विश्वास-प्रस्तुतिः
शांशपायन उवाच ॥
मन्वन्तराणि शेषाणि श्रोतुमिच्छाम्यनुक्रमात् ॥
मन्वन्तराधिपांश्चैव शक्रदेवपुरोगमान् ॥ ३६.१ ॥
मूलम्

सूत उवाच ॥
मन्वन्तराणि यानि स्युरतीतानागतानि ह ॥
समासा द्विस्तराच्चैव ब्रुवतो मे निबोधत ॥ ३६.२ ॥

स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा ॥
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ ३६.३ ॥

षडेते मनवोऽतीता वक्ष्याम्यष्टावनागतान् ॥
सावर्णिश्चैव रौच्यश्च भौत्यो वैवस्वतस्तथा ॥ ३६.४ ॥

वक्ष्याम्येतान्पुरस्तात्तु मनोर्वेवस्वतस्य च ॥
मनवः पञ्च येऽतीता मानसांस्तान्निबोधत ॥ ३६.५ ॥

मन्वन्तरं मया वोऽध्य क्रान्तं स्वायम्भुवस्य ह ॥
अत ऊर्ध्वं प्रवक्ष्यामि मनाः स्वारोचिषस्य ह ॥ ३६.६ ॥

प्रजासर्गं समासेन द्वितीयस्य महात्मनः ॥
आसन्वै तुषिता देवा मनोः स्वारोचिषेऽन्तरे ॥ ३६.७ ॥

पारावताश्च विद्वांसो द्वावेव तु गणौ स्मृतौ ॥
तुषितायां समुत्पन्नाः क्रतोः पुत्राः स्वरोचिषः ॥ ३६.८ ॥

पारावताश्च वासिष्ठा द्वादश द्वौ गणौ स्मृतौ ॥
छन्दजाश्च चतुर्विंशद्देवास्ते वै तदा स्मृताः ॥ ३६.९ ॥

दिवस्पर्शोऽथ जामित्रो गोपदो भासुरस्तथा ॥
अजश्च भगवाश्चैव द्रविणश्य महा बलः ॥ ३६.१० ॥

आयश्चापि महाबाहुर्महौजाश्चापि वीर्यवान् ॥
चिकित्वान्विश्रुतो यस्तु चांशो यश्चैव पठ्यते ॥ ३६.११ ॥

ऋतश्चद्वादशस्तेषां तुषिताः परिकीर्त्तिताः ॥
इत्येते क्रतुपुत्रास्तु तदाऽसन्सोमपायिनः ॥ ३६.१२ ॥

प्रचेताश्चैव यो देवो विश्वदेवस्तथैव च ॥
समञ्जो विश्रुतो यस्तु ह्यजिह्मश्चारिमर्द्दनः ॥ ३६.१३ ॥

आयुर्दानो महामानो दिव्यमानस्तथैव च ॥
अजेयश्च महाभागो यवीयांश्च महाबलः ॥ ३६.१४ ॥

होता यज्वा तथा ह्येते परिक्रान्ताः परावताः ॥
इत्येता देवता ह्यासन्मनोः स्वारोचिषान्तरे ॥ ३६.१५ ॥

सोमपास्तु तदा ह्येताश्चतुर्विशति देवताः ॥
तेषामिन्द्रस्तदा ह्यासीद्विपश्चिल्लोकविश्रुतः ॥ ३६.१६ ॥

ऊर्जा वसिष्ठपुत्रश्च स्तम्बः काश्यप एव च ॥
भार्गवश्च तधा प्राम ऋषभोंऽङ्गिरसस्तथा ॥ ३६.१७ ॥

पौलस्त्यश्चैव दत्तोऽत्रिरात्रेयो निश्चलस्तथा ॥
पौलहोऽथार्वरीवांश्च एते सप्तर्षयस्तथा ॥ ३६.१८ ॥

चैत्रः किम्पुरुष श्चैव कृतान्तो विभृतो रविः ॥
बृहदुक्थो नवः सेतुः श्रुतश्चेति नव स्मृताः ॥ ३६.१९ ॥

मनोः स्वारोचिषस्यैते पुत्रा वंशकराः प्रभो ॥
पुराणे परिसङ्ख्याता द्वितीयं वै तदन्तरम् ॥ ३६.२० ॥

सप्तर्षयो मनुर्देवाः पितरश्च चतुष्टयम् ॥
मूलं मन्वन्तरस्यैते तेषां चैवान्वयाः प्रजाः ॥ ३६.२१ ॥

ऋषीणां देवताः पुत्राः पितरो देवसूनवः ॥
ऋषयो देवपुत्राश्च इति शास्त्रे विनिश्चयः ॥ ३६.२२ ॥

मनोः क्षत्रं विशश्चैव सप्तर्षिभ्यो द्विजा तयः ॥
एतन्मन्वन्तरं प्रोक्तं समासाच्च न विस्तरात् ॥ ३६.२३ ॥

स्वायम्भुवे न विस्तारो ज्ञेयः स्वारोचिषस्य च ॥
न शक्यो विस्तरस्तस्य वक्तुं वर्षशतैरपि ॥ ३६.२४ ॥

पुनरुक्तबहुत्वात्तु प्रजानां वै कुलेकुले ॥
तृतीये त्वथ पर्याये उत्तमस्यान्तरे मनोः ॥ ३६.२५ ॥

पञ्च देवगणा प्रोक्तास्तान्वक्ष्यामि निबोधत ॥
सुधामानश्च ये देवा ये चान्ये वशवर्त्तिनः ॥ ३६.२६ ॥

प्रतर्दनाः शिवाः सत्यागणा द्वादशकाः स्मृताः ॥
सत्यो धृतिर्दमो दान्तः क्षमः क्षामो ध्वनिः शुचिः ॥ ३६.२७ ॥

इषोर्ज्जश्च तथा श्रेष्ठः सुपर्णो द्वादशस्तथा ॥
इत्येते द्वादश प्रोक्ताः सुधामानस्तु नामभिः ॥ ३६.२८ ॥

