विश्वास-प्रस्तुतिः
सूत उवाच ॥
ऋषिकाणां सुताश्चापि विज्ञेया ऋषिपुत्रकाः ॥
ब्राह्यणानां प्रवक्तारो नामतश्च निबोधत ॥ ३३.१ ॥
मूलम्

सप्रधानाः प्रवक्ष्यन्ते समासाच्च श्रुतर्षयः ॥
बह्वृचो भार्गवः पैलः साङ्कृत्यो जाजलिस्तथा ॥ ३३.२ ॥

सन्ध्यास्तिर्माठरश्चैव याज्ञवल्क्यः पराशरः ॥
उपमन्युरिन्द्रप्रमतिर्माडूकिः शाकलिश्च सः ॥ ३३.३ ॥

बाष्कलिः शोकपाणिश्च नैलः पैलोऽलकस्तथा ॥
पन्नगाः पक्षगन्ताश्च षडशीतिः श्रुतर्षयः ॥ ३३.४ ॥

एते द्विजातयो मुख्या बह्वृचानां श्रुतर्षयः ॥
वैशम्पायनलौहित्यौ कण्ठकालावशावधः ॥ ३३.५ ॥

श्यामापतिः पलाडुश्च आलम्बिः कमलापतिः ॥
तेषां शिष्याः प्रशिष्याश्च षडशीति श्रुतर्षयः ॥ ३३.६ ॥

एते द्विजर्षयः प्रोक्ताश्चरकाध्वर्यवो द्विजाः ॥
चैमिनिः सभरद्वाजः काव्यः पौष्यञ्जिरेव च ॥ ३३.७ ॥

हिरण्यनाभः कौशिल्यो लौगाक्षिः कुसुमिस्तथा ॥
लङ्गली शालिहोत्रश्च शक्तिराजश्च भार्गवः ॥ ३३.८ ॥

सामगानामथाचार्य ऐलो राजा पुरूरवाः ॥
षट्चत्वारिंशदन्ये वै तेषां शिष्याः श्रुतर्षयः ॥ ३३.९ ॥

कौशीतिः कङ्कमुद्गश्च कुण्डकः सपराशरः ॥
लोभालोभश्च धर्मात्मा तथा ब्रह्म बलश्च सः ॥ ३३.१० ॥

क्रन्थलोऽथो मदगलो मार्कण्डेयोऽथ धर्मवित् ॥
इत्येते नवतिर्ज्ञेया होत्रवद्ब्रह्मचारिणः ॥ ३३.११ ॥

चरकाध्वर्यवश्चापि ह्यनुमन्न्त्रं तु ब्राह्मणम् ॥
चलूभिः सुमतिश्चैव तथा देववरश्च यः ॥ ३३.१२ ॥

अनुकृष्णस्तथायुश्च अनुभूमिस्तथैव च ॥
तथाप्रीतः कृशाश्वश्व सुमूलिर्बाष्कलिस्तथा ॥ ३३.१३ ॥

चरकाध्वर्यकाध्वर्युनमस्युर्ब्रह्मचारिणः ॥
वैयासकिः शुको विद्वाल्ँलौकिर्भूरिश्रवास्तथा ॥ ३३.१४ ॥

सोमाविरतुनान्तक्यस्तथा धौम्यश्च काश्यपः ॥
आरण्या इलकश्चैव उपमन्युर्विदस्तथा ॥ ३३.१५ ॥

भार्गवो मधुकः पिङ्गः श्वेत केतुस्तथैव च ॥
प्रजादर्पः कहोडश्च याज्ञवल्क्योऽथ शौनकः ॥ ३३.१६ ॥

अनङ्गो निरतालश्च मध्यमाध्वर्यवस्तुते ॥
अदितिर्देवमाता च जलापा चैव मानवी ॥ ३३.१७ ॥

उर्वशी विश्वयोषा च ह्यप्सरःप्रवरे शुभे ॥
मुद्गला चातुजीवैव तारा चैव यशस्विनी ॥ ३३.१८ ॥

प्रातिमेधी च मार्गा च सुजाता च महातपा ॥
लोपामुद्रा च धर्मज्ञा या च कोशीतिका स्मृता ॥ ३३.१९ ॥

एताश्च ब्रह्मवादिन्य अप्सरो रूपंसमताः ॥
इत्येता मुख्यशः प्रोक्ता मया च ऋषिपुत्रकाः ॥ ३३.२० ॥

