विश्वास-प्रस्तुतिः
सूत उवाच
विनिवृत्ते प्रजासर्गे षष्ठे वै चाक्षुषस्य ह ।
प्रजाः सृजेति व्यदिष्टः स्वयं दक्षः स्वयम्भुवा ॥ २.२.१ ॥
मूलम्

ससर्ज सर्वभूतानि गतिमन्ति ध्रुवाणि च ।
मानसानि च भूतानि स पूर्वमसृजत्प्रभुः ॥ २.२.२ ॥

ऋषीन्देवांश्च गन्धर्वान्मनुष्योरगराक्षसान् ।
यक्षभूतपिशाचांश्च वयः पशुमृगांस्तथा ॥ २.२.३ ॥

यदास्य मनसा सृष्टा न व्यवर्द्धन्त ताः प्रजाः ।
अपध्याता भगवता महादेवेन धीमता ॥ २.२.४ ॥

स मैथुनेन भावेन सिसृक्षुर्विविधाः प्रजाः ।
असिक्रीमावहद्भार्यां वीरणस्य प्रजापतेः ॥ २.२.५ ॥

सुतां सुमहता युक्तां तपसा लोक धारिणीम् ।
यया धृतमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ २.२.६ ॥

अत्राप्युदाहरन्तीमौ श्लोकौ प्राचेतसां प्रति ।
दक्षस्योद्वहतो भार्याम्मसिक्रीं वैरणीं पुरा ॥ २.२.७ ॥

कृपानां नियुतं दक्षं सर्पिणां साभिमानिनाम् ।
नदीगिरिष्बसज्जन्तं पृष्ठतोऽनुययौ प्रभुम् ॥ २.२.८ ॥

तं दृष्ट्वा ऋषिभिः प्रोक्तं प्रतिष्ठास्यति वै प्रजाः ।
प्रथमोऽत्र द्वितीयस्तु दक्षः स हि प्रजापतिः ॥ २.२.९ ॥

अथागच्छद्यथाकालं प्रहीनां नियुतं तु यत् ।
असिक्रीं वैरणीं तत्र दक्षः प्राचेतसोऽवहत् ॥ २.२.१० ॥

अथ पुत्रसहस्रं स वैरण्याममितौजसम् ।
असिक्न्यां जनयामास दक्षः प्राचे तसः प्रभुः ॥ २.२.११ ॥

तांस्तु दृष्ट्वा महातेजाः स विवर्द्धयिषुः प्रजाः ।
देवर्षिप्रियसंवादो नारदो ब्रह्मणः सुतः ॥ २.२.१२ ॥

नाशाय वचनं तेषां शापयैवात्मनोऽब्रवीत् ।
यः कश्यपसुतस्याथ परमेष्ठी व्यजायत ॥ २.२.१३ ॥

मानसः कश्यपस्यासीद्दक्षशापवशात्पुनः ।
तस्मात्स काश्यपस्याथ द्वितीयो मानसोऽभवत् ॥ २.२.१४ ॥

स हि पूर्वं समुत्पन्नो नारदः परमेष्ठिनः ।
तेन वृक्षस्य पुत्रा वै हर्यश्वा इति विश्रुताः ॥ २.२.१५ ॥

धर्मार्थं नाशिताः सर्वे विधिना च न संशयः ।
तस्योद्यतस्तदा दक्षः क्रुद्धः शापाय वै प्रभुः ॥ २.२.१६ ॥

ब्रह्मर्षीन्वै पुरस्कृत्य याचितः परमेष्ठिना ।
ततोऽभिसन्धिं चक्रे वै दक्षश्च परमेष्ठिना ॥ २.२.१७ ॥

कन्यायां नारदो मह्यं तव पुत्रो भवेदिति ।
ततो दक्षः सुतां प्रदात्प्रियां वै परमेष्ठिने ।
तस्मात्स नारदो जज्ञे भूयः शापभयदृषिः ॥ २.२.१८ ॥

शांशपायन उवाच
कथं वै नाशिताः पूर्वं नारदेन सुरर्षिणा ।
प्रजापतिसुतास्ते वै श्रोतुमिच्छामि तत्त्वतः ॥ २.२.१९ ॥

दक्षपुत्राश्च हर्यश्वा विवर्धयिषवः प्रजाः ।
समागता महावीर्या नारदस्तानुवाच ह ॥ २.२.२० ॥

बालिशा बत यूयं वै न प्रजानीथ भूतलम् ।
अन्तरूर्ध्वमधश्चैव कथं स्रक्ष्यथ वै प्रजाः ॥ २.२.२१ ॥

ते तु तद्वचन श्रुत्वा प्याताः सर्वतो दिशम् ।
अधापि म निवर्त्तन्ते समुद्रस्था इवापगाः ॥ २.२.२२ ॥

अथ तेषु प्रणष्टेषु दक्षः प्राचे तसः पुनः ।
वैरण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः ॥ २.२.२३ ॥

प्रजा विवर्द्धयिषवः शबलाश्वाः पुनस्तु ते ।
पूर्वमुक्तं वचस्तद्वै श्राविता नारदेन ह ॥ २.२.२४ ॥

अन्योन्यमूचुस्ते सर्वे सम्यगाह ऋषिः स्वयम् ।
भ्रातॄणां पदवीं चैव गन्तव्या नात्र संशयः ॥ २.२.२५ ॥

ज्ञात्वा प्रमाणं पृथ्व्या वै सुखं स्रक्ष्यामहे प्रजाः ।
प्रकाशाः स्वस्थमनसा यथावदनुशासिताः ॥ २.२.२६ ॥

तेऽपि तेनैव मार्गेण प्रयाताः सर्वतो दिशम् ।
अद्यापि न निवर्त्तन्ते विस्तारायमलिप्सवः ॥ २.२.२७ ॥

ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे रतः ।
प्रयतो नश्यति क्षिप्रं तन्न कार्यं विजानता ॥ २.२.२८ ॥

नष्टेषु शबलाश्वेषु दक्षः क्रुद्धोऽशपद्विभुः ।
नारदं नाशमेहीति गर्भवासं वसेति च ॥ २.२.२९ ॥

तदा तेष्वपि नष्टेषु महात्मा स प्रभुः किल ।
षष्टिं दक्षोऽसृजत्कन्या वैरण्यामेव विश्रुताः ॥ २.२.३० ॥

तास्तदा प्रतिजग्राह पत्न्यर्थं कश्यपः सुताः ।
धर्मः सोमश्च भगवांस्तथा चान्ये महर्षयः ॥ २.२.३१ ॥

इमां विसृष्टिं दक्षस्य कृत्स्नां यो वेद तत्त्वतः ।
आयुष्मान्कीर्त्तिमान्धन्यः प्रजावाश्च भवत्युत ॥ २.२.३२ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे प्रजापतिवंशानुकीर्त्तनं नाम द्वितीयोऽध्यायः