०३७

विश्वास-प्रस्तुतिः

सूत उवाच ॥
आसीदिह समुद्रान्ता वसुधेति यथा श्रुतम् ॥
वसु धत्ते यतस्तस्माद्वसुधा सेति गीयते ॥ ३७.१ ॥

मूलम्

मधुकैटभयोः पूर्वं मेदसा सम्परिप्लुता ॥
तेनेयं मेदिनीत्युक्ता निरुक्त्या ब्रह्मवादिभिः ॥ ३७.२ ॥

ततोऽभ्युपगमाद्राज्ञः पृथोर्वैन्यस्य धीमतः ॥
दुहितृत्वमनुप्राप्ता पृथिवी पठ्यते ततः ॥ ३७.३ ॥

पृथुना प्रविभागश्चधरायाः साधितः पुरा ॥
तस्याकरवती राज्ञः पत्तनाकरमालिनी ॥ ३७.४ ॥

चातुर्वर्णमयसमाकीर्णा रक्षिता तेन धीमता ॥
एवम्प्रभावोराजाऽसीद्वैन्यः सद्विजसत्तमाः ॥ ३७.५ ॥

नमस्यश्चैव पूच्यश्च भूतग्रामेण सर्वशः ॥
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः ॥ ३७.६ ॥

पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ॥
पार्थिवैश्च महाभागैः प्रार्थयद्भिर्महद्यशः ॥ ३७.७ ॥

आदिराजो नमस्कार्यः पृथुर्वैन्यः प्रतापवान् ॥
योधैरपि च सङ्ग्रामे प्राप्तुकामैर्जयं युधि ॥ ३७.८ ॥

आदिकर्त्तारणानां वै नमस्यः पृथुरेव हि ॥
यो हि योद्धा रणं याति कीर्त्तयित्वा पृथुं नृपम् ॥ ३७.९ ॥

स घोररूपात्सङ्ग्रामात्क्षेमी तरति कीर्त्तिमान् ॥
वैश्यैरपि च राजर्षिर्वेश्यवृत्तिमिहास्थितैः ॥ ३७.१० ॥

पृथुरेव नमस्कार्यो वृत्तिदानान्महायशाः ॥
एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च ॥ ३७.११ ॥

पात्राणि च मयोक्तानि सर्वाण्येव यथाक्रमम् ॥
ब्रह्मणा प्रथमं दुग्धा पुरा पृथ्वी महात्मना ॥ ३७.१२ ॥

वायुं कृत्वा तथा वत्सं बीजानि वसुधातले ॥
ततः स्वायम्भुवे पूर्वं तदा मन्वन्तरे पुनः ॥ ३७.१३ ॥

वत्सं स्वायम्भुवं कृत्वा सर्वसस्यानि चैव हि ॥
ततः स्वारोचिषे वापि प्राप्ते मन्वन्तरेऽधुना ॥ ३७.१४ ॥

वत्सं स्वारोचिषं कृत्वा दुग्धा सस्यानि मेदिनी ॥
उत्तमेन तु तेनापि दुग्धा देवानु जेन तु ॥ ३७.१५ ॥

मनुं कृत्वोत्तमं वत्सं सर्वसस्यानि धीमता ॥
पुनश्च पञ्चमे पृथ्वी तामसस्यान्तरे मनोः ॥ ३७.१६ ॥

दुग्धेयं तामसं वत्सं कृत्वा वै बलबन्धुना ॥
चारिष्टवस्य वै षष्ठे सम्प्राप्ते चान्तरे मनोः ॥ ३७.१७ ॥

दुग्धा मही पुराणेन वत्सं चारिष्टवं प्रति ॥
चाक्षुषे चापि सम्प्राप्ते तदा मन्वन्तरे पुनः ॥ ३७.१८ ॥

दुग्धा मही पुराणेन वत्सं कृत्वा तु चाक्षुषम् ॥
चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वते पुनः ॥ ३७.१९ ॥

