०२५

विश्वास-प्रस्तुतिः

सूत उवाच ॥
एतदुक्वा महाबुद्धिर्वायुर्ल्लोकहिते रतः ॥
ज्जाप जप्यं भगवान्मध्यं प्राप्ते दिवाकरे ॥ २५.१ ॥

मूलम्

ऋषयश्चापि ते सर्वे ये तत्रासन्समागताः ॥
ते सर्वे नियतात्मानस्तस्थुः प्राञ्जलयस्तथा ॥ २५.२ ॥

य इज्यो नियमस्यान्ते प्राणिनां जीवनः प्रभुः ॥
नीलकण्ठ नमस्तेऽस्तु इत्युवाच सदागतिः ॥ २५.३ ॥

श्रुत्वा तु भावितात्मानो मुनयः शंसितव्रताः ॥
वालखिल्येति विख्याताः पतङ्गसहचारिणः ॥ २५.४ ॥

अष्टाशीतिसहस्रामि ऋषीणामूर्ध्वरेतसाम् ॥
ते स्म पृच्छन्ति वायु च वायुपर्णाम्बु भोजनाः ॥ २५.५ ॥

नीलकण्ठेति यत्प्रोक्तं त्वया पवनसत्तम ॥
एतद्गुह्यं पवित्राणां पुष्णं पुण्यविदां वरः ॥ २५.६ ॥

तद्वयं श्रोतुमिच्छाम स्तन्नो निगद सत्तम ॥
तत्सर्व श्रोतुमिच्छामस्त्वत्प्रसादात्प्रभञ्जन ॥ २५.७ ॥

नीलता येन कण्ठस्य कारणेनांविकापतेः ॥
श्रोतुमिच्छामहे देव तव वक्त्राद्विशेषतः ॥ २५.८ ॥

यावद्वाचः प्रवर्त्तन्ते सर्वास्ताः प्रेरितस्त्वया ॥
वर्णस्थानगते वायो वाग्विधिः सम्प्रवर्त्तते ॥ २५.९ ॥

ज्ञान पूर्वमथोत्साहस्त्वत्तो वायो प्रवर्त्तते ॥
त्वयि निष्पूयमाने तु शेषा वर्णप्रवृत्तयः ॥ २५.१० ॥

यत्र वाचो निवर्त्तन्ते देहवर्णाश्च दुर्लभाः ॥
त्वत्तो हि वर्णसद्भावः सर्वगस्त्वं सदानिल ॥ २५.११ ॥

नान्यः सर्वगतो देवस्त्वदृतेऽस्ति समीरण ॥
एष वै जीवलोकस्ते प्रत्यक्षः सर्वतोऽनिल ॥ २५.१२ ॥

वेत्थ वाचस्पतिं देवं मनोनायकमीश्वरम् ॥
ब्रूहि तत्कण्ठदेशे तु किं कृत्वा रूपविक्रिया ॥ २५.१३ ॥

वचः श्रुत्वा ततस्तेषां मुनीनां भावितात्मनाम ॥
प्रत्युवाच महातेजा वायुर्ल्लोकनमस्कृतः ॥ २५.१४ ॥

पुरा कृतयुगे विप्रो वेदनिर्णयतत्परः ॥
वसिष्ठो नाम धर्मात्मा मानसो वै प्रजापतिः ॥ २५.१५ ॥

पप्रच्छ कार्त्तिकेयं वै मयूरवरवाहनम् ॥
महिषासुरनारीणां नयनाञ्जनतस्करम् ॥ २५.१६ ॥

महासेनं महात्मनं मेघस्तनितनिस्वनम् ॥
उमामनः प्रहर्षाणां बारकच्छद्मरूपिणम् ॥ २५.१७ ॥

क्रौञ्चजीवितहर्तारं गौरीहृदयनन्दनम् ॥
यदेतद्दृश्यते वर्य शुभ्रं शुभ्राञ्जनोपमम् ॥ २५.१८ ॥

तत्किमर्थं समुत्पन्नं कण्ठे कण्ठेकुन्देन्दुसप्रभे ॥
एतद्दीप्तांय दान्ताय भक्ताय ब्रूहि पृच्छते ॥ २५.१९ ॥

कथां मङ्गलसंयुक्तां पवित्रां पापनाशिनीम् ॥
मत्प्रियार्थम्महाभाग वक्तुमर्हस्यशेषतः ॥ २५.२० ॥

श्रुत्वा वाक्यं ततस्तस्य वसिष्ठस्य महात्मनः ॥
प्रत्युवाच महातेजा देवारिबलसूदनः ॥ २५.२१ ॥

श्रृणुष्व वदतां श्रेष्टकथ्यमानं वचो मम ॥
उमोत्सङ्गोपविष्टेन यथापूर्वं मया श्रुतम् ॥ २५.२२ ॥

पार्वत्या सह संवादः शर्वस्य च महात्मनः ॥
तमहं सम्प्रवक्ष्यामि त्वत्प्रियार्थं महामुने ॥ २५.२३ ॥

कैलासशिखरे रम्ये नानाधातुविचित्रिते ॥
तरुणादित्यसङ्काशे तप्तचामीकरप्रभे ॥ २५.२४ ॥

वज्रस्फटिकसोपाने चित्रपादशिलातले ॥
जाम्बूनदमये दिव्ये नानाधातु विचित्रिते ॥ २५.२५ ॥

नानाद्रुमलताकीर्णे नानापुष्पफलोपगे ॥
हंसकारण्डवाकीर्णे चक्रवाकोपशोभिते ॥ २५.२६ ॥

षट्पदोद्गीतबहुले धारासम्पातनादिते ॥
मत्तक्रौञ्चमयूराणां नादैर्विक्रुष्टकन्दरे ॥ २५.२७ ॥

अप्सरोगणसङ्कीर्णे किन्नरैरुपशोभिते ॥
जीवं जीवकजातीनां विरावैरुपकूजिते ॥ २५.२८ ॥

कोकिलारावबहुले सिद्धचारणसेविते ॥
सौरभेयनिनादाढ्यं मेघस्तनितनिस्वने ॥ २५.२९ ॥

विनायकभयोद्विग्नकुं जरैर्मुक्तकन्दरैः ॥
वीणावादित्रनिर्घेषैः श्रोत्रेन्द्रियमनोरमैः ॥ २५.३० ॥

दोलालम्बितसङ्घाते वनितासङ्घसेविते ॥
ध्वजालम्बितदोलानां घण्टानां निनदाकुले ॥ २५.३१ ॥

वल्लकीवेणुबहुले त्रिंशद्बर्हिणसङ्कुले ॥
मुखमर्द्दलवादित्रैर्वलितास्फोटितैस्तथा ॥ २५.३२ ॥

क्रीडावेगविवादानां निर्घोषैः पूर्णकन्दरे ॥
हंसैः परावतैश्चैव बकराजैः सुखस्थिते ॥ २५.३३ ॥

देहबन्धैर्विचित्रैश्चप्रक्रीडितगणेश्वरे ॥
सिंहव्याघ्रमुखैर्घोरवाशितैश्चण्डवेगितैः ॥ २५.३४ ॥

मृगमषमुखैश्चान्यैर्गजवाजिमुखैस्तथा ॥
बिडालवदनैश्चोग्रैः क्रोष्टुकाकारसूर्त्तिभिः ॥ २५.३५ ॥

ह्रस्वैर्दीर्घैश्च सुकृशैर्लम्बोदरमहीदरैः ॥
ह्रस्वजङ्घैः प्रलेबोष्ठैस्तालजङ्घैस्तथापरैः ॥ २५.३६ ॥

गोकर्णैरेककर्णैश्च महाकर्णैरकर्णकैः ॥
बहुपादैर्महापादैरेकपादैरपादकैः ॥ २५.३७ ॥

बहुनेत्रैर्महानेत्रैरेकनेत्रैरनेत्रकैः ॥
एकदंष्ट्रैर्महादंष्ट्रैर्बहुदंष्ट्रैरदंष्ट्रकैः ॥ २५.३८ ॥

एकशीर्षैर्महाशीर्षबहुशीर्षैरशीर्षकैः ॥
एकजिह्वैर्महाजिह्वैर्बहुजिह्वैरजिह्वकैः ॥
एवंरूपैर्महायोगैभूतर्भूतपतिर्वृतः ॥ २५.३९ ॥

विशुद्धमुक्तामणिरत्नभूषिते शिलातले स्वर्णमये सुरम्यके ॥
सुखोपविष्टं मदनागनाशनं प्रोवाच वाक्यं गिरिराजपुत्री ॥ २५.४० ॥

भगवन्भूतभव्येश गोवृषाङ्कितशासन ॥
तव कण्ठे महादेव भ्राजतेम्बुदसन्निभम् ॥ २५.४१ ॥

नात्युल्बणं शुभंशुभ्रे नीलाबुजचयोपमम् ॥
किमिदं दीप्यते देव कण्ठे कामाङ्गनाशन ॥ २५.४२ ॥

को हेतुः कारणं किं वा कण्ठे नीलस्त्त्वमीश्वर ॥
एतत्सर्वं यथान्यायं बूहि कौतूहलं हि मे ॥ २५.४३ ॥

श्रुत्वा वाक्यं ततस्तस्याः पार्वत्याः पावतीप्रियः ॥
कथां मङ्गलसंयुक्तां कथयामास शङ्करः ॥ २५.४४ ॥

महेश्वर उवाच ॥
मथ्यमानेऽमृते पूर्वं क्षीरोदे सुरदानवैः ॥
अग्रे समुत्थितं घोरं विषङ्कालानलप्रभम् ॥ २५.४५ ॥

तं दृष्ट्वा सुरसङ्घस्च दैत्याश्चैव वरानने ॥
विषण्णवदनाः सर्वे गतास्ते ब्रह्मणोऽन्तकम् ॥ २५.४६ ॥

दृष्ट्वा सुरगणान्भीतान्ब्रह्मोवाच महाद्युतिः ॥
किमर्थं वै महाभागा भीता उद्विग्नचेतनाः ॥ २५.४७ ॥

मया त्रिगुणमैश्वर्यं भवतां सम्प्रकल्पितम् ॥
तेन व्यावर्त्तितैश्वर्या यूयं भो सुरसत्तमाः ॥ २५.४८ ॥

त्रलोक्यस्येश्वरा यूयं सर्वे वै विगतज्वराः ॥
प्रजासर्गे न सोऽस्तीह यश्चाज्ञां मेऽतिवर्तयेत् ॥ २५.४९ ॥

विमानचारिण सर्वे सर्वे स्वच्छन्दगामिनः ॥
आध्यात्मिके चाधिभूते अधिदैवे च नित्यशः ॥ २५.५० ॥

प्रजाः कर्मविपाकेन शक्ता यूयं प्रवर्त्तितुम् ॥
तत्किमर्थं भयोद्विग्ना मृगाः सिंहार्दिता इव ॥ २५.५१ ॥

किं दुःशं कोऽनुसन्तापः कुतो वा भयमागतम् ॥
एतत्सर्वं यथान्यायं शीघ्रमाख्या तुमर्हथ ॥ २५.५२ ॥

श्रुत्वा वाक्यं ततस्तस्य ब्रह्मणः परमात्मनः ॥
ऊचुस्ते ऋषिभिः सार्द्धं सुरदैत्येन्द्रदानवाः ॥ २५.५३ ॥

सुरासुरैर्मथ्यमाने पजोराशौ पितमाह ॥
भुजङ्गभृङ्गसङ्काशं नीलजीमूतसन्निभम् ॥ २५.५४ ॥

प्रादुर्भूतं विषं घोरं संवर्ताग्निसमप्रभम् ॥
कालमृत्युरिवोद्भूतं युगान्तादित्यवर्चसम् ॥ २५.५५ ॥

त्रैलोक्योत्सादसूर्याभं विस्फुरत्तत् समन्ततः ॥
विषेणोत्तिष्ठमानेन कालानलसमत्विषा ॥ २५.५६ ॥

निर्दग्धो रक्तगौराङ्गो कृतः कृष्णो जनार्द्दनः ॥
तं दृष्ट्वा रक्तगौराङ्गं कृतं कृष्णं जनार्द्दनम् ॥ २५.५७ ॥

ततः सर्वे वयं भीतास्त्वा मेव शरणं गताः ॥
सुराणामसुराणां च श्रुत्वा वाक्यं भयावहम् ॥ २५.५८ ॥

प्रत्युवाच महातेजा ब्रह्मा लोकपितामहः ॥
श्रृण्वन्तु देवताः सर्वे ऋषयश्च तपोधनाः ॥ २५.५९ ॥

यत्तदग्रे समुत्पन्नं मथ्यमाने महोदधौ ॥
विषं कालानलप्रख्यं कालकूटमिति श्रुतम् ॥ २५.६० ॥

येन प्रोद्भूतमात्रेण न व्यराजन्त देवताः ॥
तस्य विष्णुरहं वापि सर्वे वा सुरपुङ्गवाः ॥ २५.६१ ॥

न शक्नुवन्ति वै सोढुं वेगमन्यत्र शङ्करात् ॥
इत्युक्त्वा पद्मगर्भाभः पद्मायोनिरयोनिजः ॥ २५.६२ ॥

ओङ्कारं समनुस्मृत्य ध्यायञ्जयोतिः समन्ततः ॥
ततः स्तोतुं समारब्धो ब्रह्मा वेद विदां वरः ॥ २५.६३ ॥

नमस्तुभ्यं विरूपाक्ष नमस्ते दिव्यचक्षुषे ॥
नमः पिनाकहस्ताय वज्रहस्ताय वै नमः ॥ २५.६४ ॥

नमस्त्रैलोक्य नाथाय भूतानां पतये नमः ॥
नमः सुरारिहन्त्रे च सोमसूर्याग्निचक्षुषे ॥ २५.६५ ॥

ब्रह्मणे चैव रुद्राय विष्णवे चैव ते नमः ॥
साङ्ख्याय चैव योगाय भूतग्रामाय वै नमः ॥ २५.६६ ॥

मन्मथाङ्गविनाशाय कालपृष्ठाय वै नमः ॥
सुरेतसेऽथ रुद्राय देवदेवाय रंहसे ॥ २५.६७ ॥

कपर्दिने करालाय शङ्कराय हराय च ॥
कपालिने विरूपाय शिवाय वरदाय च ॥ २५.६८ ॥

मूलम्

कपर्दिने करालाय शङ्कराय हराय च ॥
कपालिने विरूपाय शिवाय वरदाय च ॥ २५.६८ ॥

विश्वास-प्रस्तुतिः

त्रिपुरघ्नमखघ्नाय मातॄणां पतये नमः ॥
वृद्धाय चैव शुद्धाय मुक्तायैव बलाय च ॥ २५.६९ ॥

लोकत्रयैकवीराय चन्द्राय वरुणाय च ॥
अग्राय चैव चोग्राय विप्रायानेकचक्षुषे ॥ २५.७० ॥

रजसे चैव सत्त्वाय नमस्तेऽव्यक्तयोनये ॥
नित्याय चैवानित्याय नित्यानित्याय वै नमः ॥ २५.७१ ॥

व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्ताय वै नमः ॥
चिन्त्याय चैवाचिन्त्याय चिन्त्याचिन्त्याय वै नमः ॥ २५.७२ ॥

जगतामार्त्तिनाशाय प्रियनारायणाय च ॥
उमाप्रियाय शर्वाय नन्दिवक्त्राङ्किताय च ॥ २५.७३ ॥

पक्षमासाह्द्धमासाय ऋतुसंवत्सराय च ॥
बहुरूपाय मुण्डाय दण्डिने च वरूथिने ॥ २५.७४ ॥

नमः कपालहस्ताय दिग्वासाय शिखण्डिने ॥
धन्विने रथिने चैव यमिने ब्रह्मचारिणे ॥ २५.७५ ॥

ऋग्यजुः सामवेदाय पुरुषायेश्वराय च ॥
इत्येव मादिचरितैः स्तोत्रैः स्तुत्य नमीऽस्तु ते ॥
एवं स्तुत्वा ततो ब्रह्मा प्रणिपत्य वरानने ॥ २५.७६ ॥

ज्ञात्वा तु भक्तिं मम देवतानां गङ्गाजला स्फालितमुक्तकेशः ॥
सूक्ष्मोऽसि योगातिशयादचिन्त्यो न हि प्रभो व्यक्तिमुफैषि रुद्रः ॥ २५.७७ ॥

एवं भगवता पूर्वं ब्रह्मणा लोककर्तृणा ॥
स्तुतोऽहं विविधैः स्तोत्रैर्वेदवेदाङ्गसम्भवैः ॥ २५.७८ ॥

ततोऽहं मुख्यया वाचा पितामहमथाब्रवम् ॥
भूतभव्यभवन्नाथ लोकनाथ जगत्पते ॥ २५.७९ ॥

मूलम्

ततोऽहं मुख्यया वाचा पितामहमथाब्रवम् ॥
भूतभव्यभवन्नाथ लोकनाथ जगत्पते ॥ २५.७९ ॥

विश्वास-प्रस्तुतिः

किं कार्यं ते मया ब्रह्मन्कर्त्तव्यं वद सुव्रत ॥
श्रुत्वा वाक्यं ततो ब्रह्मा प्रत्युवाचाम्बुजेक्षणः ॥ २५.८० ॥

भूतभव्यभवन्नाथ श्रूयतां कारणेश्वर ॥
सुरासुरैर्मथ्यमाने पयोधौ पङ्कजेक्षण ॥ २५.८१ ॥

भगवन्मेघसङ्काशं नीलजीमूतसन्निभम् ॥
प्रादुर्भूतं विषं घोरं संवर्त्ताग्निसमप्रभम् ॥ २५.८२ ॥

तं दृष्ट्वा च वयं सर्वे भीताः सम्भ्रान्तचेतसः ॥
तत्पिबस्व महादेव लोकानां हितकाम्यया ॥ २५.८३ ॥

भवाञ्छक्तश्च भोक्ता वै भवान्देववरः प्रभो ॥
त्वदृतेऽन्यो महादेव वेगं सोढुं न विद्यते ॥ २५.८४ ॥

एवं तस्य वचः श्रुत्वा ब्रह्मणः परमेष्ठिनः ॥
बाढ मित्येव तद्वाक्यं प्रतिगृह्य वरानने ॥ २५.८५ ॥

ततोऽहं पातुमारब्धो विषमन्तकसन्निभम् ॥
पिबतो मे महाघोरं विषं सुरभयप्रदम् ॥ २५.८६ ॥

कण्ठः समभवत्तूर्णं कृष्णो वै वरवर्णिनि ॥
तं दृष्ट्वोत्पलपत्राभं कण्ठसक्तमिवोरगम् ॥ २५.८७ ॥

तक्षकं नागराजानं लेलिहानमिवोत्थितम् ॥
अथोवाच महातेजा ब्रह्मा लोकपितामहः ॥ २५.८८ ॥

शोभसे त्वं महादेव कण्ठेनानेन सुव्रत ॥
ततस्तस्य वचःश्रुत्वा मया गिरिवरात्मजे ॥ २५.८९ ॥

कण्ठे धृतं विषं घोरं नीलकण्ठस्ततोऽस्म्यहम् ॥
पश्यतां सुरसङ्घानां दैत्यानां च वरानने ॥
यक्षगन्धर्वभूतानां पिशाचोरगरक्षसाम् ॥ २५.९० ॥

तत्कालकूटं विषमुग्रवेगं कण्ठे धृतं पर्वतराजपुत्रि ॥
निवेश्यमानं सुरदैत्यसङ्घो दृष्ट्वा परं विस्मयमाजगाम ॥ २५.९१ ॥

ततः मुरगणाः सर्वे सदैत्योरगराक्षसाः ॥
ऊचुः प्राञ्जलयो भूत्वा मत्तमातङ्गगामिनि ॥ २५.९२ ॥

अहोबलं वीर्यपराक्रमस्ते त्वहो वपुर्योगबलं तवेश ॥ २५.९३ ॥

विश्वास-प्रस्तुतिः

अहो प्रभुत्वं तव देवदेव महाद्भुतं मन्मथदेहनाशन ॥
त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव मृत्युर्वरदस्त्वमेव ॥ २५.९४ ॥

त्वमेव सूर्यो रजनीकरश्च व्यक्तिस्त्वमेवास्य चराचरस्य ॥
त्वमेव वह्निः पवनस्त्वमेव त्वमेव भूमिः सलिलं त्वमेव ॥ २५.९५ ॥

त्वमेव सर्वस्य चराचरस्य धाता विधाता प्रलयस्त्वमेव ॥
इत्येव मुक्त्वा वचनं सुरेन्द्राः प्रगृह्य सोमं प्रणिपत्य मूर्ध्रा ॥
गता विमानैरनिलोपवेगैर्महानगं मेरुमुपेत्य सर्वे ॥ २५.९६ ॥

इत्येतत्परमं गुह्यं पुण्यात्पुण्यतमं महत् ॥ २५.९७ ॥

विश्वास-प्रस्तुतिः

नीलकण्ठ इति प्रोक्तं त्रिषु लोकेषु विश्रुतम् ॥
स्वयम्भुवा स्वयं प्रोक्ता कथा पापप्रणाशिनी ॥ २५.९८ ॥

यस्तु धारयते नित्यं ब्रह्मोद्गीतामिमां शुभाम् ॥
तस्याऽहं सम्प्रवक्ष्यामि फलं सुविपुलं महत् ॥ २५.९९ ॥

विषं तस्य वरारोहे स्थावरं जङ्गमं तथा ॥
गात्रं प्राप्य तु सुश्रोणि क्षप्रं तत्प्रतिहन्यते ॥ २५.१०० ॥

शमायत्यशुभं घोरं दुःखप्नं चापकर्षति ॥
स्त्रीषु वल्लभतां याति सभायां पार्थिवस्य च ॥ २५.१०१ ॥

विवादे जयमाप्नोति युद्धे विजयमेव च ॥
गच्छति क्षेममध्वानं गृहेभ्यो नित्यसम्पदा ॥ २५.१०२ ॥

शरीरस्येह वक्ष्यामि गतिं तस्य वरानने ॥
हरिश्मश्रुर्नीलकण्ठः शशाङ्काङ्कितमूर्द्धजः ॥ २५.१०३ ॥

त्र्यक्षस्त्रिशूलपाणिश्च वृष चानः पिनाकधृक् ॥
नन्दितुल्यबलः श्रीमान्नन्दितुल्यपराक्रमः ॥ २५.१०४ ॥

विचरत्यखिलाँल्लोकाम्सप्तलोकान्ममाज्ञया ॥
न हन्यते गति स्तस्य अनिलस्य यथाम्बरे ॥ २५.१०५ ॥

मम तुल्यबलो भूत्वा तिष्ठत्याभूतसम्प्लवात् ॥
मम भक्तया वरारोहे ये च श्रृम्वन्ति मानवाः ॥ २५.१०६ ॥

तेषां गतिं प्रवक्ष्यामि त्विह लोके परत्र च ॥
ब्राह्मणो वेदमाप्नोति क्षत्रियो विन्दते महीम् ॥ २५.१०७ ॥

वैश्यस्तु लभते लाभं शूद्रः सुखमवाप्नुयात् ॥
व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥ २५.१०८ ॥

गुर्विणी लभते पुत्रं कन्या विदति सत्पतिम् ॥
नष्टं च लभते द्रव्यमिह लोके परत्र च ॥ २५.१०९ ॥

गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥
तत्फलं लभते मर्त्यः श्रुत्वा दिव्या मिमां कथाम् ॥ २५.११० ॥

पादं वाथार्द्धपादं वा श्र्लोकं श्र्लोकार्द्धमेव वा ॥
यस्तु धारयते नित्यं रुद्रलोकं स गच्छति ॥ २५.१११ ॥

अथवा सर्वमेवेदं देवब्राह्मणसन्निधौ ॥
यः पठेन्मानवो नित्यं मद्गतेनान्तरात्मना ॥ २५.११२ ॥

श्रद्धधानः सदा भक्तो रूद्रलोकं स गच्छति ॥
पठेच्च देवि भक्त्या च पाठयेच्च नरः सदा ॥ २५.११३ ॥

अतः परतरं स्तोत्रं न भूतं न भविष्यति ॥
नापि यक्षाः पिशाचा वा न भूता न विनायकाः ॥
कुर्युर्विघ्नं गृहे तस्य यत्रायं तिष्ठति स्तवः ॥ २५.११४ ॥

मया नु तुष्टेन तवाम्बुजेक्षणे स्तवस्य माहात्म्यम घौघनाशनम् ॥
निवेदितं पुण्यफलादियुक्तं स्वयं च कीतं चतुराननेन ॥ २५.११५ ॥

कथामिमां पुण्यफलादियुक्तां निवेद्य देव्यै शशिबद्धमूर्द्धजः ॥
वृषस्य पृष्ठेन सहोमया प्रभुजगाम कैलासगुहां गुहप्रियः ॥ २५.११६ ॥

श्रुतं मया पापहरं तदन्तिके निवेदितं तेऽथ मया प्रजापतेः ॥
अधीत्य सर्वं त्वखिलं सलक्षणं प्रयाति चादित्यपदं द्विजोत्तमः ॥ २५.११७ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्व भागे द्वितीयेऽनुषङ्गपादे
नीलकण्ठनामोत्पत्तिकथनं नाम पञ्चविंशतितमोऽध्यायः ॥ २५ ॥