सहस्रधारो विश्वायुः समितारो वृहद्वसुः ॥
विश्वधा विश्वकर्मा च मानसस्तु विराजसः ॥ ३६.२९ ॥

ज्योतिश्चैव विभासश्च कीर्त्तिता वंशवर्तिनः ॥
अवध्योऽवरतिर्देवो वसुर्धिष्ण्यो विभावसुः ॥ ३६.३० ॥

वित्तः क्रतुः सुधर्मा च धृतधर्मा यशस्विजः ॥
रथोर्मिः केतुमाञ्छ्चैव कीर्त्तितास्तु प्रतर्दनाः ॥ ३६.३१ ॥

हंसस्वारौ वदान्यौ च प्रतर्दनयशस्करौ ॥
सुदानो वसुदानश्च सुमञ्जसविषावुभौ ॥ ३६.३२ ॥

यमो वह्नि र्यतिश्चैव सुचित्रः सुतपास्तथा ॥
शिवा ह्येते तु विज्ञेया यज्ञिया द्वादशापराः ॥ ३६.३३ ॥

सत्यानामपि नामानि निबोधत यथातथम् ॥
दिक्पतिर्वाक्पतिश्चैव विश्वः शम्भुस्तथैव च ॥ ३६.३४ ॥

स्वमृडीको दिविश्चैव वर्चोधामा बृहद्वपुः ॥
अश्वश्चैव सदश्वश्च क्षेमानन्दौ तथैव च ॥ ३६.३५ ॥

सत्या ह्येते परिक्रान्ता यज्ञिया द्वादशापराः ॥
इत्येता देवता ह्यासन्नौत्तमस्यान्तरे मनोः ॥ ३६.३६ ॥

तेषामिन्द्रस्तु देवानां सुशान्तिर्नाम विश्रुतः ॥
पुत्रास्त्तवङ्गिरसस्ते वै उत्तमस्य प्रजापतेः ॥ ३६.३७ ॥

वशिष्ठपुत्राः सप्तासन्वाशिष्ठा इति विश्रुताः ॥
सप्तर्षयस्तु ते सर्व उत्तमस्यान्तरे मनोः ॥ ३६.३८ ॥

आचश्च परशुश्चैव दिव्यो दिव्यौषधिर्नयः ॥
देवाम्वुजश्चाप्रतिमौ महोत्साहो गजस्तथा ॥ ३६.३९ ॥

विनीतश्च सुकेतुश्च सुमित्रः सुमतिः श्रुतिः ॥
उत्तमस्य मनोः पुत्रास्त्रयोदश महात्मनः ॥ ३६.४० ॥

एते क्षत्रप्रणेतारस्तृतीयं चैतदन्तरम् ॥
औत्तमः परिसङ्ख्यातः सर्गः स्वारोचिषेण तु ॥ ३६.४१ ॥

विस्तरेणानुपूर्व्या च तामसस्य निबोधत ॥
चतुर्थे त्वथ पर्याये तामसस्यातरे मनोः ॥ ३६.४२ ॥

सत्याः सुरूपाः सुधियो हरयश्च गणाः स्मृताः ॥
पुलस्त्यपुत्रास्ते देवास्तामसस्यान्तरे मनोः ॥ ३६.४३ ॥

गणस्तु तेषां देवानामेकैकः पञ्चविंशकः ॥
इन्द्रियाणां प्रतीयेत ऋषयः प्रतिजानते ॥ ३६.४४ ॥

सप्रमाणास्तु शीर्षण्यं मनश्चैवाष्टमं तथा ॥
इन्द्रियाणि तथा देवा मनोस्तस्यान्तरे स्मृताः ॥ ३६.४५ ॥

तेषां बभूव देवानां शिबिरिन्द्रः प्रतापवान् ॥
सप्तर्षयोंऽतरे ये च तान्निबोधत सत्तमाः ॥ ३६.४६ ॥

काव्य आङ्गिरसश्चैव काश्यपः पृथुरेव च ॥
अत्रेयस्त्वग्निरित्येव ज्योतिर्धामा च भार्गवः ॥ ३६.४७ ॥

पौलहश्चरकश्चात्र वाशिष्ठः पीवरस्तथा ॥
चैत्रस्तथैव पौलस्त्य ऋषयस्तामसेंऽतरे ॥ ३६.४८ ॥

जानुजङ्घस्तथा शान्तिर्नरः ख्यातिः शुभस्तथा ॥
प्रियभृत्यो परीक्षिच्च प्रस्थलोऽथ दृढेषुधिः ॥ ३६.४९ ॥

कृशाश्वः कृतबन्धुश्च तामसस्य मनोः सुताः ॥
पञ्चमेत्वथ पर्याये मनोः स्वारोचिषेंऽतरे ॥ ३६.५० ॥

गुणास्तु ये समाख्याता देवानां तान्निबोधत ॥
अमिताभा भूतरयो वैकुण्ठाः ससुमेधसः ॥ ३६.५१ ॥

वरिष्ठाश्च शुभाः पुत्रा वसिष्ठस्य प्रजापतेः ॥
चतुर्दश तु चत्वारो गणास्तेषां सुभास्वराः ॥ ३६.५२ ॥

उग्रः प्रज्ञोऽग्निभावश्च प्रज्योतिश्चामृतस्तथा ॥
सुमतिर्वा विरावश्च धामा नादः श्रवास्तथा ॥ ३६.५३ ॥

वृत्तिराशी च वादश्च शबरश्च चतुर्दश ॥
अमिताभाः स्मृता ह्येते देवाः स्वारोचिषेंऽतरे ॥ ३६.५४ ॥

मतिश्च सुमतिश्चैव ऋतसत्यौ तथैधनः ॥
अधृतिर्विधृतिश्चैव दमो नियम एव च ॥ ३६.५५ ॥

व्रतो विष्णुः सहश्चैव द्युतिमान्सुश्रवास्तथा ॥
इत्येतानीह नामानि आभूतयसां विदुः ॥ ३६.५६ ॥

