विश्वास-प्रस्तुतिः
शांशापायनिरुवाच ॥
कथं त्रेतायुगमुखे यज्ञस्य स्यात्प्रवर्त्तनम् ॥
पूर्वं स्वायम्भुवे सर्गे यथावत्तच्च ब्रूहि मे ॥ ३०.१ ॥
मूलम्

अन्तर्हितायां सन्ध्यायां सार्द्धं कृतयुगेन वै ॥
कालाख्यायां प्रवृत्तायां प्राप्ते त्रेतायुगे तदा ॥ ३०.२ ॥

औषधीषु च जातासु प्रवृत्ते वृष्टिसर्जने ॥
प्रतिष्ठितायां वार्त्तायां गृहाश्रमपरे पुनः ॥ ३०.३ ॥

वर्णाश्रमव्यवस्थानं कृतवन्तश्च सङ्ख्यया ॥
सम्भारांस्तांस्तु मम्भृत्य कथं यज्ञः प्रवर्त्तितः ॥ ३०.४ ॥

एतच्छुत्वाऽब्रवीत्सूतः श्रूयतां शांशपायने ॥
यथा त्रेतायुगमुखे यज्ञस्य स्यात्प्रवर्तनम् ॥ ३०.५ ॥

पूर्वं स्वायम्भुवे सर्गे तद्वक्ष्याम्यानुपूर्व्यतः ॥
अन्तर्हितायां सन्ध्यायां सार्द्धं कृतयुगेन तु ॥ ३०.६ ॥

कालाख्यायां प्रवृत्तायां प्रप्ते त्रेतायुगे तदा ॥
औषधीषु च जातासु प्रवृत्ते वृष्टिसर्जने ॥ ३०.७ ॥

प्रतिष्ठितायां वार्त्तायां गृहश्रमपरेषु च ॥
वर्णाश्रमव्यवस्थानं कृत्वा मन्त्रांस्तु संहतान् ॥ ३०.८ ॥

मन्त्रांस्तान्योजयित्वाथ इहामुत्र च कर्मसु ॥
तदा विश्वभुगिन्द्रश्च यज्ञं प्रावर्त्तयत्प्रभुः ॥ ३०.९ ॥

दैवतैः सहितैः सर्वैः सर्वसम्भारसम्भृतैः ॥
तस्याश्वमेधे वितते समाजग्मुर्महर्षयः ॥ ३०.१० ॥

यजन्तं पशुभिर्मे ध्यैरूचुः सर्वे समागताः ॥
कर्मव्यग्रेषु ऋत्विक्षु सन्तते यज्ञकर्मणि ॥ ३०.११ ॥

सम्प्रगीथेषु सर्वेषु सामगेष्वथ सुस्वग्म् ॥
परिक्रान्तेषु लघुषु ह्यध्वर्युवृषभेषु च ॥ ३०.१२ ॥

आलब्धेषु च मेध्येषु तथा पशुगणेषु च ॥
हविष्यग्नौ हूयमाने ब्राह्मणैश्चाग्निहोत्रिभिः ॥ ३०.१३ ॥

आहूतेषु च सर्वेषु यज्ञभाक्षु क्रमात्तदा ॥
य इन्द्रियात्मका देवास्तदा ते यज्ञभागिनः ॥ ३०.१४ ॥

तद्यचन्ते तदा देवान्कल्पादिषु भवन्ति ये ॥
अध्वर्यवः प्रैषकाले व्यत्थिता वै महर्षयः ॥ ३०.१५ ॥

महर्षयस्तु तान्दृष्ट्वा दीनान्पशुगणांस्तदा ॥
प्रपच्छुरिद्रं सम्भूय कोऽयं यज्ञ विधिस्तव ॥ ३०.१६ ॥

अधर्मो बलवानेष हिंसाधर्मेप्सया ततः ॥
ततः पशुवधश्चैष तव यज्ञे सुरोत्तम ॥ ३०.१७ ॥

अधर्मो धर्मघाताय प्रारब्धः पशुहिसया ॥
नायं धर्मो ह्यधर्मोऽयं न हिंसा धर्म उच्यते ॥ ३०.१८ ॥

आगमेन भवान्यज्ञं करोतु यदिहेच्छति ॥
विधिदृष्टेन यज्ञेन धर्मेणाव्यपसेतुना ॥ ३०.१९ ॥

यज्ञबीचैः सुरेश्रष्ठ येषु हिंसा न विद्यते ॥
त्रिवर्षं परमं कालमुषितैरप्ररोहिभिः ॥ ३०.२० ॥

एष धर्मो महाप्राज्ञ विरञ्चिविहितः पुरा ॥
एवं विश्वभुगिन्द्रस्तु ऋषिभिस्तत्त्वदर्शिभिः ॥ ३०.२१ ॥

तदा विवादः सुमहानिन्द्रस्यासीन्महर्षिभिः ॥
जङ्गमस्थावरैः कैर्हि यष्टव्यमिति चोच्यते ॥ ३०.२२ ॥

ते तु खिन्ना विवादेन तत्त्वमुत्त्वा महर्षयः ॥
सन्धाय वाक्यमिन्द्रेण पप्रच्छुः खेचरं वसुम् ॥ ३०.२३ ॥

सहाप्राज्ञ कथं दृष्टस्त्वया यज्ञविधिर्नृप ॥
औत्तानपादे प्रब्रूहि संशयं नो नुद प्रभो ॥ ३०.२४ ॥

