विश्वास-प्रस्तुतिः
ऋषय ऊचुः ॥
भूयः सूत महाबुद्धे कथयस्व महात्मनः ॥
महादेवस्य माहात्म्यं श्रोतुं कौतूहलं च नः ॥ २७.१ ॥
मूलम्

कथं दारुवणे देवऋषिसङ्घनिषेविते ॥
चकार वेषं विकृतं येन बुद्धा महर्षयः ॥ २७.२ ॥

ज्ञात्वा च ते महादेवं ततो भ्रान्ता ह्यचेतसः ॥
आराधयन्प्रसादार्थं नैषां तुष्टः पुनर्भवः ॥ २७.३ ॥

एतत्सर्वं यथावृत्तं देवदेवेन चेष्टितम् ॥
तत्सर्वं कथयस्वेह त्वं नो बुद्धिमतां वरः ॥ २७.४ ॥

सूत उवाच ॥
श्रूयतामभिधास्यामि धर्ममेतमतन्द्रिताः ॥
निर्म्मितं देवदेवेन भक्तानामनुकम्पया ॥ २७.५ ॥

पुरा कृतयुगे विप्राः श्रृङ्गे हिमवतः शुभे ॥
देवदारुवनं रम्यं नानाद्रुमलताकुलम् ॥ २७.६ ॥

बहवो मुनयस्तत्र तपस्यन्तो मुनिव्रताः ॥
शैवाल भोजनाः केचित्केचिदन्तर्जलेशयाः ॥ २७.७ ॥

केचिदभ्रावकाशास्तु पादाङ्गुष्ठाग्रधिष्ठिताः ॥
दन्तोलूखलिनश्चान्ये त्वश्मकुट्टास्तथा परे ॥ २७.८ ॥

स्थानवीरासनाश्चान्ये मृगयर्यारतास्तथा ॥
कालं नयन्ति तपसा तीव्रेण च महाधियः ॥ २७.९ ॥

ततस्तेषां प्रसादार्थ देवस्तद्वनमागतः ॥
भस्मपाण्डुरदिग्धाङ्गो नग्नो विकृतलक्षणः ॥ २७.१० ॥

विकृतस्रस्तकेशश्च करालदशनस्तथा ॥
उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः ॥ २७.११ ॥

शिश्नं सवृषणं तस्य रक्तगैरिकसन्निभम् ॥
मुखमङ्गारवर्णेन शुक्लेन च विभूषितम् ॥ २७.१२ ॥

क्वचित्स हसते रौद्रं क्वचिद्गायति विस्मि तः ॥
क्वचिन्नृत्यति श्रृङ्गारी क्वचिद्रौति मुहुर्मुहुः ॥ २७.१३ ॥

नृत्यन्त रुरुधुस्तूर्णं पत्न्यस्तेषां विमोहिताः ॥
आश्रमेऽभ्यागतोऽभीक्ष्णं या चते च पुनः पुनः ॥ २७.१४ ॥

भार्या कृता तथारूपा तृणाभरणभूषिता ॥
वृषनादं प्रगर्जन्वै खरनादं ननाद च ॥ २७.१५ ॥

तथा वञ्चितुमा रब्धो हासयन्सर्वदेहिनः ॥
ततस्ते मुनयः क्रुद्धाः क्रोधेन कलुषीकृताः ॥ २७.१६ ॥

मोहिता मायया सर्वे शपितुं समुपस्थिताः ॥
करवद्गायसे यस्मात्खरस्तस्माद्भविष्यसि ॥ २७.१७ ॥

राक्षसो वा पिशाचो वा दानवो वाथ वा तथा ॥
यथा वैच्छंस्तथा सर्वे क्रुद्धास्ते मुनयः समम् ॥ २७.१८ ॥

शेपुः शासैस्तु विविधैस्तं देवं भुवनेश्वरम् ॥
तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शङ्करे ॥ २७.१९ ॥

यथादित्यप्रकाशेन तारका नभसि स्थिताः ॥
न द्योतन्ते प्रकाशेन तद्वत्तेजांसि शङ्करे ॥ २७.२० ॥

श्रूयते ऋषिशापेन ब्रह्मणः सुमहात्मनः ॥
समृद्धः श्रेयसां यौनिर्यज्ञो वै नाशमाप्तवान् ॥ २७.२१ ॥

भृगोरपि च शापेन विष्णुः परमवियवान् ॥
प्रादुर्भावान्दश प्राप्तो दुःखितश्च सदा कृतः ॥ २७.२२ ॥