वृषो भेत्ता जयो भीमः शुचिर्दान्तो यशो दमः ॥
नाथो विद्वानजेयश्च कृशो गौरो ध्रुवस्तथा ॥ ३६.५७ ॥

कीर्त्तितास्तु विकुण्ठा वै सुमेधांस्तु निबोधत ॥
मेधा मेधा तिथिश्चैव सत्यमेधास्तथैव च ॥ ३६.५८ ॥

पृश्निमेधाल्पमेधाश्च भूयोमेधाश्च यः प्रभुः ॥
दीप्तिमेधा यशोमेधा स्थिरमेधास्तथैव च ॥ ३६.५९ ॥

सर्वमेधा सुमेधाश्च प्रतिमेधाश्च यः स्मृतः ॥
मेधजा मेधहन्ता च कीर्त्तितास्ते सुमेधसः ॥ ३६.६० ॥

विभुरिन्द्रस्तथा तेषामासीद्वि क्रान्तपौरुषः ॥
पौलस्त्यो दवबाहुश्च सुधामा नाम काश्यपः ॥ ३६.६१ ॥

हिरण्यरोमाङ्गिरसो वेदश्रीश्चैव भार्गवः ॥
ऊर्ध्वबाहुश्च वाशिष्ठः पर्जन्यः पौलहस्तथा ॥ ३६.६२ ॥

सत्यनेत्रस्तथात्रेय ऋषयो रैवतेंऽतरे ॥
महावीर्यः सुसम्भाव्यः सत्यको हरहा शुचिः ॥ ३६.६३ ॥

बलबन्धुर्निरामित्रः कम्बुः श्रृगो धृतव्रतः ॥
रैवतस्य च पुत्रास्ते पञ्चमं वै तदन्तरम् ॥ ३६.६४ ॥

स्वारोचिषश्चोत्तमोऽपि तामसो रैवतस्तथा ॥
प्रियव्रतान्वया ह्येते चत्वारो मनवः स्मृताः ॥ ३६.६५ ॥

षष्ठे खल्वपि पर्याये देवा ये चाक्षुषेंऽतरे ॥
आद्याः प्रसूता भाव्यश्च पृथुकाश्च दिवौकसः ॥ ३६.६६ ॥

महानुभावा लेखास्छ पञ्च देवगणाः स्मृताः ॥
दिवौकसः सर्व एव प्रोच्यन्ते मातृनामभिः ॥ ३६.६७ ॥

अत्रेः पुत्रस्य नप्तारो ह्यारण्यस्य प्रजापतेः ॥
गणस्तु तेषां देवानामेकैको ह्यष्टकः स्मृतः ॥ ३६.६८ ॥

अन्तरिक्षो वसुर्हव्यो ह्यतिथिश्च प्रियव्रतः ॥
श्रोता मन्तानुमन्ता च त्वाद्या ह्येते प्रकीर्त्तिताः ॥ ३६.६९ ॥

श्येनभद्रस्तथा चैव श्वेतचक्षुर्महायशाः ॥
सुमनाश्च प्रचेताश्च वनेनः सुप्रचेत्सौ ॥ ३६.७० ॥

मुनिश्चैव महासत्त्वः प्रसूताः परिकीर्त्तिताः ॥
विजयः सुजयश्चैव मनस्योदौ तथैव च ॥ ३६.७१ ॥

मतिः परिमतिश्चैव विचेताः प्रियनिश्चयः ॥
भव्या ह्येते स्मृता देवाः पृथुकांश्च निबोधत ॥ ३६.७२ ॥

ओजिष्ठः शकुनो देवो वानत्दृष्टस्तथैव च ॥
सत्कृतः सत्यदृष्टिश्च जिगीषुर्विजयस्तथा ॥ ३६.७३ ॥

अजितश्च महाभागः पृथुकास्ते दिवौकसः ॥
लेशास्तथा प्रवक्ष्यामि नामतस्तान्निबोधत ॥ ३६.७४ ॥

मनोजवः प्रघासश्च प्रचेताश्च महायशाः ॥
ध्रुवो ध्रुवक्षितिश्चैव अत्युतश्चैव वीर्यवान् ॥ ३६.७५ ॥

युवना बृहस्पतिश्चैव लेखाः सम्परिकीर्त्तिताः ॥
मनोजवो महावीर्यस्तेषामिन्द्रस्तदाभवत् ॥ ३६.७६ ॥

उत्तमो भार्गवश्चैव हविष्मानङ्गिरःसुतः ॥
सुधामा काश्यपश्चैव वशिष्ठो विरजास्तथा ॥ ३६.७७ ॥

अतिनामा च पौलस्त्यः सहिष्णुः पौलहस्तथा ॥
मधुरात्रेय इत्येते सप्त वै चाक्षुषेंऽतरे ॥ ३६.७८ ॥

ऊरुः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कृतिः ॥
अग्निष्टुदतिरात्रश्च सुद्युम्नशचेति ते नव ॥ ३६.७९ ॥

अभिमन्युश्च दशमो नाड्वलेया मनोः सुताः ॥
चाक्षुषस्य सुताः ह्येते षष्ठं चैव तदन्तरम् ॥ ३६.८० ॥

वैवस्वतेन सङ्ख्यातस्तत्सर्गः साम्प्रतेन तु ॥
विस्तरेणानुपूर्व्या च चाक्षुषस्यान्तरे मनोः ॥ ३६.८१ ॥

ऋषय ऊचुः ॥
चाक्षुषः कस्य दायादः सम्भूतः सक्य वाऽन्वये ॥
तस्यान्ववाये येऽप्यन्येतान्नो ब्रूहि यथातथम् ॥ ३६.८२ ॥

चाक्षुषस्य विसर्गं तु समासाच्छृणुत द्विजाः ॥
यस्यान्ववाये सम्भूतः पृथुर्वैन्यः प्रतापवान् ॥ ३६.८३ ॥

प्रजानां पतयश्चान्ये दक्षः प्राचेतसस्तथा ॥
उत्तानपादं जग्राह पुत्रमत्रिप्रजापतिः ॥ ३६.८४ ॥

