विश्वास-प्रस्तुतिः
ऋषिरुवाच ॥
चतुर्युगानि यान्यासन्पूर्वं स्वायम्भुवेऽन्तरे ॥
तेषां निसर्गं तत्त्वं च श्रोतुमिच्छामि विस्तरात् ॥ २९.१ ॥
मूलम्

सूत उवाच ॥
पृथिव्यादिप्रसङ्गेन यन्मया प्रागुदीरितम् ॥
तेषां चतुर्युगं ह्येतत्तद्वक्ष्यामि निबोधत ॥ २९.२ ॥

सङ्ख्ययेह प्रसङ्ख्याय विस्तराच्चैव सर्वशः ॥
युगं च युगभेदश्च युगधर्मस्तथैव च ॥ २९.३ ॥

युगसन्ध्यांशकश्चैव युगसन्धानमेव च ॥
षट्प्रकाशयुगाख्यैषा ता प्रवक्ष्यामि तत्त्वतः ॥ २९.४ ॥

लौकिकेन प्रमाणेन निष्पाद्याब्दं तु मानुषम् ॥
तेनाब्देन प्रसङ्ख्यायै वक्ष्यामीह वतुर्युगम् ॥
निमेषकाल तुल्यं हि विद्याल्लघ्वक्षरं च यत् ॥ २९.५ ॥

काष्ठा निमेषा दश पञ्च चैव त्रिशच्च काष्ठा गणयेत्कलां तु ॥
त्रिंशत्कलाश्चापि भवेन्मुहूर्त्तस्तै स्त्रिंशता रात्र्यहनी समे ते ॥ २९.६ ॥

अहोरात्रौ विभजते सूर्यो मानुषलौकिकौ ॥ २९.७ ॥
तत्राहः कर्मचेष्टायां रात्रिः स्वप्नाय कल्पते ॥
पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः ॥ २९.८ ॥

कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी ॥
त्रिंशद्ये मानुषा मासाः पित्र्यो मासस्तु सः स्मृतः ॥ २९.९ ॥

शतानि त्रीणि मासानां षष्ट्या चाप्यधिकानि वै ॥
पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते ॥ २९.१० ॥

मानुषे णैव मानेन वर्षाणां यच्छतं भवेत् ॥
पितॄणां त्रीणि वर्षाणि सङ्ख्यातानीह तानि वै ॥ २९.११ ॥

दश चैवाधिका मासाः पितृसङ्ख्येह सञ्ज्ञिताः ॥
लौकिकेनैव मानेन हृब्दो यो मानुषः स्मृतः ॥ २९.१२ ॥

एतद्दिव्यमहोरात्रं शास्त्रे स्यान्निश्चयो गतः ॥
दिव्ये रात्र्यहनी वर्ष प्रविभागस्तयोः पुनः ॥ २९.१३ ॥

अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ॥
ये ते रात्र्यहनी दिव्ये प्रसङ्ख्यानं तयोः पुनः ॥ २९.१४ ॥

त्रिंशद्यानि तु वर्षाणि दिप्यो मासस्तु स स्मृतः ॥
यन्मानुषं शतं विद्धि दिव्या मासास्त्रयस्तु ते ॥ २९.१५ ॥

दश चैव तथाऽहानि दिव्यो ह्येष विधिः स्मृतः ॥
त्रीणि वर्षशतान्येव षष्टिवर्षाणि यानि तु ॥
दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्त्तितः ॥ २९.१६ ॥

त्रीणि वर्ष सहस्राणि मानुषाणि प्रमाणतः ॥
त्रिंशदन्यानि वर्षाणि मतः सप्तर्षिवत्सरः ॥ २९.१७ ॥

नव यानि सहस्राणि वर्षाणां मानुषाणि तु ॥
अन्यानि नवतिश्चैव ध्रुवः संवत्सरः स्मृतः ॥ २९.१८ ॥

षड्विंशतिसहस्राणि वर्षाणि मानुषाणि तु ॥
वर्षाणां तु शतं ज्ञेयं दिव्यो ह्येष विधिः स्मृतः ॥ २९.१९ ॥

त्रीण्येव नियुतान्याहुर्वर्षाणां मानुषाणि तु ॥ २९.२० ॥
षष्टिश्चैव सहस्राणि सङ्ख्यातानि तु सङ्ख्याया ॥
दिव्यवर्षसहस्र तु प्राहुः सङ्ख्याविदो जनाः ॥ २९.२१ ॥

इत्येवमृषिभिर्गीतं दिव्यया सङ्ख्याया त्विह ॥
दिव्येनैव प्रमाणेन युगसङ्ख्याप्रकल्पनम् ॥ २९.२२ ॥

चत्वारि भारते वर्षे युगानि कवयोऽबुवन् ॥
कृतं त्रेता द्वापरं च कलिश्चेति चतुष्टयम् ॥ २९.२३ ॥

पूर्व कृतयुकं नाम ततस्त्रेती विधीयते ॥
द्वापरं च कलिश्चैव युगान्येतानि कल्पयेत् ॥ २९.२४ ॥

चत्वार्याहुः सहस्राणि वर्षाणां च कृत युगम् ॥
तस्य तावच्छती सन्ध्या सन्ध्यांशः सन्ध्याया समः ॥ २९.२५ ॥

इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु ॥
एकन्यायेन वर्तन्ते सहस्राणि शतानि च ॥ २९.२६ ॥

त्रीणि द्वे च सहस्राणि त्रेताद्वापरयोः क्रमात् ॥
त्रिशती द्विशती सन्ध्ये सन्ध्यांशौ चापि तत्समौ ॥ २९.२७ ॥

कलिं वर्षसरस्रं तु युगमाहुर्द्विजोत्तमाः ॥
तस्यैकशतिका सन्ध्या सन्ध्यांशः सन्ध्यया समः ॥ २९.२८ ॥

तेषां द्वादशसाहस्री युगसङ्ख्या प्रकीर्त्तिता ॥
कृतं त्रेता द्वापरं च कलिश्चैव चतुष्टयम् ॥ २९.२९ ॥

अत्र संवत्सरा दृष्टा मानुषेण प्रमाणतः ॥
कृतस्य तावद्वक्ष्यामि वर्षाणि च निबोधत ॥ २९.३० ॥

सहस्राणां शतान्याहुश्चतुर्दश हि सङ्ख्याया ॥
चत्वारिंशत्सहस्राणि तथान्यानि कृतं युगम् ॥ २९.३१ ॥

तथा शतसहस्राणि वर्षाणि दशसङ्ख्याया ॥
अशीतिश्च सहस्राणि कालस्त्रेतायुगस्य सः ॥ २९.३२ ॥

सप्तैव नियुतान्याहुर्वर्षाणां मानुषेण तु ॥
विंशतिश्च सहस्रामि कालः स द्वापरस्य च ॥ २९.३३ ॥

तथा शतसहस्राणि वर्षाणां त्रीणि सङ्ख्यया ॥
षष्टिश्चैव सहस्राणि कालः कलियुगस्य तु ॥ २९.३४ ॥

एवं चतुर्युगे काल ऋतैः सन्ध्यांशकैः स्मृतः ॥
नियुतान्येव षडिंशान्निरसानि युगानि वै ॥ २९.३५ ॥

चत्वारिंशत्तथा त्रीणि नियुता नीह सङ्ख्यया ॥
विंशतिश्च सहस्राणि स सन्ध्यांशश्चतुर्युगः ॥ २९.३६ ॥

एवं चतुर्युगाख्यानां साधिका ह्येकसप्ततिः ॥
कृतत्रेतादियुक्तानां मनोरन्तरमुच्यते ॥ २९.३७ ॥

मन्वन्तरस्य सङ्ख्यां तु वर्षाग्रेण निबोधत ॥
त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण प्रकीर्त्तिताः ॥ २९.३८ ॥

सप्त षष्टिस्तथान्यानि नियुतान्यधिकानि तु ॥
विशतिश्च सहस्राणि कालोऽयं साधिकं विना ॥ २९.३९ ॥

मन्वन्तरस्य सङ्ख्यैषा सङ्ख्या विद्भिर्द्विजैः स्मृता ॥
मन्वन्तरस्य कालोऽयं युगैः सार्द्धं च कीर्त्तितः ॥ २९.४० ॥

चतुः साहस्रयुक्तं वै प्राकृतं तत्कृतं युगम् ॥
त्रेताशिष्टं प्रवक्ष्यामि द्वापरं कलिमेव च ॥ २९.४१ ॥

युगपत्समयेनार्थो द्विधा वक्तुं न शक्यते ॥
क्रमागतं मया ह्येतत्तुभ्यं नोक्त युग द्वयम् ॥ २९.४२ ॥

ऋषिवंशप्रसङ्गेन व्याकुलत्वात्तथैव च ॥
अत्र त्रेतायुगस्यादौ मनुः सप्तर्षयश्च ये ॥ २९.४३ ॥

श्रौत स्मार्त्त च ते धर्म ब्रह्मणानुप्रचौदितम् ॥
दाराग्निहोत्रसम्बन्धमृग्यजुः सामसंहितम् ॥ २९.४४ ॥

इत्यादिलक्षणं श्रौतं धर्म सप्तर्षयोऽब्रुवन् ॥
परम्परागतं धर्म स्मार्त्तं चाचारलक्षणम् ॥ २९.४५ ॥

वर्णाश्रमाचारयुतं मनुः स्वायम्भुवोऽब्रवीत् ॥
सत्येन ब्रह्मचर्येण श्रुतेन तपसा च वै ॥ २९.४६ ॥

तेषां तु तप्ततपसा आर्षेणोपक्रमेण तु ॥
सप्तर्षीणां मनोश्चैव ह्याद्ये त्रेतायुगे तथा ॥ २९.४७ ॥

अबुद्धिपूर्वकं तेषामक्रियापूर्वमेव च ॥
अभिव्यक्तास्तु ते मन्त्रास्तारकाद्यैर्निदर्शनैः ॥ २९.४८ ॥

आदिकल्पे तु देवानां प्रादुर्भूतास्तु याः स्वयम् ॥
प्राणाशेष्वथ सिद्धीनामन्यासां च प्रवर्त्तनम् ॥ २९.४९ ॥

आसन्मन्त्रा व्यतीतेषु ये कल्पेषु सहस्रशः ॥
ते मन्त्रा वै पुनस्तेषां प्रतिभायामुपस्थिताः ॥ २९.५० ॥

ऋचो यजूंषि सामानि मन्त्रश्चाथर्वणानि तु ॥
सप्तर्षिभिस्तु ते प्रोक्ताः स्मार्त्तं धर्मं मनुर्जगौ ॥ २९.५१ ॥

त्रेतादौ संहिता वेदाः केवला धर्मसेतवः ॥
संरोधादायुषश्चैव वर्त्स्यन्ते द्वापरेषु वै ॥ २९.५२ ॥

ऋषयस्तपसा वेदान्द्वापरादिष्वधीयते ॥
अनादिनिधिना दिव्याः पूर्वं सृष्टाः स्वयम्भुवा ॥ २९.५३ ॥

सधर्माः सव्रताः साङ्गा यथाधर्मं युगेयुगे ॥
विक्रियन्ते समानार्था वेदवादा यथायुगम् ॥ २९.५४ ॥

आरम्भयज्ञाः क्षत्राश्च हविर्यज्ञा विशस्तथा ॥
परिचारयज्ञाः शूद्रास्तु जपयज्ञा द्विजोत्तमाः ॥ २९.५५ ॥

तदा प्रमुदिता वर्णास्त्रेतायां धर्मपालिताः ॥
क्रियावन्तः प्रजावन्तः समृद्धाः सुखिनस्तथा ॥ २९.५६ ॥

ब्राह्मणाननुर्त्तन्ते क्षत्रियाः क्षत्रियान्विशः ॥
वैश्यानुवर्त्तिनः शुद्राः परस्परमनुव्रताः ॥ २९.५७ ॥

शुभाः प्रवृत्तयस्तेषां धर्मा वर्णाश्रमास्तथा ॥
सङ्कल्पितेन मनसा वाचोक्तेन स्वकर्मणा ॥ २९.५८ ॥

त्रेतायुगे च विफलः कर्मारम्भः प्रसिद्ध्यति ॥
आयुर्मेधा बलं रूपमारोग्यं धर्मशीलता ॥ २९.५९ ॥

सर्वसाधारणा ह्येते त्रेतायां वै भवं त्युत ॥
वर्णाश्रमव्यवस्थानं तेषां ब्रह्मा तदाऽकरोत् ॥ २९.६० ॥

पुनः प्रजास्तु ता मोहाद्धर्मा स्तानप्यपालयन् ॥
परस्परविरोधेन मनुं ताः पुनरभ्ययुः ॥ २९.६१ ॥

पुनः स्वायम्भुवो दृष्ट्वा याथातथ्यं प्रजापतिः ॥
ध्यात्वा तु शतरूपायां पुत्रौ स उदपादयत् ॥ २९.६२ ॥

प्रियव्रतो त्तानपादौ प्रथमौ तौ मोहीक्षितौ ॥
ततः प्रभृति राजान उत्पन्ना दण्डधारिणः ॥ २९.६३ ॥

प्रजानां रञ्जनाच्चैव राजानस्तेऽभवन्नृपाः ॥
प्रच्छन्न पापास्तैर्ये च न शक्यास्तु नराधिपैः ॥ २९.६४ ॥

धर्मराजः स्मृतस्तेषां शास्ता वैवस्वतो यमः ॥
वर्णानां प्रविभागाश्च त्रेतायां सम्प्रकीर्त्तिताः ॥ २९.६५ ॥

सम्भृताच्च तदा मन्त्रा ऋषिभिर्ब्रह्मणः सुतैः ॥
यज्ञाः प्रवर्त्तिताश्चैव तदा ह्येव तु दैवतैः ॥ २९.६६ ॥

यामशुक्रार्जितैश्चैव सर्वसाधन सम्भृतैः ॥
सार्द्धं विश्वभुजा चैव देवेन्द्रेण महौजसा ॥ २९.६७ ॥

स्वायम्भुवेंऽतरे देवैर्यज्ञस्तैः प्राक्प्रवर्त्तितः ॥
सत्यं जपस्तपो दानं त्रेताया धर्म उच्यते ॥ २९.६८ ॥

तदा धर्म्मसहस्रान्तेऽहिंसाधर्मः प्रवर्त्तते ॥
जायन्ते च तदा शूरा आयुष्मन्तो महाबलाः ॥ २९.६९ ॥

व्यस्तदण्डा महाभागा धर्मिष्ठा ब्रह्मवादिनः ॥
पद्मपत्रायताक्षाश्च पृथूरस्काः सुसंहताः ॥ २९.७० ॥

सिंहातङ्का महासत्त्वा मत्तमातङ्गगमिनः ॥
महाधनुर्द्धराश्चैव त्रेतायां चक्रवर्त्तिनः ॥ २९.७१ ॥

सर्वलक्षणसम्पूर्मा न्यग्रोधपरिमण्डलाः ॥
न्यग्रोधौ तु स्मृतौ बाहू व्यामो न्यग्रोध उच्यते ॥ २९.७२ ॥

व्यामे नैवोछ्रयो यस्य सम ऊर्द्धं तु देहिनः ॥
समोछ्रयपरीणाहो ज्ञेयो न्यग्रोधमण्डलः ॥ २९.७३ ॥