०३८

विश्वास-प्रस्तुतिः

सूत उवाच ॥
सप्तम त्वथ पर्याये मनोर्वैवस्वतस्य ह ॥
मारीचात्कश्यपाद्देवा जज्ञिरे परमर्षयः ॥ ३८.१ ॥

मूलम्

आदित्या वसवी रुद्राः साध्या विश्वे मरुद्गणाः ॥
भृगवोंऽगिरसश्चैव तेऽष्ठौ देवगणाः स्मृताः ॥ ३८.२ ॥

आदित्या मरुतो रुद्रा विज्ञेयाः कश्यपात्मजाः ॥
साध्याश्य वसवो विश्वे धर्मपुत्रास्त्रयो गणाः ॥ ३८.३ ॥

भृगोस्तु भृगवो देवा ह्यङ्गिरसोंऽगिरः सुताः ॥
वैवस्वतेंऽतरे ह्यस्मिन्नित्ये ते छन्दजा मताः ॥ ३८.४ ॥

एतेऽपि च गमिष्यन्ति महान्तं कालपर्ययात् ॥
एवं सर्गस्तु मारीचो विज्ञेयः साम्प्रतः शुभः ॥ ३८.५ ॥

तेजस्वी साम्प्रतस्तेषामिन्द्रो नाम्ना महाबलः ॥
अतीतानागता ये च वर्त्तन्ते साम्प्रतं च ये ॥ ३८.६ ॥

सर्वे मन्वन्तरेन्द्रास्ते विज्ञेयास्तुल्यलक्षणाः ॥
भूतभव्यभवन्नाथाः सहस्राक्षाः पुरन्दराः ॥ ३८.७ ॥

सघवन्तश्चते सर्वे श्रृङ्गिणो वज्रपाणयः ॥
सर्वैः क्रतुशतेनेष्टं पृथक्छतगुणेन तु ॥ ३८.८ ॥

त्रैलोक्ये यानि सत्त्वानि गतिमन्ति ध्रुवाणि च ॥
अभिभूयावतिष्ठन्ति धर्माद्यैः कारणैरपि ॥ ३८.९ ॥

तेजसा तपसा बुद्ध्या बलश्रुतपराक्रमैः ॥
भूतभव्यभवन्नाथा यथा ते प्रभविष्णवः ॥ ३८.१० ॥

एतत्सर्वं प्रवक्ष्यामि ब्रुवतो मे निबोधत ॥
भूतभव्यभवद्ध्येत त्समृतं लोकत्रयं द्विजैः ॥ ३८.११ ॥

भूर्लोकोऽयं स्मृतो भूतमन्तरिक्षं भवत्स्मृतम् ॥
भव्यं स्मृतं दिवं ह्येतत्तेषां वक्ष्यामि साधनम् ॥ ३८.१२ ॥

ध्यायता लोकनामानि ब्रह्मणाऽग्रे विभाषितम् ॥
भूरिति व्याहृतं पूर्वं भूर्लोकोऽयमभूत्तदा ॥ ३८.१३ ॥

भू सत्तायां स्मृतो धातुस्तथाऽसौ लोकदर्शने ॥
भूतत्वाद्दर्शनाच्चैव भूर्लोकोऽयमभूत्ततः ॥ ३८.१४ ॥

अतोऽयं प्रथमो लोको भूतत्वाद्भूर्द्वजैः स्मृतः ॥
भूतेऽस्मिन्भवदित्युक्तं द्वितीयं ब्रह्मणा पुनः ॥ ३८.१५ ॥

भवदित्यत्पद्यमाने काले शब्दोऽयमुच्यते ॥
भवनात्तु भुवल्लोको निरुत्तया हि निरुच्यते ॥ ३८.१६ ॥

अन्तरिक्षं भवत्तस्माद्द्वितीयो लोक उच्यते ॥
उत्पन्ने तु तथा लोके द्वितीये ब्रह्मणा पुनः ॥ ३८.१७ ॥

