध्यश्च दिवा रात्रौ तथैव च ।
एवमुक्तस्तदा ब्रह्मानुजज्ञे सान्तरं वरम् ॥ २.५.१७ ॥

ब्रह्मोवाच ।
महानयं वरस्तात वृतो दितिसुत त्वया ।
एही दानीं प्रतिज्ञानं भविष्यत्येवमेव तु ॥ २.५.१८ ॥

दत्त्वा चाभिमतं तस्मै तत्रेवान्तरधादथ ।
सोऽपि दैत्यस्तदा सर्वं जगत्स्थावरजङ्गमम् ॥ २.५.१९ ॥

महिम्ना व्याप्य सन्तस्थे बहुमूर्त्तिरमित्रजित् ।
स एव तपति व्योम्नि चन्द्रसूर्यत्वमास्थितः ॥ २.५.२० ॥

स एव वायुर्भूत्वा च ववौ जगति सर्वदा ।
स गोपालोऽविपालश्च कर्षकश्च स एव ह ॥ २.५.२१ ॥

स ज्ञाता सर्वलोकेषु मन्त्रव्याख्याकरस्तथा ।
नेता गोप्ता गोपयिता दीक्षितो याजकः स तु ॥ २.५.२२ ॥

तस्य देवाः सुराः सर्वे तदासन्सोमपायिनः ।
एवम्प्रभावो दैत्योऽसावतो भूयो निबोधत ॥ २.५.२३ ॥

तस्मै सर्वे नमस्कारं कुर्वन्तीज्यः स एव च ।
हिरण्यकशिपोर्दैत्यैः श्लोको गीतः पुरा त्विह ॥ २.५.२४ ॥

हिरण्यकशिपू राजा यां यामाशां निरैक्षत ।
तस्यै तस्यै तदा देवा नमश्चक्रुर्महर्षिभिः ॥ २.५.२५ ॥

तस्यासीन्नरसिंहस्तु मृत्युर्विष्णुः पुरा किल ।
नरात्तु यस्माज्जन्मास्य नरमूर्त्तिश्च यत्प्रभुः ॥ २.५.२६ ॥

तस्मात्स नरसिंहो वै गीयते वेदवादिभिः ।
सागरस्य च वेलायामुच्छ्रित स्तपसो विभुः ॥ २.५.२७ ॥

शरीरं तस्य देवस्य ह्यासीद्देवमयं प्रभो ।
नाम्ना सुदर्शनं चैव विश्रुतश्च महाबलः ॥ २.५.२८ ॥

ततः स बाहुयुद्धेन दैत्येन्द्रं तं महाबलम् ।
नखैर्बिभद सङ्क्रुद्धो नार्द्राः शुष्का नखा इति ॥ २.५.२९ ॥

हिरण्याक्षसुताः पञ्च विक्रान्ताः सुमहाबलाः ।
शम्बरः शकुनिश्चैव कालनाभस्तथैव च ॥ २.५.३० ॥

महानाभः सुविक्रान्तो सुत सन्तापनस्तथा ।
हिरण्यक्षसुता ह्येते देवैरपि दुरासदाः ॥ २.५.३१ ॥

तेषां पुत्राश्च पौत्राश्च दैतेयाः सगणाः स्मृताः ।
स शतानि सहस्राणि निहतास्तारकामये ॥ २.५.३२ ॥

हिरण्यकशिपोः पुत्राश्चत्वारः सुमहाबलाः ।
प्रह्लादः पूर्वजस्तेषामनुह्ना दस्तथापरः ॥ २.५.३३ ॥

संह्रादश्चैव ह्रादश्च ह्रादपुत्रौ निबोधत ।
सुन्दो निसुन्दश्च तथा ह्रादपुतौ बभूवतुः ॥ २.५.३४ ॥

ब्रह्यघ्नौ तौ महावीरौ मूकस्तु ह्राददायकः ।
मारीचः सुन्दपुत्रस्तु ताडकायामजायत ॥ २.५.३५ ॥

दण्डके निहतः सोऽथ राघवेण बलीयसा ।
मूको विनिहतश्चापि कैराते सव्यसाचिना ॥ २.५.३६ ॥

संह्रादस्य तु दैत्यस्य निवातकवचाः कुले ।
उत्पन्ना महता चैव तपसा भाविताः स्वयम् ॥ २.५.३७ ॥

अरयो देवतानां ते जम्भस्य शतदुन्दुभिः ।
तथा दक्षो सुरश्चण्डश्चत्वारो देत्यनायकाः ॥ २.५.३८ ॥