दत्तकः स तु पुत्रोऽस्य राजा ह्यासीत्प्रजापतिः ॥
स्वायम्भुवेन मनुना दत्तोऽत्रेः कारणं प्रति ॥ ३६.८५ ॥

मन्वन्तरमथासाद्य भविष्यच्चाक्षुषस्य ह ॥
षष्ठं तदनु वक्ष्यामि उपोद्धातेन वै द्विजाः ॥ ३६.८६ ॥

उत्तानपादाच्चतुरः सूनृताऽसूत भामिनी ॥
धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता ॥ ३६.८७ ॥

उत्पन्ना जापि धर्मेम ध्रुवस्य जननी शुभा ॥
धर्मस्य पत्न्यां लक्ष्मयां वै उत्पन्ना सा शुचिस्मिता ॥ ३६.८८ ॥

ध्रुवं च कीर्त्तिमन्तं च त्वायुष्मन्तं वसुं तथा ॥
उत्तानपादोऽजनयत्कन्ये द्वे च शुचिस्मिते ॥ ३६.८९ ॥

स्वरामनस्विनी चैव तयोः पुत्राः प्रकीर्त्तिताः ॥
ध्रुवो वर्षसहस्राणि दश दिव्यानि वीर्यवान् ॥ ३६.९० ॥

तपस्तेपे निराहारः प्रार्थयन्विपुलं यशः ॥
त्रेतायुगे तु प्रथमे पौत्रः स्वायम्भुवस्य तु ॥ ३६.९१ ॥

आत्मानं धारयन्योगान्प्रार्थयन्सुमहद्यशः ॥
तस्मै ब्रह्मा ददौ प्रीतो ज्योतिषां स्थानमुत्तमम् ॥ ३६.९२ ॥

आभूतसम्प्लवाद्दिव्यमस्तोदयविवार्जितम् ॥
तस्यातिमात्रामृद्धिं च महिमानं निरीक्ष्य तु ॥ ३६.९३ ॥

दैत्या सुराणामाचार्यः श्लोकमप्युशाना जगौ ॥
अहोऽस्य तपसो वीर्यमहो श्रुतमहो व्रतम् ॥ ३६.९४ ॥

कृत्वा यदेनमुपरि ध्रुवं सप्तर्षयः स्थिताः ॥
द्रुवे त्रिदिवमासक्तमीश्वरः स दिवस्पतिः ॥ ३६.९५ ॥

ध्रुवात्सृष्टिं च भव्यं च भूमिस्तौ सुषुवे नृपौ ॥
स्वां छायामाह वै सृष्टिर्भवनारीति तां प्रभुः ॥ ३६.९६ ॥

सत्याभिव्यहृतेस्तस्य सद्यः स्त्री साभवत्तदा ॥
दिव्यसंहनना छाया दिव्याभरणभूषिता ॥ ३६.९७ ॥

छायायां सृष्टिराधत्त पञ्च पुत्रानकल्मषान् ॥
प्राजीनगर्भं वृषभं वृकञ्च वृकलं धृतिम् ॥ ३६.९८ ॥

पत्नी प्राचीनगर्भस्य सुवर्चा सुषुवे नुपम् ॥
नाम्नोदारधियं पुत्रमिन्द्रो यः पूर्वजन्मनि ॥ ३६.९९ ॥

संवत्सरसहस्रान्ते सकृदाहारमाहरन् ॥
एवं मन्वन्तरं युक्त इन्द्रत्वं प्राप्तवान्प्रभुः ॥ ३६.१०० ॥

उदारधेः सुतं भद्राऽजनयत्सा दिवञ्जयम् ॥
रिपुं रिपुञ्जयाज्जज्ञे वराङ्गी तु दिवञ्जयात् ॥ ३६.१०१ ॥

रिपोराधत्त बृहती वक्षुषं सर्वतेजसम् ॥
तस्य पुत्रो मनुर्विद्वान् ब्रह्मक्षत्र्रप्रवत्तकः ॥
व्यजीजनत्पुष्करिणी वारुणी चाक्षुषं मनुम् ॥ ३६.१०२ ॥

प्रजापतेः सुता कस्माद्वारुणी प्रोच्यतेऽनघ ॥
एतदाचक्ष्व तत्वेन कुशलो ह्यसि विस्तरे ॥ ३६.१०३ ॥

अरण्यस्योदकः पुत्रो वरुणत्वमुपागतः ॥
तेन सा वारुणी ज्ञेया भ्रात्रा ख्यातिमुपागता ॥ ३६.१०४ ॥

मनोरजायन्त दश नड्वलायां सुताः शुभाः ॥
कन्यायां सुमहावीर्या विरजस्य प्रजापतेः ॥ ३६.१०५ ॥
मूलम्
मनोरजायन्त दश नड्वलायां सुताः शुभाः ॥
कन्यायां सुमहावीर्या विरजस्य प्रजापतेः ॥ ३६.१०५ ॥
विश्वास-प्रस्तुतिः
ऊरुः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कृतिः ॥
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति वै नव ॥ ३६.१०६ ॥

अभिमन्युश्च दशमो नड्वलायां मनोः सुताः ॥
ऊरोरजनयत्पुत्रान्षडाग्नेयी महाप्रभान् ॥ ३६.१०७ ॥

अङ्गं सुमनसं ख्यातिङ्गयं शुक्रं व्रजाजिनौ ॥
अङ्गात्सुनीथापत्यंवै वेनमेकं व्यजायत ॥ ३६.१०८ ॥

तस्यापराधाद्वेनस्य प्रकोपस्तु महानभूत् ॥
प्रजार्थमृषयो यस्यममन्थुर्दक्षिणां करम् ॥ ३६.१०९ ॥

जनितस्तस्य पाणौ तु मथिते रूपवान्पृथुः ॥
जनयित्वा सुतं तस्य पृथुं प्रथितपौरुषम् ॥ ३६.११० ॥

अब्रु वंस्त्वेष वो राजा ऋषयो मुदिताः प्रजाः ॥
स धन्वी कवची जज्ञे तेजसा निर्दहन्निव ॥ ३६.१११ ॥

