विश्वास-प्रस्तुतिः
सूत उवाच ।
स्वायम्भूवनिसर्गे तु व्याख्यातान्यन्तराणि च ॥
भविष्याणि च सर्वाणि तेषां वक्ष्याम्यनुक्रमम् ॥ २२.१ ॥
मूलम्

एतच्छ्रुतवा तु मुनयः पप्रच्छू रोमहर्षणम् ॥
सूर्याचन्द्रमसोश्चारं ग्रहाणां चैव सर्वशः ॥ २२.२ ॥

ऋषय ऋचुः ॥
भ्रमन्ति कथमेतानि ज्योतीषि दिवमण्डलम् ॥
अव्यूहेन च सर्वाणि तथैवासङ्करेण वा ॥ २२.३ ॥

कश्चिद्भामयते तानि भ्रमन्ते यदि वा स्वयम् ॥
एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम ॥ २२.४ ॥

सूत उवाच ॥
भूतसम्मोहनं ह्येतद्वदतो मे निबोधत ॥
प्रत्यक्षमपि दृश्यं च सम्मोहयति यत्प्रजाः ॥ २२.५ ॥

योऽयं चतुर्-द्दिशं पुच्छे शैशुमारे व्यवस्थितः ॥
उत्तान-पाद-पुत्रोऽसौ मेढी(=यूपी)-भूतो ध्रुवो दिवि ॥ २२.६ ॥

स वै भ्रामयते नित्यं चन्द्रादित्यौ ग्रहैः सह ॥
भ्रमन्तम् अनुगच्छन्ति नक्षत्राणि च चक्रवत् ॥ २२.७ ॥

ध्रुवस्य मनसा चासौ सर्पते ज्योतिषां गणः ॥
सूर्या-चन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह ॥ २२.८ ॥

वातानीक-मयैर्-बन्धैर् ध्रुवे बद्धानि तानि वै ॥
तेषां योगश् च भेदश् च कालश् चारस् तथैव च ॥ २२.९ ॥

विषुवद्-ग्रह-वर्णाश् च ध्रुवात् सर्वं प्रवर्त्तते ॥ २२.१० ॥
वर्षा घर्मो हिमं रात्रिः सन्ध्या चैव दिनं तथा ॥
शुभाशुभं प्रजानां च ध्रुवात्सर्वं प्रवर्त्तते ॥ २२.११ ॥

ध्रुवेणाधिष्ठितश् चैव सूर्योऽपो गृह्य वर्षति ॥(5)
विश्वास-प्रस्तुतिः
तद् एष दीप्त-किरणः स कालग्निर् दिवाकरः ॥ २२.१२ ॥
परिवर्त्त-क्रमाद् विप्रा भाभिर् आलोकयन् दिशः ॥
सूर्यः किरणजालेन वायु-युक्तेन सर्वशः ॥ २२.१३ ॥

जगतो जलम् आदत्ते कृत्स्नस्य द्विजसत्तमाः ॥
आदित्य-पीतं सकलं सोमः सङ्क्रमते जलम् ॥ २२.१४ ॥

नाडीभिर् वायुयुक्ताभिर्लोकधारा प्रवर्त्तते ॥
यत्सोमात्स्रवते ह्यम्बु तदन्नेष्वेव तिष्ठति ॥ २२.१५ ॥

मेघा वायुविघातेन विसृजन्ति जलं भुवि ॥
एवमुत्क्षिप्यते चैव पतते चासकृज्जलम् ॥ २२.१६ ॥

न नाशं उदकस्यास्ति तदेव परिवर्त्तते ॥
सन्धारणार्थं लोकानां मायैषा विश्वनिर्मिता ॥ २२.१७ ॥

अन्या मायया व्याप्तं त्रैलोक्यं सचराचरम् ॥
विश्वेशो लोककृद्देवः सहस्राक्षः प्रजापतिः ॥ २२.१८ ॥

धाता कृत्स्नस्य लोकस्य प्रभविष्णुर्दिवाकरः ॥
सार्वलौकिकमम्भो यत्तत्सोमान्नभसश्व्युतम् ॥ २२.१९ ॥

सोमाधारं जगत्सर्वमेतत्तथ्यं प्रकीर्तितम् ॥
सूर्यादुष्णं निस्रवते सोमाच्छीतं प्रवर्त्तते ॥ २२.२० ॥

शीतोष्णवीर्यौ द्वावेतौ युक्त्या धारयतो जगत् ॥
सोमाधारा नदी गङ्गा पवित्रा विमलोदका ॥ २२.२१ ॥