वैदशाखाप्रणयनास्ततस्ते ऋषयः स्मृताः ॥
ईश्वरा मन्त्रवक्तार ऋषयो ह्यृषिकास्तथा ॥ ३३.२१ ॥

ऋषिपुत्राः प्रवक्तरः कल्पानां ब्राह्मणस्य तु ॥
ईश्वराणामृषीणां च ऋषिकाणां सहात्मजैः ॥ ३३.२२ ॥

तथा वाक्यानि जनीष्व यथैषां मन्त्रदृष्टयः ॥
तत्राज्ञायुक्तमद्वैतं दीप्तं गम्भीरशब्दवत् ॥ ३३.२३ ॥

अत्यन्तमपरोक्षं च लिङ्गं नाम तथैव च ॥
सर्वभूतान्यभूतं च परिदानं च यद्भवेत् ॥ ३३.२४ ॥

क्वचिन्निरुक्तप्रोक्तार्थं वाक्यं स्वायम्भुवं विदुः ॥
यत्किञ्चिन्मन्त्रसंयुक्तं तत्र नामविभक्तिभिः ॥ ३३.२५ ॥

प्रत्यक्षाभिहितं चैवमृषीणां वचनं मतम् ॥
नैगमैर्विविधैः शब्दैर्निपातैर्बहुलं च यत् ॥ ३३.२६ ॥

यच्चाप्यस्ति महद्वाक्यमृषीकाणां वचः स्मृतम् ॥
अविस्पष्टपदं यच्च यच्च स्याद्बहुसंशयम् ॥ ३३.२७ ॥

ऋषिपुत्रवचस्तद्वै सर्वाश्च परिदेवताः ॥
हेतुदृष्टान्त बहुलं चित्रशब्दमपार्थकम् ॥ ३३.२८ ॥

सर्वास्तु तमशक्तं च वाक्यमेतत्तु मानुषम् ॥
मिश्रा इति समाख्याताः प्रभावादृषितां गाताः ॥ ३३.२९ ॥

समुत्कर्षाय कर्षाभ्यां जातिव्यत्याससम्भवाः ॥
भूतभव्यभवज्ज्ञान जन्मदुःखचिकित्सनम् ॥ ३३.३० ॥

मिश्राणां तद्भवेद्वाक्यं गुरोर्बलप्रवर्त्तनम् ॥
धर्मशास्त्रप्रणेतारो महिम्ना सर्वगाश्च वै ॥ ३३.३१ ॥

तपःप्रकर्षः सुमहान्येषां ते ऋषयः स्मृताः ॥
बृहस्पतिश्च शुक्रश्च व्यासः सारस्वतस्तथा ॥ ३३.३२ ॥

व्यासाः शास्त्रप्रणयना वेदव्यास इति स्मृताः ॥
यस्मादवारजाः सन्तः पूर्वेभ्यो मेधयाधिकाः ॥ ३३.३३ ॥

ऐश्वर्येण च सम्पन्नास्ततस्ते ऋषयः स्मृताः ॥
यस्मिन्कालो न चं वयः प्रमाणमृषिभावने ॥ ३३.३४ ॥

दृश्यते हि पुमान्कश्चित्कश्चिज्ज्येष्ठतमो धिया ॥
यस्माद्बुद्ध्या च वर्षीयान्बलोऽपि श्रुतवानृषिः ॥ ३३.३५ ॥

यः कश्चित्पादवान्मध्ये प्रयुक्तोऽक्षर सम्पदा ॥
विनियुक्तावसानां तु तामृचं परिचक्षते ॥ ३३.३६ ॥

यः कश्चित्करणैर्मन्त्रो न च पादक्षरैर्मितः ॥
अतियुक्तावसानं च तद्यजुर्वै प्रचक्षते ॥ ३३.३७ ॥

ह्रीङ्कारः प्रणवो गीतः प्रस्तावश्च चतुर्थकम् ॥
पञ्चमः प्रतिहोत्रश्च षष्ठमाहुरुपद्रवम् ॥ ३३.३८ ॥

निधनं सप्तमं साम्नः सप्तविन्ध्य मिदं स्मृतम् ॥
पञ्चविन्ध्य इति प्रोक्तं ह्रीङ्कारः प्रणवादृते ॥ ३३.३९ ॥