इन्द्रस्यापि हि धर्मज्ञः शिश्नं सवृषणं पुरा ॥
ऋषिणा गौतमेनोर्व्यां क्रुद्धेन विनिपातितम् ॥ २७.२३ ॥

गर्भवासो वसूनां च शापेन विहित स्तथा ॥
ऋषीणां चैव शापेन नहुषः सर्पतां गतः ॥ २७.२४ ॥

क्षीरोदश्च समुद्रश्च ह्यपेयो ब्राह्मणैः कृतः ॥
धर्मश्चात्र प्रशप्तो वै माण्डव्येन महात्मना ॥ २७.२५ ॥

एते चान्ये च बहवो यातनां च समागताः ॥
वर्जयित्वा विरूपाक्षं देवदेवं महेश्वरम् ॥ २७.२६ ॥

एवं हि मोहितास्तेन न चाबुद्ध्यन्त शङ्करम् ॥
ततस्ते ऋषयः सर्वे परस्परमथाब्रुवन् ॥ २७.२७ ॥

न चायं विधिरस्माकं गृहस्थानां विधीयते ॥
ब्रह्मचर्य रतानां च वने वा वनवासिनाम् ॥ २७.२८ ॥

यतीनां वा तथा धर्मो नायं दृष्टः कथञ्चन ॥
अनयस्तु महानेष येनायं मोहितो द्विजाः ॥ २७.२९ ॥

लिङ्गं प्रपातयस्वैतन्नायं धर्मस्तपस्विनाम् ॥
वदस्व वाचा मधुरं वस्त्रमेकं समाश्रय ॥ २७.३० ॥

त्याजिते च त्वया लिङ्गे ततः पूजामवाप्स्यसि ॥
ऋषीणां तद्वचः श्रुत्वा भगवान्भगनेत्रहा ॥ २७.३१ ॥

उवाच श्लक्ष्णया वाचा प्रहसन्निव शङ्करः ॥
न शक्यमिदमस्मा कं लिङ्गं पातयितुं बलात् ॥ २७.३२ ॥

ब्रह्मादिदैवतैः सर्वैः किमुतान्यैस्तपोधनैः ॥
पातयेयमहं चैतल्लिङ्गं भो द्विजसत्तमाः ॥ २७.३३ ॥

आश्रमे तिष्ठ वा गच्छ वाक्यमित्येव तेऽब्रुवन् ॥
एवमुक्तो महादेवः प्रत्दृष्टेन्द्रियचेष्टितः ॥ २७.३४ ॥

सर्वेषां पश्यतामेव तत्रैवान्तर्दधे प्रभुः ॥
अन्तर्हिते भगवति तथा लिङ्गे कृते भवे ॥ २७.३५ ॥

त्रैलोक्ये सर्वभूतानां प्रादुर्भावो न जायते ॥
व्याकुलं च तदा सर्वं न प्रकाशेत किञ्चन ॥ २७.३६ ॥

तपते चैव नादित्यो निष्प्रभः पावकस्तथा ॥
नक्षत्राणि ग्रहाश्चैव विपरीता विजज्ञिरे ॥ २७.३७ ॥

सन्तानार्थ प्रवृत्तानामृषीणां विभवात्मनाम् ॥
क्रतवो न व्यवर्त्तन्त ऋतुकालाभिगामिनाम् ॥ २७.३८ ॥

ते चरति पुनर्द्धर्म्मं निर्ममा निरहङ्कृताः ॥
नष्टप्रभाववीर्याश्च नष्टतेजस एव च ॥ २७.३९ ॥

धर्मे चैव मतिस्तेषां तदा न व्यवतिष्ठते ॥
ते तुसर्वे समागम्य ब्रह्मलोकमुपागताः ॥ २७.४० ॥

ब्रह्मणो भवनं गत्वा दृष्ट्वा पुष्पकसम्भवम् ॥
पादयोः पतिताः सर्वे शिववृत्तान्तमूचिरे ॥ २७.४१ ॥

विकटः स्तब्धकेशश्च करालदशनस्तथा ॥
उलूकव्यग्रहस्तश्च रक्तपिङ्गललोचनः ॥ २७.४२ ॥

शिश्नं सवृषणं तस्य रक्तं गैरिकमण्डितम् ॥
स्नुषाणां च दुहितॄणां पुत्रीणां च विशेषतः ॥ २७.४३ ॥

वर्तमानस्ततः पार्श्वे विपरीताभिलाषतः ॥
उन्मत्त इति विज्ञाय सोऽस्माभिरवमानितः ॥ २७.४४ ॥

आक्रुष्टस्ताडितश्चापि लिङ्गं चाप्यस्य चोद्धृतम् ॥
तस्य क्रोधप्रसादार्थं वयं ते शरणं गताः ॥ २७.४५ ॥

एतत्कार्यं न जानीमस्तन्नो ब्रूहि पितामह ॥
ऋषीणां तद्वचः श्रुत्वा ध्यानाद्विज्ञाय चेश्वरम् ॥ २७.४६ ॥

प्रत्युवाच ततो ब्रह्मा वाक्यं च सुसमा हितः ॥
एष देवो महादेवो विज्ञेयस्तु महेश्वरः ॥ २७.४७ ॥

न तस्य परमं किञ्चित्पदं समधिगम्यते ॥
देवानां च ऋषीणां च पितृणां चैव स प्रभुः ॥ २७.४८ ॥

सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनाम् ॥
संहरत्येष भगवान् कालो भूत्वा महेश्वरः ॥ २७.४९ ॥

एष चैव प्रजाः सर्वाः सृजत्येकः स्वतेजसा ॥
एष चिक्री च वक्षोजश्रीवत्सकृतलक्षणः ॥ २७.५० ॥

येगी कृतयुगे चैव त्रेतायां क्रतुरुच्यते ॥
द्वापरे चैव कालाग्निर्धर्मकेतुः कलौ स्मृतः ॥ २७.५१ ॥

रुद्रस्य मूर्त्तयस्तिस्रो विज्ञेयाश्चापि पण्डितैः ॥
तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुः प्रकाशकः ॥ २७.५२ ॥

मूर्त्तिरेका स्मृता यस्य दिग्वासाश्च शिवाह्वया ॥
यत्र तिष्ठन्ति तद्ब्रह्मयोगेन तु समन्वितम् ॥ २७.५३ ॥

तस्माद्देवं देवदेवमी शानं प्रभुमव्ययम् ॥
आराधयत विप्रेन्द्रा जितक्रोधा जितेन्द्रियाः ॥ २७.५४ ॥

दृष्टं वै यादृशं तस्य लिङ्गमासीन्महात्मनः ॥
तादृक्प्रतिकृतिं कृत्वा शूलपाणिं प्रपद्यत ॥ २७.५५ ॥

ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः ॥
यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रमश्यति ॥ २७.५६ ॥

ततः प्रदक्षिणं कृत्वा ब्रह्माणममितौजसम् ॥
आस्थिता वीतशोकास्ते देवदारुवने ततः ॥ २७.५७ ॥

आराधयितुमारब्धा ब्रह्मणा कथितं यथा ॥
स्थण्डिलेषु विचित्रेषु पर्वतेषु गुहासु च ॥ २७.५८ ॥

नदीनां च विचित्रेषु पुलिनेषु शुभेषु च ॥
एवं संवत्सरे पूर्णे वसन्ते समुपस्थिते ॥
तदेव रूपमास्थाय देवस्तद्वनमागतः ॥ २७.५९ ॥

कुसुमितबहुपादपालताकं भ्रमरगणै रुपगीयमानखण्डम् ॥
परभृतपरिपूर्णचारुशब्दं प्रविशति तद्वनमाश्रमं महेशः ॥ २७.६० ॥

ततस्तं मुनयः सर्वे तुष्टुवुः सुसमाहिताः ॥ २७.६१ ॥
विश्वास-प्रस्तुतिः
अद्भिर्विवधमाल्यैश्च धूपमन्धैस्तथैव च ॥
सपत्नीका महाभागाः सपुत्राः सपरिच्छदाः ॥ २७.६२ ॥

मृदु भस्ते तदा वाग्भिर्गिरीशमिदमब्रुवन् ॥
अज्ञानाद्देवदेवस्य यदस्माभिग्नुष्ठितम् ॥ २७.६३ ॥

कर्मणा मनसा वाचा तत्सर्वं क्षन्तुमर्हसि ॥
चरितानि विचित्राणि गुह्यानि गहनानि च ॥ २७.६४ ॥

ब्रह्मादीनां च देवानां दुर्विज्ञेयानि शङ्कर ॥
स्वागतं ते न जानीमो गतिं नैव च नैव च ॥ २७.६५ ॥

विश्वेश्वर महादेव योऽसि सोऽसि नमोऽस्तु ते ॥
स्तुवन्ति त्वां महात्मानो देवदेवं महेश्वरम् ॥ २७.६६ ॥

नमो भवाय भव्याय भावनायोद्भवाय च ॥
अनन्तबलवीर्याय भूतानां पतये नमः ॥ २७.६७ ॥

संहर्त्रे कपिशाङ्गाय अव्ययाय व्ययाय च ॥
गङ्गा सलिलधाराय चाधाराय गुणात्मने ॥ २७.६८ ॥

त्र्यम्बकाय त्रिनेत्राय त्रिशूलवरधारिणे ॥
कन्दर्पाय नमस्तुभ्यं नमोऽस्तु परमात्मने ॥ २७.६९ ॥

शकराय वृषाङ्काय गणानां पतये नमः ॥
दण्डहस्ताय कालाय पाशहस्ताय वै नमः ॥ २७.७० ॥

वेदमन्त्रप्रधानाय शतजिह्वाय ते नमः ॥
भूतं भव्यं भविष्यच्च स्थावरं चङ्गमं च यत् ॥ २७.७१ ॥

तव देहात्समुत्पन्नं देव सर्वमिदं जगत् ॥
शेभो पाहि च भद्रं ते प्रसीद भगवंस्ततः ॥ २७.७२ ॥

अज्ञानाद्यदि वा ज्ञानाद्यत्किञ्चित्कुरुते नरः ॥
तत्सर्वं भगवानेव कुरुते योगमायया ॥ २७.७३ ॥

एवं स्तुत्वा तु मुनयः प्रहृष्टेनान्तरात्मना ॥
याचन्ते तपसा युक्ताः पश्यामस्त्त्वां यथा पुरा ॥ २७.७४ ॥

प्रकृतिस्थं च ते लिङ्गं तथैवास्तु यथा पुरा ॥
नमो दिग्वाससे नित्यं किङ्किणीजालमालिने ॥ २७.७५ ॥

विकटाय करालाय करालवदनाय च ॥
अरूपाय सुरूपाय विश्वरूपाय ते नमः ॥ २७.७६ ॥

कटङ्कटाय रूद्राय स्वाहाकाराय वै नमः ॥
सर्वप्राणात्मने तुभ्यं गुणदेहाय वै नमः ॥ २७.७७ ॥

दुर्ग्गन्धाय सुगन्धाय शूलहस्ताय वै नमः ॥
स्वयं नीलशिखण्डाय श्रीकण्ठाय नमो नमः ॥
नीलकण्ठाय देवाय चिताभस्माङ्गरागिणे ॥ २७.७८ ॥

गुणत्रयात्मने तुभ्यं नमो विश्वाय वेधसे ॥
श्मशानवासिने नित्यं प्रेतरूपाय वै नमः ॥ २७.७९ ॥

त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ॥
आत्मा च सर्वभूतानां साङ्ख्यैः पुरुष उच्यते ॥ २७.८० ॥

पर्वतानां महामेरुर्नक्षत्राणां च चन्द्रमाः ॥
ऋषीणां च वसिष्ठस्त्वं देवानां वासवस्तथा ॥ २७.८१ ॥

ओङ्करः सर्ववेदानां ज्येष्ठसाम च सामसु ॥
आरण्यानां च सर्वेषां सिंहस्त्वं परमेश्वरः ॥ २७.८२ ॥

ग्राम्याणामृषभश्चापि भगवाल्ँलोकपूजितः ॥
सर्वथा वर्त्तमानोऽपि योयो भावो भविष्यति ॥ २७.८३ ॥

त्वामेव तत्र पश्यामो ब्रह्मणा कथितं यथा ॥
कामः क्रोधश्च लोभश्च विषादो मद एव च ॥ २७.८४ ॥

एतदिच्छाम वै रोद्धुं प्रसीद परमेश्वर ॥
महासंहरणे प्राप्ते त्वया देव कृतात्मना ॥ २७.८५ ॥

करं ललाटे सम्पीड्य वह्निरुत्पादितस्त्वया ॥
तेनाग्निना तदा लोका अर्चिर्भिः सर्वतो वृताः ॥ २७.८६ ॥

तस्मादग्निसमा ह्येते बहवो विकृताग्नयः ॥
यानि चान्यानिभूतानि स्थावराणि चराणि च ॥ २७.८७ ॥

दह्यन्ते प्राणिनस्ते तु त्वत्समुत्थेन वाह्निना ॥
अस्माकं दह्यमानानां त्राता भव सुरेश्वर ॥ २७.८८ ॥

त्वं च लोकहितार्थाय भूतानि परिषिञ्चसि ॥
महेश्वर महाभाग प्रभो शुभनिरीक्षक ॥ २७.८९ ॥

continu from brahmanda-२३
विश्वास-प्रस्तुतिः
आज्ञापय वयं नाथ कर्त्तारो वचनं तव ॥
रूपकोटिसहस्रेषु रूपकोटिशतेषु च ॥ २७.९० ॥

अन्तं गन्तुं न शक्ताः स्म तव देव नमोऽस्तु ते ॥
ततस्तु भगवानीश इदं वचनमब्रवीत् ॥ २७.९१ ॥

ये हि मे भस्मनिरता भस्मना दग्धकिल्बिषाः ॥
यथोक्तकारिणो दान्ता विप्रा ध्यानपरायणाः ॥ २७.९२ ॥

न तान्परिवदेद्विद्वान् न च तानतिलङ्घयेत् ॥
न चेमानप्रियं ब्रूयादमुत्रेह हितार्थवान् ॥ २७.९३ ॥

यस्तान्निन्दति मूढात्मा महादेवंस निन्दति ॥
यस्त्वेतान्पूजयेन्नित्यं स पूजयति शङ्करम् ॥
एवं चरथ भद्रं वो मत्तः सिद्धिमवाप्स्यथ ॥ २७.९४ ॥

अतुलमिह महातमः प्रणाशंशिवकथितं परमं विधिं विदित्वा ॥
अपगतभयलोभमोहचिन्ताः सह पतिताः महसा शिरोभिरूहुः ॥ २७.९५ ॥

ततस्ते मुदिता विप्राः प्रकृतिस्थे महेश्वरे ॥
गन्धोदकैः सुशुद्धैश्च कुशपुष्पविमिश्रितैः ॥ २७.९६ ॥

स्नापयन्ति महाकुम्भैरद्भिर्देवं महेश्वरम् ॥
गायन्ति विविधैर्गुह्यैर्हुङ्कारैश्चापि सुक्वरैः ॥ २७.९७ ॥

नमो दिग्वाससे देव किङ्किणीध्राय वै नमः ॥
अर्द्ध नारीशरीराय साङ्ख्ययोगप्रवर्त्तिने ॥ २७.९८ ॥

घनवाहनकृष्णाय गजचर्मनिवासिने ॥
कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने ॥ २७.९९ ॥

सुरचितचित्रविचित्रकुण्डलाय सुरचितमाल्यविभूषणाय तुभ्यम् ॥
मृगपतिवरचर्मवाससे ते पृथुपरशो च नमोस्तु शङ्कराय ॥ २७.१०० ॥

भूयश्च स्थापिते लिङ्गे लोकानां हितकाम्यया ॥
वर्णधर्मपराश्चैव चेरुस्ते मुनिसत्तमाः ॥ २७.१०१ ॥

ततस्तान्स मुनीन्प्रीतः प्रत्युवाच महेश्वरः ॥
प्रीतोस्मि युष्मत्तपसा वरं वृणुत मुव्रताः ॥ २७.१०२ ॥

ततस्ते मुनयस्सर्वे प्रणिपत्य महेश्वरम् ॥
भृग्वङ्गिरा वसिष्ठश्च विश्वामित्रस्तथैव च ॥ २७.१०३ ॥

गौतमोऽत्रिः सुकेशश्च पुलस्त्यः पुलहः क्रतुः ॥
मरीचिः कश्यपश्चापि संवर्तश्च महातपाः ॥ २७.१०४ ॥

ते प्रणम्य महादेवमिदं वचनमब्रुवन् ॥
भस्मस्नानं च नग्नत्वं वामत्वं प्रतिलोमता ॥
सेव्यासेव्यत्वं तु विभो एतदिच्छाम वेदितुम् ॥ २७.१०५ ॥

भगवानुवाच ॥
एतद्वः सम्प्रवक्ष्यामि कथासर्वस्वमद्य वै ॥
अग्निर्ह्यहं सोमयुतः सोमश्चाग्निमुपश्रितः ॥ २७.१०६ ॥

कृताकृतं वदन्त्यग्निं भूयो लोकाः समाश्रिताः ॥
असकृच्चाग्निना दग्धं जगत्स्थावरजङ्गमम् ॥ २७.१०७ ॥

भस्मसाध्यं हि तत्सर्वं पवित्रमिद मुत्तमम् ॥
भस्मना वीर्यमास्थाय भूतानि परिषिञ्चति ॥ २७.१०८ ॥

अग्निकार्यं च यत्कृत्वा करिष्यति च त्र्यायुषम् ॥
भस्मना मम वीर्येण मुच्यते सर्वकिल्बिषैः ॥ २७.१०९ ॥

भासयत्येव यद्भस्म शुभं वासयते च यत् ॥
तत्क्षणात्सर्वपापानां भस्मेति परिकीर्त्यते ॥ २७.११० ॥

ऊष्मपाः पितरो ज्ञेया देवा वै सोमसम्भवाः ॥
अग्नीषोमात्मकं सर्वं जगत्स्थावरजं गमम् ॥ २७.१११ ॥

अहमग्निर्महातेजाः सोमश्चैषा ममाम्बिका ॥
अहमग्निश्च सोमश्च प्रकृत्या पुरुषः स्वयम् ॥ २७.११२ ॥

तस्माद्भस्म महाभागा मद्वीर्यमिति चोच्यते ॥
स्ववीर्यं वपुषा चैव धारयामीति वै स्थितिः ॥ २७.११३ ॥

तदा प्रभृति लोकेषु रक्षार्थमशुभेषु च ॥
भस्मना क्रियते रक्षा सूतिकानां गृहेषु च ॥ २७.११४ ॥

भस्मस्नानविशुद्धात्मा जितक्रोधो जितेन्द्रियः ॥
मत्समीपसुपागम्य न भूयो विनिवर्तते ॥ २७.११५ ॥

व्रतं पाशुपतं योगं कापालं योगनिर्मितम् ॥
पूर्वं पाशुपतं ह्येतन्निर्मितं तदनुत्तमम् ॥ २७.११६ ॥

शेषाश्चाश्रमिणः सर्वे पश्चात्सृष्टाः स्वयम्भुवा ॥
सृष्टिरेषा मया सृष्टा लज्जामोहभयात्मिका ॥ २७.११७ ॥

नग्ना एव हि जायन्ते देवता मुनयस्तथा ॥
ये चान्येमानवा लोके सर्वे जायन्त्यवाससः ॥ २७.११८ ॥

इन्द्रियैरजितैर्नग्ना दुकूलेनापि संवृताः ॥
तैरेव संवृतो गुप्तोन वस्त्रं कारणं स्मृतम् ॥ २७.११९ ॥

क्षमा धृतिरहिंसा च वैराग्यं चैव सर्वशः ॥
तुल्यौ मानापमानौ च तत्प्रावरणमुत्तमम् ॥ २७.१२० ॥

भस्मपाण्डुरदिग्धाङ्गो ध्यायते मनसा भवम् ॥
यद्यकार्यसहस्राणि कृत्वा स्नायति भस्मना ॥ २७.१२१ ॥

तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनम् ॥
तस्मा द्यत्नपरो भूत्वा त्रिकालमपि यः सदा ॥ २७.१२२ ॥

भस्मना कुरुते स्नानं गाणपत्यं स गच्छति ॥
संहृत्य च क्रतून्सर्वान्गृहीत्वामृतमुत्त मम् ॥ २७.१२३ ॥

ध्यायन्ति ये महादेवं लीनास्तद्भावभाविताः ॥
उत्तरेणाथ पन्थानं तेऽमृतत्वमवाप्नुयुः ॥ २७.१२४ ॥

दक्षिणेनाथ पन्थानं ये श्मशानानि भेजिरे ॥
अणिमा महिमा चैव लघिमा प्राप्तिरेव च ॥ २७.१२५ ॥

गरिमा पञ्चमी चैव षष्ठं प्राकाम्यमेव च ॥
ईशित्वं च वशित्वं च ह्यमरत्वं च ते गताः ॥ २७.१२६ ॥

इन्द्रादयस्तथा देवाः कामिकं व्रतमास्थिताः ॥
ऐश्वर्यं परमं प्राप्य सर्वे प्रथिततेजसः ॥ २७.१२७ ॥

व्यपगतमदमोहमुक्तरागास्तमेरहजदोषविवर्जितस्वभावाः ॥
परिभवमिदमुत्तमं विदित्वा पशुपतिदयितमिदं व्रतं चरध्वम् ॥ २७.१२८ ॥

यः पठेद्वै शुचिर्भूत्वा श्रद्दधानो जितेन्द्रियः ॥
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ २७.१२९ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपाद
दारुवनप्रवेशभस्मस्नानविधिर्नाम सप्तविंशतितमोऽध्यायः ॥ २७ ॥