०३२

विश्वास-प्रस्तुतिः

सूत उवाच ॥
युगेषु यास्तु जायन्ते प्रजास्ता मे निबोधत ॥
आसुरी सर्पगान्धर्वा पैशाची यक्षराक्षसी ॥ ३२.१ ॥

मूलम्

यस्मिन्युगे च सम्भूति स्तासां यावच्च जीवितम् ॥
पिशाचासुरगन्धर्वां यक्षराक्षसपन्नगाः ॥ ३२.२ ॥

परिणाहोच्छ्रयैस्तुल्या जायन्ते ह कृते युगे ॥
षण्णवत्यङ्गुलो त्सेधो ह्यष्टानां देवजन्मनाम् ॥ ३२.३ ॥

स्वेनाङ्गुलप्रमाणेन निष्पन्नेन च पौष्टिकात् ॥
एतत्स्वाभाविकं तेषां प्रमाणमिति कुर्वते ॥ ३२.४ ॥

मनुष्या वर्तमानास्तु युगं सन्ध्याशकेष्विह ॥
देवासुरप्रमाणं तु सप्तसप्तङ्गुलादसत् ॥ ३२.५ ॥

अङ्गुलानां शतं पूर्णमष्टपञ्चाशदुत्तरम् ॥
देवासुरप्रमाणं तु उच्छ्रयात्कलिजैः स्मृतम् ॥ ३२.६ ॥

चत्वारश्चाप्यशीतिश्च कलिजैरङ्गुलैः स्मृतः ॥
स्वेनाङ्गुलिप्रमाणेन ऊर्द्ध्वमापादमस्तकात् ॥ ३२.७ ॥

इत्येष मानुषोत्सेधो ह्रसतीह युगांशके ॥
सर्वेषु युगकालेषु अतीतानागतेष्विह ॥ ३२.८ ॥

स्वेनाङ्गुलिप्रमाणेन अष्टतालः स्मृतो नरः ॥
आपादतलमस्तिष्को नवतालो भवेत्तु यः ॥ ३२.९ ॥

संहता जानुबाहुस्तु स सुरैरपि पूज्यते ॥
गवाश्वहस्तिनां चैव महिष स्यावरात्मनाम् ॥ ३२.१० ॥

कर्मणैतेन विज्ञेये ह्रासवृद्धी युगे युगे ॥
षट्सप्तत्यङ्गुलोत्सेधः पशूनां ककुदस्तु वै ॥ ३२.११ ॥

अङ्गुलाष्टशतं पूर्णमुत्सेधः करिणां स्मृतः ॥
अङ्गुलानां सहस्रं तु चत्वारिंशाङ्गुलैर्विना ॥ ३२.१२ ॥

पञ्चाशता यवानां च उत्सेधः शाखिनां स्मृतः ॥
मानुषस्य शरीरस्य सन्निवेशस्तु यादृशः ॥ ३२.१३ ॥

तल्लक्षणस्तु देवानां दृश्येत तत्त्वदर्शनात् ॥
बुद्ध्यातिशययुक्तश्च देवानां काय उच्यते ॥ ३२.१४ ॥

तथा सातिशयस्छैव मानुषः काय उच्यते ॥
इत्येते वै परिक्रान्ता भावा ये दिव्यमानुषाः ॥ ३२.१५ ॥

पशूनां पक्षिणां चैव स्थावराणां च सर्वशः ॥
गावो ह्यजावयोऽश्वाश्च हस्तिनः पक्षिणो नगाः ॥ ३२.१६ ॥

उपयुक्ताः क्रियास्वेते यज्ञियास्विह सर्वशः ॥
देवस्थानेषु जायन्ते तद्रूपा एव ते पुनः ॥ ३२.१७ ॥

यथाशयोपभोगास्तु देवानां शुभमूर्त्तयः ॥
तेषां रूपानुरूपैस्तु प्रमाणैः स्थाणुजङ्गमैः ॥ ३२.१८ ॥

