विश्वास-प्रस्तुतिः
सूत उवाच ॥
एतच्छ्रुत्वा तु सुनयः पुनस्ते संशयान्विताः ॥
पप्रच्छुरुत्तरं भूयस्तदा ते रोमहर्षणम् ॥ २४.१ ॥
मूलम्

यदेतदुक्तं भवतागृहाणीत्येव विस्तृतम् ॥
कथं देवगृहाणि स्युः कथं ज्योतींषिवर्णय ॥ २४.२ ॥

एतत्सर्वं समाचक्ष्व ज्योतिषां चैव निर्णयम् ॥
वायुरुवाच ॥
श्रुत्वा तु वचनं तेषां तदा सूतः समाहितः ॥ २४.३ ॥

उवाच परमं वाक्यं तेषां संशयनिर्णयम् ॥
अस्मिन्नर्थे माहाप्राज्ञैर्यदुक्तं ज्ञानबुद्धिभिः ॥ २४.४ ॥

एतद्वोऽहं प्रवक्ष्यामि सूर्याचन्द्रमसोर्भवम् ॥
यथा देवगृहाणीह सूर्यचन्द्रग्रहाः स्मृताः ॥ २४.५ ॥

ततः परं च त्रिविधस्याग्नेर्वक्ष्ये समुद्भवम् ॥
दिव्यस्य भौतिकस्याग्नेरब्योनेः पार्थि वस्य तु ॥ २४.६ ॥

व्युष्टायां तु रजन्यां वै ब्रह्मणोऽव्यक्तजन्मनः ॥
अव्याकृतमिदं त्वासीन्नैशेन तमसावृतम् ॥ २४.७ ॥

सर्वभूतावशिष्टेऽस्मिल्ँलोके नष्टविशेषणे ॥
स्वयम्भूर्भगवांस्तत्र लोकतन्त्रार्थसाधकः ॥ २४.८ ॥

खद्योतवत्स व्यचरदाविर्भावचिकीर्षया ॥
सोऽग्निं दृष्ट्वाथ लोकादौ पृथिवीजलसंश्रितम् ॥ २४.९ ॥

संवृत्य तं प्रकाशार्थं त्रिधा व्यमजदीश्वरः ॥
पवनो यस्तु लोकेऽस्मिन्पार्थिवः सोऽग्निरुच्यते ॥ २४.१० ॥

यश्चासौ तपते सूर्ये शुचिरग्निस्तु स स्मृतः ॥
वैद्युतोऽब्जस्तु विज्ञेयस्तेषां वक्ष्येऽथ लक्षमम् ॥ २४.११ ॥

वैद्युतो जाठरः सौरो ह्यपां गर्भास्त्रयोऽग्रयः ॥
तस्मादपः पिबन्सूर्यो गोभिर्दीप्यत्यसौ दिवि ॥ २४.१२ ॥

वैद्युतेन समाविष्टो वार्ष्यो नाद्भिः प्रशाम्यति ॥
मानवा नां च कुक्षिस्थो नाद्भिः शास्यति पावकः ॥ २४.१३ ॥

तस्मात्सौरो वैद्युतश्च जाठरश्चप्यनिन्धनः ॥
किञ्चिदप्सु मतं तेजः किञ्चिदॄष्टमबिं धनम् ॥ २४.१४ ॥

काष्ठेन्धनस्तु निर्मथ्यः सोऽद्भिः शाम्यति पावकः ॥
अर्चिष्मान्पवमानोऽग्निर्निष्प्रभो जाठरः स्मृतः ॥ २४.१५ ॥

यश्चायं मण्डले शुक्लो निरूष्मा सम्प्रकाशकः ॥
प्रभा सौरी तु पादेन ह्यस्तं याति देवाकरे ॥ २४.१६ ॥

अग्निमाविशते रात्रौ तस्माद्दूरात्प्रकाशते ॥
उद्यन्तं च पुनः सूर्यमौष्णमयमाग्नेयमाविशत् ॥ २४.१७ ॥

पादेन पार्थिवस्याग्नेस्तस्मादग्निस्तपत्यसौ ॥
प्राकाश्यं च तथौष्ण्यं च सौराग्नेये तु तेजसी ॥ २४.१८ ॥