वैन्येनेयं पुरा दुग्धा यथा ते कथितं मया ॥
एतैर्दुग्धा पुरा पृथ्वी व्यतीतेष्वन्तरेषु वै ॥ ३७.२० ॥

देवादिभिर्मनुष्यैश्च ततो भूतादिभिश्च ह ॥
एवं सर्वेषु विज्ञेया अतीतानागतेष्विह ॥ ३७.२१ ॥

देवा मन्वन्तरे स्वस्थाः पृथोस्तु श्रृणुत प्रजाः ॥
पृथोस्तु पुत्रौ विक्रान्तौ जज्ञातेऽन्तर्द्धिपाषनौ ॥ ३७.२२ ॥

शिखण्डिनी हविर्धानमन्तर्द्धानाव्द्यजायत ॥
हविर्धानात्षडाग्नेयी धिषणाजनयत्सुतान् ॥ ३७.२३ ॥

प्राचीनबर्हिषं शुक्लं गयं कृष्णं प्रजाचिनौ ॥
प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः ॥ ३७.२४ ॥

बलश्रुततपोवीर्यैः पृथिव्यामेकराडसौ ॥
प्राचीनाग्राः कुशास्तस्य तस्मात्प्राचीनबर्ह्यसौ ॥ ३७.२५ ॥

समुद्रतनयायां तु कृतदारः स वै प्रभुः
महतस्तपसः पारे सवर्णायां प्रजापतिः ॥ ३७.२६ ॥

सवर्णाऽधत्त सामुद्री दश प्राचीनबर्हिषः ॥
सर्वान्प्रचेतसो नाम धनुर्वेदस्य पारगान् ॥ ३७.२७ ॥

अपृथग्धर्मचरणास्तेऽतप्यन्त महात्तपः ॥
दशवर्ष सहस्राणि समुद्रसलिलेशयाः ॥ ३७.२८ ॥

तपश्चतेषु पृथिवीं तप्यत्स्वथ महीरुहाः ॥
अरक्ष्यमाणामावब्रुर्बभूवाथ प्रजाक्षयः ॥ ३७.२९ ॥

प्रत्याहृते तदा तस्मिञ्चाक्षुषस्यान्तरे मनोः ॥
नाशकन्मारुतो वातुं वृत्तं खमभवद्द्रुमैः ॥ ३७.३० ॥

दशवर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥
तदुपश्रुत्य तपसा सर्वे युक्ताः प्रचेतसः ॥ ३७.३१ ॥

मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः ॥
उन्मूलानथ वृक्षांस्तान्कृत्वा वायुरशोषयत् ॥ ३७.३२ ॥

तानग्निरदहद्धोर एवमासीद्दुमक्षयः ॥
द्रुमक्षयमथो बुद्ध्वा किञ्चिच्छिष्टेषु शाखिषु ॥ ३७.३३ ॥

उपगम्याब्रवी देतान्राजा सोमः प्रचेतसः ॥
दृष्ट्वा प्रयोजनं सत्यं लोकसन्तानकारणात् ॥ ३७.३४ ॥

कोपं त्यजत राजानः सर्वे प्राचीनबर्हिषः ॥
वृक्षाः क्षित्यां जनिष्यन्ति शाम्यतामग्निमारुतौ ॥ ३७.३५ ॥

रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनीः ॥
भविष्यज्जनता ह्येषा धृता गर्भेण वै मया ॥ ३७.३६ ॥

मारिषा नाम नाम्नैषा वृक्षैरेव विनिर्मिता ॥
भार्या भवतु वो ह्येषा सोमगर्भा विवर्द्धिता ॥ ३७.३७ ॥

युष्माकं तेजसाऽर्द्धेन मम चार्धेन तेजसा ॥
अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः ॥ ३७.३८ ॥

स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै ॥
अग्निनाऽग्निसमो भूयः प्रजाः संवर्द्धयिष्यति ॥ ३७.३९ ॥

ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ॥
सन्त्दृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ॥ ३७.४० ॥

मारिषायां ततस्ते वै मनसा गर्भमादधुः ॥
दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ॥ ३७.४१ ॥