भव्येति व्याहृतं पश्चाद्भव्यो लोकस्ततोऽभवत् ॥
अनागते भव्य इत शब्द एष विभाव्यते ॥ ३८.१८ ॥

तस्माद्भव्यो ह्यसौ लोको नामतस्त्रिदिवं स्मृतम् ॥
भूरितीयं स्मृता भूमिरन्तरिक्षं भुवः स्मृतम् ॥ ३८.१९ ॥

दिवं स्मृतं तथा भव्यं त्रलोक्यस्यैष निर्णयः ॥
त्रैलोक्ययुक्तैर्व्याहारैस्तिस्रो व्याहृतयोऽभवन् ॥ ३८.२० ॥

नाथ इत्येष धातुर्वै धातुज्ञैः पालने स्मृतः ॥
यस्माद्भूतस्य लोकस्य भव्यस्य भवतस्तथा ॥ ३८.२१ ॥

लोकत्रयस्य नाथास्ते तस्मादिन्द्राद्विजैः स्मृताः ॥
प्रधानभूता देवेन्द्रा गुणभूतास्तथैव च ॥ ३८.२२ ॥

मन्वन्तरेषु ये देवा यज्ञभाजो भवन्ति हि ॥
यज्ञगन्धर्वरक्षांसि पिशाचो रगमानुषाः ॥ ३८.२३ ॥

महिमानः स्मृता ह्येते देवेन्द्राणां तु सर्वशः ॥
देवेन्द्रा गुरवो नाथा राजानः पितरो हि ते ॥ ३८.२४ ॥

रक्षन्तीमाः प्रजा ह्येते धर्मेणेह सुरोत्तमाः ॥
इत्येतल्लक्षणं प्रोक्तं देवेन्द्राणां समासतः ॥ ३८.२५ ॥

सप्तर्षीन्सम्प्रवक्ष्यामि साम्प्रतं ये दिवं श्रिताः ॥
गाधिजः कौशिको धीमान्विश्वामित्रो महातपाः ॥ ३८.२६ ॥

भार्गवो जमदग्निश्च ह्यौर्वपुत्रः प्रतापवान् ॥
बृहस्पतिसुतश्चापि भरद्वाजो महा यशाः ॥ ३८.२७ ॥

औतथ्यो गौतमो विद्वाञ्शरद्वान्नाम धार्मिकः ॥
स्वायम्भुवोऽत्रिर्भगवान्ब्रह्मकोशः सपञ्चमः ॥ ३८.२८ ॥

षष्ठो वसिष्ठपुत्रस्तु वसुमाँल्लोकविश्रुतः ॥
वत्सरः काश्यपश्यैव सप्तैते साधुसम्मताः ॥ ३८.२९ ॥

एते सप्तर्षयश्योक्ता वर्त्तन्ते साम्प्रतेंऽतरे ॥
इक्ष्वाकुश्च नृगश्चैव धृष्टः शर्यातिरेब च ॥ ३८.३० ॥

नरिष्यन्तश्चविख्यातो नाभागो दिष्ट एव च ॥
करूषश्च पृषध्रश्च पांशुश्चनवमः स्मृतः ॥ ३८.३१ ॥

मनोर्वैवस्वतस्यैते नव पुत्राः सुधार्मिकाः ॥
कीर्तिता वै तथा ह्येते सप्तमं चैतदन्तरम् ॥ ३८.३२ ॥

इत्येष ह मया पादो द्वितीयः कथितोद्विजाः ॥
विस्तरेणानुपूर्व्या च भूयः किं कथयाम्यहम् ॥ ३८.३३ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे
मन्वन्तरवर्णनं नामाष्टात्रिंशत्तमोऽध्यायः ॥ ३८ ॥

॥ समाप्तोऽयं ब्रह्माण्डमहापुराणपूर्वभागः ॥