०३५

विश्वास-प्रस्तुतिः

सूत उवाच ॥
देवमित्रश्च शाकल्यो महात्मा द्विजपुङ्गवः ॥
चकार संहिताः पञ्च बुद्धिमान्वेदवित्तमः ॥ ३५.१ ॥

मूलम्

पञ्च तस्याभवञ्छिष्या मुद्गलो गोखलस्तथा ॥
खलीयान्सुतपा वत्सः शैशिरेयश्च पञ्चमः ॥ ३५.२ ॥

प्रोवाच संहितास्तिस्रः शाको वैणो रथीतरः ॥
निरुक्तं च पुनश्चक्रे चतुर्थं द्विजसत्तमः ॥ ३५.३ ॥

तस्य शिष्यास्तु चत्वारः पैलश्चेक्षलकस्तथा ॥
धीमाञ्छ तबलाकश्च गजश्चैव द्विजोत्तमाः ॥ ३५.४ ॥

बाष्कलिस्तु भरद्वाजस्तिस्रः प्रोवाच संहिताः ॥
त्रयस्तस्याभवञ्च्छिष्या महात्मानो गुणान्विताः ॥ ३५.५ ॥

धीमांश्च त्वापनापश्च पान्नगारिश्च बुद्धिमान् ॥
तृतीयश्चार्जवस्ते च तपसा शंसितव्रताः ॥ ३५.६ ॥

वीतरागा महातेजाः संहिताज्ञानपारगाः ॥
इत्येते बहूवृचाः प्रोक्ताः संहिता यैः प्रवर्तिताः ॥ ३५.७ ॥

वैशम्पायनशिष्योऽसौ यजुर्वेदमकल्पयत् ॥
षडशीतिस्तु तेनोक्ताः संहिता यजुषां शुभाः ॥ ३५.८ ॥

शिष्येभ्यः प्रददौ ताश्च जगूहुस्ते विधानतः ॥
एकस्तत्र परित्यक्तो या५वल्क्यो महातपाः ॥ ३५.९ ॥

षडशीतिस्तथा शिष्याः संहितानां विकल्पकाः ॥
सर्वेषामेव तेषां वै त्रिधा भेदाः प्रकीर्त्तिताः ॥ ३५.१० ॥

त्रिधा भेदास्तु ते वेदभेदेऽस्मिन्नवमे शुभे ॥
उदीच्या मध्यदेश्याश्च प्राच्यश्चैव पृथग्विधाः ॥ ३५.११ ॥

श्यामायनिरुदीच्यानां प्रधानः सम्बभूव ह ॥
मध्यदेशप्रतिष्ठाता चासुरिः प्रथमः स्मृतः ॥ ३५.१२ ॥

आलम्बिरादिः प्राच्यानां त्रयोदेश्यादयस्तु ते ॥
इत्येते चरकाः प्रोक्ताः संहिता वादिनो द्विजाः ॥ ३५.१३ ॥

ऋषय ऊचुः ॥
चरकाध्वर्यवः केन कारणं ब्रूहि तत्त्वतः ॥
किं चीर्णं कस्य वा हेतोश्चरकत्वं हि भेजिरे ॥ ३५.१४ ॥

कार्यमासीदृषीणां च किञ्चिद्ब्राह्मणसत्तमाः ॥
मेरुपृष्ठं समासाद्य तैस्तदा त्विति मन्त्रितम् ॥ ३५.१५ ॥

यो वात्र सप्तरात्रेण नागच्छेद्द्विजसत्तमः ॥
स कुर्याद्ब्रह्महत्यां वै समयो नः प्रकीर्तितः ॥ ३५.१६ ॥

ततस्ते सगणाः सर्वे वैशम्पायनवर्जिताः ॥
प्रययुः सप्तरात्रेण यत्र सन्धिः कृतोऽभवत् ॥ ३५.१७ ॥

ब्रह्मणानां तु वचनाद्ब्रह्महत्यां चकार सः ॥
शिष्यानथ समानीय स वैशम्पायनोऽब्रवीत् ॥ ३५.१८ ॥

ब्रह्महत्यां चरध्वं वै मत्कृते द्विजसत्तमाः ॥
सर्वे यूयं समागम्य ब्रूत कामं हितं वचः ॥ ३५.१९ ॥

याज्ञवल्क्य उवाच ॥
अहमेकश्चरिष्यामि तिष्ठन्तु मुनयस्त्विमे ॥
बलेनोत्थापयिष्यामि तपसा स्वेन भावितः ॥ ३५.२० ॥

एव मुक्तस्ततः क्रुद्धो या५वल्क्यम थात्यजत् ॥
उवाच यत्त्वयाऽधीतं सर्वं प्रत्यर्पयस्व मे ॥ ३५.२१ ॥

एवमुक्तः सरूपाणि यजूंषि गुरवे ददौ ॥
रुधिरेण तथाक्तानि च्छर्दित्वा ब्रह्मवित्तमाः ॥ ३५.२२ ॥

ततः स ध्यानमास्थाय सर्यमाराधयद्द्विजः ॥
सूर्ये ब्रह्म यदुत्पन्नं तं गत्वा प्रतितिष्ठति ॥ ३५.२३ ॥

ततो यानि गतान्यूर्ध्वं यजूष्यादित्यमडलम् ॥
तानि तस्मै ददौ तुष्टः सूर्यो वै ब्रह्मरातये ॥ ३५.२४ ॥

अश्वरूपाय मार्त्तण्डो याज्ञवक्ल्याय धीमते ॥
यजूंष्यधीयते तानि ब्राह्मणा येन केनचित् ॥ ३५.२५ ॥

अश्वरूपाय दत्तानि ततस्ते वाजिनोऽमवन् ॥
ब्रह्महत्या तु यैश्चीर्णा चरणाच्चरकाः स्मृताः ॥ ३५.२६ ॥

वैशम्पायनशिष्यास्ते चरकाः समुदाहृताः ॥
इत्येते चरकाः प्रोक्ता वाजिनस्तु निबोधत ॥ ३५.२७ ॥

या५वल्क्यस्य शिष्यास्ते कण्वो बौधेय एव च ॥
मध्यन्दिनस्तु सापत्यो वैधेयश्चाद्धबौद्धकौ ॥ ३५.२८ ॥

तापनीयश्च वत्साश्च तथा जाबालकेवलौ ॥
आवटी च तथा पुण्ड्रो वैणोयः सपराशरः ॥ ३५.२९ ॥

इत्येते वाजिनः प्रोक्ता दशपञ्च च सत्तमाः ॥
शतमेकाधिकं ज्ञेयं यजुषां ये विकल्पकाः ॥ ३५.३० ॥

पुत्रमध्यापयामास सुमन्तुमथ जैमिनिः ॥
सुमन्तुश्चापि सुत्वानं पुत्रमध्यापयत्पुनः ॥ ३५.३१ ॥

सुकर्माणं ततः सुन्वान्पुत्रमध्यापयत्पुनः ॥
स सहस्रमधीत्याशु सुकर्माप्यथ संहिताः ॥ ३५.३२ ॥

प्रोवाचाथ सहस्रस्य सुकर्मा सूर्यवर्चसः ॥
अनध्यायेष्वधीयानांस्तञ्जघान शतक्रतुः ॥ ३५.३३ ॥

प्रायोपवेशमकरोत्ततोऽसौ शिष्यकारमात् ॥
क्रुद्धं दृष्ट्वा ततः शक्रोवरं सोऽथ पुनर्ददौ ॥ ३५.३४ ॥

भविष्यतो महावीर्यौ शिष्यौ तेऽतुलवर्चसौ ॥
अधीयातां महाप्राज्ञौ सहस्रं संहिता उभौ ॥ ३५.३५ ॥

एते सुरा महाभागाः सङ्क्रुद्धा द्विजसत्तम ॥
इत्युक्त्वा वासवः श्रीमान्सुकर्माणं यशस्विनम् ॥ ३५.३६ ॥

शान्तक्रोधं द्विजं दृष्ट्वा क्षिप्रमन्तर धात्प्रभुः ॥
तस्य शिष्योऽभवद्धीमान् पौष्यञ्जिर्द्विजसत्तमाः ॥ ३५.३७ ॥

हिरण्यनाभः कौशल्यो द्वितीयोऽभून्नराधिपः ॥
अध्यापयत पौष्याञ्जिः सहस्रार्द्धं तुसंहिताः ॥ ३५.३८ ॥

ते नाम्नोदीच्यसामानः शिष्याः पौष्यञ्जिनः शुभाः ॥
सत्त्वानि पञ्च कौशिल्यः संहिताना मधीतवान् ॥ ३५.३९ ॥

शिष्या हिरण्यनाभस्य स्मृतास्तु प्राच्यसामगाः ॥
लौगाक्षिः कुशुमिश्चैव कुशीदिर्लाङ्गलिस्तथा ॥
पौष्यञ्जि शिष्याश्चत्वारस्तेषां भेदान्निबोधत ॥ ३५.४० ॥

नाडायनीयः सहतण्डिपुत्रस्तस्मादनोवैननामा सुविद्वान् ॥
सकोतिपुत्रः सुसहाः सुनामा चैतान्भेदान्वित्तलौगाक्षिणस्तु ॥ ३५.४१ ॥

त्रयस्तु कुशुमेः शिष्या औरसः स पराशरः ॥ ३५.४२ ॥

विश्वास-प्रस्तुतिः

नाभिर्वित्तस्तु तेजस्वी त्रिविधा कौशुमाः स्मृताः ॥
शौरिषुः शृङ्गिपुत्रश्च द्वावेतौ तु चिरव्रतौ ॥ ३५.४३ ॥

राणायनीयिः सौमित्रिः सामवेदविशारदौ ॥
प्रोवाच संहितास्ति स्रः श्रृङ्गिपुत्रौ महात्पाः ॥ ३५.४४ ॥

वैनः प्राजीनयोगश्च सुरालश्च द्विजौत्तमः ॥
प्रोवाच संहिताः षट्तु पाराशर्यस्तु कौथुमः ॥ ३५.४५ ॥

आसुरायणवैशाख्यौ वेदवृद्धपरायणौ ॥
प्राचीनयोगपुत्रश्च बुद्धिमांश्च पतञ्जलिः ॥ ३५.४६ ॥

कौथुमस्य तु भेदाश्च पाराशर्यस्य पट् समृताः ॥
लाङ्गलः शालिहोत्रश्च षडुवाचाथ संहिताः ॥ ३५.४७ ॥

हालिनिर्ज्यामहानिश्च जैमिनिर्लोमगायनिः ॥
कण्डुश्च कोहलश्चैव षडे ते लाङ्गलाः स्मृताः ॥ ३५.४८ ॥

एते लाङ्गलिनः शिष्याः संहिता यैः प्रवर्त्तिताः ॥
एको हिरण्यनाभस्य कृतः शिष्यो नृपात्मजः ॥ ३५.४९ ॥

सोऽकरोत्तु चतुर्विशसंहिता द्विपदां वरः ॥
प्रोवाच चैव शिष्येभ्यो येभ्यस्ताश्च निबोधत ॥ ३५.५० ॥

राडिश्च राडवीयश्च पञ्जमौ वाहनस्तथा ॥
तलको माण्डुकश्चैव कालिको राजिकंस्तथा ॥ ३५.५१ ॥

गौतमश्चाजबस्तश्च सोमराजायनस्ततः ॥
पुष्टिश्च परिकृष्टश्च उलूखलक एव च ॥ ३५.५२ ॥

यवीयसस्तु वै शालीरङ्गुलीयश्च कौशिकः ॥
शालिमञ्जरिपाकश्च शधीयः कानिनिश्च यः ॥ ३५.५३ ॥

पाराशर्यस्तु धर्मात्मा इति क्रान्तास्तु सामगाः ॥
सामगानां तु सर्वेषां श्रेष्ठौ द्वौ परिकीर्त्तितौ ॥ ३५.५४ ॥

पौष्यञ्जिश्च कृतश्चैव संहितानां विकल्पकौ ॥
अथर्वाणं द्विधा कृत्वा सुमन्तुरददाद्द्विजाः ॥ ३५.५५ ॥

कबन्धाय पुनः कृष्णं स च विद्वान्यथाश्रुतम् ॥
कबन्धस्तु द्विधा कृत्वा पथ्यायैकं पुनर्ददौ ॥ ३५.५६ ॥

द्वितीयं देवदर्शायस चतुर्धाकरोत्प्रभुः ॥
मोदो ब्रह्मबलश्चैव पिप्पलादस्तथैव च ॥ ३५.५७ ॥

शौल्कायनिश्च धर्मज्ञश्चतुर्थस्तपसि स्थितः ॥
देवदर्शस्य चत्वारः शिष्या ह्येते दृढव्रताः ॥ ३५.५८ ॥

पुनश्च त्रिविधं विद्धि पथ्यानां भेदमुत्तमम् ॥
जाजलिः कुमुदादिश्च तृतीयः शौनकः स्मृतः ॥ ३५.५९ ॥

शौनकस्तु द्विधा कृत्वा ददावेकान्तु बभ्रवे ॥
द्द्वितीयां संहितां धीमान्सैन्धवायनसञ्ज्ञि ते ॥ ३५.६० ॥

सैन्धवो मुञ्जकेश्यश्च भिन्नामाधाद्द्विधा पुनः ॥
नक्षत्रकल्पो वैतानस्तृतीयः संहिताविधिः ॥ ३५.६१ ॥

चतुर्थोंऽगिरसः कल्पः शान्तिकल्पश्च पञ्चमः ॥
श्रेष्ठास्त्वथर्वणामेते संहितानां विकल्पकाः ॥ ३५.६२ ॥

खड्गः कृत्वा मया युक्तं पुराणमृषिसत्तमाः ॥
आत्रेयः सुमतिर्धीमान्काश्यपो ह्यकृतव्रणः ॥ ३५.६३ ॥

भारद्वाजोऽग्निवर्चाश्च वासिष्ठा मित्रयुश्च यः ॥
सावर्णिः सोमदत्तिश्च सुशर्मा शांशपायनः ॥ ३५.६४ ॥

एते शिष्या मम प्रोक्ताः पुराणेषु धृतव्रताः ॥
त्रिभिस्तत्र कृतास्तिस्रः संहिताः पुनरेव हि ॥ ३५.६५ ॥

काश्यपः संहिता कर्त्ता सावर्णिः शांशपायनः ॥
मामिका तु चतुर्थी स्याच्चतस्रो मूलसंहिताः ॥ ३५.६६ ॥

सर्वास्ता हि चतुष्पादाः सर्वाश्चैकार्थवाचिकाः ॥
पाठान्तरे वृथाभूता वेदशाखा यथा तथा ॥ ३५.६७ ॥

चतुः साहस्रिकाः सर्वाः शांशपायनिकामृते ॥
लौमहर्षणिका मूला ततः काश्यपिका परा ॥ ३५.६८ ॥

सावर्णिका तृतीयासावृजुवाक्यार्थमण्डिता ॥
शांशपायनिका चान्या नोदनार्थविभूषिता ॥ ३५.६९ ॥

सहस्राणि ऋचां चाष्टौ षट्शतानि तथैव च ॥
एताः पञ्चदशान्याश्च दशान्या दशभिस्तथा ॥ ३५.७० ॥

सवालखिल्याः सप्तैताः ससुपर्णाः प्रकीर्त्तिताः ॥
अष्टौ सामसहस्राणि सामानि च चतुर्द्दश ॥ ३५.७१ ॥

सारण्यकं सहोहं च एतद्गायन्ति सामगाः ॥
द्वादशैव सहस्राणि च्छन्द आध्वर्यवं स्मृतम् ॥ ३५.७२ ॥

यजुषां ब्राह्मणानां च तथा व्यासो व्यकल्पयत् ॥
सग्राम्यारण्यकं तस्मात्समन्त्रकरणं तथा ॥ ३५.७३ ॥

अतः परं कथानं तु पूर्वा इति विशेषणम् ॥
ग्राम्यारण्यं समन्त्रं तदृग्ब्राह्मणयजुः स्मृतम् ॥ ३५.७४ ॥

तथा हारिद्रवीर्याणां खिलान्युपखिलानितु ॥
तथैव तैत्तिरीयाणां परक्षुद्रा इति स्मृतम् ॥ ३५.७५ ॥

द्वे सहस्रे शतन्यूने वेदे वाजसनेयके ॥
ऋग्गमः परिसङ्ख्यातो ब्राह्मणं तु चतुर्गुणम् ॥ ३५.७६ ॥

अष्टौ सहस्राणि शतानि वाष्टावशीतिरन्यान्यधिकानि वा च ॥
एतत्प्रमाणं यजुषामृचां च सशुक्रियं सखिलं याज्ञवल्क्यम् ॥ ३५.७७ ॥

तथा चारणविद्यानां प्रमाणसहितं श्रृणु ॥
षट्सहस्रमृचामुक्तमृचः षड्विंशतिं पुनः ॥ ३५.७८ ॥

एतावदधिकं तेषां यजुः कि मपि वक्ष्यते ॥
एकादशसहस्राणि ऋचश्चान्या दशोत्तराः ॥ ३५.७९ ॥

ऋचां दशसहस्राणि ह्यशीतिस्त्रिंशदेव तु ॥
सहस्रमेकं मन्त्राणामृचामुक्तं प्रमाणतः ॥ ३५.८० ॥

एतावानृचि विस्तारो ह्यन्यच्चाथर्विकं बहु ॥
ऋचामथर्वणां पञ्चसहस्राणीति निश्चयः ॥ ३५.८१ ॥

सहस्रमन्यद्विज्ञेयमृषि भिर्विशतिं विना ॥
एतदङ्गिरसां प्रोक्तं तेषामारण्यकं पुनः ॥ ३५.८२ ॥

इति सङ्ख्या प्रसङ्ख्याता शाखाभेदास्तथैव तु ॥
कर्तारशचैव शाखानां भेदहेतूंस्तथैव च ॥ ३५.८३ ॥

सर्वमन्वन्तरेष्वेवं शाखाभेदाः समाश्रिताः ॥
प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे स्मृताः ॥ ३५.८४ ॥

अनित्यभावाद्देवानां मन्त्रोत्पत्तिः पुनः पुनः ॥
द्वापरेषु पुनर्भेदाः श्रुतीनां परिकीर्त्तिताः ॥ ३५.८५ ॥

एवं वेदं तदाप्यस्य भगवानृषिसत्तमः ॥
शिष्चेब्यश्च प्रदत्त्वा तु तपस्तप्तु वन गतः ॥ ३५.८६ ॥

तस्य शिष्यप्रशिष्यैस्तु शाखाभेदास्त्विमे कृताः ॥
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ॥ ३५.८७ ॥

धर्मशास्त्रं पुराणं च विद्याश्चेमाश्चतुर्दश ॥
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः ॥ ३५.८८ ॥

अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव हि ॥
ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः ॥ ३५.८९ ॥

राजर्षयः पुनस्तेभ्य ऋषिप्रकृतयस्त्रिधा ॥
काश्यपेषु वसिष्ठेषु तथा भृग्वङ्गिरोऽत्रिषु ॥ ३५.९० ॥

पञ्चस्वेतेषु जायन्ते गोत्रेषु ब्रह्मवादिनः ॥
यस्मादृषन्ति ब्रह्माणं ततो ब्रह्मर्षयः स्मृताः ॥ ३५.९१ ॥

धर्मस्याथ पुलस्त्यस्य क्रतोश्च पुलहस्य च ॥
प्रत्यूषस्य च देवस्य कश्यपस्य तथा पुनः ॥ ३५.९२ ॥

देवर्षयः सुतास्तेषां नामतस्तान्निबोधत ॥
देवार्षी धर्मपुत्रौ तु नरनारायणवुभौ ॥ ३५.९३ ॥

वालखिल्याः क्रतोः पुत्राः कर्दमः पुलहस्य तु ॥
कुबेरश्चैव पौलस्त्यः प्रत्यूषस्य दलः सुत ॥ ३५.९४ ॥

नारदः पर्वतश्चैव कश्यपस्यात्मजावुभौ ॥
ऋषन्ति वेदान्यस्मात्ते तस्माद्देवर्षयः स्मृताः ॥ ३५.९५ ॥

मानवे चैव ये वंशे ऐलवंशे च ये नृपाः ॥
ये च ऐक्ष्वाकनाभागा ज्ञेया राजर्षयस्तु ते ॥ ३५.९६ ॥

ऋषन्ति रञ्जनाद्यस्मात्प्रजा राजर्षयस्ततः ॥
ब्रह्मलोकप्रतिष्ठास्तु समृता ब्रह्मर्षयोऽमलाः ॥ ३५.९७ ॥

देवलोकप्रतिष्ठास्तु ज्ञेया देवर्षयः शुभाः ॥
इन्द्रलोकप्रतिष्ठास्तु सर्वे राजर्षयो मताः ॥ ३५.९८ ॥

अभिजात्याऽथ तपसा मन्त्रव्याहरणैस्तथा ॥
ये च ब्रह्मर्षयः प्रोक्ता दिव्या देवर्षयश्च ये ॥ ३५.९९ ॥

राजर्षयस्तथा चैव तेषां वक्ष्यामि लक्षणम् ॥
भूतं भव्यं भवज्ज्ञानं सत्याभि व्यात्दृतं तथा ॥ ३५.१०० ॥

सन्तुष्टाश्च स्वयं ये तु सम्बुद्धा ये च वै स्वयम् ॥
तपसेह प्रसिद्धा ये गर्भे यैश्च प्रवेदितम् ॥ ३५.१०१ ॥

मन्त्रव्याहारिणो ये च ऐश्वर्यात्सर्वगाश्च ये ॥
एते राजर्षयो युक्ता देवाद्विजनृपाश्च ये ॥ ३५.१०२ ॥

एतान्भावानधिगता ये वै त ऋषयो मताः ॥
सप्तैते सप्तभिश्चैव गुणैः सप्तर्षयः स्मृताः ॥ ३५.१०३ ॥

दीर्घायुषो मन्त्रकृत ईश्वराद्दिव्यचक्षुषः ॥
बुद्धाः प्रत्यक्ष धर्माणो गोत्रप्रावर्त्तकाश्च ते ॥ ३५.१०४ ॥

षट्कर्मनिरता नित्यं शालीना गृहमेधिनः ॥
तुल्यैर्व्यवहरन्ति स्म ह्यदुष्टैः कर्महेतुभिः ॥ ३५.१०५ ॥

अग्राम्यैर्वर्त्तयन्ति स्म रसैश्चैव स्वयङ्कृतैः ॥
कुटुम्बिनो बुद्धिमन्तो वनान्तरनिवासिनः ॥ ३५.१०६ ॥

कृतादिषु युगाख्यासु सर्वैरेव पुनः पुनः ॥
वर्णाश्रमव्यवस्थानं क्रियते प्रथमं तु वै ॥ ३५.१०७ ॥

प्राप्ते त्रेतायुगमुखे पुनः सप्तर्षयस्त्विह ॥
प्रवर्त्तयन्ति ये वर्णानाश्रमांश्चैव सर्वशः ॥ ३५.१०८ ॥

तेषामेवान्वये वीरा उत्पद्यन्ते पुनः पुनः ॥
जायमाने पितापुत्रे पुत्रः पितरि चैव हि ॥ ३५.१०९ ॥

एवं सन्तत्य विच्छेदाद्वर्तयन्त्यायुगक्षयात् ॥
अष्टाशीतिसहस्राणि प्रोक्तानि गृहमेधिनाम् ॥ ३५.११० ॥

अर्यम्णो दक्षिणं ये तु पितृयानं समाश्रिताः ॥
दाराग्निहोत्रिणस्ते वै यै प्रजाहेतवः स्मृताः ॥ ३५.१११ ॥

गृहमेधिनस्त्वसङ्ख्येयाः श्मशानान्याश्रयन्ति ते ॥
अष्टाशीतिसहस्राणि निहिता उत्तरापथे ॥ ३५.११२ ॥

ये श्रूयन्ते दिवं प्राप्ता ऋषयो ह्यूर्ध्वरेतसः ॥
मन्त्रब्राह्मणकर्त्तारो जायन्ते च युगक्षयात् ॥ ३५.११३ ॥

एवमावर्त्तमानास्तेद्वापरेषु पुनः पुनः ॥
कल्पानामार्षविद्यानां नानाशास्त्रकृतश्च ये ॥ ३५.११४ ॥

क्रियते यैर्व्यवत्दृतिर्वैदिकानां च कर्मणाम् ॥
वैवस्वतेऽन्तरे तस्मिन्द्वापरेषु पुनः पुनः ॥ ३५.११५ ॥

अष्टाविंशतिकृत्वो वै वेदा व्यस्ता महर्षिभिः ॥
सप्तमे द्वापरे व्यमताः स्वयं वेदाः स्वयम्भुवा ॥ ३५.११६ ॥

द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः ॥
तृतीये चोशना व्यासश्चतुर्थे च बृहस्पतिः ॥ ३५.११७ ॥

सविता पञ्चमे व्यासो मृत्युः षष्ठे स्मृतः प्रभुः ॥
सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे स्मृतः ॥ ३५.११८ ॥

सारस्वतस्तु नवमे त्रिधामा दशमे स्मृतः ॥
एकादशे तु त्रिवर्षा सनद्वाजस्ततः परम् ॥ ३५.११९ ॥

त्रयोदशे चान्तरिक्षो धर्मश्चापि चतुर्दशे ॥
त्रैय्यारुणिः पञ्चदशे षोडशे तु धनञ्जयः ॥ ३५.१२० ॥

कृतञ्जयः सप्तदशे ऋजीषोऽष्टादशे स्मृतः ॥
ऋजीषात्तु भरद्वाजो भरद्वाजात्तु गौतमः ॥ ३५.१२१ ॥

गौतमादुत्तमश्चैव ततो हर्यवनः स्मृतः ॥
हर्यवनात्परो वेनः स्मृतो वाजश्रवास्ततः ॥ ३५.१२२ ॥

अर्वाक्च वाजश्रवसः सोममुख्यायनस्ततः ॥
तृणबिन्दुस्ततस्तस्मात्ततजस्तृणबिन्दुतः ॥ ३५.१२३ ॥

ततजाच्च स्मृतः शक्तिः शक्तेश्चापि पराशरः ॥
जातूकर्णो भवत्तस्मात्त स्माद्द्वैपायनः स्मृतः ॥ ३५.१२४ ॥

अष्टाविंशतिरित्येते वेदव्यासाः पुरातनाः ॥
भविष्ये द्वापरे चैव द्वोणिर्द्वैपायनेऽपि च ॥ ३५.१२५ ॥

वेदव्यासे ह्यतीतेऽस्मिन्भविता सुमहातपाः ॥
भविष्यन्ति भविष्येषु शाखाप्रमयनानि तु ॥ ३५.१२६ ॥

तस्यैव ब्रह्मणो ब्रह्म तपसः प्राप्तमव्ययम् ॥
तपसा कर्म च प्राप्तं कर्मणा चापि ते यशः ॥ ३५.१२७ ॥

पुनश्च तेजसा सत्यं सत्येनानन्दमव्ययम् ॥
व्याप्तं ब्रह्मामृतं शुक्रं ब्रह्मैवामृतमुच्यते ॥ ३५.१२८ ॥

ध्रुवमेकाक्षरमिदमोमित्येव व्यवस्थितम् ॥
बृहत्वाद्बृंहणाच्चैव तद्ब्रह्मेत्यभिधीयते ॥ ३५.१२९ ॥

प्रमवा वस्थितं भूयो भूर्भुवः स्वरिति स्मृतम् ॥
अथर्वऋग्यजुः साम्नि यत्तस्मै ब्रह्मणे नमः ॥ ३५.१३० ॥

जगतः प्रलयोत्पत्तौ यत्तत्कारणसञ्ज्ञितम् ॥
महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः ॥ ३५.१३१ ॥

अगाधापारमक्षय्यं जगत्सम्बोहसम्भवम् ॥
सम्प्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम् ॥ ३५.१३२ ॥

साङ्ख्यज्ञानवतां निष्ठा गतिः शमदमात्मनाम् ॥
यत्तदव्यक्तमतं प्रकृतिर्ब्रह्म शाश्वतम् ॥ ३५.१३३ ॥

प्रधानमात्मयोनिश्च गृह्यं सत्त्वं च शस्यते ॥
अविभागस्तथा शुक्रमक्षरं बहुधात्मकम् ॥ ३५.१३४ ॥

परमब्रह्मणे तस्मै नित्यमेव नमोनमः ॥
कृते पुनः क्रिया नास्ति कुत एवाकृतक्रियाः ॥ ३५.१३५ ॥

सकृदेव कृतं सर्वं यद्वै लोके कृताकृतम् ॥
श्रोतव्यं वा श्रुतं वापि तथैवासाधु साधु वा ॥ ३५.१३६ ॥

ज्ञातव्यं वाप्यमन्तव्यं सप्रष्टव्यं भोज्यमेव च ॥
द्रष्टव्यं वाथ श्रोतव्यं घ्रातव्यं वा कथञ्चन ॥ ३५.१३७ ॥

दर्शितं यदनेनैव ज्ञातं तद्वै सुरर्षिभिः ॥
यन्न दर्शितवानेष कस्तदन्वेष्टुमर्हति ॥ ३५.१३८ ॥

सर्वाणि सर्वं सर्वांश्च भगवानेव सोऽब्रवीत् ॥
यदा यत्क्रियते येन तदा तस्मोऽभिमन्यते ॥ ३५.१३९ ॥

यत्रेदं क्रियते पूर्वं न तदन्येन भाषितम् ॥
यदा च क्रियते किञ्चित्केनचिद्वा कथं क्वचित् ॥ ३५.१४० ॥

तनैव तत्कृतं कृत्यं कर्त्तॄणां प्रतिभाति वै ॥
विरिक्तं चातिरिक्तं च ज्ञानाज्ञानेप्रियाप्रिये ॥ ३५.१४१ ॥

धर्माधर्मौ सुशं दुःखं मृत्युश्चामृतमेव च ॥
ऊर्द्ध्वं तिर्य्यगधोभावस्तस्यैवादृष्टकारिणः ॥ ३५.१४२ ॥

स्वयम्भुवोऽथ ज्येष्ठस्य ब्रह्मणः परमेष्ठिनः ॥
प्रत्येकवेद्यम्भवति त्रेतास्विह पुनः पुनः ॥ ३५.१४३ ॥

व्यस्यते ह्येकवेद्यं तु द्वापरेषु पुनः पुनः ॥
ब्रह्मा चैतानुवाचादौ तस्मिन्वैवस्वतेऽन्तरे ॥ ३५.१४४ ॥

आवर्त्तमाना ऋषयो युगाख्यासु पुनः पुनः ॥
कुर्वन्ति संहिता ह्येते जायमानाः परस्परम् ॥ ३५.१४५ ॥

अष्टाशीतिसहस्राणि श्रुतर्षीणां समृतानि वै ॥
अतीतेषु व्यतीतानि वर्त्तन्ते पुनः पुनः ॥ ३५.१४६ ॥

श्रिता दक्षिणपन्थानं ये श्मशानानि भेजिरे ॥
युगे युगे तु ताः शाखा व्यस्यन्ते तै पुनः पुनः ॥ ३५.१४७ ॥

द्वापरेष्विह सर्वेषु संहितास्तु श्रुतर्षिभिः ॥
तेषां गोत्रेष्विमाः शाखा भवन्ति हि पुनः पुनः ॥ ३५.१४८ ॥

ताः शाखास्ते च कर्त्तारो भवं तीहायुगक्षयात् ॥
एवमेव तु विज्ञेया अतीतानागतेष्वपि ॥ ३५.१४९ ॥

मन्वन्तरेषु सर्वेषु शाखाप्रणयनानि वै ॥
अतीतेषु व्यतीतानि वर्त्तन्ते साम्प्रतेऽन्तरे ॥ ३५.१५० ॥

भविष्यन्ति च यानि स्युर्वर्त्स्यन्तेऽनागतेष्वपि ॥
पूर्वेण पश्चिमं ज्ञेयं वर्तमानेन चोभयम् ॥ ३५.१५१ ॥

एतेन क्रमयोगेन मन्वन्तरविनिश्चयः ॥
एवं देवाः सपितर ऋषयो मनवश्च वै ॥ ३५.१५२ ॥

मन्त्रैः सहोर्ध्वं गच्छन्ति ह्यावर्त्तन्ते च तैः सह ॥
जनलोकात्सुराः सर्वे दशकल्पान्पुनः पुनः ॥ ३५.१५३ ॥

पर्यायकाले सम्प्राप्ते सम्भूता निधनस्य ते ॥
अवश्यभाविनाऽर्थेन सम्भध्यन्ते तदा तु ते ॥ ३५.१५४ ॥

ततस्ते दोषवज्जन्म पश्यन्तो रोगपूर्वकम् ॥
निवर्त्तते तदा वृत्तिः सा तेषां दोषदर्शनात् ॥ ३५.१५५ ॥

एवं देवयुगानीह दशकृत्वो विवर्त्य वै ॥
जनलोकात्तपोलोकं गच्छन्तीहानिवर्त्तकम् ॥ ३५.१५६ ॥

एवं देवयुगानीह व्यती तानि सहस्रशः ॥
निधनं ब्रह्मलोके वै गतानि ऋषिभिः सह ॥ ३५.१५७ ॥

न शक्य आनुपूर्व्येण तेषां वक्तुं सुविस्तरः ॥
अनादित्वाच्च कालस्य सङ्ख्यानां चैव सर्वशः ॥ ३५.१५८ ॥

मन्वन्तराण्यतीतानि यानि कल्पैः पुरा सह ॥
पितृभिर्मुनिभिर्देवैः सार्द्धं च ऋषिभिः सह ॥ ३५.१५९ ॥

कालेन प्रतिसृष्टानि युगानां च विवर्त्तनम् ॥
एतेन क्रमयोगेन कल्पमन्वन्तराणि च ॥ ३५.१६० ॥

सप्रजानि व्यतीतानि शतशोऽथ सहस्रशः ॥
मन्वन्तरान्ते संहारः संहारान्ते च सम्भवः ॥ ३५.१६१ ॥

देवतानामृषीणां च मनोः पितृगणस्य च ॥
न शक्य आनुपूर्व्येण वक्तुं वर्षशतैरपि ॥ ३५.१६२ ॥

विस्तरस्तु निसर्गस्य संहारस्य च सर्वशः ॥
मन्वन्तरस्य सङ्ख्या तु मानुषेण निबोधत ॥ ३५.१६३ ॥

मन्वन्तरास्तु सङ्ख्याताः सङ्ख्यानार्थविशारदैः ॥
त्रिंशत्कोट्यस्तु सम्पूर्णा सङ्ख्याताः सङ्ख्याया द्विजैः ॥ ३५.१६४ ॥

सप्तषष्टिस्तन्थान्यानि नियुतानि च सङ्ख्याया ॥
विंशतिश्च सहस्रामि कालोऽयं साधिकं विना ॥ ३५.१६५ ॥

मन्वन्तरस्य सङ्ख्येयं मानुषेण प्रकीर्त्तिता ॥
वर्षाग्रेणापि दिव्येन प्रवक्ष्याम्युत्तरं मनोः ॥ ३५.१६६ ॥

अष्टौ शतसहस्राणि दिव्यया सङ्ख्यया स्मृतम् ॥
द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु ॥ ३५.१६७ ॥

चतुर्दशगुणो ह्येष कालो ह्याभूतसम्प्लवम् ॥
पूर्णं युगसहस्रं स्यात्तदहर्ब्रह्मणः स्मृतम् ॥ ३५.१६८ ॥

ततः सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः ॥
ब्रह्माणामग्रतः कृत्वा सह देवर्षिदानवैः ॥ ३५.१६९ ॥

प्रविशन्ति सुरश्रेष्ठं देवं नारायणं प्रभुम् ॥
स स्रष्टा सर्व भूतानां कल्पादिषु पुनः पुनः ॥ ३५.१७० ॥

इत्येष स्थितिकालो वै मतो देवर्षिभिः सह ॥
सर्वमन्वन्तराणां हि प्रतिसन्धिं निबोधत ॥ ३५.१७१ ॥

युगख्या या समुद्दिष्टा प्रागेतस्मिन्मयाऽनघाः ॥
कृतत्रेतादिसंयुक्तं चतुर्युगमिति स्मृतम् ॥ ३५.१७२ ॥

तच्चैकसप्ततिगुणं परिवृत्तं तु साधिकम् ॥
मनोरेतमधीकारं प्रोवाच भगवान्प्रभुः ॥ ३५.१७३ ॥

एवं मन्वन्तराणां च सर्वेषामेव लक्षणम् ॥
अतीतानागतानां वै वर्त्तिमानेन कीर्त्तितम् ॥ ३५.१७४ ॥

इत्येष कीत्तितः सर्गो मनोः स्वायम्भुवस्य ते ॥
प्रतिसन्धिं तु वक्ष्यामि तस्य चैवापरस्य च ॥ ३५.१७५ ॥

मन्वन्तरं यथा पूर्वमृषिभिर्दैवतैः सह ॥
अवश्यभाविनार्थेन यथावद्विनिवर्त्तते ॥ ३५.१७६ ॥

एतस्मिन्नन्तरे पूर्वं त्रैलाक्यस्ये श्वरास्तु ये ॥
सप्तर्षयश्च देवाश्च पितरो मनवस्तथा ॥ ३५.१७७ ॥

मन्वन्तरस्य काले तु सम्पूर्णे साधिके तदा ॥
क्षीणेऽधिकारे संविग्ना बुद्ध्वा पर्ययमात्मनः ॥ ३५.१७८ ॥

महर्लोकाय ते सर्वे उन्मुखा दधिरे मतिम् ॥
ततो मन्वन्तरे तस्मिन्प्रक्षीणे देवतास्तु ताः ॥ ३५.१७९ ॥

सम्पूर्णेस्थितिकाले तु तिष्ठेदेकं कृतं युगम् ॥
उत्पद्यन्ते भविष्यन्तो ये वै मन्वन्तरेश्वराः ॥ ३५.१८० ॥

देवताः पितरश्चैव ऋषयो मनुरेव च ॥
मन्वन्तरे तु सम्पूर्णे तद्वदन्ते कलौ युगे ॥ ३५.१८१ ॥

सम्पद्यते कृतं तेषु कलिशिष्टेषु वै तदा ॥
यथा कृतस्य सन्तानः कलिपूर्वः स्मृतो बुधैः ॥ ३५.१८२ ॥

तथा मन्वन्तरान्तेषु आदिर्मन्वन्तरस्य च ॥
क्षीणे मन्वन्तरे पूर्वे प्रवृत्ते चापरे पुनः ॥ ३५.१८३ ॥

मुखे कृतयुगस्याथ तेषां शिष्टास्तु ये तदा ॥
सप्तर्षयो मनुश्चैव कालापेक्षास्तु ये स्थिताः ॥ ३५.१८४ ॥

मन्वन्तरप्रतीक्षास्ते क्षीयमाणास्तपस्विनः ॥
मन्वन्तरोत्सवस्यार्थे सन्तत्यर्थे च सर्वदा ॥ ३५.१८५ ॥

पूर्ववत्सम्प्रवर्त्तन्ते प्रवृत्ते वृष्टिसर्जने ॥
द्वन्द्वेषु सम्प्रवृत्तेषु उत्पन्नास्वौषधीषु च ॥ ३५.१८६ ॥

प्रजासु चानिकेतासु संस्थितासु क्वचित्क्वचित् ॥
वार्त्तायां सम्प्रवृत्तायां धर्मे चैवोपसंस्थिते ॥ ३५.१८७ ॥

निरानन्दे चापि लोके नष्टे स्थावरजङ्गमे ॥
अग्रामनगरे चैव वर्णाश्रमविवर्जिते ॥ ३५.१८८ ॥

पूर्वमन्वन्तरे शिष्टा ये भवन्तीह धार्मिकाः ॥
सप्तर्षयो मनुश्चैव सन्तानार्थं व्यवस्थिताः ॥ ३५.१८९ ॥

प्रजार्थं तपतां तेषां तपः परमदुश्चरम् ॥
उत्पद्यन्ते हि पूर्वेषां निधनेष्विह पूर्ववत् ॥ ३५.१९० ॥

देवासुराः पितृगणा ऋषयो मानुषास्तथा ॥
सर्पा भूतपिशाचाश्च गन्धर्वा यक्षराक्षसाः ॥ ३५.१९१ ॥

ततस्तेषां तु ये शिष्टाः शिष्टाचारान्प्रजक्षते ॥
सप्तर्षयो मनुश्चव ह्यादौ मन्वन्तरस्य हि ॥ ३५.१९२ ॥

प्रारभन्ते च कर्माणि मनुष्यो दैवतैः सह ॥
ऋषीणां ब्रह्मचर्येण गत्वानृण्यं तु व तदा ॥ ३५.१९३ ॥

पितॄणां प्रजाया चैव देवानामिज्यया तथा ॥
शतंवर्षसहस्राणां धर्मे वर्णात्मके स्थिताः ॥ ३५.१९४ ॥

त्रयी वार्त्ता दण्डनीतिर्धर्मान्वर्णाश्रमांस्तथा ॥
स्थापयित्वाश्रमांश्चैव स्वर्गाय देधिरे मनः ॥ ३५.१९५ ॥

पूर्वदेवेषु तेष्वेवं स्वर्गाया भिमुखेषु वै ॥
पूर्वदेवास्ततस्ते वै स्थिता धर्मेण कृत्स्नशः ॥ ३५.१९६ ॥

मन्वन्तरे पुरावृत्ते स्थानान्युत्सृज्य सर्वशः ॥
मन्त्रैः सहोर्ध्वं गच्छन्ति महर्लोकमनामयम् ॥ ३५.१९७ ॥

विनिवृत्ताधिकारास्ते मानसीं सिद्धिमास्थिताः ॥
अवेक्षमाणा वशिनस्तिष्ठन्त्या भूतसम्प्लवात् ॥ ३५.१९८ ॥

ततस्तेषु व्यतीतेषु पूर्वदेवेषु वै तदा ॥
शून्येषु देवस्थानेषु त्रैलोक्ये तेषु सर्वशः ॥ ३५.१९९ ॥

उपस्थिता इहान्ये वै ये देवाः स्वर्गवासिनः ॥
ततस्ते तपसा युक्ताः स्थानान्यापूरयन्ति च ॥ ३५.२०० ॥

सत्येन ब्रह्मचर्येण श्रुतेन च समन्विताः ॥
सप्तर्षीणां मनोश्चैव देवानां पितृभिः सह ॥ ३५.२०१ ॥

निधनानीह पूर्वेषामादितां च भविष्यताम् ॥
तेषां सन्तत्यविच्छेद इहामन्वन्तरक्षयात् ॥ ३५.२०२ ॥

एवं पूर्वानुपूर्व्येण स्थितिस्तेषामवस्थिता ॥
मन्वन्तरेषु सर्वेषु यावदाभूतसम्प्लवम् ॥ ३५.२०३ ॥

पूर्वमन्वन्तराणां तु प्रतिसन्धानलक्षणम् ॥
अतीतानागतानां वै प्रोक्तं स्वायम्भुवेन तु ॥ ३५.२०४ ॥

मन्वन्तरेष्वतीतेषु भविष्याणां तु साधनम् ॥
एवं सन्तत्यविच्छेदो भवत्याभूतसम्प्लवात् ॥ ३५.२०५ ॥

मन्वन्तराणां परिवर्त्तनानि ह्येकान्ततस्तानि महर्गतानि ॥
महाजनं चैव जनान्तपश्च चैकान्तगानि प्रभवन्ति सत्ये ॥ ३५.२०६ ॥

तद्भाविनां तत्र तु दर्शनेन नानात्वदृष्टेन च प्रत्ययेन ॥
स्त्ये स्थिता नित्यतया तु नित्यं प्राप्ते विकारे प्रतिसर्ग काले ॥ ३५.२०७ ॥

मन्वन्तराणां परिवर्त्तनानि मुञ्चन्ति सत्यं तु ततोऽपरान्त ॥
ततोऽभियोगा विषयप्रहाणाद्विशन्ति नारायणमेव देवम् ॥ ३५.२०८ ॥

मन्वन्तराणां परिवर्त्तनेषु चिरप्रवृत्तेषु विधिस्वभावात् ॥
क्षणं न वै तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः ॥ ३५.२०९ ॥

इत्यन्तराण्येवमृषिस्तुतानां धर्मात्मनां दिव्यदृशां मनूनाम् ॥
वायुप्रणीतान्युपलभ्य दृश्याद् दिव्यौजसां व्याससमासयोगैः ॥ ३५.२१० ॥

सर्वाणि राजर्षिसुरर्थिमन्ति ब्रह्मर्षिदेवोरगवन्ति चैव ॥
सुरेशसप्तर्षिपितृप्रजेशैर्युक्तानि सम्यक् परिवर्त्तनानि ॥ ३५.२११ ॥

उदारवंशाभिजन श्रुतीनां प्रकृष्टमेधाभिसमेधितानाम् ॥
कीर्तिद्युतिख्यातिभिरर्चितानां पुण्यं हि विश्यापनमीश्वराणाम् ॥ ३५.२१२ ॥

स्वर्गीयमेतत्परमं पवित्रं पुत्रीयमेतच्च परं रहस्यम् ॥
जप्यं महापर्वसु चैतदग्र्यं दुःखापशान्तिप्रदमायुषीयम् ॥ ३५.२१३ ॥

प्रजशदवर्षिमनुप्रधानां पुण्यां प्रसूतिं प्रथितामजस्य ॥
ममापि विख्यापयतः समासात्सिद्धिं प्रजेशाः प्रदिशन्तु युक्ताः ॥ ३५.२१४ ॥

इत्येतदन्तरं प्रोक्तं मनोः स्वायम्भुवस्य च ॥
विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम् ॥ ३५.२१५ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुष्गपादे
वेदव्यसनाख्यानं स्वायम्भुवमन्वन्तरवर्णनं च नाम पञ्चत्रिंशत्तमोऽध्यायः ॥ ३५॥