विश्वास-प्रस्तुतिः
सूत उवाच ॥
सूर्या चन्द्रमसावेतौ भ्रमतो यावदेव तु ॥
प्रकाशैस्तु प्रभाभिस्तौ मण्डलाभ्यां समुच्छ्रितौ ॥ २१.१ ॥
मूलम्

सप्तानां तु समुद्राणां द्वीपानां सतु विस्तरः ॥
विस्तरार्द्धे पृथिव्यास्तु भवेदन्यत्र बाह्यतः ॥ २१.२ ॥

पर्यासपरिमाणं तु चन्द्रादित्यौ प्रकाशतः ॥
पर्यास्तात्पारिमाण्येन भूमेस्तुल्यं दिवं स्मृतम् ॥ २१.३ ॥

अवति त्रीनिमाल्ँलोकान् यस्मात्सूर्यः परिभ्रमन् ॥
अविधातुः प्रकाशाख्यो ह्यवनात्स रविः स्मृतः ॥ २१.४ ॥

अतः परं प्रवक्ष्यामि प्रमाणं चन्द्रसूर्ययोः ॥
महित्तत्त्वान्महीशब्दोऽह्यस्मिन्वर्षे निपाद्यते ॥ २१.५ ॥

अस्य भारतवर्षस्य विष्कम्भात्तुल्यविस्तृतम् ॥
मण्डलं भास्करस्याथ योजनानि निबोधत ॥ २१.६ ॥

नवयोजनसाहस्रो विस्तारो भास्करस्य तु ॥
विस्तारात्र्रिगुणश्चास्य परिणाहस्तु मण्डले ॥ २१.७ ॥

विष्कम्भमण्डलाच्चैव भास्कराद्द्विगुणः शशी ॥
अथ पृथिव्या वक्ष्यामि प्रमाणं योजनैः सह ॥ २१.८ ॥

सप्तद्वीपसमुद्राया विस्तारो मण्डलं च यत् ॥
इत्येतदिह सङ्ख्यातं पुराणे परिमाणतः ॥ २१.९ ॥

तद्वक्ष्यामि समाख्याय साम्प्रतैरभिमानिभिः ॥
अभिमानिनोव्यतीता ये तुल्यास्ते साम्प्रतैस्त्विह ॥ २१.१० ॥

देवा ये वै व्यतीतास्तु रूपैर्नामभिरेव च ॥
तस्मात्तु साम्प्रतैर्देवैर्वक्ष्यामि वसुधातलम् ॥ २१.११ ॥

दिवास्तु सन्निवेशं वै साम्प्रतैरेव कृत्स्नशः ॥
शतार्द्धकोटिविस्तारा पृथिवी कृत्स्नशः स्मृता ॥ २१.१२ ॥

तस्या ऊर्द्ध्वप्रमाणेन मेरोर्यावत्तु संस्थितिः ॥
पृथिव्या ह्यर्द्धविस्तारो योजनाग्रात्प्रकीर्त्तितः ॥ २१.१३ ॥

मेरोर्मध्यात्प्रतिदिशं कोटिरेका तु सा स्मृता ॥
तथा शातसहस्राणामेकोन नवतिः पुनः ॥ २१.१४ ॥

पञ्चाशत्तु सहस्राणि पृथिव्यर्द्धस्य मण्डलम् ॥
गणितं योजनाग्रात्तु कोट्यस्त्वेकादश स्मृताः ॥ २१.१५ ॥

तथा शतसहस्राणि सप्तत्रिंशाधिकानि तु ॥
इत्येतदिह संश्यातं पृथिव्यन्तस्य मण्डलम् ॥ २१.१६ ॥

तारकासन्निवेशास्य दिवि याव च्च मण्डलम् ॥
पर्याससन्निवेशश्च भूमेर्यावत्तु मण्डलम् ॥ २१.१७ ॥

पर्यासपरिमाणेन भूमेस्तुल्यं दिवः स्मृतम् ॥
सप्तानामपि द्वीपानामेत त्स्थानं प्रकीर्तितम् ॥ २१.१८ ॥

