विश्वास-प्रस्तुतिः
सूत उवाच ॥
सरथोऽधिष्ठितो देवैरादित्यैर्मुनिभिस्तथा ॥
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥ २३.१ ॥
मूलम्

एते वसन्ति वै सूर्ये द्वौ द्वौ मासौ क्रमेण तु ॥
धाताऽर्यमा पुलस्त्यश्च पुलहश्च प्रजापतिः ॥ २३.२ ॥

ऐरावतो वासुकिश्च कंसो भीमश्च तावुभौ ॥
रथकृच्च रथौजाश्च यक्षावेतावुदाहृतौ ॥ २३.३ ॥

तुम्बुरुर्नारदश्चैव सुस्थला पुञ्जिकस्थला ॥
रक्षो हेतिः प्रहेतिश्च यातुधानावुदाहृतौ ॥ २३.४ ॥

एते वसन्ति वै सूर्य्ये मधुमाधवयोः सदा ॥
मित्रश्च वरुणश्चैव मुनिरत्रिरुदाहृतः ॥ २३.५ ॥

तथा वसिष्ठो विख्यातः सहजन्या च मेनका ॥
राक्षसौ च समाख्यातौ पौरुषेयो वधस्तथा ॥ २३.६ ॥

हाहा हूहूश्च गन्धर्वौ यज्ञश्चापि रथस्वनः ॥
रथचित्रस्तथैवान्यो नागसाक्षकसञ्ज्ञेतः ॥ २३.७ ॥

रम्भकश्च वसन्त्येते मासयोः शुचिशुक्रयोः ॥
ततः सूर्ये पुनस्त्वन्या निवसन्तीह देवताः ॥ २३.८ ॥

इद्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च ॥
एलापत्रस्तथा सर्पः शङ्खपालाश्च तावुभौ ॥ २३.९ ॥

विश्वावसूग्रसेनौ च श्वेतश्चैवारुणस्तथा ॥
प्रम्लोचा इति विख्याताऽनुम्लोचेति च ते उभे ॥ २३.१० ॥

यातुधानस्तदा सर्पो व्याघ्रश्चव तु तावुभौ ॥
नभोनभस्ययोरेष गाणो वसति भास्करे ॥ २३.११ ॥

शरद्यन्याः पुनः शुभ्रा वसन्ति मुनिदेवताः
पर्जन्यश्चैव पूषा च भारद्वाजः सगौतमः ॥ २३.१२ ॥

परावसुश्च गन्धर्वस्तथैव सुरुचिश्च यः ॥
विश्वाची च घृताची च उभे ते शुभलक्षणे ॥ २३.१३ ॥

नाग एरावतश्चैव विश्रुतश्च धनञ्जयः ॥
श्चेनजिच्च सुषेणश्च सेनीर्ग्राम णीश्च तौ ॥ २३.१४ ॥

आपो वातश्च द्वावेतौ यातुधानावुदाहृतौ ॥
वसन्त्येते तु वै सूर्ये सदैवाश्विनकर्तिके ॥ २३.१५ ॥

हैमन्तिकौ तु द्वौ मासौ वसन्ति च दिवाकरे ॥
अंशो भगश्च द्वावैतौ कश्यपश्य क्रतुश्च ह ॥ २३.१६ ॥

भुजङ्गश्च महापद्मः सर्वः कर्कोटक स्तथा ॥
चित्रसेनश्च गन्धर्व ऊर्णायुश्चैव तावुभौ ॥ २३.१७ ॥

उर्वशी पूर्वचित्तिश्च तथैवाप्सरसा उभे ॥
तार्ङश्चारिष्टनेमिश्च सेनानी र्ग्रामणीश्च तौ ॥ २३.१८ ॥

विद्युत्स्फूर्जः शतायुश्च यातुधानावुदात्दृतौ ॥
सहे चैव सहस्ये च वसन्त्येते दिवाकरे ॥ २३.१९ ॥