बाष्कलस्य सुता ह्येते काल नेमेः सुताञ्छृणु ।
ब्रह्मजित्क्रतुजिच्चैव देवान्तकनरान्तकौ ॥ २.५.३९ ॥

कालनेमिसुता ह्येते शभोस्तु शृणुत प्रजाः ।
राजाजश्चैव गोमश्च शम्भोः पुत्रौ प्रकीर्त्तितौ ॥ २.५.४० ॥

विरोजनस्य पुत्रश्च बलिरेकः प्रतापवान् ।
बलेः पुत्रशतं जज्ञे राजानः सर्व एव ते ॥ २.५.४१ ॥

तेषां प्रधानाश्चत्वारो विक्रान्ताः सुमहाबलाः ।
सहस्रबाहुः श्रेष्ठोऽभूद्बाणो राजा प्रतापवान् ॥ २.५.४२ ॥

कुम्भगर्त्तो दयो भोजः कुञ्चिरित्येवमा दयः ।
शकुनी पूतना चैव कन्ये द्वे तु बलेः स्मृते ॥ २.५.४३ ॥

बलेः पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।
बालेया नाम विख्याता गणा विक्रान्तपौरुषाः ॥ २.५.४४ ॥

बाणस्य चैन्द्रधन्वा तु लोहिन्यामुदपद्यत ।
दितिर्विहितपुत्रा वै तोषयामास कश्यपम् ॥ २.५.४५ ॥

तां कश्यपः प्रसन्नात्मा सम्यगाराधितस्त्वथ ।
वरेण छन्दयामास सा च वव्रे वरं तत ॥ २.५.४६ ॥

अथ तस्यै वरं प्रादात्प्रार्थितो भगवान्पुनः ।
उक्ते वरे तु मा तुष्टा दितिस्तं समभाषत ॥ २.५.४७ ॥

मारीचं कण्यपं देवी भर्त्तारं प्राञ्जलिस्तदा ।
हतपुत्रास्मि भगवन्नादित्यैस्तव सूनुभिः ॥ २.५.४८ ॥

शक्रहन्तारमिच्छमि पुत्रं दीर्घतपोऽर्जितम् ।
साहं तपश्चरिष्यामि गर्भमाधातुमर्हसि ॥ २.५.४९ ॥

पुत्रमिन्द्रवधे युक्तं त्वं मै वै दातुमर्हसि ।
तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तदा ॥ २.५.५० ॥

प्रत्युवाच महातेजा दितिं परमदुः खितः ।
एवं भवतु गर्भे तु शुचिर्भव तपोधने ॥ २.५.५१ ॥

जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे ।
पूर्णं वर्षसहस्रं तु शुचिर्यदि भविष्यसि ॥ २.५.५२ ॥

पुत्रं त्रिलोकप्रवरं मन्मथं जनयिष्यसि ।
एवमुक्त्वा महातेजास्तथा समभावत्तदा ॥ २.५.५३ ॥

तामालभ्य स्वभवनं जगाम भगवानृषिः ।
गते भर्त्तरि सा देवी दितिः परमहर्षिता ॥ २.५.५४ ॥

कुशप्लवनमासाद्य तपस्तेपे सुदारुणम् ।
शक्रस्तु समुपश्रुत्य संवादं तं तयोः प्रभुः ॥ २.५.५५ ॥

कुशप्लवनमागम्य दितिं वाक्यमभाषत ।
शुश्रूषां ते करिष्यामि मानुज्ञां दातुमर्हसि ॥ २.५.५६ ॥

समिधश्चाहरिष्यामि पुष्पाणि च फलानि च ।
यथा त्वं मन्यसे वत्स सुश्रूषाभिरतो भव ॥ २.५.५७ ॥

सर्वकर्मसु निष्णात आत्मनो हितमाचर ।
वरं श्रुत्वा तु त द्वाक्यं मातुः शक्रः प्रहर्षितः ॥ २.५.५८ ॥

शुश्रूषाभिरतो भूत्वा कलुषेणान्तरात्मना ।
शुश्रूषते तु तां शक्रः सर्वकालमनुव्रतः ॥ २.५.५९ ॥

फलपुष्पाण्युपादाय समिधश्च दृढव्रतः ।
गात्रसंवाहनं काले श्रमापनयने तथा ॥ २.५.६० ॥

शक्रः सर्वेषु कालेषु दितिं परिचचार ह ।
किञ्चिच्छिष्टे व्रते देवी तुष्टा शक्रमुवाच ह ॥ २.५.६१ ॥

प्रतीताहं ते सुरश्रेष्ठ दशवर्षाणि पुत्रक ।
अवशिष्ठानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ॥ २.५.६२ ॥