वृत्तीनामेष वो दाता भविष्यति नराधिपः ॥
पृथुर्वैन्यस्तदा लोकान्ररक्ष क्षत्रपूर्वजः ॥ ३६.११२ ॥

राजसूयाभिषिक्तानामाद्यस्स वसुधाधिपः ॥
तस्य स्तवार्थमुत्पन्नौ निपुणौ सूतमागधौ ॥ ३६.११३ ॥

तेनेयं गौर्महाराज्ञा दुग्धा सस्यानि धीमता ॥
प्रजानां वृत्तिकामानां देवैश्चर्षिगणैः सह ॥ ३६.११४ ॥

पितृभि र्दानवैश्चैव गन्धर्वैश्चाप्सरोगणैः ॥
सर्पैः पुण्यजनैश्चैव पर्वतैर्वृक्षवीरुधैः ॥ ३६.११५ ॥

तेषु तेषु तु पात्रेषु दुह्यमाना वसुन्धरा ॥
प्रादाद्यथेप्सि तं क्षीरं तेन प्राणानधारयन् ॥ ३६.११६ ॥
मूलम्
तेषु तेषु तु पात्रेषु दुह्यमाना वसुन्धरा ॥
प्रादाद्यथेप्सि तं क्षीरं तेन प्राणानधारयन् ॥ ३६.११६ ॥
विश्वास-प्रस्तुतिः
शांशपायन उवाच ॥
विस्तरेण पृथोर्जन्म कीर्त्तयस्व महाव्रत ॥
यथा महात्मना तेन पूर्वं दुग्धा वसुन्धरा ॥ ३६.११७ ॥

यथा देवैश्च नागैश्च यथा ब्रह्मर्षिभिः सह ॥
यक्षै राक्षसगन्धर्वैरप्सरोभिर्यथा पुरा ॥ ३६.११८ ॥

यथा यथा च वै सूत विधिना येन येन च ॥
तेषां पात्रविशेषांश्च दोग्धारं क्षीरमेव च ॥ ३६.११९ ॥

तथा वत्सविशेषांश्च त्वन्नः प्रब्रूहि पृच्छताम् ॥
यथा क्षीरविशेषांश्च सर्वानेवानुपूर्वशः ॥ ३६.१२० ॥

यस्मिंश्च कारणे पाणिर्वनस्य मथितः पुरा ॥
कुद्धैर्महर्षिभिः पूर्वैः कारणं ब्रूहि तद्धि नः ॥ ३६.१२१ ॥

कथयिष्यामि वो विप्राः पृथोर्वैन्यस्य सम्भवम् ॥
एकाग्राः प्रयताश्चैव शुश्रूषध्वं द्विजोत्तमाः ॥ ३६.१२२ ॥

नाशुद्धाय न पापाय नाशिष्यायाहिताय च ॥
वर्त्तनीयमिदं ब्रह्म नाव्रताय कथञ्चन ॥ ३६.१२३ ॥

धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च सम्मितम् ॥
रहस्यमृषिभिः प्रोक्तं श्रृणुयाद्योऽनसूयकः ॥ ३६.१२४ ॥

यश्चैवं श्रावयेन्मर्त्यः पृथोर्वैन्यस्य सम्भवम् ॥
ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतम् ॥ ३६.१२५ ॥

गोप्ता धर्मस्य राजासौ बभूवात्रिसमः प्रभुः ॥
अत्रिवंशसमुत्पन्नो ह्यङ्गो नाम प्रजापतिः ॥ ३६.१२६ ॥

तस्य पुत्रोऽभवद्वेनो नात्यर्थं धार्मिकस्तथा ॥
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ॥ ३६.१२७ ॥

स मातामहदोषेण वेनः कालात्म जात्मजः ॥
स धर्मं वृष्ठतः कृत्वा कामाल्लोकेष्वर्तत ॥ ३६.१२८ ॥

स्थापनां स्थापयामास धर्मायेतां स पार्थिवः ॥
वेदशास्त्राण्यतिक्रम्य सोऽधर्मे निरतोऽभवत् ॥ ३६.१२९ ॥

निःस्वाध्यायवष्ट्कारे तस्मिन्राज्यं प्रशासति ॥
न पिबन्ति तदा सोमं महायज्ञेषु देवताः ॥ ३६.१३० ॥

न यष्टव्यं न दातव्यमिति तस्य प्रजापतेः ॥
आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥ ३६.१३१ ॥

अहमीज्यश्च पूज्यश्च यज्ञे देवद्विजातिभिः ॥
मयि यज्ञा विधातव्या मयि होतव्यमित्यपि ॥ ३६.१३२ ॥

तमतिक्रान्तमर्यादमवदानसुसंवृतम् ॥
ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा ॥ ३६.१३३ ॥

वयं दीक्षां प्रवेक्ष्यामः संवत्सरशतं नृप ॥
त्वं मा कार्षीरधर्मं वै नैष धर्मः सनातनः ॥ ३६.१३४ ॥

निधने सम्प्रसूतस्त्वं प्रजापतिरसंशयः ॥
पालयिष्ये प्रजाश्चेति पूर्वं ते समयः कृतः ॥ ३६.१३५ ॥

तां स्तथा वादिनः सर्वान्ब्रह्मर्षीनब्रवीत्तदा ॥
वेनः प्रहस्य दुर्बुद्धिर्विदितेन च कोविदः ॥ ३६.१३६ ॥

स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया ॥
वीर्यण तपसा सत्यैर्मया वा कः समो भुवि ॥ ३६.१३७ ॥

मन्दात्मानो न नूनं मां यूयं जानीत तत्त्वतः ॥
प्रभवं सर्वलोकानां धर्माणां च विशेषतः ॥ ३६.१३८ ॥

इच्छन्दहेयं पृथिवीं प्लावयेयं जलेन वा ॥
सृजेयं वा ग्रसेयं वा नात्र कार्या विचारणा ॥ ३६.१३९ ॥

यदा न शक्यते स्तम्भादानार्य्यभृशसंहितः ॥
अनुनेतुं तदा वेनस्ततः क्रुद्धा महर्षयः ॥ ३६.१४० ॥