दक्षो जज्ञे महातेजाः सोमस्यांशेन वीर्यवान् ॥
असृजन्मनसा त्वादौ प्रजा दक्षोऽथ मैथुनात् ॥ ३७.४२ ॥

अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः ॥
विसृज्य मनसा दक्षः पश्चादसृजत स्त्रियः ॥ ३७.४३ ॥

ददौ स दश धर्माय कश्यपाय त्रयां दश ॥
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥ ३७.४४ ॥

एभ्यो दत्त्वा ततोऽन्या वै चतस्रोऽरिष्टनेमिने ॥
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा ॥ ३७.४५ ॥

कन्यामेकां कृशाश्वाय तेभ्योऽपत्यं बभूव ह ॥
अन्तरं चाक्षुषस्याथ मनोः षष्ठं तु गीयते ॥ ३७.४६ ॥

मनोर्वैवस्वतस्यापि सप्तमस्य प्रजापतेः ॥
वसुदेवाः खगा गावो नागा दितिजदानवाः ॥ ३७.४७ ॥

गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः ॥
ततः प्रभृति लोकेऽस्मिन्प्रजा मैथुनसम्भवाः ॥
सङ्कल्पाद्दर्शनात्स्पर्शात्पूर्वासां सृष्टिरुच्यते ॥ ३७.४८ ॥

ऋषिरुवाच ॥
देवानां दानवानां च देवर्षिणां च ते शुभः ॥
सम्भवः कथितः पूर्वं दक्षस्य च महात्मनः ॥ ३७.४९ ॥

प्राणात्प्रजापतेर्जन्म दक्षस्य कथितं त्वया ॥
कथं प्राचे तस्त्वं च पुनर्लेभे महातपाः ॥ ३७.५० ॥

एतं नः संशयं सूत व्याख्यातुं त्वमिहार्हसि ॥
दौहित्रश्चैव सोमस्य कथं श्र्वशुरतां गतः ॥ ३७.५१ ॥

उत्पत्तिश्च निरोधश्च नित्यं भूतेषु सत्तमाः ॥
ऋषयोऽत्र न सुह्यन्ति विद्यावन्तश्च ये जनाः ॥ ३७.५२ ॥

युगे युगे भवन्त्येते सर्वे दक्षादयो द्विजाः ॥
पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति ॥ ३७.५३ ॥

ज्यैष्ठ्यकानिष्ठ्यमप्येषां पूर्वमासीद्द्विजोत्तमाः ॥
तप एव गरीयोऽभूत्प्रभावश्चैव कारणम् ॥ ३७.५४ ॥

इमां विसृष्टिं यो वेद चाक्षुषस्य चराचरम् ॥
प्रजावानायुषस्तीर्णः स्वर्गलोके महीयते ॥ ३७.५५ ॥

एवं सर्गः समाख्यातश्चाक्षुषस्य समासतः ॥
इत्येते षट् निसर्गाश्च क्रान्ता मन्वन्तरात्मकाः ॥ ३७.५६ ॥

स्वायम्भुवाद्याः सङ्क्षेपाच्चाशुषान्ता यथाक्रमम् ॥
एते सर्गा यथा प्राज्ञैः प्रोक्ता ये द्विजसत्तमाः ॥ ३७.५७ ॥

वैवस्वतनिसर्गेण तेषां ज्ञेयस्तु विस्तरः ॥
अन्यूनानतिरिक्तास्ते सर्वे सर्गा विवस्वतः ॥ ३७.५८ ॥

आरोग्यायुः प्रमाणेभ्यो धर्मतः कामतोऽर्थतः ॥
एतानेव गुणानेति यः पठन्ननसूयकः ॥ ३७.५९ ॥

वैवस्वतस्य वक्ष्यामि साम्प्रतस्य महात्मनः ॥
समासव्यासतः सर्गं ब्रुवतो मे निबोधत ॥ ३७.६० ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे
चाक्षुषसर्गवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः ॥ ३७ ॥