तमहं त्वत्कृते पुत्र सह धास्ये जयैषिणम् ।
त्रैलोक्यविजयं पुत्र भोक्ष्यसे सह तेन वै ॥ २.५.६३ ॥

नाहं पुत्राभिजानामि मद्भक्तिगतमानसम् ।
एवमुक्त्वा दितिः शक्रं मध्यं प्राप्ते दिवाकरे ॥ २.५.६४ ॥

निद्रयापहृता दवी शिरः कृत्वा तु जानुनि ।
केशान्कृत्वा तु पादस्थान्सा सुष्वाप च देवता ॥ २.५.६५ ॥

अधस्ताद्यत्तु नाभेर्वै सर्वं तदशुचि स्मृतम् ।
ततस्तामशुचिं ज्ञात्वा सोन्तरं तदमन्यत ॥ २.५.६६ ॥

दृष्ट्वा तु कारणं सर्वं तस्य बुद्धिरजायत ।
गर्भं निहन्तु वै देव्या स हि दोषोऽत्र दृश्यते ॥ २.५.६७ ॥

ततो विवेश दित्या वै ह्युपस्थेनोदरं वृषा ।
प्रविश्य चापि तं दृष्ट्वा गभमिन्द्रो महौजसम् ॥ २.५.६८ ॥

भीतस्तं सप्तधा गभ बिभेद रिपुमात्मनः ।
म गर्भो भिद्यमानस्तु वज्रणशतपर्वणा ॥ २.५.६९ ॥

रुरोद सुस्वरं भीमं वेपमानः पुनः पुनः ।
मारोद मारोद इति गर्भं शक्रोऽभ्यभाषत ॥ २.५.७० ॥

तं गर्भं सप्तधा कृत्वा ह्येकैकं सप्तधा पुनः ।
कुलिशेन बिभेदेन्द्रस्ततो दितिरबुध्यता ॥ २.५.७१ ॥

न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् ।
निष्पपात ततो वज्री मातुर्वचनगौरवात् ॥ २.५.७२ ॥

प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत ।
अशुचिर्देवि सुप्तासि पादयोर्गतमूर्द्धजा ॥ २.५.७३ ॥

तदं तरमनुप्राप्य गर्भं हेतारमाहवे ।
भिन्नवानहमेतं ते बहुधा क्षन्तुमर्हसि ॥ २.५.७४ ॥

तस्मिंस्तु विफले गर्भे दितिः परमदुःखिता ।
सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत् ॥ २.५.७५ ॥

ममापराधाद्गर्भोऽयं यदि ते विफलीकृतः ।
नापराधोऽस्ति देवेश तव पुत्र महाबल ॥ २.५.७६ ॥

शत्रोर्वधे न दोषोऽस्ति भेतव्यं न च ते विभो ।
प्रियं तु कृतमिच्छामि श्रेयो गर्भस्य मे कुतः ॥ २.५.७७ ॥

भवन्तु मम पुत्राणां सप्त स्थानानि वै दिवि ।
वातस्कन्धानिमान्सप्त चरन्तु मम पुत्रकाः ॥ २.५.७८ ॥

मरुतस्ते तु विख्याता गतास्ते सप्तसप्तकाः ।
पृथिव्यां प्रथमस्कन्धो द्वितीयश्चापि भास्करे ॥ २.५.७९ ॥

सोमे तृतीयो विज्ञेयश्चतुर्थो ज्योतिषां गणे ।
ग्रहेषु पञ्चमश्चैव षष्ठः सप्तर्षिमण्डले ॥ २.५.८० ॥

ध्रुवे तु सप्तमश्चैव वातस्कन्धाश्च सप्त ये ।
तानेते विचरन्त्वद्य कालेकाले ममात्मजाः ॥ २.५.८१ ॥

वातस्कन्धाधिपा भूत्वा चरन्तु मम पुत्रकाः ।
पृथिव्यां प्रथमस्कन्ध आ मेघेभ्यो य आवहः ॥ २.५.८२ ॥

चरन्तु मम पुत्रास्ते सप्त ये प्रथमे गणे ।
द्वितीयश्चापि मेघेभ्य आसूर्यात्प्रवहस्ततः ॥ २.५.८३ ॥

वातस्कन्धो हि विज्ञेयो द्वितीयश्चरतां गणः ।
सूर्यादूर्ध्वमधः सोमादुद्वहोऽथ स वै स्मृतः ॥ २.५.८४ ॥

वातस्कन्धस्तृतीयश्च पुत्राणां चरता गणः ।
सोमादूर्द्ध्वमधर्क्षेभ्यश्चतुर्थ संवहस्तु सः ॥ २.५.८५ ॥