परस्परानुप्रवेशादाप्यायेते परस्परम् ॥
उत्तरे चैव भूम्यर्द्धे तथा ह्यग्निश्च दक्षिणे ॥ २४.१९ ॥

उत्तिष्ठति पुनः सूर्ये रात्रिराविशते ह्यपः ॥
तस्मात्तप्ता भवन्त्यापो दिवारत्रिप्रवेशनात् ॥ २४.२० ॥

अस्तं याति पुन सूर्ये अहर्वै प्रविशत्यपः ॥
तस्मान्नक्तं पुनः शुक्ला आपोऽदृश्यन्त भास्वराः ॥ २४.२१ ॥

एतेन क्रमयोगेन भूम्यर्द्धे दक्षिणोत्तरे ॥
उदयास्तमने नित्यमहोरात्रं विशत्यपः ॥ २४.२२ ॥

यश्चासौ तपते सूर्यः पिबन्नम्भो गभस्तिभिः ॥
पार्थिवाग्निविमिश्रोऽसौ दिव्यः शुचिरिति स्मृतः ॥ २४.२३ ॥

सहस्रपादसौ वह्निर्घृतकुम्भनिभः शुचिः ॥
आदत्ते स तु नाडीनां सहस्रेण समन्ततः ॥ २४.२४ ॥

नादेयीश्चैव सामुद्रीः कौप्याश्चैव समन्ततः ॥
स्थावरा जङ्गमाश्चैव याश्च कुल्यादिका अपः ॥ २४.२५ ॥

तस्य रश्मिसहस्रं तु शीतवर्षोष्णनिःस्तवम् ॥
तासां चतुःशता नाड्यो वर्षन्ते चित्र मूर्त्तयः ॥ २४.२६ ॥

चन्दनाश्चैव साध्यश्च कूतनाकूतनास्तथा ॥
अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः ॥ २४.२७ ॥

हिमोद्गताश्च ताभ्योऽन्या रश्मयस्त्रिशताः पुनः ॥
दृश्या मेघाश्च याम्यश्च ह्रदिन्यो हिमसर्जनाः ॥ २४.२८ ॥

चन्द्रास्ता नामतः प्रोक्ता मिताभास्तु गभस्तयः ॥
शुक्लाश्च कुहकाश्चैव गावो विश्वभृतस्तथा ॥ २४.२९ ॥

शुक्लास्ता नामतः सर्वस्त्रिशता धर्मसर्जनाः ॥
समं विभज्य नाडीस्तु मनुष्टपितृदेवताः ॥ २४.३० ॥

मनुष्यानौषधेनेह स्वधया तु पितॄनपि ॥
अमृतेन सुरान्सर्वांस्त्रींस्त्रिभिस्तर्पयत्यसौ ॥ २४.३१ ॥

वसन्ते चैव ग्रीष्मे च शतैः स तपति त्रिभिः ॥
वर्षास्वथो शरदि वै चतुर्भिश्च प्रवर्षति ॥ २४.३२ ॥

हेमन्ते शिशिरे चैव हिम मुत्सृजते त्रिभिः ॥
इन्द्रो धाता भगः पूषा मित्रोऽथ वरुणोऽर्यमा ॥ २४.३३ ॥

अंशुर्विवस्वास्त्वष्टा च सविता विष्णुरेव च ॥
माघमासे तु वरुणः पूषा चैव तु फलाल्गुने ॥ २४.३४ ॥

चैत्रे मासि तु देतोंशुर्धाता वैशाखतापनः ॥
ज्येष्ठमासे भवेदिन्द्रश्चाषाढे सविता रविः ॥ २४.३५ ॥

विवस्वाञ्छ्रावणे मासि प्रोष्ठे मासे भागः स्मृतः ॥
पर्जन्योऽश्वयुजे मासि त्वष्टा च कार्तिके रविः ॥ २४.३६ ॥

मार्गशीर्षे भवेन्मित्रः पौषेविष्णुः सनातनः ॥
पञ्चरश्मिसहस्राणि वरुणस्यार्ककर्मणि ॥ २४.३७ ॥

षड्भिः सहस्रैः पूषा तु देवोऽशुसप्तभिस्तथा ॥
धाताऽष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः ॥ २४.३८ ॥

सविता दशभिर्याति यात्येकादशभिर्भगः ॥
सप्तभिस्तपते मित्रस्त्वष्टा चैवाष्टभिस्तपेत् ॥ २४.३९ ॥

अर्यमा दशाभिर्याति पर्जन्यो नवभिस्तपेत् ॥
षड्भी रश्मिसहस्रैस्तु विषणुस्तपति मेदिनीम् ॥ २४.४० ॥

वसन्ते कपिलः सूर्यो ग्रीष्मेऽर्कः कनकप्रभः ॥
श्वेतवर्णस्तु वर्षासु पाण्डुः शरदि भास्करः ॥ २४.४१ ॥

हेमन्ते ताम्रवर्णस्तु शैशिरे लोहितो रविः ॥
इति वर्णाः समा ख्याताः सूर्यस्यर्तुसमुद्भवाः ॥ २४.४२ ॥

औषधीषु बलं धत्ते स्वधया च पितृष्वपि ॥
सूर्योऽमरेष्वप्यमृतं त्रयं त्रिषु न यच्छति ॥ २४.४३ ॥

एवं रश्मिसहस्रं तु सौरं लोकार्थसाधकम् ॥
भिद्यते ऋतुमासाद्य जलशीतोष्णनिस्रवम् ॥ २४.४४ ॥

इत्येतन्मण्डलं शुक्लं भास्वरं सूर्य सञ्ज्ञितम् ॥
नक्षत्रग्रहसोमानां प्रतिष्ठा योनिरेव च ॥ २४.४५ ॥

चन्द्रऋक्षग्रहाः सर्वे विज्ञेयाः सूर्यसम्भवाः ॥
नक्षत्राधिपतिः सोमो ग्रह राजो दिवाकरः ॥ २४.४६ ॥

शेषाः पञ्च ग्रहा ज्ञेया ईश्वराः कामचारिणः ॥
पठ्यते चाग्निरादित्य उदकं चन्द्रमाः स्मृतः ॥ २४.४७ ॥

शेषाणा प्रकृतीः स्मयग्वर्ण्यमाना निबोधत ॥
सुरसेनापतिः स्कन्दः पठ्यतेऽङ्गारको ग्रहः ॥ २४.४८ ॥

नारायणं बुधं प्राहुर्वेदज्ञानविदो बुधाः ॥
रुद्रो वैवस्वतः साक्षाद्यमो लोकप्रभुः स्वयम् ॥ २४.४९ ॥

महाग्रहो द्विजश्रेष्ठो मन्दगामी शनैश्वरः ॥
देवासुरगुरू द्वौ तु भानुमन्तौ महा ग्रहौ ॥ २४.५० ॥

प्रजापतिसुतावेतावुभौ शुक्रबृहस्पती ॥
आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः ॥ २४.५१ ॥

भवत्यस्माज्जगत्कृत्स्नं सदेवासुरमानुषम् ॥
रुद्रोपेन्द्रेन्द्रचन्द्राणां विप्रेन्द्रास्त्रिदिवौकसाम् ॥ २४.५२ ॥

द्युतिर्द्युतिमतां कृत्स्नं यत्तेजः सार्वलौकिकम् ॥
सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः ॥ २४.५३ ॥

सूर्य एव त्रिलोकस्य सूलं परमदैवतम् ॥
ततः सञ्जायते सर्वं तत्र चैव प्रलीयते ॥ २४.५४ ॥

भावाभावौ हि लोकानामादित्यान्निःमृतौ पुरा ॥
जगज्ज्ञेयो ग्रहो विप्रा दीप्तिमान्सुप्रभो रविः ॥ २४.५५ ॥

अत्र गच्छन्ति निधनं जायन्ते च पुनः पुनः ॥
क्षणा मुहूर्त्ता दिवसा निशाः पक्षाश्च कृत्स्नशः ॥ २४.५६ ॥

मासाः संवत्सराश्चैव ऋतवोऽथ युगानि च ॥
तदादित्यादृते ह्येषा कालंसख्या न विद्यते ॥ २४.५७ ॥

कालादृते न निगमो न दीक्षा नाह्निकक्रमः ॥
ऋतूनामविभागाच्च पुष्पमूलफलं कुतः ॥ २४.५८ ॥

कुतः सस्यविनिष्पत्तिस्तृणौषधिगणोऽपि वा ॥
अभावो व्यवहाराणां जन्तूनां दिवि चैह च ॥ २४.५९ ॥

जगत्प्रतापनमृते भास्करं वारितस्करम् ॥
स एष कालश्चाग्निश्च द्वादशात्मा प्रजापतिः ॥ २४.६० ॥

तपत्येष द्विजश्रेष्ठास्त्रैलोक्यं सचराचरम् ॥
स एष तेचसां राशिस्तमो घ्रन्सार्वलौकिकम् ॥ २४.६१ ॥

उत्तमं मार्गमास्थाय वायोर्भाभिरिदं जगत् ॥
पार्श्वमूर्ध्वमधश्चैव तापयत्येष सर्वशः ॥ २४.६२ ॥

यथा प्रभाकरो दीपोगृहमध्येऽवलम्बितः ॥
पार्श्वमूर्ध्वमधश्चैव तमो नाशयते समम् ॥ २४.६३ ॥

तद्वत्सहस्रकिरणो ग्रहराजो जगत्पतिः ॥
सूर्यो गोभिर्जगत्सर्वमादीपयति सर्वतः ॥ २४.६४ ॥

रवे रश्मिसहस्रं यत्प्राङ्मया समुदात्दृतम् ॥
तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयो नयः ॥ २४.६५ ॥

सुषुम्णो हरिकेशश्च विश्वकर्मा तथैव च ॥
विश्वश्रवाः पुनश्चान्यः सम्पद्वसुरतः परः ॥ २४.६६ ॥

अर्वावसुः पुनश्चान्यः स्वराडन्यः प्रकीर्त्तितः ॥
सुषुम्णः सूर्यरश्मिस्तु क्षीण शशिनमेधयेत् ॥ २४.६७ ॥

तिर्यगूर्ध्वप्रचारोऽसौ सुषुम्णः परिकीर्त्तितः ॥
हरि केशः पुरस्ताद्य ऋक्षयोनिः स कीत्यते ॥ २४.६८ ॥

दक्षिणे विश्वकर्मा तु रश्मिन्वर्द्धयते वुधम् ॥
विश्वश्रवास्तु यः पश्चच्छुक्रयोनिः स्मृतो बुधैः ॥ २४.६९ ॥

सम्पद्वसुस्तु यो रश्मिः स योनिर्लोहितस्य तु ॥
षष्ठस्त्वर्व्वावसू रश्मिर्योनिस्तु स बृहस्पतेः ॥ २४.७० ॥

शनैश्चरम्पुन श्चापि रश्मिराप्यायते स्वराट् ॥
एवं सूर्यप्रभावेण ग्रहनक्षत्रतारकाः ॥ २४.७१ ॥

वर्त्न्ते दिवि ताः सर्वा विश्वं चैदं पुनर्जगत् ॥
नक्षीयन्ते यतस्तानि तस्मान्नक्षत्रसञ्ज्ञिताः ॥ २४.७२ ॥

क्षेत्राण्येतानि वै पूर्वमापतन्ति गभस्तिभिः ॥
तेषां क्षेत्राण्यथादत्ते सूर्यो नक्षत्रकारकाः ॥ २४.७३ ॥

तीर्णानां सुकृतेनेह सुकृतान्ते ग्रहाश्रयात् ॥
तारणात्तारका ह्येताः शुक्लत्वाच्चैव तारकाः ॥ २४.७४ ॥

दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः ॥
आदानान्नित्यमादित्यस्तेजसा तपसामपि ॥ २४.७५ ॥

स्वनं स्यन्दनार्थे चु धातुरेषु विभाव्यते ॥
स्वनात्तेजसोऽपां च तेनासौ सविता मतः ॥ २४.७६ ॥

बह्वर्थश्चदिरित्येष ह्लादने धातुरुच्यते ॥
शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते ॥ २४.७७ ॥

सूर्याचन्द्रमसो र्दिव्ये मण्डले भास्वरे खगे ॥
जलतेचौमये शुक्ले वृत्तकुम्भनिभे शुभे ॥ २४.७८ ॥

घनतोयात्मकं तत्र मण्डलं शशिनः स्मृतम् ॥
घनतेजोमयं शुक्लं मण्डलं भास्करस्य तु ॥ २४.७९ ॥

विशन्ति सर्वदेवास्तु स्थानान्येतानि सर्वशः ॥
मन्वन्तरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः ॥ २४.८० ॥

तानि देवगृहाण्येव तदाख्यास्ते भवन्ति च ॥
सौरं सूर्यो विशेत्स्थानं सौम्यं सोमस्तथैव च ॥ २४.८१ ॥

शौक्रं शुक्रो विशेत्स्थानं षोड शार्चिः प्रभास्वरम् ॥
जैवं बृहस्पतिश्चैव लौहितं चैव लोहितः ॥ २४.८२ ॥

शनैश्चरो र्विशेत्स्थानं देवः शानैस्चरं तथा ॥
बौधं बुधोऽथ स्वर्भानुः स्वर्भानुस्थानमास्थितः ॥ २४.८३ ॥

नक्षत्राणि च सर्वाणि नक्षत्राणि विशन्त्युत ॥
गृहाण्येतानि सर्वाणि ज्योतींषि सुकृतात्म नाम् ॥ २४.८४ ॥

कल्पादौ सम्प्रवृत्तानि निर्मितानि स्वयम्भुवा ॥
स्थानान्येतानि तिष्ठन्ति यावदात्रूतसम्प्लवम् ॥ २४.८५ ॥

मन्वन्तरेषु सर्वेषु देवस्थानानि तानि वै ॥
अभिमानिनोऽवतिष्ठन्ते देवस्थानानि वै पुनः ॥ २४.८६ ॥

अतीतैस्तु सहातीता भाव्या भाव्यैः सुरैः सह ॥
वर्त्तन्ते वर्त्तमानैश्च स्थानिभिस्तैः सुरैः सह ॥
अस्मिन्मन्वन्तरे चैव ग्रहा वैतानिकाः स्मृताः ॥ २४.८७ ॥

विवस्वानदितेः पुत्रः सूर्यो वैवस्वतेऽन्तरे ॥
त्विषिनामा धर्मसुतः सोमो देवो वसुः स्मृतः ॥ २४.८८ ॥

शुक्रो देवस्तु विज्ञेयो भार्गवोऽसुरयाजकः ॥
बृहत्तेजाः स्मृतो देवो देवाचार्योऽगि रस्सुतः ॥ २४.८९ ॥

बुधो मनोहरश्चैव त्विषिपुत्रस्तु स स्मृतः ॥
शनैश्चरो विरूपस्तु सञ्ज्ञापुत्रो विवस्वतः ॥ २४.९० ॥

अग्नेर्विकेश्यां जज्ञे तु युवाऽसौ लोहिताधिपः ॥
नक्षत्राण्यृक्षनामानो दाक्षायण्यस्तु ताः स्मृताः ॥ २४.९१ ॥

स्वर्भानुः सिंहिकापुत्रो भूतसन्तापनोऽसुरः ॥
सोमर्क्षग्रहसूर्येषु कीर्त्तिता ह्यभिमानिनः ॥ २४.९२ ॥

स्थानान्येतानि चोक्तानि स्थानिनश्चाथ देवताः ॥
शुक्लमग्निमयं स्थानं सहस्रांशोर्विवस्वतः ॥ २४.९३ ॥

सहस्रांशोस्त्विषेः स्थानमम्मयं शुक्लमेव च ॥
आप्यं श्यामं मनोज्ञस्य पञ्चरश्मेर्गृहं स्मृतम् ॥ २४.९४ ॥

शुक्रस्याप्यम्मयं शुक्लं पद्मं षौडशरश्मिषु ॥
नवरश्मेस्तु भौमस्य लौहितं स्थानमम्मयम् ॥ २४.९५ ॥

हरिदाप्यं बृहत्स्थानं द्वादशांशैर्बृहस्पतेः ॥
अषृ रश्मिगृहं प्रोक्तं कृष्णं मन्दस्य चाम्मयम् ॥ २४.९६ ॥

स्वर्भानोस्तामसं स्थानं भूतसन्तापनालयम् ॥
विज्ञेयास्तारकाः सर्वा अम्मयास्त्त्वे करश्मयः ॥ २४.९७ ॥

आश्रयाः पुण्यकीर्तीनां सुशुक्लाश्चापि वर्णतः ॥
घनतोयात्मिका ज्ञेयाः कल्पादावेव निर्मिताः ॥ २४.९८ ॥

आदित्यरश्मिसंयोगात्सम्प्रकाशात्मिकाः स्मृताः ॥
नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः ॥ २४.९९ ॥

त्रिगुणास्तस्य विस्तारो मण्डलस्य प्रमाणतः ॥
द्विगुणः सूर्यविस्ताराद्विस्तारः शशिनः स्मृतः ॥ २४.१०० ॥

तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात्प्रसर्पति ॥
उद्धृत्य पृथिवीछायां निर्मितो मण्डलाकृतिः ॥ २४.१०१ ॥

स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत्तमोमयम् ॥
आदित्यात्तच्च निष्क्रम्य सोमं गच्छति पर्वसु ॥ २४.१०२ ॥

आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु ॥
स्वर्भासा नुदते यस्मात्तस्मात्स्वर्भानुरुच्यते ॥ २४.१०३ ॥

चन्द्रस्य षोडशो भागो भार्गवस्तु विधीयते ॥
विष्कम्भान्मण्डलाच्चैव योजनाग्रात्प्रमाणतः ॥ २४.१०४ ॥

भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः ॥
बृहस्पतेः पाद हीनौ भौमसौरावुभौ स्मृतौ ॥ २४.१०५ ॥

विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः ॥
तारानक्षत्ररूपाणि वपुष्मन्ति च यानि वै ॥ २४.१०६ ॥

बुधेन समरूपाणि विस्तारान्मण्डलाच्च वै ॥
प्रायशश्चन्द्रयोगीनि विद्यादृक्षाणि तत्त्ववित् ॥ २४.१०७ ॥

तारानक्षत्ररूपाणि हीनानि तु परस्परात् ॥
शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने ॥ २४.१०८ ॥

पूर्वापरनिकृष्टानि तारकामण्डलानि च ॥
योजनाद्यर्द्धमात्राणि तेभ्यो ह्रस्वं न विद्यते ॥ २४.१०९ ॥

उपरिष्टात्र्रयस्तेषां ग्रहा ये दूरसर्पिणः ॥
सौरोङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः ॥ २४.११० ॥

तेभ्योऽध स्तात्तु चत्वारः पुनरेव महाग्रहाः ॥
सूर्यसोमौ बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥ २४.१११ ॥

तावत्यस्तारकाकोट्यो यावदृक्षाणि सर्वशः ॥
विधिना नियमाच्चैषामृक्षचर्या व्यवस्थिता ॥ २४.११२ ॥

गतिस्तासु च सूर्यस्य नीचौच्चे त्वयनक्रमात् ॥
उत्तरायणमार्गस्थो यदा पर्वसु चन्द्रमाः ॥ २४.११३ ॥

उच्चत्वाद्दृश्यते शीघ्रं नीतिव्यक्तैर्गभस्तिभिः ॥
तदा दक्षिणमार्गस्यो नीयां विथीमुपाश्रितः ॥ २४.११४ ॥

भूमि लेखावृतः सूर्यः पूर्णामावास्ययोः सदा ॥
न दृश्यते यथाकालं शीघ्रमस्तमुपैति च ॥ २४.११५ ॥

तस्मादुत्तरमार्गस्थो ह्यमावस्यां निशाकरः ॥
दृश्यते दक्षिणे मार्गे नियमाद्दृश्यते न च ॥ २४.११६ ॥

ज्योतिषां गतियोगेन सूर्याचन्द्रमसावृतः ॥
समानकालास्तमयौ विषुवत्सु समोदयौ ॥ २४.११७ ॥

उत्तरासु च वीथीषु व्यन्तरास्तमनोदयौ ॥
पूर्णामवास्ययोर्ज्ञोयौ ज्योतिश्चक्रानुवर्तिनौ ॥ २४.११८ ॥

दक्षिणायनमार्गस्थो यदा चरति रश्मिवान् ॥
तदा सर्वग्रहाणां च सूर्योऽधस्तात्प्रसर्पति ॥ २४.११९ ॥

विस्तीर्ण मण्डलं कृत्वा तस्योर्द्ध्व चरते शशी ॥
नक्षत्रमण्डलं कृत्स्नं सोमादूर्द्ध्व प्रसर्पति ॥ २४.१२० ॥

नक्षत्रेभ्यो बुधश्चोर्द्ध्र बुधादूर्द्ध्वं तु भार्गवः ॥
वक्रस्तु भार्गवादूर्द्ध्व वक्रादूर्द्ध्वं बृहस्पतिः ॥ २४.१२१ ॥

तस्माच्छनैश्चरश्चोर्द्ध्वं तस्मात्सप्तर्षिमण्डलम् ॥
ऋषीणां चापि सप्तानां ध्रुव ऊर्द्ध्वं व्यवस्थितः ॥ २४.१२२ ॥

द्विगुणेषु सहस्रेषु योजनानां शतेषु च ॥
ताराग्रहान्तराणि स्युरुपरिष्टाद्यथाक्रमम् ॥ २४.१२३ ॥

ग्रहाश्च चन्द्रसूर्यौ च दिवि दिव्येन तेज सा ॥
नित्यमृक्षेषु युज्यन्ते गच्छन्तो नियताः क्रमात् ॥ २४.१२४ ॥

ग्रहनक्षत्रसूर्यास्तु नीचोच्चमृजवस्तथा ॥
समागमे च भेदे च पश्यन्ति युगपत्प्रजाः ॥ २४.१२५ ॥

परस्परस्थिता ह्येते युज्यन्ते च परस्परम् ॥
असङ्करेण विज्ञेयस्तेषां योगस्तु वै बुधैः ॥ २४.१२६ ॥

इत्येवं सन्निवेशो वै वृथिव्या ज्यौतिषस्य च ॥
द्विपानामुदधीनां च पर्वतानां त्थैव च ॥ २४.१२७ ॥

वर्षाणां च नदीनां च ये च तेषु वसन्ति वै ॥
एतेष्वेव ग्रहाः सर्वे नक्षत्रेषु समुत्थिताः ॥ २४.१२८ ॥

विवस्वानदितेः पुत्रः सूर्यो वै चाक्षुषेंऽतरे ॥
विशाखासु समुत्पन्नो ग्रहाणां प्रथमो ग्रहः ॥ २४.१२९ ॥

त्विषिमान् धर्मपुत्रस्तु सोमो देवो वसोस्सुतः ॥
शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाकरः ॥ २४.१३० ॥

षोडशार्चिर्भृगोः पुत्रः शुक्रः सूर्यादनन्तरम् ॥
ताराग्रहाणां प्रवरस्तिष्यऋक्षे समुत्थितः ॥ २४.१३१ ॥

ग्रहश्चाङ्गिरसः पुत्रो द्वादशार्चिर्बृहस्पतिः ॥
फाल्गुनीषु समुत्पन्नः पूर्वासु च जगद्गुरुः ॥ २४.१३२ ॥

नवार्चिर्लोहिताङ्गश्च प्रजापतिसुतो ग्रहः ॥
आषाढास्विह पूर्वासु समुत्पन्न इति श्रुतिः ॥ २४.१३३ ॥

रेवतीष्वेव सप्तार्चिस्तथा सौरिः शनैश्चरः ॥
सौम्यो बुधो धनिष्ठासु पञ्चार्चिरुदितो ग्रहः ॥ २४.१३४ ॥

तमोमयो मृत्युसुतः प्रजाक्षयकरः शिखी ॥
आश्र्लेषासु समुत्पन्नः सर्वहारी महाग्रहः ॥ २४.१३५ ॥

तथा स्वनामधेयेषु दाक्षायण्यः समुछ्रिताः ॥
तमोवीर्यमयो राहुः प्रकृत्या कृष्णमण्डलः ॥ २४.१३६ ॥

भरणीषु समुत्पन्नो ग्रहश्चन्द्रार्कमर्द्दनः ॥
एते तारा ग्रहाश्चापि बोद्धव्या भार्गवादयः ॥ २४.१३७ ॥

जन्मनक्षत्रपीडासु यान्ति वैगुण्यतां यतः ॥
स्पृश्यन्ते तेन दोषेण ततस्तद्ग्रहभक्तितः ॥ २४.१३८ ॥

सर्वग्रहाणामेतेषामादिरादित्य उच्यते ॥
ताराग्रहाणां शुक्रस्तु केतूनामपि धूमवान् ॥ २४.१३९ ॥

ध्रुवः कीलो ग्रहाणां तु विभक्तानां चतुर्द्दिशम् ॥
नक्षत्राणां श्रविष्ठा स्यादयनानां तथोत्तरम् ॥ २४.१४० ॥

वर्षाणां चापि पञ्चानामाद्यः संवत्सरः स्मृतः ॥
ऋतूनां शिशिरश्चापि मासानां माघ एव च ॥ २४.१४१ ॥

पक्षाणां शुक्लपक्षश्च तिथीनां प्रतिपत्तथा ॥
अहोरात्रविभागानामहश्चापि प्रकीर्तितम् ॥ २४.१४२ ॥

मुहूर्त्तानां तथैवादिर्मुहूर्त्तो रुद्रदैवतः ॥
क्षणश्चापि निमेषादिः कालः कालविदां वराः ॥ २४.१४३ ॥

श्रवणान्तं धनिष्ठादि युगं स्यात्पञ्चवार्षिकम् ॥
भानोर्गतिविशेषेण चक्रवत्परिवर्त्तते ॥ २४.१४४ ॥

दिवाकरः स्मृतस्तस्मात्कालस्तद्विद्भिरीश्वरः ॥
चतुर्विधानां भूतानां प्रवर्त्तकनिवर्त्तकः ॥ २४.१४५ ॥

तस्यापि भगवान्रुद्रः साक्षाद्देवः प्रवर्त्तकः ॥
इत्येष ज्योतिषामेव सन्निवेशोऽर्थनिश्चयात् ॥ २४.१४६ ॥

लोकसंव्यवहारार्थ मीश्वरेण विनिर्मितः ॥
उत्तराश्रवणेनासौ सङ्क्षिप्तश्च ध्रुवे तथा ॥ २४.१४७ ॥

सर्वतस्तेषु विस्तीर्णो वृत्ताकार इव स्थितः ॥
बुद्धिबूर्वं भागवता कल्पदौ सम्प्रवर्त्तितः ॥ २४.१४८ ॥

साश्रयः सोऽभिमानी च सर्वस्य ज्योतिषात्मकः ॥
वैश्वरूपप्रधानस्य परिणामोऽयमद्भुतः ॥ २४.१४९ ॥

नैतच्छक्यं प्रसङ्ख्यातुं याथातथ्येन केनचित् ॥
गतागतं मनुष्येण ज्योतिषां सांसचक्षुषा ॥ २४.१५० ॥

आगमादनुमा नाच्च प्रत्यक्षदुपपत्तितः ॥
परिक्ष्य निपुणं बुद्ध्या श्रद्धातव्यं विपश्चिता ॥ २४.१५१ ॥

चक्षुः शास्त्रं जलं लेख्यं गणितं बुद्धिवित्तमाः ॥
पञ्चैते हेतवो विप्रा ज्योतिर्गणविवेचने ॥ २४.१५२ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे
ज्योतिषां सन्निवेशन्नं नाम चतुर्विंशतितमोऽध्यायः ॥ २४ ॥