श्रुत्वा वाक्यं वसुस्तेषाम विचार्य बलाबलम् ॥
वेदशास्त्रमनुस्मृत्य यज्ञतत्त्वमुवाच ह ॥ ३०.२५ ॥

यथोपनीर्तैर्यष्टव्यमिति होवाच पार्थिवः ॥
यष्टव्यं पशुभिर्मे ध्यैरथ बीजैः फलैरपि ॥ ३०.२६ ॥

हिंसास्वभावो यज्ञस्य इति मे दर्शनागमौ ॥
यथेह देवता मन्त्रा हिंसालिङ्गा महर्षिभिः ॥ ३०.२७ ॥

दीर्घेण तपसा युक्तैर्दर्शनैस्तारकादिभिः ॥
तत्प्रामाण्यान्मया चोक्तं तस्मात्स प्राप्तुमर्हथ ॥ ३०.२८ ॥

यदि प्रमाणं तान्येव मन्त्रवाक्यानि वै द्विजाः ॥
तथा प्रवततां यज्ञो ह्यन्यथा वोऽनृतं वचः ॥ ३०.२९ ॥

एवं कृतोत्तरास्ते वै युक्तात्मानस्तपोधनाः ॥
अवश्यभावितं दृष्ट्वा तमथो वाग्यताऽभवन् ॥ ३०.३० ॥

इत्युक्तमात्रे नृपतिः प्रविवेश रसातलम् ॥
ऊर्ध्वचारी वसुर्भूत्वा रसातलचरोऽभवत् ॥ ३०.३१ ॥

वसुधा तलवासी तु तेन वाक्येन सोऽभवत् ॥
धर्माणां संशयच्छेत्ता राजा वसुरधोगतः ॥ ३०.३२ ॥

तस्मान्न वाच्यमेकेन बहुज्ञेनापि संशये ॥
बहुद्वारस्य धर्मस्य सूक्ष्मा दूरतरा गतिः ॥ ३०.३३ ॥

तस्मान्न निश्चयाद्वक्तुं धर्मः शक्यस्तु केनचित् ॥
देवानृषीनुपादाय स्वायम्भुवमृते मनुम् ॥ ३०.३४ ॥

तस्मादहिंसा धर्मस्य द्वारमुक्तं महर्षिभिः ॥
ऋषिकोटिसहस्राणि स्वतपोभिर्दिवं ययुः ॥ ३०.३५ ॥

तस्मान्न दानं यज्ञं वा प्रशंसन्ति महर्षयः ॥
उञ्छमूलफलं शाकमुदपात्रं तपोधनाः ॥ ३०.३६ ॥

एतद्दत्वा विभवतः स्वर्गे लोके प्रतिष्ठिताः ॥
अद्रोहश्चाप्य लोभश्च तपो भुतदया दमः ॥ ३०.३७ ॥

ब्रह्मचर्यं तथा सत्यमनुक्रोशः क्षमा धृतिः ॥
सनातनस्य धर्मस्य मूलमेतद्दुरासदम् ॥ ३०.३८ ॥

श्रूयन्ते हि तपःसिद्धा ब्रह्मक्षत्रादयोऽनघाः ॥
प्रियव्रतोत्तानपादौ ध्रुवो मेधातिथिर्वसुः ॥ ३०.३९ ॥

सुधामा विरजाश्चैव शङ्खः पाण्ड्यज एव च ॥
प्राजीनबर्हिः पर्जन्यो हविर्धानादयो नृपः ॥ ३०.४० ॥

एते चान्ये च बहवः स्वैस्तपोभिर्दिवं गताः ॥
राजर्षयो महासत्त्वा येषां कीर्त्तिः प्रतिष्ठिता ॥ ३०.४१ ॥

तस्माद्विशिष्यते यज्ञात्तपः सर्वैस्तु कारणः ॥
ब्रह्मणा तपसा सृष्टं जगद्विश्वमिदं पुरा ॥ ३०.४२ ॥

तस्मान्नान्वेति तद्यज्ञस्तपोमूलमिदं स्मृतम् ॥
द्रव्यमन्त्रात्मको यज्ञस्तपस्त्वनशनात्मकम् ॥ ३०.४३ ॥

यज्ञेन देवानाप्नोति वैराजं तपसा पुनः ॥
ब्राह्मं तु कर्म सन्न्यासाद्वैराग्यात्प्रकृतेर्जयम् ॥ ३०.४४ ॥

ज्ञानात्प्राप्नोति कैवल्यं पञ्चैतागतयः स्मृताः ॥
एवं विवादः सुमहान्य ज्ञस्यासीत्प्रवर्त्तने ॥ ३०.४५ ॥

देवतानामृषीणां च पूर्व स्वायम्भुवेऽन्तरे ॥
ततस्तमृषयो दृष्ट्वा हतं धर्मबलेन तु ॥ ३०.४६ ॥

वसोर्वाक्यमना दृत्य जगमुः सर्वे यथागतम् ॥
गतेषु मुनिसङ्घेषु देवा यज्ञं समाप्नुवन् ॥ ३०.४७ ॥

यज्ञप्रवर्त्तनं ह्येवमासीत्स्वायम्भुवेऽन्तरे ॥
ततः प्रभृति यज्ञोऽयं युगैः सह विवर्त्तितः ॥ ३०.४८ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे
यज्ञप्रवर्त्तनं नाम त्रिशत्तमोऽध्यायः ॥ ३० ॥