मनोज्ञैस्तत्र भावैस्ते सुखिनो ह्युपपेदिरे ॥
अतः शिष्टान्प्रवक्ष्यामि सतः साधूंस्तथैव च ॥ ३२.१९ ॥

सदिति ब्रह्मणः शब्दस्तद्वन्तो ये भवन्त्युत ॥
साजात्याद्ब्रह्मणस्त्वेते तेन सन्तः प्रचक्षते ॥ ३२.२० ॥

दशात्मके ये विषये कारणे चाष्टलक्षणे ॥
न क्रुध्यन्ति न त्दृष्यन्ति जितात्मानस्तु ते स्मृताः ॥ ३२.२१ ॥

सामान्येषु तु धर्मेषु तथा वैशेषिकेषु च ॥
ब्रह्मक्षत्रविशो यस्माद्युक्तास्तस्मा द्द्विजातयः ॥ ३२.२२ ॥

वर्णाश्रमेषु युक्तस्य स्वर्गतौ सुखचारिमः ॥
श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मज्ञ उच्यते ॥ ३२.२३ ॥

विद्यायाः साधनात्साधुर्ब्रह्मचारी गुरोर्हितः ॥
गृहाणां साधनाच्चैव गृहस्थः साधुरुच्यते ॥ ३२.२४ ॥

साधनात्तपसोऽरण्ये साधुर्वैखानसः स्मृतः ॥
यतमानो यतिः साधुः स्मृतो योगस्य साधनात् ॥ ३२.२५ ॥

एवमाश्रमधर्माणां साधनात्साधवः स्मृताः ॥
गृहस्थो ब्रह्मचारी च वानप्रस्थो यतिस्तथा ॥ ३२.२६ ॥

अथ देवा न पितरो मुनयो न च मानुषाः ॥
अयं धर्मो ह्ययं नेति विन्दते भिन्नदर्शनाः ॥ ३२.२७ ॥

धर्माधर्माविहप्रोक्तौ शब्दावेतौ क्रियात्मकौ ॥
कुशलाकुशलं कर्म धर्माधर्माविह स्मृताम् ॥ ३२.२८ ॥

धारणर्थो धृतिश्चैव धातुः शब्दे प्रकीर्त्तितः ॥
अधारणामहत्त्वे च अधर्म इति चोच्यते ॥ ३२.२९ ॥

अथेष्टप्रापको धर्म आचार्यैरुपदिश्यते ॥
अधर्मश्चानिष्टफलोह्याचार्यैरुपदिश्यते ॥ ३२.३० ॥

वृद्धाश्चालोलुपाश्चैव त्वात्मवन्तो ह्यदाम्भिकाः ॥
सम्यग्विनीता ऋजवस्तानाचार्यान्प्रजक्षते ॥ ३२.३१ ॥

स्वयमाचरते यस्मादाचारं स्थापयत्यपि ॥
आचिनोति च शास्त्राणि आचार्यस्तेन चोच्यते ॥ ३२.३२ ॥

धर्मज्ञैर्विहितो धर्मः श्रौतः स्मार्त्तो द्विधा द्विजैः ॥
दाराग्निहोत्रसम्बन्धाद्द्विधा श्रौतस्य लक्षणम् ॥ ३२.३३ ॥

स्मार्त्तो वर्णाश्रमाचारैर्यमैः सनियमैः स्मृतः ॥
पूर्वेभ्यो वेदयित्वेह श्रौतं सप्तर्ष योऽब्रुवन् ॥ ३२.३४ ॥

ऋचो यजूंसामानि ब्रह्मणोऽङ्गानि च श्रुतिः ॥
मन्वन्तरस्यातीतस्य स्मृत्वाचारान्मनुर्जगौ ॥ ३२.३५ ॥

तस्मा त्स्मार्त्तः धर्मो वर्णाश्रमविभाजकः ॥
स एष विविधो धर्मः शिष्टाचार इहोच्यते ॥ ३२.३६ ॥