निगृह्य तं च बाहुभ्यां विस्फुरन्तं महा बलम् ॥
ततोऽस्य वामहस्तं ते ममन्थुर्भृशकोपिताः ॥ ३६.१४१ ॥

तस्मात्प्रमथ्यमानाद्वै जज्ञ पूर्वमिति श्रुतिः ॥
ह्रस्वोऽतिमात्रं पुरुषः कृष्णश्चापि बभूव ह ॥ ३६.१४२ ॥

स भीतः प्राञ्जलिश्चैव तस्थिवानाकुलेन्द्रियः ॥
तमार्त्तं विह्वलं दृष्ट्वा निषीदेत्यब्रुवन्किल ॥ ३६.१४३ ॥

निषादवंशकर्तासौ बभूवानन्तविक्रमः ॥
धीवरानसृजच्चापि वेनकल्मषसम्भवान् ॥ ३६.१४४ ॥

ये चान्ये विन्ध्यनिलयास्तम्बुरास्तुबुराः खशाः ॥
अधर्मरुचयश्चापि विद्धि तान्वेनकल्मषान् ॥ ३६.१४५ ॥

पुनर्महर्षयस्तस्य पाणिं वेनस्य दक्षिणम् ॥
अरणीमिव संरब्धा ममन्थुर्जातमन्यवः ॥ ३६.१४६ ॥

पृथुस्तस्मात्समुत्पन्नः कराज्जलजसन्निभात् ॥
पृथोः करतलाद्वापि यस्माज्जातः पृषुस्ततः ॥ ३६.१४७ ॥

दीप्यमानश्च वपुषा साक्षादग्निरिव ज्वलन् ॥
आद्यमाजगवं नाम धनुर्गृह्य महारवम् ॥ ३६.१४८ ॥

शारांश्च बिभ्रद्रक्षार्थ कवचं च महाप्रभम् ॥
तस्मिञ्जा तेऽथ भूतानि सम्प्रहृष्टानि सर्वशः ॥ ३६.१४९ ॥

समापेतुर्महाराजं वेनश्च त्रिदिवं गतः ॥
समुत्पन्नेन राजर्षिः सत्पुत्रेण महात्मना ॥ ३६.१५० ॥

त्रातः स पुरुषव्याघ्रः पुन्नाम्नो नरकात्तदा ॥
तं नद्यश्च समुद्राश्च रत्नान्यादाय सर्वशः ॥ ३६.१५१ ॥

अभिषेकाय तोयं च सर्व एवोपत स्थिरे ॥
पितामहश्च भगवानङ्गिरोभिः सहामरैः ॥ ३६.१५२ ॥

स्थावराणि च भूतानि जङ्गमानि च सर्वशः ॥
समागम्य तदा वैन्यमभ्य षिञ्चन्नराधिपम् ॥ ३६.१५३ ॥

महता राजराजेन प्रजापालं महाद्युतिम् ॥
सोऽभिषिक्तो महाराजो देवैरङ्गिरसः सुतैः ॥ ३६.१५४ ॥

आदि राजो महाभागः पृथुर्वैन्यः प्रतापवान् ॥
पित्रापरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः ॥ ३६.१५५ ॥

ततो राजेति नामास्य ह्यनुरागादजायत ॥
आपस्तस्तम्भिरे तस्य समुद्रमभियास्यतः ॥ ३६.१५६ ॥

पर्वताश्चावदीर्यन्त ध्वजभङ्गश्च नाभवत् ॥
अकृष्टपच्या पृथिवी सिद्ध्यन्त्यन्नानि चिन्तया ॥ ३६.१५७ ॥

सर्वकामदुघा गावः पृटके पुटके मधु ॥
एतस्मिन्नेव काले तु यजतस्तस्य वै मखे ॥ ३६.१५८ ॥

सोमे सुते समु त्पन्नः सूतः सौत्ये तदाहनि ॥
तस्मिन्नेवं समुत्पन्ने पुनर्जज्ञेऽथ मागधः ॥ ३६.१५९ ॥

सामगेषु च गायत्सु शुभाण्डे वैश्वदेविके ॥
समागते समुत्पन्नस्तस्मान्मागध उच्यते ॥ ३६.१६० ॥

ऐन्द्रण हविषा चापि हविः पृक्तं बृहस्पतेः ॥
जुहावेन्द्राय दैवेन ततः सूतो व्यजायत ॥ ३६.१६१ ॥

प्रमादस्तत्र सञ्जज्ञ प्रायश्चित्तं च कर्मसु ॥
शिष्यहव्येन यत्पृक्तमभिभूतं गुरोर्हविः ॥ ३६.१६२ ॥

अधरोत्तरचारेण जज्ञे तद्वर्णवैकृतम् ॥
यच्च क्षत्रात्समभवद्ब्राह्मण्यां हीनयोनितः ॥ ३६.१६३ ॥

सूतः पूर्वेण साधर्म्यात्तुल्यधर्मः प्रकीर्त्तितः ॥
मध्यमो ह्येष सूतस्य धर्मः क्षेत्रोपजीवनम् ॥ ३६.१६४ ॥

रथनागाश्वचरितं जघन्यं च चिकित्सितम् ॥
पृथुस्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ॥ ३६.१६५ ॥

तावूचुर्मुनयः सर्वे स्तूयतामेष पार्थिवः ॥
कर्मैतदनुरूपं च पात्रं चायं नराधिपः ॥ ३६.१६६ ॥

तावूचतुस्ततः सर्वांस्तानृषीन्सूतमागधौ ॥
आवां देवानृषींश्चैव प्रीणयावः स्वकर्मतः ॥ ३६.१६७ ॥

न चास्य विद्वो वै कर्म न तथा लक्षणं यशः ॥
स्तोत्रं येनास्य कुर्याव प्रोचुस्तेजस्विनो द्विजाः ॥ ३६.१६८ ॥

एष कर्मरतो नित्यं सत्यवाक्संयतेन्द्रियः ॥
ज्ञानशीलो वदान्यश्च सङ्ग्रामेष्वपरजितः ॥ ३६.१६९ ॥

ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति ॥
यानि कर्माणि कृतवान् पृथुः पश्चान्महाबलः ॥ ३६.१७० ॥

तानि गीतनिबद्धानि ह्यस्तुतां सूतमागधौ ॥
ततस्तवान्ते सुप्रीतः पृथुः प्रादात्प्रजेश्वरः ॥ ३६.१७१ ॥

अनूपदेशं सूताय मगधं मागधाय च ॥
तदादि पृथिवीपालाः स्तूयन्ते सूतमागधैः ॥ ३६.१७२ ॥

आशीर्वादैः प्रबोध्यन्ते सूतमागधबन्दिभिः ॥
तं दृष्ट्वा परमप्रीताः प्रजा ऊचुर्महर्षयः ॥ ३६.१७३ ॥

एष वृत्तिप्रदो वैन्यो भविष्यति नराधिपः ॥
ततो वैन्यं महाभागं प्रजाः समभिदुद्रुवुः ॥ ३६.१७४ ॥

त्वं नो वृत्तिं विधत्स्वेति महार्षिवच नात्तदा ॥
सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया ॥ ३६.१७५ ॥

धनुर्गृहीत्वा बाणांश्च वसुधामाद्रवद्बली ॥
ततो वैन्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही ॥ ३६.१७६ ॥

तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत ॥
सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयात्तदा ॥ ३६.१७७ ॥

सन्ददर्शाग्रतो वैन्यं कार्मुकोद्यतपाणिकम् ॥
ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमच्युतम् ॥ ३६.१७८ ॥

महायोगं महात्मानं दुर्द्धर्षममरैरपि ॥
अलबन्ती तु सा त्राणं वैन्यमेवान्वपद्यत ॥ ३६.१७९ ॥

कृताञ्जलिपुटा देवी पूज्या लोकैस्त्रिभिः सादा ॥
उवाच वैनं नाधर्मः स्त्रीवधे परिपश्यति ॥ ३६.१८० ॥

कथं धारयिता चासि प्रजा या वर्द्धिता मया ॥
मयि लोकाः स्थिता राजन्मयेदं धार्यते जगत् ॥ ३६.१८१ ॥

मत्कृते न विनश्येयुः प्रजाः पार्थिव वर्द्धिताः ॥
स मां नर्हसि वै हन्तुं श्रेयस्त्वं च चिकीर्षसि ॥ ३६.१८२ ॥

प्रजानां पृथिवीपाल श्रृणु चेदं वचो मम ॥
उपायतः समारब्धा सर्वे सिद्ध्यन्त्युपक्रमाः ॥ ३६.१८३ ॥

हत्वापि मां न शक्तस्त्वं प्रजानां पालने नृप ॥
अन्तर्भूता भविष्यामि जहि कोपं महाद्युते ॥ ३६.१८४ ॥

अवध्यश्च स्त्रियः प्राहुस्तिर्यग्योनिगतेष्वपि ॥
सत्त्वषु पृथिवीपाल धम न त्यक्तुमर्हसि ॥ ३६.१८५ ॥

एवं बहुविधं वाक्यं श्रुत्वा तस्या महामनाः ॥
क्रोधं निगृह्य धर्मात्मा वसुधामिदमब्रवीत् ॥ ३६.१८६ ॥

एकस्यार्थाय यो हन्यादात्मनो वा परस्य च ॥
एकं प्राणी बहून्वापि कर्म तस्यास्ति पातकम् ॥ ३६.१८७ ॥

यस्मिंस्तु निहते भद्रे जीवन्ते बहवः सुखम् ॥
तस्मिन्हते नास्ति शुभे पातकं चोपपातकम् ॥ ३६.१८८ ॥

सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे ॥
यदि मे वचनं नाद्य करिष्यसि जगद्धितम् ॥ ३६.१८९ ॥

त्वां निहत्याशु बाणेन मच्छासनपराङ्मुखीम् ॥
आत्मानं प्रथयित्वेह प्रजा धारयिता स्वयम् ॥ ३६.१९० ॥

सा त्वं वचनमास्थाय मम धर्मभृतां वरे ॥
सञ्जीवय प्रजा नित्यं शक्ता ह्यसि न संशयः ॥ ३६.१९१ ॥

दुहितृत्वं च मे गच्छ चैवमेतमहं शरम् ॥
नियच्छेयं त्वद्वधार्थमुद्यन्तं घोरदर्शनम् ॥ ३६.१९२ ॥

प्रत्युवाच ततो वैन्यमेवमुक्ता सती मही ॥
सर्वमेतदहं राजन्विधास्यामि न संशयः ॥ ३६.१९३ ॥

वत्सं तु मम तं पश्य क्षरेयं येन वत्सला ॥
समां च कुरु सर्वत्र मां त्वं धर्म्मभृतां वर ॥
यथा विस्पन्दमानं मे क्षीरं सर्वत्र भावयेत् ॥ ३६.१९४ ॥

तत उत्सारयामास शिलाजालनि सर्वशः ॥
धनुष्कोट्या तथा वैन्यस्तेन शैला विवर्द्धिताः ॥ ३६.१९५ ॥

मन्वन्तरेष्वतीतेषु विषमासीद्वसुन्धरा ॥
स्वभावेना भवत्तस्याः समानि विषमाणि च ॥ ३६.१९६ ॥

न हि पूर्वनिसर्गे वै विषमे पृथिवीतले ॥
प्रविभागः पुराणां वा ग्रामाणां वापि विद्यते ॥ ३६.१९७ ॥

न सस्यानि न गोरक्षं न कृषिर्न वणिक्पथः ॥
चाक्षुषस्यान्तरे पूर्वमासीदेतत्पुरा किल ॥ ३६.१९८ ॥

वैवस्वतेंऽतरे तस्मिन्सर्व स्यैतस्य सम्भवः ॥
समत्वं यत्र यत्रासीद्भूमेः कस्मिंश्चिदेव हि ॥ ३६.१९९ ॥