भद्रसोमपुरोगाश्च महानद्यो द्विजोत्तमाः ॥
सर्वभूतशरीरेषु ह्यापो ह्यनुसृताश्च याः ॥ २२.२२ ॥

तेषु सन्दह्यमानेषु जङ्गमस्थावरेषु च ॥
धूमभूतास्तु ता ह्यापो निष्कामन्तीह सर्वशः ॥ २२.२३ ॥

तेन चाभ्राणि जायन्ते स्थानमभ्रमयं स्मृतम् ॥
तेजोऽर्कः सर्वभूतेभ्य आदत्ते रश्मिभिर्जलम् ॥ २२.२४ ॥

समुद्राद्वायुसंयोगाद्वहन्त्यापो गभस्तयः ॥
सञ्जीवनं च सस्यानामम्भस्तदमृतोपमम् ॥ २२.२५ ॥

ततस्त्वृतुवशात्काले परिवर्त्य दिवाकरः ॥
यच्छत्यापो हि मेघेभ्यः शुक्लाशुक्लैर्गभस्तिभिः ॥ २२.२६ ॥

अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः ॥
सर्वभूतहितार्थाय वायुमिश्राः समन्ततः ॥ २२.२७ ॥

ततो वर्षति षण्मासान्सर्वभूतविवृद्धये ॥
वायव्यं स्तनितं चैव वैद्युतं चाग्निसम्भवम् ॥ २२.२८ ॥

मेहनाच्च मिहेधातोर्मेघत्वं व्यजयन्ति हि ॥
न भ्रश्यन्ति यतश्चापस्तदभ्रं कवयो विदुः ॥ २२.२९ ॥

मेघानां पुनरुत्पत्तिस्त्रिविधा योनिरुच्यते ॥
आग्नेया ब्रह्मजाश्चैव पक्षजाश्च पृथग्विधाः ॥ २२.३० ॥

त्रिधा मेघाः समाख्यातास्तेषां वक्ष्यामि सम्भवम् ॥
आग्नेया स्तूष्णजाः प्रोक्तास्तेषां धूमप्रवर्त्तनम् ॥ २२.३१ ॥

शीतदुर्दिनवाता ये स्वगुणास्ते व्यवस्थिताः ॥
महिषाश्च वाराहाश्च मत्तमातङ्गरूपिणः ॥ २२.३२ ॥

भूत्वा धरणिमभ्येत्य रमन्ते विचरन्ति च ॥
जीमूता नाम ते मेघा ह्येतेभ्यो जीवसम्भवः ॥ २२.३३ ॥

विद्युद्गुणविहीनाश्च जलधारा विलम्बिनः ॥
मूकमेघा महाकाया आवहस्य वशानुगाः ॥ २२.३४ ॥

क्रोशमात्राच्च वर्षन्ति क्रोशार्द्धादपि वा पुनः ॥
पर्वताग्र नितम्बेषु वर्षति च रसन्ति च ॥ २२.३५ ॥

बलाकागर्भदाश्चैव बलाकागर्भधारिणः ॥
ब्रह्मजा नाम ते मेघा ब्रह्मनिश्वाससम्भवाः ॥ २२.३६ ॥

ते हि विद्युद्गुणोपेतास्तनयित्नुप्रियस्वनाः ॥
तेषां शश्वत्प्रणादेन भूमिः स्वाङ्गरूहोद्भवा ॥ २२.३७ ॥

राज्ञी राज्याभिषिक्तेव पुनर्यौवनमश्नुते ॥
तेष्वियं प्रावृडासक्ता भूतानां जीवितोद्भवा ॥ २२.३८ ॥

द्वितीयं प्रवहं वायुं मेघास्ते तु समाश्रिताः ॥
एतं योजनमात्राच्च साध्यर्द्धा निष्कृतादपि ॥ २२.३९ ॥

वृष्टिर्गर्भस्त्रिधा तेषां धारासारः प्रकीर्त्तितः ॥
पुष्करावर्त्तका नाम ते मेघाः पक्षसम्भवाः ॥ २२.४० ॥

शक्रेण पक्षच्छिन्ना ये पर्वतानां महौजसाम् ॥
कामागानां प्रवृद्धानां भूतानां शिवमिच्छता ॥ २२.४१ ॥

पुष्करा नाम ते मेघा बृंहन्तस्तोयमत्सराः ॥
पुष्करावर्त्तकास्तेन कारणेनेह शब्दिताः ॥ २२.४२ ॥

नानारूपधराश्चैव महाघोरस्वनाश्च ते ॥
कल्पान्तवृष्टेः स्रष्टारः संवर्ताग्नेर्नियामकाः ॥ २२.४३ ॥

वर्षन्त्येते युगान्तेषु तृतीयास्ते प्रकीर्त्तिताः ॥
अनेकरूपसंस्थानाः पूरयन्तो महीतलम् ॥ २२.४४ ॥

वायुं पुरा वहन्तः स्युराश्रिताः कल्पसाधकाः ॥
यान्यण्डस्य तु भिन्नस्य प्राकृतस्याभवंस्तदा ॥ २२.४५ ॥

यस्मिन्ब्रह्मा समुत्पन्नश्चतुर्वक्त्रः स्वयम्प्रभुः ॥
तान्येवाण्डकपालानि सर्वे मेघाः प्रकीर्त्तिताः ॥ २२.४६ ॥

तेषामाप्यायनं धूमः सर्वेषामविशेषतः ॥
तेषां श्रेष्ठस्तु पर्जन्यश्चत्वारश्चैव दिग्गजाः ॥ २२.४७ ॥

गजानां पर्वतानां च मेघानां भोगिभिः सह ॥
कुलमेकं पृथग्भूतं योनिरेका जलं स्मृतम् ॥ २२.४८ ॥

पर्जन्यो दिग्गजा श्चैव हेमन्ते शीतसम्भवाः ॥
तुषारवृष्टिं वर्षन्ति शिष्टः सस्यप्रवृद्धये ॥ २२.४९ ॥

षष्ठः परिवहो नाम तेषां वायुरपाश्रयः ॥
योऽसौ बिभर्त्ति भगवान्गङ्गामाकाशगोचराम् ॥ २२.५० ॥

दिव्यामृतजलां पुण्यां त्रिधा स्वातिपथे स्थिताम् ॥
तस्या निष्यन्दतोयानि दिग्गजाः पृथुभिः करैः ॥ २२.५१ ॥

शीकरं सम्प्रमुञ्चन्ति नीहार इति स स्मृतः ॥
दक्षिणेन गिरिर्योऽसौ हेमकूट इति स्मृतः ॥ २२.५२ ॥

उदग्घिमवतः शैल उत्तरप्रायदक्षिणे ॥
पुण्ड्रं नाम समाख्यातं नगरं तत्र विस्तृतम् ॥ २२.५३ ॥

तस्मिन्निपतितं वर्षं तत्तुषारसमुद्भवम् ॥
ततस्तदावहो वायुर्हेमवन्तं समुद्वहन् ॥ २२.५४ ॥

आनयत्यात्मयोगेन सिञ्चमानो महागिरिम् ॥
हिमवन्तमतिक्रम्य वृष्टिशेषं ततः परम् ॥ २२.५५ ॥

इहाभ्येति ततः पश्चादपरान्तविवृद्धये ॥
वर्षद्वयं समाख्यातं सस्यद्वयविवृद्धये ॥ २२.५६ ॥

मेघाश्चाप्यायनं चैव सर्वमेतत्प्रकीर्त्तितम् ॥
सूर्य एव तु वृष्टीनां स्रष्टा समुपदिश्यते ॥ २२.५७ ॥

सूर्यमूला च वै वृष्टिर्जलं सूर्यात्प्रवर्तते ॥
ध्रुवेणाधिष्ठितः सूर्यस्तस्यां वृष्टौ प्रवर्त्तते ॥ २२.५८ ॥

ध्रुवेणाधिष्टितो वायुर्वृष्टिं संहरते पुनः ॥
ग्रहो निःसृत्य सूर्यात्तु कृत्स्ने नक्षत्रमण्डले ॥ २२.५९ ॥

चरित्वान्ते विशत्यर्कं ध्रुवेण समाधिष्ठितम् ॥
ततः सूर्यरथस्याथ सन्निवेशं निबोधत ॥ २२.६० ॥

संस्थितेनैकचक्रेण पञ्चारेण त्रिनाभिना ॥
हिरण्मयेन भगवांस्तथैव हरिदर्वणा ॥ २२.६१ ॥

अष्टापदनिबद्धेन षट्प्रकारैकनेमिना ॥
चक्रेण भास्वता सूर्यः स्यन्दनेन प्रसर्पति ॥ २२.६२ ॥

दशयोजनसाहस्रो विस्तारायामतः स्मृतः ॥
द्विगुणोऽस्य रथोपस्थादीषादण्डः प्रमाणतः ॥ २२.६३ ॥

स तस्य ब्रह्मणा सृष्टो रथो ह्यर्थवशेन तु ॥
असङ्गः काञ्चनो दिव्यो युक्तः पवनगैर्हयैः ॥ २२.६४ ॥

छन्दोभिर्वाजिरूपैस्तु यतश्चक्रं ततः स्थितैः ॥
वारुणस्यन्दनस्येह लक्षणैः सदृशस्तु सः ॥ २२.६५ ॥

तेनासौ सर्वते व्योम्नि भास्वता तु दिवाकरः ॥
अथैतानि तु सूर्यस्य प्रत्यङ्गानि रथस्य ह ॥ २२.६६ ॥

संवत्सरस्यावयवैः कल्पि तस्य यथाक्रमम् ॥
अहस्तु नाभिः सौरस्य एकचक्रस्य वै स्मृतः ॥ २२.६७ ॥

अराः पञ्चार्त्तवांस्तस्य नेमिः षडृतवः स्मृतः ॥
रथनीडः स्मृतो ह्येष चायने कूबरावुभौ ॥ २२.६८ ॥

मुहूर्त्ता बन्धुरास्तस्य रम्याश्चास्य कलाः स्मृताः ॥
तस्य काष्ठा स्मृता घोणा अक्षदण्डः क्षणस्तु वै ॥ २२.६९ ॥

निमेषश्चानुकर्षोऽस्य हीषा चास्य लवाःस्मृताः ॥
रात्रिर्वरूथो धर्मोऽस्य ध्वज ऊर्द्ध्व समुच्छ्रितः ॥ २२.७० ॥

युगाक्षकोडी ते तस्य अर्थकामावुभौ स्मृतौ ॥
सप्ताश्वरूपाश्छन्दासि वहन्तो वामतो धुरम् ॥ २२.७१ ॥

गायत्री चैव त्रिष्टुप्य ह्यनुष्टुब्जगती तथा ॥
पङ्क्तिश्च बृहती चैव ह्युष्णिक्चैव तु सप्तमी ॥ २२.७२ ॥

चक्रमक्षे निबद्धं तु ध्रुवे चाक्षः समर्पितः ॥
सहचक्रो भ्रमत्यक्षः सहक्षो भ्रमते ध्रुवः ॥ २२.७३ ॥

अक्षेण सह चक्रेशो भ्रमतेऽसौ ध्रुवेरितः ॥
एवमर्थवशात्तस्य सन्निवेशो रथस्य तु ॥ २२.७४ ॥

तथा संयोगभावेन संसिद्धो भासुरो रथः ॥
तेनासौ तरणिर्देवो भास्वता सर्पते दिवि ॥ २२.७५ ॥

युगाक्षकोटिसन्नद्धौ द्वौ रश्मी स्यन्दनस्य तु ॥
ध्रुवे तौ भ्राम्यते रश्मी च चक्रयुगयोस्तु वै ॥ २२.७६ ॥

भ्रमतो मण्डलान्यस्य खेचरस्य रथस्य तु ॥
युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य हि ॥ २२.७७ ॥

ध्रुवेण प्रगृहीते वै विचक्रम तुरक्षवत् ॥
भ्रमन्तमनुगच्छेतां ध्रुवं रश्मी तु तावुभौ ॥ २२.७८ ॥

युगाक्षकोटिस्तत्तस्य रश्मिभिः स्यन्दनस्य तु ॥
कीलासक्ता यथा रज्जुर्भ्रम्मते सर्वतो दिशम् ॥ २२.७९ ॥

ह्रसतस्तस्य रश्मी तु मण्डलेषूत्तरायणे ॥
वर्द्धते दक्षिणे चैव भ्रमतो मण्डलानि तु ॥ २२.८० ॥

युगाक्षकोटिसम्बद्धौ रश्मी द्वौ स्यन्दनस्य तु ॥
ध्रुवेण प्रगृहीतौ वै तौ रश्मी नयतो रविम् ॥ २२.८१ ॥

आकृष्येते यदा तौ वै ध्रुवेण सम धिष्ठितौ ॥
तदा सोऽभ्यन्तरे सूर्यो भ्रमते मण्डलानि तु ॥ २२.८२ ॥

अशीतिर्मण्डलशतं काष्ठयोरन्तरं स्मृतम् ॥
ध्रुवेण मुच्यमानाभ्यां रश्मिभ्यां पुनरेव तु ॥ २२.८३ ॥

तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि तु ॥
उद्वेष्टयन्स वेगेन मण्डलानि तु गच्छति ॥ २२.८४ ॥