ततः शैशिर योश्चापि मासयोर्निवसन्ति वै ॥
त्वष्टा विष्णुर्जामदग्न्यो विश्वामित्रस्तथैव च ॥ २३.२० ॥

काद्रवेयौ तथा नागौ कम्बलाश्वतरावुभौ ॥
गन्धर्वो धृतराष्ट्रश्च सूर्यवर्चास्तथैव च ॥ २३.२१ ॥

तिलोत्तमा तथा रम्भा ब्रह्मापेतश्च राक्षसः ॥
यज्ञापेतन्तथैवान्यो विश्यातो राक्षसो त्तमः ॥ २३.२२ ॥

ऋतजित्सत्यजिच्चैव गन्धर्वौ समुदाहृतौ ॥
तपस्तपस्ययोः सूर्ये वसन्ति मुनिसत्तमाः ॥ २३.२३ ॥

पितृदेवमनुष्यादीन्स सदाप्याययन्प्रभुः ॥
परिवर्त्तत्यहोरात्रकारणं सविता द्विजाः ॥ २३.२४ ॥

एते देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु ॥
स्थानाभिमानिनो ह्येते गाणा द्वादशसप्तकाः ॥ २३.२५ ॥

सुर्यस्याप्याययन्त्येते तेजसा तेज उत्तममा ॥
ग्रथितैः स्वैर्वचोभिश्च स्तुवन्ति ह्यृषयो रविम् ॥ २३.२६ ॥

गन्धर्वाप्सरसश्चैव गीतनृत्यैरुपासते ॥
ग्रामणीयक्षभूतानि कुर्वतेऽभीषुसङ्ग्रहम् ॥ २३.२७ ॥

सर्पा वहन्ति वै सूर्यं यातुधानास्तु यान्ति च ॥
वालखिल्या नंयत्यस्तं परिवार्योदयाद्रविम् ॥ २३.२८ ॥

एतेषामेव देवानां यथावीर्यं यथातपः ॥
यथाधर्मं यथायोगं यथासत्यं यथाबलम् ॥ २३.२९ ॥

तपत्यसौ तश्रा सूर्य एषामिन्द्रस्तु तेजसा ॥
इत्येते निवसन्तीह द्वौ द्वौ मासौ दिवाकरे ॥ २३.३० ॥

ऋषयो देवगन्धर्वाः पन्नगाप्सरसां गणाः ॥
ग्रामण्यश्च तथा यक्षा यातुधानाश्च मुख्यशः ॥ २३.३१ ॥

एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च ॥
भूतानां चशुभं कर्म व्यपोहन्ति प्रकीर्त्तिताः ॥ २३.३२ ॥

मानवानां शुभं ह्येते हरन्ते दुरितात्मनाम् ॥
दुरितं सुप्रचाराणां व्यपोहन्ति क्वचि त्क्वचित् ॥ २३.३३ ॥

एते सहैव सूर्येण भ्रमन्ति दिवासानुगाः ॥
वर्षन्तश्च तपन्तश्च ह्लादयन्तश्च वै प्रजाः ॥ २३.३४ ॥

गोपायन्ति च भूतानि सर्वाणीहामनुक्षयात् ॥
स्थानाभिमानिनामेतत्स्थानं मन्वन्तरेषु वै ॥ २३.३५ ॥

अतीतानागतानां च वर्त्तन्ते साम्प्रतं च ये ॥
एवं वसन्ति वै सूर्ये सप्तकास्ते चतुर्दश ॥
चतुर्दशसु सर्वेषु गणा मन्वन्तरेष्विह ॥ २३.३६ ॥

ग्रीष्मे च वर्षासु च मुञ्चमानो घर्मं हिमं वर्ष दिनं निशां च ॥
गच्छत्यसावृतुवशात्परिवृत्तरश्मिर्देवान् पितॄंश्च मनुजांश्च हि तर्पयन्वै ॥ २३.३७ ॥

प्रीणाति देवानमृतेन सूर्यः सोमं सुषुम्णेन च वर्द्धयित्वा ॥
शुक्ले तु पूर्णं दिवसक्रमेण तं कृष्णपक्षे विबुधाः पिबन्ति ॥ २३.३८ ॥