ब्रह्मणे धर्ममत्युक्तौ यत्तदा ज्ञाप्यतेऽर्थतः ॥
आशास्तिस्तु प्रसङ्ख्याता विलापः परिदेवना ॥ ३३.४० ॥

क्रोधाद्वा द्वेषणाच्चैव प्रश्राख्यानं तथैव च ॥
एतत्तु सर्वविद्यानां विहितं मन्त्रलक्षणम् ॥ ३३.४१ ॥

मन्त्रा नवविधाः प्रोक्ता ऋग्यजुः सामलक्षणाः ॥
मूर्तिर्निन्दा प्रशंसा चाक्रोशस्तोषस्तथैव च ॥ ३३.४२ ॥

प्रश्रानुज्ञास्तथाख्यानमाशास्मतिविधयो मताः ॥
मन्त्रभेदांश्च वक्ष्यामि चतुर्विशतिलक्षणान् ॥ ३३.४३ ॥

प्रशंसा स्तुतिराक्रोशो निन्दा च परिदेवना ॥
अभिशापो विशापश्च प्रश्नः प्रतिवचस्तथा ॥ ३३.४४ ॥

आशीर्यज्ञस्तथाऽक्षेप अर्थाख्यानं च सङ्कथा ॥
वियोगा ह्यभियोगाश्च कथा संस्था वरश्च वै ॥ ३३.४५ ॥

प्रतिषेधोप देशौ च नमस्कारः स्पृहा तथा ॥
विलापश्चेति मन्त्राणां चतुर्विंशतिरुद्धृताः ॥ ३३.४६ ॥

ऋषिभिर्यज्ञतत्त्वज्ञैर्विहितं ब्रह्मणं पुरा ॥
हेतु र्निर्वचनं निन्दा प्रशस्तिः संशयो निधिः ॥ ३३.४७ ॥

पुराकृतिपुराकल्पौ व्यवधारणकल्पना ॥
ुपमा च दशैते वै विधयो ब्राह्मणस्य तु ॥ ३३.४८ ॥

लक्षणं ब्राह्मणस्यैनद्विहितं सर्वशाखिनाम ॥
हेतुर्हन्तेः स्मृतो धातोर्यन्निहन्त्युदितं परैः ॥ ३३.४९ ॥

अथवार्थे परिप्राप्ते हिनो तेर्गतिकर्मणा ॥
तथा निर्वचनं ब्रूयाद्वाक्यार्थस्यावधारणम् ॥ ३३.५० ॥

निन्दां तामाहुरायार्या यद्दोषे निन्दनं वचः ॥
प्रपूर्वाच्छंसतेर्धातोः प्रशंसागुणवत्तया ॥ ३३.५१ ॥

इदं त्विदमिदं नैदमित्यनिश्चित्य संशयम् ॥
इदमेवं विधातव्यमित्ययं विधिरुच्यते ॥ ३३.५२ ॥

अन्यस्यान्यस्य चौक्तिर्या बुधैः सोक्ता पुराकृतिः ॥
यो ह्यत्यन्तपरोक्षार्थः स पुराकल्प उच्यते ॥ ३३.५३ ॥

पुरातिक्रान्तवाचित्वात्पुराकल्पस्य कल्प नाम् ॥
मन्त्रब्राह्मणकल्पैश्च निगमैः शुद्धविस्तरैः ॥ ३३.५४ ॥

अनिश्चित्य कृतामाहुर्व्यवधारणकल्पनाम् ॥
यथा हीदं तथा तद्वै इदं चैव तथैव तत् ॥ ३३.५५ ॥

इत्येवमेषा ह्युपमा दशमो ब्राह्मणस्य तु ॥
इत्येतद्ब्रह्मणस्यादौ विहितं रक्षणं बुधैः ॥ ३३.५६ ॥

तस्य तद्विद्भिरुद्दिष्टा व्याख्याम्यनुपदं द्विजैः ॥
मन्त्राणां कल्पना चैव विधिदृष्टिषु कर्मसु ॥ ३३.५७ ॥

मन्त्रो मन्त्रयतेर्द्धातोर्ब्राह्मणो ब्राह्मणेन तु ॥
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् ॥
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥ ३३.५८ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे
ऋषिलक्षणं नाम त्रयस्त्रिन्त्तमोऽध्यायः ॥ ३३ ॥