पर्यायपरिमाणेन मण्डलानुगतेन च ॥
उपर्युपरि लोकानां छत्रवत्परिमण्डलम् ॥ २१.१९ ॥

संस्थितिर्विहिता सर्वा येषु तिष्ठन्ति जन्तवः ॥
एतदण्डकपालस्य प्रमाणं परिकीर्त्तितम् ॥ २१.२० ॥

अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी ॥
भूर्लोकश्च भुवर्ल्लोकस्तृतीयस्सृरिति स्स्वतः ॥ २१.२१ ॥

महर्ल्लोको जनश्चैव तपः सत्यं च सप्तमम् ॥
एते सप्त कृता लोकाश्छत्राकारा व्यवस्थिताः ॥ २१.२२ ॥

स्वकैरावरणैः सूक्ष्मैर्धार्यमाणाः पृथक्पृथक् ॥
दशभागाधिकाभिश्च ताभिः प्रकृतिभिर्बहिः ॥ २१.२३ ॥

पूर्यमाणा विशेषैश्च समुत्पन्नैः परस्परात् ॥
अस्याण्डस्य समन्ताच्च सन्निविष्टो घनोदधिः ॥ २१.२४ ॥

पृथिव्या मण्डलं कृत्स्नं घनतोयेन धार्यते ॥
घनोदधिः परेणाथ धार्य्यते घनतेजसा ॥ २१.२५ ॥

बाह्यतो घनतेजस्च तिर्य्यगूर्द्ध्वं तु मण्डलम् ॥
सम्मताद्धनवातेन धार्यमाणं प्रतिष्ठितम् ॥ २१.२६ ॥

घनवातं तथाकाशमाकाशं च महात्मना ॥
भूतादिना वृतं सर्वं भूतादिर्महता वृतः ॥ २१.२७ ॥

वृतो महाननन्तेन प्रधानेनाव्य यात्मना ॥
पुराणि लोकपालानां प्रवक्ष्यामि यथाक्रमम् ॥ २१.२८ ॥

ज्योतिर्गुणप्रचारस्य प्रमाणपरिसिद्धये ॥
मेरोः प्राच्यां दिशि तथा मानसस्यैव मूर्द्धनि ॥ २१.२९ ॥

वस्वौकसारा माहेन्द्री पुरी हेमपरिष्कृता ॥
दक्षिणेन पुनर्मेरोर्मानसस्यैव मूर्द्धनि ॥ २१.३० ॥

वैवस्वतो निव सति यमः संयमने पुरे ॥
प्रतीच्यां तु पुनर्मेरोर्मानसस्यैव मूर्द्धनि ॥ २१.३१ ॥

सुखा नाम पुरी रम्या वरुणस्यापि धीमतः ॥
वरुणो यादसां नाथस्सुखाख्ये वसते पुरे ॥ २१.३२ ॥

दिश्युत्तरस्यां मेरोस्तु मानसस्यैव मूर्द्धनि ॥
तुल्या महेन्द्रपुर्य्यास्तु सोमस्यापि विभावरी ॥ २१.३३ ॥

मानसोत्तरवृष्टे तु लोकपालाश्चतुर्दिशम् ॥
स्थिता धर्मव्यवस्थार्थ लोकमंरक्षणाय च ॥ २१.३४ ॥

लोकपालोपरिष्टात्तु सर्वतो दक्षिणायने ॥
काष्ठागतस्य सूर्यस्य गतिया तां निबोधत ॥ २१.३५ ॥

दक्षिणोऽपक्रमे सूर्य्यः क्षिप्तेषुरिव सर्पति ॥
ज्योतिषां चत्र्रमादाय सततं परिगच्छति ॥ २१.३६ ॥

मध्यगश्चामरावत्यां यदा भवति भास्करः ॥
वैवस्वते संयमते उदयस्तत्र दृश्यते ॥ २१.३७ ॥

सुखायामर्द्धरात्रं स्याद्विभायामस्तमेति च ॥
वैवस्वते संयमने मध्यगः स्याद्रविर्यदा ॥
सुखायामथ वारुण्यामुत्तिष्ठन्स तु दृश्यते ॥ २१.३८ ॥

विभाया मर्द्धरात्रं स्यान्माहेन्द्यामस्तमेति च ॥
यदा दक्षिणपुर्वेषामपराह्णो विधीयते ॥ २१.३९ ॥

दक्षिणापरदेश्यानां पूर्वह्णः परिकी र्त्तितः ॥
तेषामपररात्रश्च ये जना उत्तराः परे ॥ २१.४० ॥

देशा उत्तरपूर्वा ये पूवरात्रस्तु तान्प्रति ॥
एवमेवोत्तरेष्व र्को भुवनेषु विराजते ॥ २१.४१ ॥

सुखायासथ वारुण्यां मध्याह्ने चार्यमा यदा ॥
विभायां सोमपुर्यां वा उत्तिष्ठति विभावसुः ॥ २१.४२ ॥

रात्र्यर्द्ध चामरावत्यामस्तमेति यमस्य च ॥
सोमपुर्या विभायां तु मध्याह्ने स्याद्दिवाकरः ॥ २१.४३ ॥

महेद्रस्यामरावत्यां सूर्य उत्तिष्ठते तदा ॥
अर्द्धरात्रं संयमने वारुण्यामस्तमेति च ॥ २१.४४ ॥

स शीघ्रमेव पर्येति भास्करोऽलातच त्रवत् ॥
भ्रमन्वै भ्रममार्णानि ऋक्षाणि चरते रविः ॥ २१.४५ ॥

एवं चतुर्षु पार्श्वेषु दक्षिणां तेन सर्पति ॥
उदयास्तमने चासावृत्ति ष्ठति पुनः पुनः ॥ २१.४६ ॥

पूवाह्णे चापराह्णे च द्वौ द्वौ देवालयौ तु सः ॥
तपत्यर्कश्च मध्याह्ने तैरेव च स्वरश्मिभिः ॥ २१.४७ ॥

उदितो वर्द्धमानाभिरामध्याह्नं तपन्रविः ॥
अतः परं ह्रसन्तीभिर्गोभिरस्तं निगच्छति ॥ २१.४८ ॥

उदयास्तमयाभ्यां च स्मृते पूर्वापरे दिशौ ॥
यावत्पुरस्तात्तपति तापत्पृष्ठेऽथ पार्श्वयोः ॥ २१.४९ ॥

यत्रोद्यन्दृश्यते सूर्यस्तेषां स उदयः समृतः ॥
प्रणाशं गच्छते यत्र तेषामस्तः स उच्यते ॥ २१.५० ॥

सर्वेषामुत्तरे मेरुलोङ्कालोकश्च दक्षिणे ॥
विदूरभावादर्कस्य भूमिलेखावृतस्य च ॥ २१.५१ ॥

लीयन्ते रश्मयो यस्मात्तेन रात्रौ न दृश्यते ॥
ग्रहनक्षत्रसोमानां दर्शनं भास्करस्य च ॥ २१.५२ ॥

उच्ध्रयस्य प्रमाणेन ज्ञेयमस्तमथोदयम् ॥
शुक्लच्छायोऽग्निरा पश्च कृष्णच्छाया च मेदिनी ॥ २१.५३ ॥

विदूरभावादर्कस्य ह्युद्यतेऽपि विरशिमता ॥
रक्तभावो विरश्मत्वाद्रक्तत्वाच्जाप्यनुष्णता ॥ २१.५४ ॥

लेखायामास्थितः सूर्यो यत्र यत्र च दृश्यते ॥
ऊर्द्ध्व शातसहस्र तु योजनानां स दृश्यते ॥ २१.५५ ॥

प्रभा हि सौरी पादेन ह्यस्तं गच्छति भास्करे ॥
अग्निमाविशते राद्रौ तस्माद्दूरात्प्रकाशते ॥ २१.५६ ॥

उदिते हि पुनः सूर्ये ह्यौष्ण्यमाग्नेयमाविशेत् ॥
संयुक्तो वह्निना सूर्यस्तपते तु ततो दिवा ॥ २१.५७ ॥

प्राकाश्यं च तथौष्ण्यं च सौराग्नेये च तेजसी ॥
परस्परानुप्रवेशाद्दीप्येते तु दिवानिशम् ॥ २१.५८ ॥

उत्तरे चैव भूम्यर्द्धे तथा तस्मिंश्च दक्षिणे ॥
उत्तिष्ठति तथा सूर्ये रात्रिराविशतत्वपः ॥ २१.५९ ॥

तस्माच्छीता भक्त्याम्पो दिवारात्रिप्रवेशनात् ॥
अस्तं याति पुनः सूर्ये दिनमाविशते त्वषः ॥ २१.६० ॥

तस्मादुष्णा भवत्यापो नक्तमह्नः प्रवेशनात् ॥
एतेन क्रमयोगेन भूम्यर्द्धे दक्षिणोत्तरे ॥ २१.६१ ॥

उदयास्तमनेऽर्कस्य अहोरात्रं विशत्यपः ॥
देनं सूर्यप्रकाशाख्यं तामसी रात्रिरूच्यते ॥ २१.६२ ॥

तस्माद्व्यवस्थिता रात्रिः सूर्यापेक्षमहः स्मृतम् ॥
एवं पुष्करमध्येन यदा सर्पति भास्करः ॥ २१.६३ ॥

अंशांशकं तु मेदिन्यां मुहूर्त्तेनैव गच्छति ॥
योजनाग्रान्मुहूर्त्तस्य इह सङ्ख्यां निबोधत ॥ २१.६४ ॥

पूर्णे शतसहस्राणामेकत्रिंशाधिकं स्मृतम् ॥
पञ्चाशत्तु तथान्यानि सहस्राण्यधिकानि च ॥ २१.६५ ॥

मौहूर्त्ति की गतिर्ह्येषा सूर्यस्य तु विधीयते ॥
एतेन गतियोगेन यदा काष्ठां तु दक्षिणाम् ॥ २१.६६ ॥

पर्यागच्छेत्पतङ्गोऽसौ मध्ये काष्ठान्तमेव हि ॥
मध्येन पुष्करस्याथ भ्रमते दक्षिणायने ॥ २१.६७ ॥

मानसोत्तरशैले तु अन्तरे विषुवं च तत् ॥
सर्पते दक्षिणायां तु काष्ठायां वै निबोधत ॥ २१.६८ ॥

नवकोट्यः प्रसङ्ख्याता योजनैः परिमण्डलम् ॥
तथा शतसहस्राणि चत्वारिंशच्च पञ्च च ॥ २१.६९ ॥

अहोरात्रात्पतङ्गस्य गतिरेषा विधीयते ॥
दक्षिणाद्विनिवृत्तोऽसौ विषुवस्थो यदा रविः ॥ २१.७० ॥

क्षीरोदस्य समुद्रस्योत्तरतश्चाद्रितश्चरन् ॥
मण्डलं विषुवत्तस्य योजनैस्तन्निबोधत ॥ २१.७१ ॥

तिस्रः कोट्यस्तु सङ्ख्याता विषुवस्यापि मण्डलम् ॥
तथा शतसहस्राणामशीत्येकाधिका पुनः ॥ २१.७२ ॥

श्रवणे चोत्तरषाढे चित्रभानुर्यदा भवेत् ॥
शाकद्वीपस्य षष्ठस्य उत्तरातो दिशश्चरन् ॥ २१.७३ ॥

उतरायाः प्रमाणं च काष्ठाया मण्डलस्य च ॥
योजनाग्रात्प्रसङ्ख्याता कोटिरेका तु स द्विजाः ॥ २१.७४ ॥

अशीतिर्नियुतानीह योजनानां तथैव च ॥
अष्टपञ्चाशतं चव योजनान्यधिकानि तु ॥ २१.७५ ॥

नागवीथ्युत्तरावीथी ह्यज वीथी च दक्षिणा ॥
मूलं चैव तथाषाढे त्वजवीथ्युदयास्त्रयः ॥ २१.७६ ॥

अश्विनी कृत्तिका याम्यं नागवीथ्युदयास्त्रयः ॥
काष्ठयोरन्तरं यच्च तद्वक्ष्येयजनैः पुनः ॥ २१.७७ ॥

एतच्छतसहस्राणामष्टाभिश्चोत्तरं शतम् ॥
त्रयः शताधिकाश्चन्ये त्रयस्त्रिंशच्च योजनैः ