विश्वास-प्रस्तुतिः
ऋषिरुवाच ॥
अगात्कथममावस्यां मासि मासि दिवं नृपः ॥
ऐलः पुरूरवाः सूत कथं वा तर्पयत्पितॄन् ॥ २८.१ ॥
मूलम्

सूत उवाच ॥
तस्य तेऽहं प्रवक्ष्यामि प्रभावं शांशपायने ॥
ऐलस्यादित्यसंयोगं सोमस्य च महात्मनः ॥ २८.२ ॥

अन्तःसारमयस्येन्दोः पक्षयोः शुक्लकृष्णयोः ॥
ह्रासवृद्धी पितृमतः पित्र्यस्य च विनिर्णयम् ॥ २८.३ ॥

सोमाच्चैवामृतप्राप्तिं पितॄणां तर्पणं तथा ॥
काव्याग्निष्वात्तसौम्यानां पितॄणां चैव दर्शनम् ॥ २८.४ ॥

यथा पुरूरवाश्चैव तर्पयामास वै पितॄन् ॥
एतत्सर्वं प्रवक्ष्यामि पर्वाणि च यथाक्रमम् ॥ २८.५ ॥

यदा तु चन्द्रसूर्यौ वै नक्षत्रेण समागतौ ॥
अमावस्यां निवसत एकरात्रैकमण्डलौ ॥ २८.६ ॥

स गच्छति तदा द्रष्टुं दिवाकरनिशाकरौ ॥
अमावस्याममावास्यां मातामहपितामहौ ॥ २८.७ ॥

अभिवाद्य स तौ तत्र कालापेक्षः प्रतीक्षते ॥
प्रस्यन्दमानात्सोमात्तु पित्रर्थं तु परिश्रवान् ॥ २८.८ ॥

ऐलः पुरूरवा विद्वान्मासश्राद्धचिकीर्षया ॥
उपास्ते पितृमन्तं तं सोमं दिवि समास्थितः ॥ २८.९ ॥

द्विलवां कुहूमात्रां च ते उभे तु विचार्य सः ॥
सिनीवालीप्रमाणेभ्यः सिनीवालीमुपास्य सः ॥ २८.१० ॥

कुहूमात्रः कलां चैव ज्ञात्वोपास्ते कुहूं तथा ॥
स तदा तामुपासीनः कालापेक्षः प्रपश्यति ॥ २८.११ ॥

सुधामृतं तु तत्सोमात्स्रवद्वै मासतृप्तये ॥
दशभिः पञ्चभिश्चैव सुधामृतपरिस्रवैः ॥ २८.१२ ॥

कृष्णपक्षे भुजां प्रीत्या दह्यमानां तथांशुभिः ॥
सद्यः प्रक्षरता तेन सौम्येन मधुना तु सः ॥ २८.१३ ॥

निर्वातेष्त्रथ पक्षेषु पित्र्येण विधिना दिवि ॥
सुधामृतेन राजैन्द्रस्तर्प यामास वै पितॄन् ॥ २८.१४ ॥

सौम्यान्बर्हिषदः काव्यानग्निष्वात्तांस्तथैव च ॥
ऋतमग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः ॥ २८.१५ ॥

जज्ञिरे ह्यृतवस्तस्माद्ध्यृतुभ्यश्चार्त्तवास्तथा ॥
आर्तवा ह्यर्द्धमासाख्याः पितरो ह्यृतुसूनवः ॥ २८.१६ ॥

ऋतवः पितामहा मासा अयनाह्यब्दसूनवः ॥
प्रपितामहास्तु वै देवाः पञ्चाब्दा ब्रह्मणः सुताः ॥ २८.१७ ॥

सौम्यास्तु सोमजा ज्ञेयाः काव्या ज्ञेयाः कवेः सुताः ॥
उपहूताः स्मृता देवाः सोमजाः सोमपाः स्मृताः ॥ २८.१८ ॥

आज्यपास्तु स्मृताः काव्यास्तिस्रस्ताः पितृजातयः ॥
काव्या बर्हिषद श्चैव अग्निष्वात्ताश्च तास्त्रिधा ॥ २८.१९ ॥

गृहस्था ये च यज्वान ऋतुर्बर्हिषदो ध्रुवम् ॥
गृहस्थाश्चाप्ययज्वान अग्निष्वात्तास्तथार्त्तवाः ॥ २८.२० ॥

अष्टकापतयः काव्याः पञ्चाब्दास्तान्निबोधत ॥
तेषां संवत्सरो ह्यग्निः सूयस्तु परिवत्सरः ॥ २८.२१ ॥

सोम इड्वत्सरः प्रोक्तो वायुश्चैवानुवत्सरः ॥
रुद्रस्तु वत्सरस्तेषां पञ्चाब्दास्ते युगात्मकाः ॥ २८.२२ ॥

काव्याश्चैवोष्मपाश्चैव दिवाकीर्त्याश्च ते स्मृताः ॥
ये ते पिबन्त्यमावस्यां मासिमासि सुधां दिवि ॥ २८.२३ ॥

तांस्तेन तर्पयामास यावदासीत्पुरूरवाः ॥
यस्मात्प्रस्रवते सोमान्मासि मासि धिनोति च ॥ २८.२४ ॥

तस्मात्सुधामृतं तद्वै पितॄणां सोमपायिनाम् ॥
एवं तदमृतं सौम्यं सुधा च मदु चैव ह ॥ २८.२५ ॥

कृष्णपक्षे यथा वेन्दोः कलाः पञ्चदश क्रमात् ॥
पिबन्त्यम्बुमयं देवास्त्रयस्त्रिंशत्तु छन्दनाः ॥ २८.२६ ॥

पीत्वार्द्धमासं गच्छन्ति चतुर्दश्यां सुधामृतम् ॥
इत्येवं पीयमानैस्तु देवैः सर्वैर्निशाकरः ॥ २८.२७ ॥

समागच्छत्यमावस्यां भागे पञ्चदशे स्थितः ॥
सुषुम्णाप्यायितं चैव ह्यमावस्यां यथा क्रमम् ॥ २८.२८ ॥

पिबन्ति द्विलवं कालं पितरस्ते सुधामृतम् ॥
पीतक्षयं ततः सोमं सूर्योऽसावेकरश्मिना ॥ २८.२९ ॥

आप्याययत्सुषुम्णातः पुनस्तान्सोमपायिनः ॥
निः शेषायां कलायां तु सोममाप्याययत्पुनः ॥ २८.३० ॥

सुषुम्णाप्यायमानस्य भागं भागमहः क्रमात् ॥
कलाः क्षीयन्ति ताः कृष्णाः शुक्ला चाप्याययन्ति तम् ॥ २८.३१ ॥

एवं सूर्यस्य वीर्येण चन्द्रस्याप्यायिता तनुः ॥
दृश्यते पौर्णमास्यां वै शुक्लः सम्पूर्णमण्डलः ॥ २८.३२ ॥

संसिद्धिरेवं सोमस्य पक्षयोः शुक्लकृष्णयोः ॥
इत्येवं पितृमान्सोमः स्मृत इड्वत्सरात्मकः ॥ २८.३३ ॥

क्रान्तः पञ्चदशैः सार्द्धं सुधामृतपरिस्रवैः ॥
अतः पर्वाणि वक्ष्यामि पर्वणां सन्धयश्च ये ॥ २८.३४ ॥

ग्रन्थिमन्ति यथा पर्वाणीक्षुवेण्वोर्भवन्त्युत ॥
तथार्द्धमासि पर्वाणि शुक्लकृष्णानि चैव हि ॥ २८.३५ ॥

पूर्णामावस्ययोर्भेदौ ग्रन्थयः सन्धयश्च वै ॥
अर्द्धमासं तु पर्वाणि द्वितीयाप्रभृतीनि तु ॥ २८.३६ ॥

अन्वाधानक्रिया यस्मात्क्रियते पर्वसन्धिषु ॥
तस्मात्तु पर्वणामादौ प्रतिपत्सर्वसन्धिषु ॥ २८.३७ ॥

सायाह्नेऽह्यनुमत्यादौ कालो द्विलव उच्यते ॥
लवौ द्वावेव राकायां कालो ज्ञेयोऽपराह्णकः ॥ २८.३८ ॥

प्रतिपत्कृष्णपक्षस्य कालेऽतीतेऽपराह्णके ॥
सायाह्ने प्रतिपन्ने च स कालः पौर्णमासिकः ॥ २८.३९ ॥

व्यतीपाते स्थिते सूर्ये लेखार्द्धे तु युगान्तरे ॥
युगान्तरोदिते चैव लेशार्द्धे शशिनः क्रमात् ॥ २८.४० ॥

पौर्णमासी व्यतीपाते यदीक्षेतां परस्परम् ॥
यस्मिन्काले समौ स्यातां तौ व्यतीपात एव सः ॥ २८.४१ ॥

तं कालं सूर्यनिर्द्देश्यं दृष्ट्वा सङ्ख्यां तु सर्पति ॥
स वै वषट्क्रियाकालः सद्यः कालं विधीयते ॥ २८.४२ ॥

पूर्णेन्दोः पूर्णपक्षे तु रात्रिसन्धिश्च पूर्णिमा ॥
ततो विरज्यते नक्तं पौर्णमास्यां निशाकरः ॥ २८.४३ ॥

यदीक्षेते व्यतीपाते दिवा पूर्णे परस्परम् ॥
चन्द्रार्कावपराह्णे तु पूर्णात्मानौ तु पूर्णिमा ॥ २८.४४ ॥

यस्मात्तामनुमन्यन्ते पितरो दैवतैः सह ॥
तस्मादनुमतिर्नाम पूर्णिमा प्रथमा स्मृता ॥ २८.४५ ॥

अत्यर्थं भ्राजते यस्माद्व्योम्न्यस्यां वै निशाकरः ॥
रञ्जनाच्चैव चन्द्रस्य राकेति कवयोऽब्रुवन् ॥ २८.४६ ॥

अमावसेतामृक्षे तु यदा चन्द्रदिवाकरौ ॥
राका पञ्चदशी रात्रिरमावास्या ततः स्मृता ॥ २८.४७ ॥

व्युच्छिद्य तममावस्यां पश्यतस्तौ समागतौ ॥
अन्योन्यं चन्द्रसूर्यौ तौ यदा तद्दर्श उच्यते ॥ २८.४८ ॥

द्वौ द्वौ लवावमावास्या स कालः पर्वसन्धिषु ॥
द्व्यक्षर कुहुमात्रश्च पर्वकालास्त्रयः स्मृताः ॥ २८.४९ ॥

नष्टचन्द्रा त्वमावस्या या मध्याह्नात्प्रवर्त्तते ॥
दिवसार्द्धेन रात्र्या च सूर्यं प्राप्य तु चन्द्रमाः ॥ २८.५० ॥

सूर्येण सह सामुद्रं गत्वा प्रातस्तनात्स वै ॥
द्वौ कालौ सङ्गमं चैव मध्याह्ने नियतं रविः ॥ २८.५१ ॥

प्रतिपच्छुक्लपक्षस्य चन्द्रमाः सूर्य मण्डलात् ॥
विमुच्यमानयोर्मध्ये तयोर्मण्डलयोस्तु वै ॥ २८.५२ ॥

स तदा ह्याहुतेः कालो दर्शस्य तु वषट्क्रिया ॥
एतदृतुमुखं ज्ञेयममावास्यास्य पर्वणः ॥ २८.५३ ॥

दिवापर्व ह्यमावास्या क्षीणेन्दौ बहुले तु वै ॥
तस्माद्दिवा ह्यमावास्यां गृह्यतेऽसौ दिवाकरः ॥ २८.५४ ॥

गृह्यते तु दिवा तस्मादमावास्यां दिवि क्षयाम् ॥
कलानामपि चैतासां वृद्धिहान्या जलात्मनः ॥ २८.५५ ॥

तिथीनां नामधेयानि विद्वद्भिः सञ्ज्ञितानि वै ॥
दर्शयेतामथात्मानं सूर्याचन्द्रमसावुभौ ॥ २८.५६ ॥

निष्क्रामत्यथ तेनैव क्रमशः सूर्यमण्डलात् ॥
द्विलवोनमहोरात्रं भास्करं स्पृशते शशी ॥ २८.५७ ॥
मूलम्
निष्क्रामत्यथ तेनैव क्रमशः सूर्यमण्डलात् ॥
द्विलवोनमहोरात्रं भास्करं स्पृशते शशी ॥ २८.५७ ॥
विश्वास-प्रस्तुतिः
स तदा ह्याहुतेः कालो दर्शस्य तु वषट्क्रिया ॥
कुहेति कोकिलेनोक्तो यः स कालः समाप्यते ॥ २८.५८ ॥

तत्कालसम्मिता यस्मादमावास्या कुहूः स्मृता ॥
सिनीवालीप्रमाणस्तु क्षीणशेषो निशाकरः ॥ २८.५९ ॥

आमावस्यां विशत्यर्कस्सिनीवालीततः स्मृता ॥
अनुमत्याश्चराकायाः सिनीवाल्याः कुहूं विना ॥ २८.६० ॥

एतासां द्विलवः कालः कुहूमात्रं कुहूः स्मृताः ॥
चन्द्रसूर्यव्यतीपाते सङ्गते पूर्णिमान्तरे ॥ २८.६१ ॥

प्रतिपत्प्रतिपद्येत पर्वकालो द्विमात्रकः ॥
कालः कहूसिनीवाल्योः सामुद्रस्य तु मध्यतः ॥ २८.६२ ॥

अर्काग्नि मण्डले सोमे पर्वकालः कलासमः ॥
एवं स शुक्लपक्षे वै रजन्यां पर्वसन्धिषु ॥ २८.६३ ॥

सम्पूर्ममण्डलः श्रीमांश्चन्द्रमा उपरज्यते ॥
यस्मादा दाप्यायते सोमः पञ्चदश्यां तु पूर्णिमा ॥ २८.६४ ॥

दशभिः पञ्चभिश्चैव कलाभिर्दिवसक्रमात् ॥
तस्मात्कलाः पञ्चदश सोमेनास्य तु षोडशी ॥ २८.६५ ॥

तस्मात्सोमस्य भवति पञ्चदश्याप्रपां क्षयः ॥
इत्येते पितरो देवाः सोमपाः सोमवर्द्धनाः ॥ २८.६६ ॥

आर्तवा ऋतवो ह्यृद्धा देवास्तान्भावयन्ति वै ॥
अतः पितॄन्प्रवक्ष्यामि मासश्राद्धभुजस्तु ये ॥ २८.६७ ॥

तेषां गतिं सतत्त्वां च प्राप्तिं श्राद्धस्य चैव हि ॥
न मृतानां गतिः शक्या ज्ञातुं न पुनरागतिः ॥ २८.६८ ॥

तपसापि प्रसिद्धेन किम्पुनर्मासचक्षुषा ॥
अनुदेवपितॄनेते पितरो लौकिकाः स्मृताः ॥ २८.६९ ॥

देवाः सौम्याश्च काव्याश्च अयज्वानो ह्यचोनिजाः ॥
देवास्ते पितरः सर्वे देवास्तान्वादयन्त्युत ॥ २८.७० ॥

मनुष्यपितरश्चैव तेभ्योऽन्ये लौकिकाः स्मृताः ॥
पिता पितामहश्चापि तथा यः प्रपितामहः ॥ २८.७१ ॥

यज्वानो ये तु सामेन सोमवन्तस्तु ते स्मृताः ॥
ये यज्वानो हविर्यज्ञे ते वै बर्हिषदः स्मृताः ॥ २८.७२ ॥

अग्निष्वात्ताः स्मृतास्तेषां होमिनोऽयाज्ययाजिनः ॥
तेषां तु धर्मसाधर्म्यात्स्मृताः सायुज्यगा द्विजैः ॥ २८.७३ ॥

ये चाप्याश्रमधर्माणां प्रस्थानेषु व्यवस्थिताः ॥
अन्ते तु नावसीदन्ति श्रद्धायुक्तास्तु कर्मसु ॥ २८.७४ ॥

तपसा ब्रह्मचर्येण यज्ञेन प्रजया च वै ॥
श्राद्धेन विद्यया चैव प्रदानेन च सप्तधा ॥ २८.७५ ॥

कर्मस्वेतेषु ये युक्ता भवन्त्यादेहपातनात् ॥
दैवैस्तैः पितृभिः सार्द्धं सूक्ष्मजैः सोमयाजनैः ॥ २८.७६ ॥

स्वर्गता दिवि मोदन्ते पितृवत्त उपासते ॥
तेषां निवापे दत्ते तु तत्कुलीनैश्च बन्धुभिः ॥ २८.७७ ॥

मासश्राद्धभुजस्तृप्तिं लभन्ते सोमलौकिकाः ॥
एते मनुष्यपितरो मासश्राद्धभुजस्तु ये ॥ २८.७८ ॥

तेभ्योऽपरे तु येऽप्यन्ये सङ्कीर्णाः कर्मयोनिषु ॥
भ्रष्टाश्चाश्रमधर्मेभ्यः स्वधास्वाहाविवर्जिताः ॥ २८.७९ ॥

भिन्नदेहा दुरात्मानः प्रेतभूता यमक्षये ॥
स्वकर्माण्य नुशोचन्तो यातनास्थानमागताः ॥ २८.८० ॥

दीर्घायुषोऽतिशुष्काश्च श्मश्रुलाश्च विवाससः ॥
क्षुत्पिपासापरीताश्च विद्रवन्तस्ततस्ततः ॥ २८.८१ ॥

सरित्सरस्तडागानि वापीश्चाप्युपलिप्सवः ॥
परान्नानि च लिप्सन्तः काल्यमानास्ततस्ततः ॥ २८.८२ ॥

स्थानेषु पात्यमानाश्च यातनाश्च पुनः पुनः ॥
शाल्मले वैतरण्यां च कुम्भीपाके तथैव च ॥ २८.८३ ॥

करम्भवालुकायां च असिपत्रवने तथा ॥
शिला सम्पेषणे चैव पात्यमानाः स्वकर्मभिः ॥ २८.८४ ॥

तत्रस्थानां हि तेषां वै दुः खितानामनाशिनाम् ॥
तेषां लोकान्तरस्थानां बान्धवैर्नाम गोत्रतः ॥ २८.८५ ॥

भूमावसव्यं दर्भेषु दत्ताः पिण्डास्त्रयस्तु वै ॥
यान्ति तास्तर्पयन्ते च प्रेतस्थानेष्वधिष्ठितान् ॥ २८.८६ ॥

अप्राप्ता यातनास्थानं प्रभ्रष्टा य च पञ्चधा ॥
पश्चाद्ये स्थावरान्ते वै जाता नीचैः स्वकर्मभिः ॥ २८.८७ ॥

नानारूपासु जायन्ते तिर्यग्योनिष्वयोनिषु ॥
यदाहारा भवन्त्येते तासु तास्विह योनिषु ॥ २८.८८ ॥

तस्मिंस्तस्मिंस्तदाहारे श्राद्धं दत्तं प्रतिष्ठते ॥
काले न्यायागतं पात्रे विधिना प्रतिपादितम् ॥ २८.८९ ॥

प्राप्नोत्यन्नं यथादत्तं जन्तुर्यत्रावतिष्ठते ॥
यथा गोषु प्रनष्टामु वत्सो विन्दति मातरम् ॥ २८.९० ॥

तथा श्राद्धेषु दत्तान्नं मन्त्रः प्रापयते पितॄन् ॥
एवं ह्यविफलं श्राद्धं श्रद्धादत्तं तु मन्त्रतः ॥ २८.९१ ॥

तत्तत्कुमारः प्रोवाच पश्यन्दिव्येन चक्षुषा ॥
गतागतज्ञः प्रेतानां प्राप्तिं श्राद्धस्य तैः सह ॥ २८.९२ ॥

बाह्लीकाश्चोष्मपाश्चैव दिवाकीर्त्याश्च ते स्मृताः ॥
कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी ॥ २८.९३ ॥

इत्येते पितरो देवा देवाश्च पितरश्च वै ॥
ऋत्वर्तवार्द्धमासास्तु अन्योन्यं पितरः स्मृताः ॥ २८.९४ ॥

इत्येत पितरो देवा मनुष्यपितरश्च ये ॥
प्रीतेषु तेषु प्रीयन्ते श्राद्धयुक्तेषु कर्मसु ॥ २८.९५ ॥

इत्येष विचयः प्रोक्तः पितॄणां सोमपायिनाम् ॥
एवं पितृसतत्त्वं हि पुराणे निश्चयं गतम् ॥ २८.९६ ॥

इत्यर्कपितृसोमानामैलस्य च समागमः ॥
सुधामृतस्य च प्राप्तिः पितॄणां चैव तर्प्पणम् ॥ २८.९७ ॥

पूर्णा मावास्ययोः कालो यातनास्थानमेव च ॥
समासात्कीर्तितस्तुभ्यमेष सर्गः मनातनः ॥ २८.९८ ॥

वैश्वरूप्यं तु सर्गस्य कथितं ह्येकदैशिकम् ॥
न शक्यं परिसङ्ख्यातुं श्रद्धेयं भूतिमिच्छता ॥ २८.९९ ॥

स्वायम्भुवस्य हि ह्येष सर्गः क्रान्तो मया तु वै ॥
विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम् ॥ २८.१०० ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे
अमावस्याश्राद्धे पितृविचयोनामाऽष्टाविंशति तमोऽध्यायः ॥ २८ ॥