शेषशब्दः शिष्ट इति शेषं शिष्टं प्रचक्षते ॥
मन्वन्तरेषु ये शिष्टा इह तिष्ठन्ति धार्मिकाः ॥ ३२.३७ ॥

मनुः सप्तर्षयश्चैव लोकसन्तानकारमात् ॥
धर्मार्थं ये च तिष्ठन्ति ताञ्छिष्टान्वै प्रचक्षते ॥ ३२.३८ ॥

मन्वादयश्च येऽशिष्टा ये मया प्रागुदीरिताः ॥
तैः शिष्टैश्चरितो धर्मः सम्यगेव युगे युगे ॥ ३२.३९ ॥

त्रयी वार्त्ता दण्डनीतिरिज्या वर्णाश्रमास्तथा ॥
शिष्टैराचर्यते यस्मान्मनुना च पुनः पुनः ॥ ३२.४० ॥

पूर्वैः पूर्वगतत्वाच्च शिष्टाचारः स सात्वतः ॥
दानं सत्यं तपो ज्ञानं विद्येज्या व्रजनं दया ॥ ३२.४१ ॥

अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् ॥
शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयस्तु वै ॥ ३२.४२ ॥

मन्वन्तरेषु सर्वेषु शिष्टाचारस्ततः स्मृतः ॥
विज्ञेयः श्रवणाच्छ्रौतः स्मरणात्स्मार्त्त उच्यते ॥ ३२.४३ ॥

इज्यावेदात्मकः श्रौतः स्मार्त्तो वर्णाश्रमात्मकः ॥
प्रत्यङ्गानि च वक्ष्यामि धर्मस्येह तु लक्षणम् ॥ ३२.४४ ॥

दृष्ट्वा तु भूतमर्थं यः पृष्टो वै न निगू हति ॥
यथा भूतप्रवादस्तु इत्येतत्सत्यलक्षणम् ॥ ३२.४५ ॥

ब्रह्मचर्यं जपो मौनं निराहारत्वमेव च ॥
इत्येतत्तपसो रूपं सुघोरं सुदुरा सदम् ॥ ३२.४६ ॥

पशूनां द्रव्यहविषामृक्सामयजुषां तथा ॥
ऋत्विजां दक्षिणानां च संयोगो यज्ञ उच्यते ॥ ३२.४७ ॥

आत्मवत्सर्वभूतेषु या हितायाहिताय च ॥
प्रवर्त्तन्ते समा दृष्टिः कृत्स्नाप्येषा दया स्मृता ॥ ३२.४८ ॥

आक्रुष्टो निहतो वापि नाक्रोशेद्यो न हन्ति च ॥
वाङ्मनःकर्मभिर्वेत्ति तितिक्षैषा क्षमा स्मृता ॥ ३२.४९ ॥

स्वामिना रक्ष्यमाणानामुत्सृष्टानां च सम्भ्रमे ॥
परस्वानामनादानमलोभ इति कीर्त्यते ॥ ३२.५० ॥

मैथुनस्यासमाचारो न चिन्ता नानुजल्पनम् ॥
निवृत्तिर्ब्रह्मचर्यं तदच्छिद्रं तप उच्यते ॥ ३२.५१ ॥

आत्मार्थं वा परार्थं वा चेन्द्रियाणीह यस्य वै ॥
मिथ्या न सम्प्रवर्त्तन्ते शामस्यैतत्तु लक्षमम् ॥ ३२.५२ ॥

दशात्मके यो विषये कारणे चाष्टलक्षणे ॥
न क्रुद्ध्येत प्रतिहतः स जितात्मा विभाव्यते ॥ ३२.५३ ॥

यद्यदिष्टतमं द्रव्यं न्यायेनैवागतं च यत् ॥
तत्तद्गुणवते देयमित्येतद्दानलक्षणम् ॥ ३२.५४ ॥

दानं त्रिविधमित्येतत्कनिष्ठज्येष्ठमध्यमम् ॥
तत्र नैश्रेयसं ज्येष्ठं कनिष्ठं स्वार्थसिद्धये ॥ ३२.५५ ॥

कारुण्यात्सर्वभूतेषु संविभागस्तु मध्यमः ॥
श्रुतिस्मृतिभ्यां विहितो धर्मो वर्माश्रमात्मकः ॥ ३२.५६ ॥

शिष्टाचाराविरुद्धश्च धर्मः सत्साधुसम्मतः ॥
अप्रद्वेषोह्यनि ष्टेषु तथेष्टस्याभिनन्दनम् ॥ ३२.५७ ॥

प्रीतितापविषादेभ्यो विनिवृत्तिर्विरक्तता ॥
सन्न्यासः कर्मणां न्यासः कृतानामकृतैः सह ॥ ३२.५८ ॥

कुशलाकुशलानां तु प्रहाणं न्यास उच्यते ॥
्व्यक्ता ये विशेषास्ते विकारेऽस्मिन्नचेतने ॥ ३२.५९ ॥

चेतनाचेतनान्यत्वविज्ञानं ज्ञानमुच्यते ॥
प्रत्यङ्गानां तु धर्मस्य त्वित्येतल्लक्षणं स्मृतम् ॥ ३२.६० ॥

ऋषिभिर्धर्मतत्त्वज्ञैः पूर्वं स्वायम्भुवेऽन्तरे ॥
अत्र वो वर्णयिष्यामि विधिं मन्वन्तरस्य यः ॥ ३२.६१ ॥

तथैव चातुर्होत्रस्य चातुर्विद्यस्य चैव हि ॥
प्रतिमन्वन्तरे चैव श्रुतिरन्या विधीयते ॥ ३२.६२ ॥

ऋचो यजूंषि समानि यथा च प्रतिदैवतम् ॥
आभूतसम्प्लवस्यापि वर्ज्यैकं शतरुद्रियम् ॥ ३२.६३ ॥

विधिर्हौत्रस्तथा स्तोत्रं पूर्ववत्सम्प्रवर्तते ॥
द्रव्यस्तोत्रं गुणस्तोत्रं फलस्तोत्रं तथैव च ॥ ३२.६४ ॥

चतुर्थमाभिजनकं स्तोत्रमेतच्चतुर्विधम् ॥
मन्वन्तरेषु सर्वेषु यथा देवा भवन्ति ये ॥ ३२.६५ ॥

प्रवर्तयति तेषां वै ब्रह्मा स्तोत्रं चतुर्विधम् ॥
एवं मन्त्रगणानां तु समुत्पत्तिश्चतुर्विधा ॥ ३२.६६ ॥

अथर्वगर्यजुषां साम्नां वेदेष्विह पृथक्पृथक् ॥
ऋषीणां तप्यतामुग्रं तपः परमदुष्करम् ॥ ३२.६७ ॥

मन्त्राः प्रादुर्बभूवुर्हि पूर्वमन्वन्तरेष्विह ॥
असन्तोषाद्भया द्दुःखात्सुखाच्छोकाच्च पञ्चधा ॥ ३२.६८ ॥

ऋषीणां तारकाख्येन दर्शनेन यदृच्छया ॥
ऋषीणां यदृषित्वं हि तद्वक्ष्यामीह लक्षणैः ॥ ३२.६९ ॥

अतीतानागतानां च पञ्चधा त्वृषिरुच्यते ॥
अतस्त्वृषीणां वक्ष्यामि तत्र ह्यार्षसमुद्भवम् ॥ ३२.७० ॥

गुणसाम्ये वर्त्तमाने सर्वसम्प्रलये तदा ॥
अविभागे तु वेदानामनिर्देश्ये तमोमये ॥ ३२.७१ ॥

अबुद्धिबूर्वकं तद्वै चेतनार्थे प्रवर्त्तते ॥
चेतनाबुद्धिपूर्वं तु चेतनेन प्रवर्त्तते ॥ ३२.७२ ॥

प्रवर्त्तते तथा द्वौ तु यथा मत्स्योदके उभे ॥
चेतनाधिष्ठितं सत्त्वं प्रवर्त्तति गुणात्मकम् ॥ ३२.७३ ॥

कारणत्वात्तथा कार्यं तदा तस्य प्रवर्त्तते ॥
विषयो विषयित्वाच्च अर्थेऽर्थत्वात्तथैव च ॥ ३२.७४ ॥

कालेन प्रापणीयेन भेदास्तु करणात्मकाः ॥
संसिध्यन्ति तदा व्यक्ताः क्रमेण महदादयः ॥ ३२.७५ ॥

महतश्चाप्यहङ्कारस्तस्माद्भूतेद्रियाणि च ॥
भूतभेदाश्च भूतेभ्यो जज्ञिरे स्म परस्परम् ॥ ३२.७६ ॥

संसिद्धकार्यकरणः सद्य एव व्यवर्त्तत ॥
यथोल्मुकात्तु त्रुटयः एककालाद्भवन्ति हि ॥ ३२.७७ ॥

तथा विवृत्ताः क्षेत्रज्ञाः कालेनैकेन कारणात् ॥
यथान्धकारे खद्योतः सहसा सम्प्रदृश्यते ॥ ३२.७८ ॥

तथा विवृत्तो ह्यव्यक्तात्खद्योत इव सञ्ज्वलन् ॥
स माहन्सशरीरस्तु यत्रैवायमवर्त्तत ॥ ३२.७९ ॥

तत्रैव संस्थितो विद्वान्द्वारशालामुखे विभुः ॥
महांस्तु तमसः पारे वैलक्षण्याद्विभाव्यते ॥ ३२.८० ॥

तत्रैव संस्थिते विद्वांस्तमसोंऽत इति श्रुतिः ॥
बुद्धिर्विवर्त्तमानस्य प्रादुर्भूता चतुर्विधा ॥ ३२.८१ ॥

ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम् ॥
सांसिद्धिकान्यथैतानि विज्ञेयानि नरस्य वै ॥ ३२.८२ ॥

स महात्मा शरीरस्य वैवर्त्तात्सिद्धिरुच्यते ॥
अनुशेते यतः सर्वान्क्षेत्रज्ञानमथापि वा ॥ ३२.८३ ॥

पुरिषत्वाच्च पुरुषः क्षत्रेज्ञानात्स उच्यते ॥
यस्माद्वुद्ध्यानुशेते च तस्माद्वोधात्मकः स वै ॥ ३२.८४ ॥

संसिद्धये परिगतं व्यक्ताव्यक्तमचेतनम् ॥
एवं विवृत्तः क्षेत्रज्ञः क्षेत्रज्ञानाभिसंहितः ॥ ३२.८५ ॥

विवृत्तिसमकालं तु बुद्ध्याव्यक्तमृषिः स्वयम् ॥
परं ह्यर्षयते यस्मात्परमर्षित्वमस्य तत् ॥ ३२.८६ ॥

गत्यर्थादृषतेर्धातोर्नाम निर्वृतिरादितः ॥
यस्मादेव स्वयं भूतस्तस्माच्चाप्यृषिता स्मृता ॥ ३२.८७ ॥

ईश्वरात्स्वयमुद्भूता मानसा ब्रह्मणः सुताः ॥
यस्मादुत्पद्यमानैस्तैर्महान्परिगतः परः ॥ ३२.८८ ॥

यस्माद-षन्ति ते धीरा महान्तं सर्वतो गुणैः ॥
तस्मान्महर्षयः प्रोक्ता बुद्धेः परम दर्शिना ॥ ३२.८९ ॥

ईश्वराणां सुतास्तेषां मानसा औरसाश्च वै ॥
अहङ्कारं तपश्चैव ऋषन्ति ऋषितां गताः ॥ ३२.९० ॥

तस्मात्सप्तर्षयस्ते वै भूतादौ तत्त्वदर्शनात् ॥
ऋषिपुत्रा ऋषीकास्तु मैथुनाद्गर्भसम्भवाः ॥ ३२.९१ ॥

तन्मात्राणि च सत्यं च ऋषन्ते ते महौजसः ॥
सप्तषर्यस्त तस्ते च परसत्यस्य दर्शनाः ॥ ३२.९२ ॥

ऋषीकाणां सुतास्ते स्युर्विज्ञेया ऋषिपुत्रकाः ॥
ऋषन्ति ते ऋतं यस्माद्विशेषांश्चैव तत्त्वतः ॥ ३२.९३ ॥

तस्मात्सप्तर्षयस्तेपि श्रुतेः परमदर्शनात् ॥
अव्यक्तात्मा महानात्माहङ्कारात्मा तथैव च ॥ ३२.९४ ॥

भूतात्मा चेन्द्रियात्मा च तेषां तज्ज्ञानमुच्यते ॥
इत्येता ऋषिजातीस्ता नामभिः पञ्च वै श्रृणु ॥ ३२.९५ ॥

भृगुर्मरीचिरत्रिश्च ह्यङ्गिराः पुलहः क्रतुः ॥
मनुर्दक्षो वसिष्टश्च पुलस्त्यश्चेति ते दश ॥ ३२.९६ ॥

ब्रह्मणो मानसा ह्येते उद्भूताः स्वयमीश्वराः ॥
परत्वेनर्षयो यस्मात्स्मृतास्तस्मान्महर्षयः ॥ ३२.९७ ॥

ईश्वराणां सुता ह्येते ऋषयस्तान्निबोधत ॥
काव्यो बृहस्पतिश्चैव कश्यपश्व्यवनस्तथा ॥ ३२.९८ ॥

उतथ्यो वामदेवश्च अपा स्यश्चोशिजस्तथा ॥
कर्दमो विश्रवाः शक्तिर्वालखिल्यास्तथार्वतः ॥ ३२.९९ ॥

इत्येते ऋषयः प्रोक्तास्तपसा चर्षितां गताः ॥
ऋषिपुत्रानृ षीकांस्तु गर्भोत्पन्नान्निबोधत ॥ ३२.१०० ॥

वत्सरो नगृहूश्चैव भरद्वाजस्तथैव च ॥
ऋषिदीर्घतमाश्चैव बृहदुक्थः शरद्वतः ॥ ३२.१०१ ॥

वाजश्रवाः शुचिश्चैव वश्याश्वश्च पराशरः ॥
दधीचः शंशपाश्चैव राजा वैश्रवणस्तथा ॥ ३२.१०२ ॥

इत्येते ऋषिकाः प्रोक्तास्ते सत्यादृषितां गताः ॥
ईश्वरा ऋषयश्चैव ऋषिकाश्चैव ते स्मृताः ॥ ३२.१०३ ॥

एते मन्त्रकृतः सर्वे
कृत्स्नशस् तान् निबोधत
भृगुः काव्यः प्रचेताश्च
ऋचीको ह्यात्मवानपि ॥ ३२.१०४ ॥

मूलम्

एते मन्त्रकृतः सर्वे कृत्स्नशस्तान्निबोधत ॥
भृगुः काव्यः प्रचेताश्च ऋचीको ह्यात्मवानपि ॥ ३२.१०४ ॥

विश्वास-प्रस्तुतिः

और्वाऽथ जमदग्निश्च
विदः सारस्वतस् तथा ॥
आर्ष्टिषेणो युधाजिच् च
वीतहव्य-सुवर्चसौ ॥ ३२.१०५ ॥

मूलम्

और्वाऽथ जमदग्निश्च विदः सारस्वतस्तथा ॥
आर्ष्टिषेणो युधाजिच्च वीतहव्यसुवर्चसौ ॥ ३२.१०५ ॥

विश्वास-प्रस्तुतिः

वैन्यः पृथुर् दिवोदासो
वाध्यश्वो गृत्स-शौनकौ ॥
एकोनविंशतिर् ह्य् एते
भृगवो मन्त्रवादितः ॥ ३२.१०६ ॥

मूलम्

वैन्यः पृथुर्दिवोदासो वाध्यश्वो गृत्सशौनकौ ॥
एकोनविंशतिर्ह्येतेभृगवो मन्त्रवादितः ॥ ३२.१०६ ॥

विश्वास-प्रस्तुतिः

अङ्गिरा वैद्यगश्चैव भरद्वाजोऽथ बाष्कलिः ॥
ऋतवाकस्तथा गर्गः शिनिः सङ्कृतिरेव च ॥ ३२.१०७ ॥

पुरुकुत्सश्च मान्धाता ह्यम्बरीषस्तथैव च ॥
युवनाश्वः पौरकुत्सस्त्रसद्दस्युश्च दस्युमान् ॥ ३२.१०८ ॥

आहार्यो ह्यजमीढश्च तुक्षयः कपिरेव च ॥
वृषादर्भो विरूपाश्वः कण्वश्चैवाथ मुद्गलः ॥ ३२.१०९ ॥

उतथ्यश्च सनद्वाजस्तथा वाजश्रवा अपि ॥
अयास्यश्चक्रवर्त्ती चवामदेवस्तथैव च ॥ ३२.११० ॥

असिजो बृहदुक्थश्च ऋषिर्दीर्घतमास्तथा ॥
कक्षीवांश्च त्रयस्त्रिंशत्स्मृता ह्याङ्गिरसा वराः ॥ ३२.१११ ॥

एते मन्त्रकृतः सर्वे काश्यपांस्तु निबोधत ॥
काश्यपश्चैव वत्सारो नैध्रुवो रैभ्य एव च ॥ ३२.११२ ॥

असितो देव लश्चैव षडेते ब्रह्मवादिनः ॥
अत्रिरर्वसनश्चैव श्यावाश्वश्च गविष्ठिरः ॥ ३२.११३ ॥

आविहोत्र ऋषिर्द्धीमांस्तथा पूर्वातिथिश्च सः ॥
इत्येते चा त्रयः प्रोक्ता मन्त्रकारा महर्षयः ॥ ३२.११४ ॥

वसिष्ठश्चैव शक्तिश्च तथैव च पराशरः ॥
चतुर्थ इन्द्रप्रमतिः पञ्चमश्च भरद्वसुः ॥ ३२.११५ ॥

षष्ठश्च मैत्रावरुणिः कुण्डिनः सप्तमस्तथा ॥
इति सप्त वशिष्ठाश्च विज्ञेया ब्रह्मवादिनः ॥ ३२.११६ ॥

विश्वामित्रस्तु गाधेयो देवरातस्तथोद्गलः ॥
तथा विद्वान्मधुच्छन्दा ऋषिश्चान्योऽघमर्षणः ॥ ३२.११७ ॥

अष्टको लोहितश्चैव कतः कोलश्च तावुभौ ॥
देवश्रवास्तथा रेणुः पूरणोऽथ धनञ्जयः ॥ ३२.११८ ॥

त्रयोदशैते धर्मिष्ठा विज्ञेयाः कुशिकावराः ॥
अगस्त्योऽयो दृढायुश्च विध्मवाहस्तथैव च ॥ ३२.११९ ॥

ब्रह्मिष्ठागस्तपा ह्येते त्रयः परमकीर्त्तयः ॥
मनुर्वैवस्वतश्चैव एलो राजा पुरूखाः ॥ ३२.१२० ॥

क्षत्र्रियाणां चरावेतौ विज्ञेयौ मन्त्रवादिनौ ॥
भलन्दनश्च वत्सश्च सङ्कीलश्चैव ते त्रयः ॥ ३२.१२१ ॥

एते मन्त्रकृतश्चैव वैश्यानां प्रवराः स्मृताः ॥
इत्येषा नवतिः प्रोक्ता मन्त्रा यैर्ऋषिभिः कृताः ॥
ब्राह्यणाः क्षत्रिया वैश्या ऋषिपुत्रान्निबोधत ॥ ३२.१२२ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनु
षङ्गपादे युगप्रजालक्षणमृषिप्रवरवर्णनं च नाम द्वात्रिंशत्तमोऽध्यायः ॥ ३२ ॥