०२६

विश्वास-प्रस्तुतिः

ऋषय ऊचुः ॥
महादेवस्य महात्म्यं प्रभुत्वं च महात्मनः ॥
श्रोतुमिच्छामहे सम्यगैश्वर्यगुणविस्तरम् ॥ २६.१ ॥

मूलम्

सूत उवाच ॥
पूर्वं त्रैलोक्यविजये विष्णुना समुदात्दृ तम् ॥
बलिं बद्ध्वा महावीर्यं त्रैलोक्याधिपतिं पुरा ॥ २६.२ ॥

प्रनष्टेषु तु दैत्येषु प्रहृष्टे तु शचीपतौ ॥
अथाजग्मुः प्रभुं द्रष्टुं सर्वे देवाः सनातनम् ॥ २६.३ ॥

यत्रास्ते विश्वरूपात्मा क्षीरोदस्य मसीपतः ॥
सिद्धा ब्रह्मर्षयो यक्षा गन्धर्वाप्सरसां गणाः ॥ २६.४ ॥

नागा देवर्षयश्चैव नद्यः सर्वे च पर्वताः ॥
अभिगम्य महात्मानं स्तुवन्ति पुरुषं हरिम् ॥ २६.५ ॥

त्वं धाता त्वं च कर्तासि त्वं लोकान्सृजसि प्रभो ॥
त्वत्प्रसादाच्च कल्याणं प्राप्तं त्रैलोक्यमव्ययम् ॥ २६.६ ॥

असुराश्च जिताः सर्वे बलिर्बद्धश्च वै त्वया ॥
एवमुक्तः सुरैर्विष्णः सिद्धैश्च परमर्षिभिः ॥ २६.७ ॥

प्रत्युवाच तदा देवान् सर्वांस्तान्पुरुषोत्तमः ॥
श्रूयतामभिधास्यामि कारणं सुरसत्तमाः ॥ २६.८ ॥

यः स्रष्टा सर्वभूतानां कालः कालकरः प्रभुः ॥
येनाहं ब्रह्मणा सार्द्धं सृष्टा लोकाश्च मायया ॥ २६.९ ॥

तस्यैव च प्रसादेन आदौ सिद्धत्वमागतः ॥
पुरा तमसि चाव्यक्ते त्रैलोक्ये ग्रसिते मया ॥ २६.१० ॥

उदरस्थेषु भूतेषु त्वेकोऽहं शयित स्तदा ॥
सहस्रशीर्षा भूत्वा च सहस्राक्षः सहस्रपात् ॥ २६.११ ॥

शङ्खचक्रगदापाणिः शयितो विमलेंऽभसि ॥
एतस्मिन्नन्तरे दूरात्पश्यामि ह्यमितप्रभम् ॥ २६.१२ ॥

शतसूर्यप्रतीकाशं ज्वलन्तं स्वेन तेजसा ॥
चतुर्वक्त्रं महायोगं पुरुषं काञ्चनप्रभम् ॥ २६.१३ ॥

कृष्णाजिनधरं देवं कमण्डलुविभूषितम् ॥
निमेषान्तरमात्रेण प्राप्तोऽसौ पुरुषोत्तमः ॥ २६.१४ ॥

ततो मामब्रवीद्ब्रह्मा सर्वलोकनमस्कृतः ॥
कस्त्वं कुतो वा कि चेह तिष्ठसे वद मे विभो ॥ २६.१५ ॥

अहं कर्तास्मि लोकानां स्वयम्भूर्विश्वतोमुखः ॥
एवमुक्तस्तदा तेन ब्रह्मणाऽहमुवाच तम् ॥ २६.१६ ॥

अहं कर्त्ता हि लोकानां संहर्ता च पुनः पुनः ॥
एवं सम्भाषमाणौ तु परस्परजयैषिणौ ॥ २६.१७ ॥

उत्तरां दिशमास्थाय ज्वालामद्राक्ष्व विष्ठिताम् ॥
ज्वालां ततस्तामालोक्य विस्मितौ च तदानघाः ॥ २६.१८ ॥

तेजसा च बलेनाथ शार्वं ज्योतिः कृताञ्जली ॥
वर्द्धमानां तदा ज्वालामत्यन्तपरमाद्भुताम् ॥ २६.१९ ॥

अभिदुद्राव तां ज्वालां ब्रह्मा चाहं च सत्वरौ ॥
दिवं भूमिं च निर्भिद्य तिष्ठन्तं जवालमण्डलम् ॥ २६.२० ॥

तस्या ज्वालस्य मध्ये तु पश्यावो विपुलप्रभम् ॥
प्रादेशमात्रमव्यक्तं लिङ्गं परमदीप्तिमत् ॥ २६.२१ ॥

न च तत्काञ्चनं मध्ये नशैलं न च राजतम् ॥
अनिर्देश्यमचिन्त्यं च लक्ष्यालक्ष्यं पुनः पुनः ॥ २६.२२ ॥