चतुर्थो मम पुत्राणां गणस्तु चरतां विभो ।
ऋक्षेभ्यश्च तथैवोर्द्ध्वमा ग्रहाद्विवहस्तु यः ॥ २.५.८६ ॥

वातस्कन्धः पञ्चमस्तु पुत्राणां चरतां गणः ।
ग्रहेभ्य ऊर्द्ध्वमार्षिभ्यः षष्ठो ह्यनुवहश्च यः ॥ २.५.८७ ॥

वातस्कन्धस्तत्र मम पुराणां चरता गणः ।
ऋषिभ्य ऊर्द्ध्वमाध्रौवं सप्तमो यः प्रकीर्त्तितः ॥ २.५.८८ ॥

वातस्कन्धः परिवहस्तत्र तिष्ठन्तु मे सुताः ।
एतान्सर्वाश्चरन्त्वन्ते कालेकाले ममात्मजाः ॥ २.५.८९ ॥

त्वत्कृतेन च नाम्ना वै भवतु मरुतस्त्विमे ।
ततस्तेषां तु नामानि मत्पुत्राणां शतक्रतो ॥ २.५.९० ॥

तद्विधैः कर्मभिश्चैव समवेहि पृथक्पृथक् ।
शक्रज्योतिस्तथा सत्यः सत्यज्योतिस्तथापरः ॥ २.५.९१ ॥

चित्रज्योतिश्च ज्योतिष्मान् सुतपश्चैत्य एव च ।
प्रथमोऽयं गणः प्रोक्तो द्वितीयं तु निबोधत ॥ २.५.९२ ॥

ऋतजित्सत्यजिश्चैव सुषेणः सेनजित्तथा ।
सुतमित्रो ह्यमित्रश्च सुरमित्रस्तथापरः ॥ २.५.९३ ॥

गण एष द्वितीयस्तु तृतीयं च निबोधत ।
धातुश्च धनदश्चैव ह्युग्रो भीमस्तथैव च ॥ २.५.९४ ॥

वरुणश्च तृतीयं च मया प्रोक्तं निबोधत ।
अभियुक्ताक्षिकश्चैव साह्वायश्च गणः स्मृतः ॥ २.५.९५ ॥

ईदृक्चैव तथान्यादृक्समरिद्द्रुमवृचक्षकाः ।
मितश्च समितश्चैव पञ्चमश्च तथा गणः ॥ २.५.९६ ॥

ईदृक्च पुरुषश्चैव नान्यादृक्समचेतनः ।
सम्मितः समवृत्तिश्च प्रतिहर्ता च षड्गणाः ॥ २.५.९७ ॥

यज्ञैश्चित्वास्तुवन्सर्वे तथान्ये मानुषा विशः ।
दैत्यदेवाः समाख्याताः सप्तैते सप्तसप्तकाः ॥ २.५.९८ ॥

एते ह्येकोनपञ्चाशन्मरुतो नामतः स्मृताः ।
प्रसङ्ख्यातास्तदा ताभ्यां दित्या शक्रेण चैव वै ॥ २.५.९९ ॥

कृत्वा चैतानि नामानि दितिरिन्द्रमुवाच ह ।
वातस्कन्धांश्चरन्त्वेते भ्रतरो मम पुत्रकाः ॥ २.५.१०० ॥

विचरन्तु च भद्रं ते देवैः सह ममात्मजाः ।
तस्यास्तद्वचनं श्रुत्वा महस्राक्षः पुरन्दरः ॥ २.५.१०१ ॥

उवाच प्राञ्जलिर्भूत्वा मातर्भवतु तत्तथा ।
सर्व मेतद्यथोक्तं ते भविष्यति न संशयः ॥ २.५.१०२ ॥

एवम्भूता महात्मानः कुमारा लोकसम्मताः ।
देवैः सह भविष्यन्ति यज्ञभाजस्तवात्म जाः ॥ २.५.१०३ ॥

तस्मात्ते मरुतो देवाः सर्वे चेन्द्रानुजा वराः ।
विज्ञेयाश्चामराः सर्वे दितिपुत्रास्तरस्विनः ॥ २.५.१०४ ॥

एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने ।
जग्मतुस्त्रिदिवं त्दृष्टौ शक्रमाभूद्गतज्वरः ॥ २.५.१०५ ॥

मरुतां च शुभं जन्म शृणुयाद्यः पठेच्च वा ।
वादे विजयमाप्नोति लब्धात्मा च भवत्युत ॥ २.५.१०६ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे