विश्वास-प्रस्तुतिः
वायुरुवाच ॥
ऋषयस्तद्वचः श्रुत्वा सूतमाहुस्तदुत्तरम् ॥
कथं वेदाः पुनर्व्यस्तास्तन्नो ब्रूहि महामते ॥ ३४.१ ॥
मूलम्

सूत उवाच ॥
द्वापरे तु पुरावृत्ते मनोः स्वायम्भुवान्तरे ॥
ब्रह्मा मनुमुवाचेदं रक्षवेदं महामते ॥ ३४.२ ॥

परिवृत्तं युगं तात स्वल्पवीर्या द्विजातयः ॥
संवृता युगदोषेण सर्वे चैव यथाक्रमम् ॥ ३४.३ ॥

तस्य मानं युगवशादल्पं चैव हि दृश्यते ॥
दशसाहस्रभागेन ह्यवशिष्टं कृतोदितम् ॥ ३४.४ ॥

वाय तेजो बलं चाल्पं सर्वं चैव प्रणश्यति ॥
वेदक्रिया हि कार्याः स्युर्माभूद्वेदविनाशनम् ॥ ३४.५ ॥

वेदे नाशमनुप्राप्ते यज्ञो नाशं गमिष्यति ॥
यज्ञे नष्टे वेदनाशस्ततः सर्वं प्रणश्यति ॥ ३४.६ ॥

आद्यो वेदश्च तुष्पादः शतसाहस्रसम्मितः ॥
पुनर्दशगुणः कृष्णो यज्ञो वै सर्वकामधुक् ॥ ३४.७ ॥

एवमुक्तस्तथेत्युक्त्वा मनुर्लौकहिते रतः ॥
वेदमेकं चतुष्पादं चतुर्द्धा व्यभजत्प्रभुः ॥ ३४.८ ॥

ब्रह्मणो वचनात्तात लोकानां हितकाम्यया ॥
तदहं वर्त्तमानेन युष्माकं वेदकल्पनम् ॥ ३४.९ ॥

मन्वन्तरेण वक्ष्यमि व्यतीतानां प्रकल्पनम् ॥
प्रत्यक्षेण वरोक्षंवै तन्निबोधत सत्तमाः ॥ ३४.१० ॥

अस्मिन्युगे तदा व्यासः पाराशर्यः परन्तपः ॥
द्वैपायन इति ख्यातो विष्णोरंशः सनातनः ॥ ३४.११ ॥

ब्रह्मणा चोदितः सोऽस्मिन् वेदं वक्तुं प्रचक्रमे ॥
अथ शिष्यान्सजग्राह चतुरो वेदकारणात् ॥ ३४.१२ ॥

जैमिनिं च सुमन्तुं च वैशम्पायनमेव च ॥
चतुर्थं पैलमेतेषां पञ्चमं लोमहर्षणम् ॥ ३४.१३ ॥

ऋग्वेदश्रावकं पैलमग्रहीद्विधिवद्द्विजाः ॥
यजुर्वेदप्रवक्तारं वैशम्पायनमेव च ॥ ३४.१४ ॥

जैमिनिं सामवेदार्थश्रावकं सोऽन्वपद्यत ॥
तथैवाथ र्ववेदस्य सुमन्तुमृषिसत्तमम् ॥ ३४.१५ ॥

इतिहासपुराणस्य कलपवाक्यस्य चैव हि ॥
मां चैव प्रतिजग्राह भगवानीश्वरः प्रभुः ॥ ३४.१६ ॥

एक आसीद्यजुर्वेदस्तं चतुर्द्धा व्यकल्पयत् ॥
चातुर्होत्रमभूत्तस्मिंस्तेन यज्ञमकल्पयत् ॥ ३४.१७ ॥

आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथैव च ॥
औद्गात्रं सामभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः ॥ ३४.१८ ॥

ततः स ऋच उद्धृत्य ऋग्वेदं समकल्पयत् ॥
होतृकं कल्पयत्तेन यजुर्वेदं जगत्पतिः ॥ ३४.१९ ॥

सामभिः सामवेदं च तेनौद्गात्रमकल्पयत् ॥
रा५स्त्वथर्ववेदेन सर्वकर्माण्यकारयत् ॥ ३४.२० ॥

आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कल्पजोक्तिभिः ॥
पुरामसंहितां चक्रे पुराणार्थविशारदः ॥ ३४.२१ ॥

यच्छिष्टं तु यजुर्वेदे तेन य५मयुञ्जत ॥
यजनात्स यजुर्वेद इति शास्त्रविनिश्चयः ॥ ३४.२२ ॥

पादानामुद्धतत्वाच्च यजूंषि विषमाणि च ॥
शतेनोद्धतवीर्यस्तु ऋत्विग्भिर्वेदपारगैः ॥ ३४.२३ ॥

प्रयुज्यते ह्यश्वमेधस्तेन वा पुष्यते तु सः ॥
ऋचो गृहीत्वा पैलस्तु व्यभजत्तु द्विधा पुनः ॥ ३४.२४ ॥

द्वे कृत्वा संहिते चैव शिष्याभ्या मददाद्विबुः ॥
इन्द्रप्रमत्तये चैकां द्वितीयां बाष्कलाय च ॥ ३४.२५ ॥

चतस्रः संहिताः कृत्वा बाष्कलो द्विजसत्तमः ॥
शिष्यानध्यापया मास शुश्रुषाभिरतान्हितान् ॥ ३४.२६ ॥

बोध्यां तु प्रथमां शाखां द्वितीयामग्निमातरम् ॥
पाराशरीं तृतीयां तु या५वल्क्यामथापराम् ॥ ३४.२७ ॥

इन्द्रप्रमतिरेकां तु संहितामृषिसत्तमः ॥
अध्यापयन्महाभागं माण्डूकेयं यशस्विनम् ॥ ३४.२८ ॥

स्त्यस्रवसमग्र्यं तु पुत्रं स तु महायशाः ॥
सत्यस्रवाः सत्यहितं पुत्रमध्यापयद्विभुः ॥ ३४.२९ ॥

सोऽपि सत्यहितः पुत्रं पुनरध्यापयद्द्विजाः ॥
सत्यश्रियं महात्मानं सत्य धर्मपरायणम् ॥ ३४.३० ॥

अभवंस्तस्य शिष्या वै त्रयस्तु सुमहौजसः ॥
सत्यश्रियाश्च विद्वांसः शास्त्रग्रहणतत्पराः ॥ ३४.३१ ॥

शाकल्यः प्रथमस्तेषां तस्मादन्यो रथीतरः ॥
बाष्कलिश्च भरद्वाज इति शाखाप्रवर्त्तकाः ॥ ३४.३२ ॥

देवमित्रस्तु शाकल्यो ज्ञानाहङ्कारगर्वितः ॥
जनकस्य स यज्ञे वै विनाशामगमद्द्विजाः ॥ ३४.३३ ॥

शांशपायन उवाच ॥
कथं विनाशमगमत्स मुनिर्ज्ञानगर्वितः ॥
जनकस्याश्वमेधे तु कथ वादाऽभ्यजायत ॥ ३४.३४ ॥

किमर्थं वाऽभवद्वादः केन सार्द्धमथापि वा ॥
एतत्सर्वं यथा वृत्तमाचक्ष्त्र विदितं तव ॥ ३४.३५ ॥

जनकस्याश्वमेधे तु महानासीत्समागमः ॥
ऋषीणां हि सहस्राणि तत्राजग्मुरनेकशः ॥ ३४.३६ ॥

राजर्षेर्जनकस्याथ तं यज्ञं हि दिदृक्षवः ॥
आगतान्ब्राह्मणान्दृष्ट्वा जिज्ञासास्याभवत्ततः ॥ ३४.३७ ॥

को न्वेषां ब्राह्मणश्रेष्ठः कथं मे निश्चयो भवेत् ॥
इति निश्चित्य मनसा बुद्धिं चक्रे जनाधिपः ॥ ३४.३८ ॥

गवां सहस्रमादाय सुवर्णमधिकं ततः ॥
ग्रामान्रत्नानि दासीस्छ मुनीन्प्राह नराधिपः ॥ ३४.३९ ॥

सर्वानहं प्रपन्नो वः शिरसा श्रेष्ठभागिनः ॥
यदेतदाहृतं वित्तं यो वा श्रेष्ठतमो भवेत् ॥ ३४.४० ॥

तस्मै तदुपनीतं मे वित्त वित्तं द्विजोत्तमाः ॥
जनकस्य वचः श्रुत्वा ऋषयस्ते श्रुतिक्षमाः ॥ ३४.४१ ॥

दृष्ट्वा धनं महासारं धनगृध्ना जिघृक्षवः ॥
आह्वयाञ्चक्रिरेऽन्योन्यं वेदज्ञानमदोल्बणान् ॥ ३४.४२ ॥

मनसा गतवित्तास्ते ममैतद्धनमित्युत ॥
ममैतन्न तवेत्यन्यो ब्रूहि वा किं विकत्थसे ॥ ३४.४३ ॥

इत्येवं धनदोषेण वादांश्चकुरनेकशः ॥
अथान्यस्तत्रवै विद्वान्ब्रह्मणस्तु सुतः कविः ॥ ३४.४४ ॥

याज्ञवल्क्यो महातेजास्तपस्वी ब्रह्मवित्तमः ॥
ब्रह्मणोंऽशसमुत्पन्नो वाक्यं प्रोवाच सुस्वरम् ॥ ३४.४५ ॥

शिष्यं ब्रह्मविदां श्रेष्ठं धनमेतद्गृहाण वै ॥
नयस्व च गृहंवत्स ममैतन्नात्र संशयः ॥ ३४.४६ ॥

सर्ववादेष्वहं वक्ता नान्यः कश्चित्तु मत्समः ॥
यो वा न प्रीयते विद्वान्समाह्वयतु माचिरम् ॥ ३४.४७ ॥

ततो ब्रह्मार्णवः क्षुब्दः समुद्र इव सम्प्लवे ॥
तानुवाच ततः स्वस्थो याज्ञवल्क्यो हसन्निव ॥ ३४.४८ ॥

क्रोधं मा कार्ष्ट विद्वांसो भवन्तः सत्यवादिनः ॥
वदामहे यथाशक्ति जिज्ञासन्तः परस्परम् ॥ ३४.४९ ॥

ततोऽभ्युपगतास्तेषां वादाः शब्दैरनेकशः ॥
सहस्रधा शुभैरर्थैः सुक्ष्मदर्शनसम्भवैः ॥ ३४.५० ॥

लोके वेदे तथाऽध्यात्मविद्यास्थानैरलङ्कृतैः ॥
सन्त्युत्तमगुणैर्युक्ता नृपस्यापि परीक्षकाः ॥ ३४.५१ ॥

वादाः समभवंस्तत्र धनहेतोर्महात्मनाम् ॥
ऋषयस्त्वेकतः सर्वे याज्ञवल्क्यस्तथैकतः ॥ ३४.५२ ॥

सर्वे ते मुनयस्तेन याज्ञवल्क्येन धीमता ॥
एकैकशस्ततः पृष्टा नैवोत्तरमथाब्रुवन् ॥ ३४.५३ ॥

स विजित्य मुनीन्सर्वान् ब्रह्मराशिर्महामतिः ॥
शाकल्यमिति होवाच वादकर्त्तारमञ्जसा ॥ ३४.५४ ॥

शाकल्य वद वक्तव्यं किं ध्यायन्नवतिष्ठसे ॥
पणस्तु यजमानेन बद्धो नीतो यथा धृतः ॥ ३४.५५ ॥

एवं स धर्षितस्तेन रोषात्ताम्रास्यलोचनः ॥
प्रोवाच याज्ञवल्क्यं सपुरुषं मुनिसन्निधौ ॥ ३४.५६ ॥

त्वमस्मास्तृणवत्कृत्वा तथैवान्यान्द्विजोत्तमान् ॥
विद्याधनं महासारं स्वयङ्ग्राहं जिघृक्षसि ॥ ३४.५७ ॥

शाकल्येनैवमुक्तस्तु याज्ञवल्क्यस्तमब्रवीत् ॥
ब्रह्मिष्ठानां बलं विद्धि विद्यातत्त्वार्थदर्शनम् ॥ ३४.५८ ॥

कामस्यार्थेन सम्बन्धस्तेनार्थं कामयामहे ॥
कामप्रश्र्नधना विप्राः कामप्रश्नं वदामहे ॥ ३४.५९ ॥

पणश्चैवास्य राजर्षेस्तस्मान्नीतं धनं मया ॥
एतच्छ्रुत्वा वचस्तस्य शाकल्यः क्रोधमूर्च्छितः ॥ ३४.६० ॥

या५वल्क्यमथोवाच कामप्रश्नार्थकृद्वचः ॥
ब्रूहीदानीं मयोद्दिष्टान्कामप्रश्नान्यथार्थतः ॥ ३४.६१ ॥

ततः समभवद्वादस्तयोर्ब्रह्मविदोर्महान् ॥
साग्रं प्रश्नसहस्रं तु शाकल्यः सोऽकरोत्तदा ॥ ३४.६२ ॥

याज्ञवल्क्योऽब्रवीत्सर्वमृषीणां श्रृण्वतां तदा ॥
शाकल्यस्त्वास निर्वादो याज्ञवल्क्यस्तमब्रवीत् ॥ ३४.६३ ॥

प्रश्नमेकं ममापि त्वं शाकल्य वद कामिकम् ॥
पणप्राप्यस्य वादस्य ब्रुवतोर्मृत्युरत्र वै ॥ ३४.६४ ॥

सुसूक्ष्मज्ञानसंयुक्तं साङ्ख्यंयोगमथापि वा ॥
अध्यात्मस्य गतिं मुख्यां ध्यानमार्गमथापि वा ॥ ३४.६५ ॥

अथ सञ्चोदितः प्रश्नो याज्ञवल्क्येन धीमता ॥
शाकल्यस्तमविज्ञाय तथा मृत्युमवाप्तवान् ॥ ३४.६६ ॥

एवं स्मृतः स शाकल्यः प्रश्नव्याख्यानपीडितः ॥
एवं विवादः सुमहानासीत्तेषां धनार्थिनाम् ॥ ३४.६७ ॥

ऋषीणामृषिभिः सार्द्धं याज्ञवल्क्यस्य चैव हि ॥
याज्ञवल्क्यो धनं गृह्य यशो विख्याय चात्मनः ॥
जगाम वै गृहं स्वच्छं शिष्यैः परिवृतो वशी ॥ ३४.६८ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे
व्यासशिष्योत्पत्तिवर्णनं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥ ३४ ॥