तत्र तत्र प्रजास्ता वै निवसन्ति च सर्वशः ॥
आहारः फल मूले तु प्रजानामभवत्किल ॥ ३६.२०० ॥

कृच्छ्रेणैव तदा तासामित्येवमनुशुश्रुम ॥
वैन्यात्प्रभृति लोकेऽस्मिन्सर्वस्यैतस्य सम्भवः ॥ ३६.२०१ ॥

स कल्पयित्वा वत्सं तु चाक्षुषं मनुमीश्वरः ॥
पृथुर्दुदोह सस्यानि स्वे तले पृथिवीं ततः ॥ ३६.२०२ ॥

तेनान्नेन ततस्ता वै वर्त्तयन्ति शुभाः प्रजाः ॥
ऋषिभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ॥ ३६.२०३ ॥

वत्सः सोमस्त्वभूत्तेषां दोग्धा चापि बृहस्पतिः ॥
छन्दासिपात्रमासीत्तु गायत्र्यादीनि सर्वशः ॥ ३६.२०४ ॥

क्षीरमासीत्तदा तेषां तपो ब्रह्म च शाश्वतम् ॥
पुनस्ततो देवगणैः पुरन्दरपुरोगमैः ॥ ३६.२०५ ॥

सौवर्णं पात्रमादाय दुग्धा संश्रूयते मही ॥
वत्सस्तु मघवानासीद्दोग्धा च सविता विभुः ॥ ३६.२०६ ॥

क्षीरमूर्जं च मधु च वर्त्तन्ते तेन देवताः ॥
पितृभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ॥ ३६.२०७ ॥

राजतं पात्रमादाय स्वधामाशु वितृप्तये ॥
वैवस्वतो यमस्त्वासीत्तेषां वत्सः प्रतापवान् ॥ ३६.२०८ ॥

अन्तकश्चाभवद्दोग्धा पितॄणां बलवान्प्रभुः ॥
असुरैः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ॥ ३६.२०९ ॥

आयसं पात्रमादाय किल मायश्च सर्वशः ॥
विरोचनस्तु प्राह्रादिर्वत्सस्तेषां महायशाः ॥ ३६.२१० ॥

त्रत्विग्द्विमूर्द्धा दैत्यानां दोग्धाऽभूद्दितिनन्दनः ॥
पायसा ते च मायाभिः सर्वे मायाविनोऽसुराः ॥ ३६.२११ ॥

वर्त्तयन्ति महावीर्यास्तदेषां परमं बलम् ॥
नागैस्तु श्रूयते दुग्धा वत्सं कृत्वा तु तक्षकम् ॥ ३६.२१२ ॥

अलाब५पात्रमादाय विषं क्षीरं तदा मही ॥
तेषां वै वासुकिर्दोग्धा काद्रवेयः प्रतापवान् ॥ ३६.२१३ ॥

नागानां वै द्विजश्रेष्ठ सर्पाणां चैव सर्वशः ॥
तेनैव वर्त्तयन्त्युग्रा महाकाया विषोल्बणाः ॥ ३६.२१४ ॥

तदाहारास्तदाचारास्त द्वीर्यास्तदुपाश्रयाः ॥
आमपात्रे पुनर्दुग्धा त्वन्तर्धानप्रियं मही ॥ ३६.२१५ ॥

वत्सं वैश्रवणं कृत्वा यक्षैः पुण्यजनैस्तथा ॥
दोग्धा रजतनाभस्तु पिता मणिधरस्य यः ॥ ३६.२१६ ॥

यज्ञात्मजो महातेजा वशी च सुमहायशाः ॥
तेन ते वर्त्तयन्तीति परमर्थतया च ह ॥ ३६.२१७ ॥

राक्षसैश्च पिशाचैश्च पुनर्दुग्धा वसुन्धरा ॥
ब्रह्मा ब्राह्यास्तु वै दोगधा तेषामासीत्कुबेरकः ॥ ३६.२१८ ॥

वत्सः सुमाली बलवान्क्षीरं रुधिरमेव च ॥
कपालपात्रे निर्दुग्धा ह्यन्तर्द्धनं च राक्षसैः ॥ ३६.२१९ ॥

तेन क्षीरेण रक्षांसि वर्त्तयन्तीह सर्वशः ॥
पद्मपात्रे पुनर्दुग्धा गन्धर्वैश्चाप्स रोगणैः ॥ ३६.२२० ॥

वत्सं चित्ररथं कृत्वा शुचीन्गन्धामही तदा ॥
तेषां वसुरुचिस्त्वासीद्दोग्धा पुत्रो मुनेः शुभः ॥ ३६.२२१ ॥

गन्धर्वराजोऽतिबलो महात्मा सूर्यसन्निभः ॥
शैलैश्च श्रूयते दुग्धा पुनर्देवी वसुन्धरा ॥ ३६.२२२ ॥

तदौषधीर्मूर्तिमती रत्नानि विविधानि च ॥
वत्सस्तु हिमवानासीद्दोग्धा मेरुर्महागिरिः ॥ ३६.२२३ ॥

पात्रं तु शैलमेवासीत्तेन शैलाः प्रतिष्ठिताः ॥
श्रूयते वृक्षवीरुद्भिः पुनर्दुग्धा वसुन्धरा ॥ ३६.२२४ ॥

पालाशं पात्रमादाय छिन्नदग्धप्ररोहणम् ॥
कामधुक् पुष्पितः शालः प्लक्षो वत्सो यशस्विनाम् ॥ ३६.२२५ ॥

सर्वकामदुघा दोग्ध्री पृथिवी भूतभाविनी ॥
सैव धात्री विधात्री च धारणी च वसुन्धरा ॥ ३६.२२६ ॥

दुग्धा हितार्थं लोकानां पृथुनेति हि नः श्रुतम् ॥
चराचरस्य लोकस्य प्रतिष्ठा योनिरेव च ॥ ३६.२२७ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्ग पादे
शेषमन्वन्तराश्यानं पृथिवीदोहनं च नाम षट्त्रिंशत्तमोऽध्यायः ॥ ३६ ॥