पीतं च सोमं हि कलावशिष्टं कृष्णक्षये रश्मिभिरक्षरन्तम् ॥
सुधामृतं तत्पितरः पिबन्ति देवाश्च सौम्याश्च तथैव काव्याः ॥ २३.३९ ॥

सूर्येण गोभिश्च समुज्झिताभिरद्भिः पुनश्चैव समुद्धृताभिः ॥
वृष्ट्याभिवृद्धाभिरथौषधीभिर्मर्त्याः क्षुधं त्वन्नपानैर्जयन्ति ॥ २३.४० ॥

तृप्तिश्च शुक्ले सुधया सुराणां पक्षे च कृष्णे सुधया पितॄणाम् ॥
अन्नेन शश्वच्च दधाति मर्त्यान्सूर्यस्तपंस्तान्सुबिभर्त्ति गोभिः ॥ २३.४१ ॥

ह्रियन्हरिस्तैर्हरिभिस्तुरङ्गमैर्हरत्यथापः किरणैर्हरिद्भिः ॥
विसर्गकाले विसृजंश्च ताः पुनर्बिभर्त्ति शश्वत्सविता चराचरम् ॥ २३.४२ ॥

हरिर्हरिद्भिर्ह्रि यते तुरङ्गमैः पिबत्यथापो हरिभिः सहस्रधा ॥
ततः प्रमुञ्चत्यपि तास्त्वसौ हरिः समूह्यमानो हरिभिस्तुरङ्गमैः ॥ २३.४३ ॥

इत्येष एकचक्रेण सूर्यस्तूर्णरथेन तु ॥
भद्रैस्तैरक्रमैरश्वैः स्पन्दने वैदिकक्षयः ॥ २३.४४ ॥

अहोरात्राद्रथेनासावेकचक्रेण वै भ्रमन् ॥
सप्तद्वीपसमुद्रान्तां सप्तभिः सप्तभिर्हयैः ॥ २३.४५ ॥

छन्दोभिरश्वरूपैस्तैर्यतश्चक्रं ततः स्थितैः ॥
कामरूपैः सकृद्युक्तैर्वामतस्तैर्मनोजवैः ॥ २३.४६ ॥

हरितैख्ययैः पिङ्गैरीश्वरैर्ब्रह्मवादिभिः ॥
त्र्यशीतिमण्डलशतं भ्रमन्त्यब्देन ते हयाः ॥ २३.४७ ॥

बाह्यमाभ्यन्तरं चैव मण्डलं दिवसक्रमात् ॥
कल्पादौ सम्प्र युक्तास्ते वहन्त्याभूतसम्प्लवात् ॥ २३.४८ ॥

आवृत्ता वालखिल्यैस्ते भ्रमन्ते रात्र्यहानि तु ॥
वचोभिरग्र्यैर्ग्रथितैः स्तूयमानो महर्षिभिः ॥ २३.४९ ॥

सेव्यते गीतनृत्यैश्च गन्धर्वैश्चाप्सरोगणैः ॥
पतङ्गैः पतगैरश्वैर्भ्रममाणो दिवस्पतिः ॥ २३.५० ॥

रथास्त्रचक्रःसोमस्य कुदाभास्तस्य वाजिनः ॥
वामदक्षिणतो युक्ता दश तेन चरन्त्यसौ ॥ २३.५१ ॥

वीथ्याश्रयाणि ऋक्षाणि ध्रुवाधारेण वेगिताः ॥
ह्रासवृद्धी तथैवास्य रश्मीनां सूर्यवत्स्मृते ॥ २३.५२ ॥

त्रिचक्रोभयतोऽश्वश्च विज्ञेयः शशिनो रथः ॥
अपां गणात्समुत्पन्नो रथः साश्वः ससारथिः ॥ २३.५३ ॥

शतारैश्च त्रिभिश्चक्रैर्युक्तः शुक्लैर्हयोत्तमैः ॥
दशभिस्तु कृशैर्दिव्यैरसङ्गैस्तैर्मनोजवैः ॥ २३.५४ ॥

सकृद्युक्ते रथे तास्मिन्वहन्ते चायुगक्षयात् ॥
सङ्गृहीतरथे तस्मिञ्श्वेतश्चक्षुःश्रवाश्च वै ॥ २३.५५ ॥

अश्वास्तमेकवर्णस्ते वहन्ते शङ्खवर्चसः ॥
यजुश्चण्डमनाश्चैव वृषो वाजी नरो हयः ॥ २३.५६ ॥

अश्वो गविष्णुर्विख्यातो हंसो व्योमो मृगस्तथा ॥
इत्येते नामभिः सर्वे दश चन्द्रमसो हयाः ॥ २३.५७ ॥

एते चन्द्रमसं देवं वहन्ति सह दीक्षया ॥
देवैः परिवृतः सोमः पितृभिश्चैव गच्छति ॥ २३.५८ ॥

सोमस्य शुक्लपक्षादौ भास्करे परतः स्थिरे ॥
आपूर्यते परस्यान्ते सततं दिवसक्रमात् ॥ २३.५९ ॥

देवैः पीततनुं सोममाप्याययति नित्यदा ॥
क्षीणं पञ्चदशाहं तु रश्मिनैकेन भास्करः ॥ २३.६० ॥

आपूरयन्सुषुम्णेन भागं भागमहःक्रमात् ॥
सुषुम्णाप्यायमानस्य शुक्ला वर्द्धन्ति वै कलाः ॥ २३.६१ ॥

तस्माद्ध्रसन्ति वै कृष्णे शुक्ले स्वाप्याययन्ति तम् ॥
इत्येवं सूर्यवीर्येण चन्द्रश्चाप्यायितस्ततः ॥ २३.६२ ॥

पौर्णमास्यां स दृश्येत शुक्लः सम्पूर्णमण्डलः ॥
एवमाप्यायितः सोमः शुक्ल पक्षे दिनक्रमात् ॥ २३.६३ ॥

ततो द्वितीयाप्रभृति बहुलस्य चतुर्द्दशीम् ॥
अपां सारमयस्येन्दो रसमात्रात्मकस्य तु ॥ २३.६४ ॥

पिबत्यम्बुमयं देवा हृष्टाः सौम्यं स्वधामृतम् ॥
सम्भृतं त्वर्द्धमासेन ह्यमृतं सूर्यतेजसा ॥ २३.६५ ॥

भक्षार्थममृतं सोमः पौर्णमास्यामुपासते ॥
एकां रात्रिं सुरैः सर्वैः पितृभिः सर्षिभिः सह ॥ २३.६६ ॥

सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य तु ॥
प्रक्षीयन्ते पिदृदेवैः पीयमानाः कलाः क्रमात् ॥ २३.६७ ॥

त्रयश्च त्रिंशतश्चैव त्रयस्त्रिंशत्तथैव च ॥
त्रयश्च त्रिसहस्राश्च देवाः सोमं पिबन्ति वै ॥ २३.६८ ॥

इत्येतैः पीयमानस्य कृष्णा वर्द्धति वै कलाः ॥
क्षीयन्ति तस्माच्छुक्लाश्च कृष्णा आप्याययन्ति च ॥ २३.६९ ॥

एवं दिनक्रमात्पीते विबुधैस्तु निशाकरे ॥
पीत्वार्द्ध मासं गच्छन्ति चामावास्यां सुरोत्तमाः ॥ २३.७० ॥

पितरश्चोपतिष्ठन्ति ह्यमावास्यां निशाकरम् ॥
ततः पञ्चदशेकाले किञ्चिच्छिष्टे कलात्मके ॥ २३.७१ ॥

अपराह्णे पितृगणा जघन्यं पयुपासते ॥
पिबन्ति द्विलवं कालं शिष्टास्तस्य कलास्तु याः ॥ २३.७२ ॥

निःसृतं तदमावास्यां गभस्तिभ्यः स्वधामृतम् ॥
तां स्वधां मासतृप्त्यै च पीत्वा गच्छन्ति तेऽमृतम् ॥ २३.७३ ॥

सूर्यस्तस्मिन्सुषुम्णे यस्तापितस्तेन चन्द्रमाः ॥
कृष्णपक्षे सुरैस्तद्वत्पीयते वै सुधामयः ॥ २३.७४ ॥

सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ते त्रिधा ॥
काव्यश्चैव तु ये प्रोक्ताः पितरः सर्व एव ते ॥ २३.७५ ॥

संवत्सरास्तु वै काव्याः पञ्चाब्दा ये द्विचैः स्मृताः ॥
सौम्यास्तु ऋतुवो ज्ञेया मासा बर्हिषदः स्मृताः ॥ २३.७६ ॥

अग्निष्वात्तार्त्तवाश्चैव पितृसर्गा हि वै द्विजाः ॥
पितृभिः पीयमानस्य पञ्चदश्यां कला तु वै ॥ २३.७७ ॥

यावत्प्रक्षीयते तस्य भागः पञ्चदशस्तु यः ॥
अमावास्यां तदा तस्य तत आपूर्यते परः ॥ २३.७८ ॥

वृद्धक्षयौ वै पक्षादौ षोडश्यां शशिनः स्मृता ॥
एवं सूर्यनिमित्तैष क्षयोवृद्धिर्निशाकरे ॥ २३.७९ ॥

ताराग्रहाणां वक्ष्यामि स्वर्भानोश्च रथान्पुनः ॥
तेयतेजोमयः शुभ्रः सोमपुत्रस्य वै रथः ॥ २३.८० ॥

सोपासङ्गप ताकस्तु सध्वजो मेघनिस्वनः ॥
भार्गवस्य रथः श्रीमांस्तेजसा सूर्यसन्निभः ॥ २३.८१ ॥

पृथिवीसम्भवैर्युक्तो नानावर्णैर्हयोत्तमैः ॥
श्वेतः पिशङ्गः सारङ्गो नीलः पीतो विलोहितः ॥ २३.८२ ॥

कृष्णश्च हरितश्चैव पृषतः पृश्रिरेव च ॥
दशभिस्तैर्महाभागैरकृशैर्वातरंहसैः ॥ २३.८३ ॥

अष्टाश्वः काञ्चनः श्रीमान्भौमस्यापि रथोत्तमः ॥
असङ्गैर्लोहितैरश्वैः सर्वगैरग्निसम्भवैः ॥ २३.८४ ॥

प्रसर्पति कुमारो वै ऋजुवक्रानुव क्रगैः ॥
ततश्चाङ्गिरसो विद्वान्देवाचार्यो बृहस्पतिः ॥ २३.८५ ॥

गौरैरश्वैः काञ्चनेन स्यन्दनेन प्रसर्पति ॥
अब्जैस्तु वाजिभिर्दिव्यैरष्टभिर्वातरंहसैः ॥ २३.८६ ॥

नक्षत्रेऽब्दं स तिष्ठन्वै संवेधास्तेन गच्छति ॥
ततः शनैश्चरोऽप्यश्वैः सबलैर्व्योमसम्भवैः ॥ २३.८७ ॥

कार्ष्णायसं समारुह्य स्यन्दनं याति वै शनैः ॥
स्वर्भानोश्च तथैवाश्वाः कृष्णा ह्यष्टौ मनोजवाः ॥ २३.८८ ॥

रथं तमोमयं तस्य सकृद्युक्ता वहं त्युत ॥
आदित्यान्निःसृतो राहुः सोमं गच्छति पर्वसु ॥ २३.८९ ॥

आदित्यमेति सोमश्च पुनः सौरेषु पर्वसु ॥
अथ केतुरथस्याश्वा अष्टौ वै वातरंहसः ॥ २३.९० ॥

पलालधूमवर्णाभा सबला रासभारुणाः ॥
एते वाहा ग्रहाणां च ह्युपाख्याता रथैः सह ॥ २३.९१ ॥

सर्वे ध्रुवनिबद्धास् ते प्रवृद्धा वात-रश्मिभिः ॥
तपन्ते ब्राम्यमाणास् तु यथायोगं भ्रमन्ति वै ॥ २३.९२ ॥

वायव्याभिर् अदृश्याभिः प्रवृद्धा वात-रश्मिभिः ॥
परिभ्रमन्ति तद्(←ध्रुव)-बद्धाश् चन्द्रसुर्यग्रहा दिवि ॥ २३.९३ ॥

भ्रमन्तम् अनुगछन्ति ध्रुवं ते ज्योतिषां गणाः ॥
यथा नद्य्-उदके नौस् तु सलिलेन सहोह्यते ॥ २३.९४ ॥

तथा देवालया ह्येते ऊह्यन्ते वात-रश्मिभिः ॥
सर्प्पमाणा न दृश्यन्ते व्योम्नि देवगणास् तु ते ॥ २३.९५ ॥

यावत्यश् चैव ताराश् च तावन्तो वातरश्मयः ॥
सर्वा ध्रुवे निबद्धाश् च भ्रमन्त्यो भ्रामयन्ति ताः ॥ २३.९६ ॥

तैलपीडा (गावो) यथा चक्रं भ्रमन्तो (केन्द्रस्थं ध्रुवं) भ्रामयन्ति ह ॥
तथा भ्रमन्ति ज्योतींषि वात-बद्धानि सर्वशः ॥ २३.९७ ॥(5)

अलात(=ज्वलद्दण्ड)-चक्रवद् यान्ति वात-चक्रेरितानि तु ॥
यतो ज्योतींषि वहते प्रवहस् तेन स स्मृतः ॥ २३.९८ ॥

एवं ध्रुवनिबद्धोऽसौ सर्पते ज्योतिषां गणः ॥
सैष तारामयो ज्ञेयः शिशुमारो ध्रुवो दिवि ॥ २३.९९ ॥

यदह्ना कुरुते पापं दृष्ट्वा तन्निशि मुञ्चते ॥
यावत्यश्चैव तारास्ताः शिशुमाराश्रिता दिवि ॥ २३.१०० ॥

तावन्त्येव तु वर्षाणि जीवताभ्यधिकानि तु ॥
साकारः शिशुमारश्च वि५ेयः प्रविभागशः ॥ २३.१०१ ॥

औत्तानपादस्तस्याथ विज्ञेयो ह्यत्तरो हनुः ॥
यज्ञः परस्तु विज्ञेयो धर्मो मर्द्धानमाश्रितः ॥ २३.१०२ ॥

हृदि नारायणः साध्यो ह्यश्विनौ पूर्वपादयोः ॥
वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी ॥ २३.१०३ ॥

शिश्रं संवत्सरस्तस्य मित्रोऽपानं समाश्रितः ॥
पुच्छेऽग्निश्च महेन्द्रश्च मारीचः कश्यपो ध्रुवः ॥ २३.१०४ ॥

तारकाः शिशुमारस्य नास्तं याति चतुष्टयम् ॥
नक्षत्रचन्द्रमूर्याश्च ग्रहास्तारागणैः सह ॥ २३.१०५ ॥

उन्मुखा विमुखाः सर्वे वक्रीभूताः श्रिता दिवि ॥
ध्रुवेणाधिष्ठिताश्चैव ध्रुवमेव प्रदक्षिणम् ॥ २३.१०६ ॥

परियान्तीश्वरश्रेष्ठं मेढीभूतं द्रुवं दिवि ॥
अग्नीन्द्रकश्यपानां तु चरमोऽसौ ध्रुवः स्मृतः ॥ २३.१०७ ॥

एक एव भ्रमत्येष मेरुपर्वतमूर्द्धनि ॥
ज्योतिषां चक्रमेतद्धि गदा कर्षन्नवाङ्मुखः ॥
मेरुमालोकयत्येष पर्यन्ते हि प्रदक्षिणम् ॥ २३.१०८ ॥