०३१

विश्वास-प्रस्तुतिः

सूत उवाच ॥
अत ऊर्द्धं प्रवक्ष्यामि द्वापरस्य विधिं पुनः ॥
तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते ॥ ३१.१ ॥

मूलम्

द्वापरादौ प्रजानां तु सिद्धिस्त्रेतायुगे तु या ॥
परिवृत्ते युगे तस्मिंस्ततस्ताभिः प्रणश्यति ॥ ३१.२ ॥

ततः प्रवर्त्तते तासां प्रजानां द्वापरे पुनः ॥
सम्भेदश्चैव वर्णानां कार्याणां च विपर्ययः ॥ ३१.३ ॥

यज्ञावधारणं दण्डो मदो दम्भः क्षमा बलम् ॥
एषा रजस्तमोयुक्ता प्रवृत्तिर्द्वापरे स्मृता ॥ ३१.४ ॥

आद्ये कृते यो धर्मोऽस्ति स त्रेतायां प्रवर्त्तते ॥
द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे ॥ ३१.५ ॥

वर्णानां विपरिध्वंसः सङ्कीयत तथाश्रमाः ॥
द्वैविध्यं प्रतिपद्येतेयुगे तस्मिञ्छ्रुति स्मृती ॥ ३१.६ ॥

द्वैधात्तथा श्रुतिस्मृत्योर्निश्चयो नाधिगम्यते ॥
अनिश्चयाधिगमनाद्धर्मतत्त्वं न विद्यते ॥ ३१.७ ॥

धर्मासत्त्वेन मित्राणां मतिभेदो भवेन्नृणाम् ॥
परस्परविभिन्नैस्तैदृष्टीनां विभ्रमेण च ॥ ३१.८ ॥

अयं धर्मो ह्ययं नेति निश्चयो नाधिगम्यते ॥
कारणानां च वैकल्प्यात्कार्याणां चाप्यनिश्चयात् ॥ ३१.९ ॥

मतिभेदेन तेषां वै दृष्टीनां विभ्रमो भवेत् ॥
ततो दृष्टिविभन्नैस्तु कृतं शास्त्राकुलं त्विदम् ॥ ३१.१० ॥

एको वेदश्चतुष्पाद्धि त्रेतास्विह विधीयते ॥
सङ्क्षयादायुपश्चैव व्यस्यते द्वापरेषु च ॥ ३१.११ ॥

ऋषिमन्त्रात्पुनर्भेदाद्भिद्यते दृष्टिविभ्रमैः ॥
मन्त्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः ॥ ३१.१२ ॥

संहिता ऋग्यजुःसाम्नां सम्पठ्यन्ते महर्षिभिः ॥
सामान्या वैकृताश्चैव दृष्टिभिन्ने क्वचित्क्वचित् ॥ ३१.१३ ॥

ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च ॥
अन्येऽपि प्रस्थितास्तान्वै केचित्तान्प्रत्यवस्थिताः ॥ ३१.१४ ॥

द्वापरेषु प्रवर्त्तन्ते निवर्त्तन्ते कलौ युगे ॥
एकमाध्वर्यवं त्वासीत्पुनर्द्वैधमजायत ॥ ३१.१५ ॥

सामान्यविपरीतार्थैः कृतशास्त्राकुलं त्विदम् ॥
आध्वर्यवस्य प्रस्थानैर्बहुधा व्याकुलीकृतैः ॥ ३१.१६ ॥

तथैवाथर्वऋक्साम्नां विकल्पैश्चापि सञ्ज्ञया ॥
व्याकुलेद्वापरे नित्यं क्रियते भिन्न दर्शनैः ॥ ३१.१७ ॥

तेषां भेदाः प्रतीभेदा विकल्पाश्चापि सङ्ख्याया ॥
द्वापरे सम्प्रवर्त्तते विनश्यन्ति ततः कलौ ॥ ३१.१८ ॥

तेषां विपर्ययोत्पन्ना भवन्ति द्वापरे पुनः ॥
अवृष्टिर्मरणं चैव तथैव व्याध्युपद्रवाः ॥ ३१.१९ ॥

वाङ्मनः कर्मर्जेदुःखैर्निर्वेदो जायते पुनः ॥
निर्वेदाज्जायते तेषां दुःखमोङविचारणा ॥ ३१.२० ॥

विचारणाच्च वैराग्यं वैराग्याद्दोषदर्शनम् ॥
दोषदर्शनतस्चैव द्वापरेऽज्ञानसम्भवः ॥ ३१.२१ ॥

तेषाम ज्ञानिनां पूर्वमाद्ये स्वायम्भुवेऽन्तरे ॥
उत्पद्यन्ते हि शास्त्राणां द्वापरे परिपन्थिनः ॥ ३१.२२ ॥

आयुर्वेदविकल्पश्च ह्यगानां ज्योतिषस्य च ॥
अर्थशास्त्रविकल्पाश्च हेतुशास्त्रविकल्पनम् ॥ ३१.२३ ॥

प्रक्रियाकल्पसूत्राणां भाष्यविद्याविकल्पनम् ॥
स्मृतिशास्त्रप्रभेदश्च प्रस्थानानि पृथक्पृथक् ॥ ३१.२४ ॥

द्वापरेष्वभिवर्त्तन्ते मतिभेदाश्रयान्नृणाम् ॥
मनसा कर्मणा वाचा कृच्छ्राद्वार्ता प्रसिद्ध्यति ॥ ३१.२५ ॥

द्वापरे सर्वभूतानां कायक्लेशपुरस्कृता ॥
लोभो वृत्तिर्वणिक्पूर्वा तत्त्वानामविनिश्चयः ॥ ३१.२६ ॥

वेदशास्त्रप्रणयनं धर्माणां सङ्करस्तथा ॥
वर्णाश्रमपरिध्वंसः कामक्रोधौ तथैव च ॥ ३१.२७ ॥

द्वापरेषु प्रवर्त्तन्ते रागो लोभो वधस्तथा ॥
वेदं व्यासश्चतुर्द्धा तु व्यस्यते द्वापरादिषु ॥ ३१.२८ ॥

निःशेषे द्वापरे तस्मिंस्तस्य सन्ध्या तु यादृशी ॥
प्रतिष्ठते गुणैर्हीनो धर्मोऽसौ द्वापरस्य तु ॥ ३१.२९ ॥

तथैव सन्ध्या पादेन ह्यङ्गः सन्ध्या इतीष्यते ॥
द्वापरस्यावशेषेण तिष्यस्य तु निबोधत ॥ ३१.३० ॥

द्वापरस्याशसेषण प्रतिपत्तिः कलेरपि ॥
हिंसासूयानृतं माया वधश्चैव तपस्विनाम् ॥ ३१.३१ ॥

एते स्वभावास्तिष्यस्य साधयन्ति च वै प्रजाः ॥
एष धर्मः कृतः कृत्स्नो धर्मश्च परिहीयते ॥ ३१.३२ ॥

मनसा कर्मणा स्तुत्या वार्ता सिध्यति वा न वा ॥
कलौ प्रमारकी रोगः सततं क्षुद्भयानि च ॥ ३१.३३ ॥

अनावृष्टिभयं घोरं देशानां च विपर्ययः ॥
न प्रमाणं स्मृतेरस्ति तिष्ये लोकेषु वै युगे ॥ ३१.३४ ॥

गर्भस्थो म्रियते कश्चिद्यौव नस्थस्तथापरः ॥
स्थविराः केऽपि कौमारे म्रियन्ते वै कलौ प्रजाः ॥ ३१.३५ ॥

दुरिष्टैर्दुरधीतैश्च दुष्कृतैश्च दुरागमैः ॥
विप्राणां कर्मदोषैस्तैः प्रजानां जायते भयम् ॥ ३१.३६ ॥

हिंसा माया तथेर्ष्या च क्रोधोऽसूया क्षमा नृषु ॥
तिष्ये भवन्ति जन्तूनां रागो लोभश्च सर्वशः ॥ ३१.३७ ॥

सङ्क्षोभो जायतेऽत्यथै करिमासाद्य वै युगम् ॥
पूर्णे वर्षसहस्रे वै परमायुस्तदा नृणाम् ॥ ३१.३८ ॥

नाधीयते तदा वेदान्न यजं ते द्विजातयः ॥
उत्सीदन्ति नराश्चैव क्षत्रियाश्च विशः क्रमात् ॥ ३१.३९ ॥

शूद्राणामन्त्ययोनेस्तु सम्बन्धा ब्राह्मणैः सह ॥
भवन्तीह कलौ तस्मिञ्छयनासनभोजनैः ॥ ३१.४० ॥

राजानः शूद्रभूयिष्ठाः पाखण्डानां प्रवर्त्तकाः ॥
गुणहीनाः प्रजाश्चैव तदा वै सम्प्रवर्त्तते ॥ ३१.४१ ॥

आयुर्मेधा बलं रूपं कुलं चैव प्रणश्यति ॥
शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः ॥ ३१.४२ ॥

राजवृत्ताः स्थिताश्चोरा श्चोराचाराश्च पार्थिवाः ॥
भृत्या एते ह्यसुभृतो युगान्ते समवस्थिते ॥ ३१.४३ ॥

अशीलिन्योऽनृताश्चैव स्त्रियो मद्यामिषप्रियाः ॥
मायाविन्यो भविष्यन्ति युगान्ते मुनिसत्तम ॥ ३१.४४ ॥

एकपत्न्यो न शिष्यन्ति युगान्ते मुनिसत्तम ॥
श्वापदप्रबलत्वं च गवां चैव ह्युपक्षयः ॥ ३१.४५ ॥

साधूनां विनिवृत्तिं च विद्यास्तस्मिन्युगक्षये ॥
तदा धर्मो महोदर्को दुर्लभो दानमूलवान् ॥ ३१.४६ ॥

चातुराश्रमशैथिल्यो धर्मः प्रविचरिष्यति ॥
तदा ह्यल्पफला भूमिः क्वचिच्चापि महाफला ॥ ३१.४७ ॥

न रक्षितारो बोक्तारो बलिभागस्य पार्थिवाः ॥
युगान्ते च भविष्यन्ति स्वरक्षणपरायणाः ॥ ३१.४८ ॥

अरक्षितारो राजानो विप्राः शूद्रोपजीविनः ॥
शूद्राभिवादिनः सर्वे युगान्ते द्विजसत्तमाः ॥ ३१.४९ ॥

अदृशूला जनपदाः शिवशूला द्विजास्तथा ॥
प्रमदाः केशशूलाश्च युगान्ते समुपस्थिते ॥ ३१.५० ॥

तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः ॥
यतयश्च भविष्यन्ति बहवोऽस्मिन्कलौ युगे ॥ ३१.५१ ॥

चित्रवर्षी यदा देवस्तदा प्राहुर्युगक्षयम् ॥
सर्वे वाणिजकाश्चा पि भविष्यन्त्यधमे युगे ॥ ३१.५२ ॥

भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः ॥
कुशीलचर्यापाखण्डैर्व्याधरूपैः समावृतम् ॥ ३१.५३ ॥

पुरुषाल्पं बहुस्त्रीकं युगान्ते समुपस्थिते ॥
बाहुयाचनको लोको भविष्यति परस्परम् ॥ ३१.५४ ॥

अव्याकर्ता क्रूरवाक्या नार्जवो नानसूयकः ॥
न कृते प्रतिकर्त्ता च युगे क्षीणे भविष्यति ॥ ३१.५५ ॥

अशङ्का चैव पतिते युगान्ते तस्य लक्षणम् ॥
ततः शून्य वसुमती भविष्यति वसुन्धरा ॥ ३१.५६ ॥

गोप्तारश्चाप्यगोप्तारः प्रभविष्यन्ति शासकाः ॥
हर्त्तारः पररत्नानां परदारविमर्शकाः ॥ ३१.५७ ॥

कामात्मानो दुरात्मानो ह्यधमाः साहसप्रियाः ॥
प्रनष्टचेष्टना धूर्त्ता मुक्तकेशास्त्त्वशूलिनः ॥ ३१.५८ ॥

ऊनषोडशवर्षाश्च प्रजा यन्ते युगक्षये ॥
शुक्लदन्ता जिताक्षाश्च मुण्डाः काषायवाससः ॥ ३१.५९ ॥

शूद्रा धर्मं चरिष्यति युगान्ते समुपस्थिते ॥
सस्यचोरा भविष्यन्ति तथा चैलापहारिणः ॥ ३१.६० ॥

चोराच्चोराश्च हर्त्तारो हर्तुर्हर्त्ता तथापरः ॥
ज्ञानकर्मम्युपरते लोके निष्क्रियतां गते ॥ ३१.६१ ॥

कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥
अभीक्ष्णं क्षेममारोग्यं सामर्थ्यं दुर्लभं तथा ॥ ३१.६२ ॥

कौशिकान्प्रतिवत्स्यन्ति देशाः क्षुद्भयपीडिताः ॥
दुःखेनाभिप्लुतानां च परमायुः शतं तदा ॥ ३१.६३ ॥

दृश्यन्ते च न दृश्यन्ते वेदा कलियुगेऽखिलाः ॥
तत्सीदन्ते तथा यज्ञाः केवलाधर्मपीडिताः ॥ ३१.६४ ॥

काषायिणोऽथ निर्ग्रन्था तथा कापालिकाश्च ह ॥
वेदविक्रयिमश्चन्ये तीर्थविक्रयिणोऽपरे ॥ ३१.६५ ॥

वर्णाश्रमाणां ये चान्ये पाखण्डाः परिपन्थिनः ॥
उत्पद्यन्ते तदा ते वै सम्प्राप्ते तु कलौ युगे ॥ ३१.६६ ॥

अधीयते तदा वेदाञ्छूद्रा धर्मार्थ कोविदाः ॥
यजन्ते चाश्वमेधेन राजानः शूद्रयोनयः ॥ ३१.६७ ॥

स्त्रीबालगोवधं कृत्वा हत्वान्ये च परस्परम् ॥
अपहत्य तथाऽन्योन्यं साधयन्ति तदा प्रजाः ॥ ३१.६८ ॥

दुःखप्रवचनाल्पायुर्देहाल्पायुश्च रोगतः ॥
अधर्माभिनिवेशित्वात्तमोवृत्तं कलौ स्मृतम् ॥ ३१.६९ ॥

प्रजासु भ्रूणहत्या च तदा वैरात्प्रवर्त्तते ॥
तस्मादायुर्बलं रूपं कलिं प्राप्य प्रहीयते ॥ ३१.७० ॥

तदा चाल्पेन कालेन सिद्धिं गच्छन्ति मानवाः ॥
धन्या धर्मं चरिष्यन्ति युगान्ते द्विजसत्तमाः ॥ ३१.७१ ॥

श्रुतिस्मृत्युदितं धर्मं ये चरन्त्यनसूयकाः ॥
त्रेतायामाब्दिको धर्मो द्वापरे मासिकः स्मृतः ॥ ३१.७२ ॥

यथाशक्ति चरन्प्राज्ञस्तदह्ना प्राप्नुयात्कलौ ॥
एषा कलियुगावस्था सन्ध्यांशं तु निबोधत ॥ ३१.७३ ॥

युगेयुगे तु हीयन्ते त्रित्रिपादास्तु सिद्धयः ॥
युगस्वभावात्सन्ध्यासु तिष्ठन्तीह तु यादृशः ॥ ३१.७४ ॥

सन्ध्यास्वभावाः स्वांशेषु पादशेषाः प्रतिष्ठिताः ॥
एवं सन्ध्यांशके काले सम्प्राप्ते तु युगान्तिके ॥ ३१.७५ ॥

तेषां शास्ता ह्यसाधूनां भृगूणां निधनोत्थितः ॥
गोत्रेण वै चन्द्र मसो नाम्ना प्रमतिरुच्यते ॥ ३१.७६ ॥

माधवस्य तु सोंऽशेन पूर्वं स्वायम्भुवेऽन्तरे ॥
समाः सविंशतिः पूर्णाः पर्यटन्वै वसुन्धराम् ॥ ३१.७७ ॥

अनुकर्षन्स वै सेनां सवाजिरथकुञ्जराम् ॥
प्रगृहीतायुधैर्विप्रैः शतशोऽथ सहस्रशः ॥ ३१.७८ ॥

स तदा तैः परिवृतो म्लेच्छान्हन्ति स्मसर्वशः ॥
सह वा सर्वशश्चैव राज्ञस्ताञ्छूद्रयोनिजान् ॥ ३१.७९ ॥

पारवण्डास्तु ततः सर्वान् निः शेषं कृतवान्विभुः ॥
नात्यर्थ धार्मिका ये च तान्सर्वान्हन्ति सर्वशः ॥ ३१.८० ॥

वर्णव्यत्यासजाताश्च ये च ताननुजीविनः ॥
उदीच्यान्मध्यदेश्यांश्च पवतीयांस्तथैव च ॥ ३१.८१ ॥

प्राच्यान्प्रतीच्यांश्च तथा विन्ध्यपृष्ठचरानपि ॥
तथैव दाक्षिणात्यांश्च द्रविडान्सिंहलैः सह ॥ ३१.८२ ॥

गान्धारान्पारदांश्चैव पह्लवान्यव नाञ्शकान् ॥
तुषारान्बर्बरांश्चीनाञ्छूलिकान्दरदान् खशान् ॥ ३१.८३ ॥

लम्पाकारान्सकतकान्किरातानां च जातयः ॥
प्रवृत्तचक्रो बलवान्म्लेच्छानामन्तकृत्प्रभुः ॥ ३१.८४ ॥

अदृष्टः सर्वभूतानां चचाराथ वसुन्धराम् ॥
माधवस्य तु सोंऽशेन देवस्येह विजज्ञिवान् ॥ ३१.८५ ॥

पूर्वजन्मनि विख्यातः प्रमतिर्न्नाम वीर्यवान् ॥
गोत्रतो वै चन्द्रमसः पूर्वे कलियुगे प्रभुः ॥ ३१.८६ ॥

द्वात्रिंशेऽभ्युदिते वर्षे प्रक्रान्तो विंशतीः समाः ॥
विनिघ्नन्सर्वभूतानि मानवानेव सर्वशः ॥ ३१.८७ ॥

कृत्वा बीजावशेषं तु पृथ्व्यां कूरेण कर्मणा ॥
परस्पर निमित्तेन कोपेनाकस्मिकेन तु ॥ ३१.८८ ॥

सुसाधयित्वा वृषलान्प्रायशस्तानधर्मिकान् ॥
गङ्गायमुनयोर्मध्ये निष्ठां प्राप्तः सहानुगः ॥ ३१.८९ ॥

ततो व्यतीते कल्पे तु सामान्ये सहसैनिकः ॥
उत्साद्य पार्थिवान्सर्वान्मलेच्छांश्चैव सहस्रशः ॥ ३१.९० ॥

तत्र सन्ध्यांशके काले सम्प्राप्ते तु युगान्तके ॥
स्थितास्वल्पावशिष्टासु प्रजास्विह क्वचित्क्वचित् ॥ ३१.९१ ॥

अपग्रहास्ततस्ता वै लोभाविष्टास्तु वृन्दशः ॥
उपहिसन्ति चान्योन्यं पोथयन्तः परस्परम् ॥ ३१.९२ ॥

अराजके युगवशात्सङ्क्षये समुपस्थिते ॥
प्रजास्ता वै ततः सर्वाः परस्परभयार्द्दिताः ॥ ३१.९३ ॥

व्याकुलाश्च परिभ्रान्तास्त्यक्त्वा दारान्गृहाणि च ॥
स्वान्प्रणाननपेक्षन्तो निष्कारणसुदुःखिताः ॥ ३१.९४ ॥

नष्टे श्रौते स्मृतौ धर्मे परस्परहतास्तदा ॥
निर्मर्यादा निराक्रन्दा निःस्नेहा निरपत्रपाः ॥ ३१.९५ ॥

नष्टे धर्मे प्रतिहता ह्रस्वकाः पञ्चविंशतिम् ॥
हित्वा पुत्रांश्च दारांश्च विषादव्याकुलेद्रियाः ॥ ३१.९६ ॥

अनावृष्टिहताश्चैव वार्त्तामुत्सृज्य दुःखिताः ॥
प्रत्यन्तांस्ता निषेवन्ते हित्वा जनपदान्स्वकान् ॥ ३१.९७ ॥

सरितः सागरानूपान्सेवन्ते पर्वतांस्तथा ॥
मांसैर्मूलफलैश्चैव वर्तयन्तः सुदुःखिताः ॥ ३१.९८ ॥

चीरपत्राचिनधरा निष्क्रिया निष्परिग्रहाः ॥
वर्णाश्रमपरिभ्रष्टाः सङ्करं घोरमास्थिताः ॥
एतां काष्ठामनुप्राप्ता अल्पशेषाः प्रजास्ततः ॥ ३१.९९ ॥

जराव्याधिक्षुधा विष्टा दुःखान्निर्वेदमागमन् ॥
विचारणा तु निर्वेदात्साम्यावस्था विचारणात् ॥ ३१.१०० ॥

साम्यावस्थात्मको बोधः सम्बोधाद्धर्मशीलता ॥
तासूपशमयुक्तासु कलिशिष्टासु वै स्वयम् ॥ ३१.१०१ ॥

अहोरात्रं तदा तासां युगान्ते परिवर्त्तिनि ॥
चित्तसम्मोहनं कृत्वा तासां वै सुप्तमत्तवत् ॥ ३१.१०२ ॥

भाविनोऽर्थस्य च बलात्ततः कृतमवर्त्तत ॥
प्रवृत्ते तु ततस्तस्मिन्पूते कृतयुगे तु वै ॥ ३१.१०३ ॥

उत्पन्नाः कलिशिष्टासु प्रजाः कार्तयुगास्तदा ॥
तिष्ठन्ति चेह ये सिद्धा अदृष्टा विचरन्ति च ॥ ३१.१०४ ॥

सह सप्तर्षिभिश्चैव तत्र ते च व्यवस्थिताः ॥
ब्रह्मक्षत्रविशः शूद्रा बीजार्थं ये स्मृता इह ॥ ३१.१०५ ॥

कलिजैः सह ते सन्ति निर्विशेषास्तदाभवन् ॥
तेषां सप्तर्षयो धर्मं कथयन्तीतरेषु च ॥ ३१.१०६ ॥

वर्णाश्रमाचारयुक्तः श्रौतः स्मार्त्तो द्विधा तु सः ॥
ततस्तेषु क्रियावत्सु वर्तन्ते वै प्रजाः कृते ॥ ३१.१०७ ॥

श्रौतस्मार्त्ते कृतानां च धर्मे सप्तर्षिदर्शिते ॥
केचिद्धर्मव्यवस्थार्थं तिष्ठन्तीहायुगक्षयात् ॥ ३१.१०८ ॥

मन्वन्तराधिकारेषु तिष्ठन्ति मुनयस्तु वै ॥
यथा दावप्रदग्धेषु तृणेष्विह तपेन तु ॥ ३१.१०९ ॥

वनानां प्रथमं वृष्ट्या तेषां मूलेषु सम्भवः ॥
तथा कार्तयुगानां तु कलिजष्विह सम्भवः ॥ ३१.११० ॥

एवं युगो युगस्येह सन्तानस्तु परस्परम् ॥
वर्त्तते ह्यव्यवच्छेदाद्यावन्मन्वन्तरक्षयः ॥ ३१.१११ ॥

सुखमायुर्बलं रूपन्धर्मोऽर्थः काम एव च ॥
युगेष्वेतानि हीयन्ते त्रित्रिपादाः क्रमेण च ॥ ३१.११२ ॥

ससन्ध्याशेषु हीयन्ते युगानान्धर्मसिद्धयः ॥
इत्येष प्रतिसन्धिर्यः कीर्त्तितस्तु मया द्विजाः ॥ ३१.११३ ॥

चतुर्युगानां सर्वेषामेतेनैव प्रसाधनम् ॥
एषा चतुर्युगावृत्तिरासहस्रद्गुणीकृता ॥ ३१.११४ ॥

ब्रह्मणस्तदहः प्रोक्तं रात्रिश्चैतावती स्मृता ॥
अत्रार्जवं जडीभावो भूतानामायुगक्षयात् ॥ ३१.११५ ॥

एतदेव तु सर्वेषां युगानां लक्षणं स्मृतम् ॥
एषा चतुर्युगानां च गुणिता ह्येकसप्ततिः ॥ ३१.११६ ॥

क्रमेण परिवृत्ता तुमनोरन्तरमुच्यते ॥
चतुर्युगे यथैकस्मिन्भवतीह यथा तु यत् ॥ ३१.११७ ॥

तथा चान्येषु भवति पुनस्तद्वद्यथाक्रमम् ॥
सर्गे सर्गे तथा भेदा उत्पद्यन्ते तथैव तु ॥ ३१.११८ ॥

पञ्चत्रिंशत्परिमिता न न्यूना नाधिकाः स्मृताः ॥
तथा कल्पा युगैः मार्द्धं भवन्ति सह लक्षणैः ॥
मन्वन्तराणां सर्वेषामेतदेव तु लक्षणम् ॥ ३१.११९ ॥

यथा युगानां परिवर्त्तनानि चिरप्रवृत्तानि युगस्वभावात् ॥
तथा न सन्तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्त्तमानः ॥ ३१.१२० ॥

इत्येत ल्लक्षणं प्रोक्तं युगानां वै समासतः ॥ ३१.१२१ ॥

विश्वास-प्रस्तुतिः

अतीतानागतानां हि सर्वमन्वन्तरोष्विह ॥
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै ॥ ३१.१२२ ॥

ख्यातानीह विजानीध्वं कल्पं कल्पेन चैव ह ॥
अनागतेषु तद्वच्च तर्कः कार्यो विजानता ॥ ३१.१२३ ॥

मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह ॥
तुल्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत ॥ ३१.१२४ ॥

देवा ह्यष्टविधा ये वा इह मन्वन्तरेश्वराः ॥
ऋषयो मनवश्चैव सर्वे तुल्याः प्रयोजनैः ॥ ३१.१२५ ॥

एवं वर्णाश्रमाणां तु प्रविभागं पुरा युगे ॥
युगस्वभावांश्च तथा विधत्ते वै सदा प्रभुः ॥ ३१.१२६ ॥

वर्णाश्रमविभागाश्च युगानि युगसिद्धयः ॥
अनुषङ्गात्समाख्याताः सृष्टिसर्गं निबोधत ॥
विस्तरेणानुपूर्व्या च स्थितिं वक्ष्ये युगेष्विह ॥ ३१.१२७ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे
चतुर्युगाख्यानं नामैकत्रिंशत्तमोऽध्यायः ॥ ३१ ॥