ज्वालामालासहस्राढ्यं विस्मयं परमद्भुतम् ॥
महता तेजसायुक्तं वर्दभमानम्भृशन्तथा ॥ २६.२३ ॥

ज्वालामालाततं न्यस्तं सर्वभूतभयङ्करम् ॥
घोररूपिणमत्यर्थं भिन्दं तमिव रोदसी ॥ २६.२४ ॥

ततो मामब्रवीद्ब्रह्मा अधो गच्छ त्वमाशु वै ॥
अन्तमस्य विजानीवो लिङ्गस्य तु महात्मनः ॥ २६.२५ ॥

अहमूर्ध्वं गमिष्यामि यावदन्तोऽस्य दृश्यते ॥
तदा तु समयं कृत्वा गत उर्द्ध्वमधश्च हि ॥ २६.२६ ॥

ततो वर्षसहस्रं तु ह्यहं पुनरधो गतः ॥
न पश्यामि च तस्यान्तं भीतश्चाहं ततोऽभवम् ॥ २६.२७ ॥

तथैव ब्रह्मा ह्यूध्व च न चान्तं तस्य लब्धवान् ॥
समागतो मया सार्द्ध तत्रैव च महाभसि ॥ २६.२८ ॥

ततो विस्मयमापन्नौ भीतौ तस्य महात्मनः ॥
मायया मोहितौ तेन नष्टसञ्ज्ञै व्यवस्थितौ ॥ २६.२९ ॥

ततो ध्यानरतौ तत्र चेश्वरं सर्वतोमुखम् ॥
प्रभवं निधनं चैव लौकानां प्रभुमव्ययम् ॥ २६.३० ॥

प्रह्वाञ्जलिपुटौ भूत्वा तस्मै शर्वाय शूलिने ॥
महाभैरवनादाय भीमरूपाय दंष्ट्रिणे ॥
अव्यक्तायाथ महते नमस्कारं प्रकुर्वहे ॥ २६.३१ ॥

नमोऽस्तु ते लोकसुरेश देव नमोऽस्तु ते भूतपते महात्मन् ॥
नमोऽस्तु ते शाश्वतसिद्धयोगिने नमोस्तु ते सर्वजगत्प्रतिष्ठित ॥ २६.३२ ॥

परमेष्ठी परं ब्रह्म त्वक्षरं परमं पदम् ॥
ज्येष्ठस्त्वं वामदेवश्च रुद्रः स्कन्दः शिवः प्रभुः ॥ २६.३३ ॥

त्वं य५स्त्वं वषट्कारस्त्वमोङ्कारः परन्तपः ॥
स्वाहाकारो नमस्कारः संस्कारः सर्वकर्मणाम् ॥ २६.३४ ॥

स्वधाकारश्च यज्ञश्च व्रतानि नियमास्तथा ॥
वेदा लोकाश्च देवाश्च भगवानेव सर्वशः ॥ २६.३५ ॥

आकाशस्य च शब्दस्त्वम्भूतानां प्रभवाप्ययः ॥
भूमौ गन्धो रसश्चाप्सु तेजोरूपं महेश्वरः ॥ २६.३६ ॥

वायोः स्पर्शश्च देवेश वपुश्चन्द्रमसस्तथा ॥ २६.३७ ॥
बुद्धौ ज्ञानं च देवेश प्रकृतेर्बीजमेव च ॥ २६.३८ ॥

संहर्त्ता सर्वलोकानां कालो मृत्युमयोंऽतकः ॥
त्वं धारयसि लोकांस्त्रींस्त्वमेव सृजसि प्रभो ॥ २६.३९ ॥

पूर्वेण वदनेन त्वमिन्द्रत्वं प्रकरोषि वै ॥
दक्षिणेन तु वक्त्रेण लोकान्सङ्क्षिपसे पुनः ॥ २६.४० ॥

पश्चिमेन तु वक्त्रेण वरुणस्थो न संशयः ॥
उत्तरेण तु वक्त्रेण सोमस्त्वं देवसत्तमः ॥ २६.४१ ॥

एकधा बहुधा देव लोकानां प्रभवाप्ययः ॥
आदित्या वसवो रुद्रा मरुतश्च सहाश्विनः ॥ २६.४२ ॥

साध्या विद्याधरा नागाश्चारणाश्च तपोधनाः ॥
वालखिल्या महात्मानस्तपः सिद्धाश्च सुव्रताः ॥ २६.४३ ॥

त्वत्तः प्रसूता देवेश ये चान्ये नियतव्रताः ॥
उमा सीता सिनीवाली कुहूर्गायत्र्य एव च ॥ २६.४४ ॥

लक्ष्मीः कीर्त्तिर्धृतिर्मेधा लज्जा कान्तिर्वपुः स्वधा ॥
तुष्टिः पुष्टिः क्रिया चैव वाचां देवी सरस्वती ॥
त्वत्तः प्रसूता देवेश सन्ध्या रात्रिस्तथैव च ॥ २६.४५ ॥

सूर्यायुतानामयुतप्रभाव नमोऽस्तु ते चन्द्रसहस्रगौर ॥
नमोऽस्तु ते वज्रपिनाकधारिणे नमोस्तु ते देव हिरण्यवाससे ॥ २६.४६ ॥

नमोस्तु ते भस्मविभूषिताङ्ग नमोऽस्तु ते कामशरीरनाशन ॥
नमोऽस्तु ते देव हिरण्यरेतसे नमोऽस्तु ते देव हिरण्यवाससे ॥ २६.४७ ॥

नमोऽस्तु ते देव हिरण्ययोने नमोऽस्तु ते देव हिरण्यनाभ ॥
नमोऽस्तु ते देव हिरण्यरेतसे नमोऽस्तु ते नेत्रसहस्रचित्र ॥ २६.४८ ॥

नमोऽस्तु ते देव हिरण्यवर्ण नमोऽस्तु ते देव हिरण्यकेश ॥
नमोऽस्तु ते देव हिरण्यवीर नमोऽस्तु ते देव हिरण्यदायिने ॥ २६.४९ ॥

नमोऽस्तु ते देव हिरण्यनाथ नमोऽश्तुते देव हिरण्यनाद ॥
नमोऽस्तु ते देव पिनाकपाणे नमोऽश्तुते ते शङ्कर नीलकण्ठ ॥ २६.५० ॥

एवं संस्तूयमानस्तु व्यक्तो भूत्वा महामतिः ॥
देवदेवो जगद्योनिः सूर्य कोटिसमप्रभः ॥ २६.५१ ॥

आबभाषे कृपाविष्टो महादेवो महाद्युतिः ॥
वक्त्रकोटिसहस्रेण ग्रसमान इवाम्बरम् ॥ २६.५२ ॥

कम्बुग्रीवः सुज ठरो नानाभूषणभूषितः ॥
नानारत्नविचित्राङ्गो नानामाल्यानुलेपनः ॥ २६.५३ ॥

पिनाकपाणिर्भगवान्सुरपूज्यस्त्रिशूलधृक् ॥
व्यालय ज्ञोपवीती च सुराणामभयङ्करः ॥ २६.५४ ॥

दुन्दुभिस्वरनिर्घोषः पर्जन्यनिनदोपमः ॥
मुक्तो हासस्तदा तेन सर्वमापूरयञ्जगत् ॥ २६.५५ ॥

तेन शब्देन महता चावां भीतौ महात्मनः ॥
अथोवाच महादेवः प्रीतोऽहं सुरसत्तमौ ॥ २६.५६ ॥

पश्यतां च महायोगं भयं सर्व प्रमुच्यताम् ॥
युवां प्रसूतौ गात्रेभ्यो मम पूर्वं सनातनौ ॥ २६.५७ ॥

्यं मे दक्षिणो बाहुर्ब्रह्मा लोकपितामहः ॥
वामो बाहुश्च मे विष्णुर्नित्यं युद्धेष्वनिर्जितः ॥ २६.५८ ॥

प्रीतोऽहं युवयोः सम्यग्वरं दद्यां यथैप्सितम् ॥
ततः प्रहृष्टमनसौ प्रणतौ पादयोः प्रभोः ॥ २६.५९ ॥

अब्रूतां च महादेवं प्रसादाभिमुखं स्थितम् ॥
यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च ते ॥
भक्तिर्भवतु नौ नित्यं त्वयि देव सुरेश्वर ॥ २६.६० ॥

देवदेव उवाच ॥
एवमस्तु महाभागौ सृजतां विपुलाः प्रजाः ॥
एवमुक्त्वा स भगवांस्तत्रैवातरधाद्विभुः ॥ २६.६१ ॥

एष एव मयोक्तो वः प्रभावस्तस्य धीमतः ॥
एतद्धि परमं ज्ञानमव्यक्तं शिवसञ्ज्ञितम् ॥ २६.६२ ॥

एतत्सूक्ष्ममचिन्त्यं च पश्यन्ति ज्ञ३नचक्षुषः ॥
तस्मै देवाधिदेवाय नमस्कारं प्रकुर्महे ॥
महादेव नमस्तेऽस्तु महेश्वर नमोऽस्तु ते ॥ २६.६३ ॥

एतच्छ्रुत्वा गताः सर्वे सुराः स्वं स्वं निवेशनम् ॥
नमस्कारं प्रकुर्वाणाः शङ्कराय महात्मने ॥ २६.६४ ॥

इमं स्तवं पठिद्यस्तु चेश्वरस्य महात्मनः ॥
कामांश्च लभते सर्वान् पापेभ्यश्च प्रमुच्यते ॥ २६.६५ ॥

एतत्सर्वं तदा तेन न विष्णुना प्रभविष्णुना ॥
महादेवप्रसादेन ह्युक्तं ब्रह्म सनातनम् ॥
एतद्वः सर्वमाख्यातं मया माहेश्वरं बलम् ॥ २६.६६ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे
लिङ्गोत्पत्तिकथनं नाम षड्विंशतितमोऽध्यायः ॥ २६ ॥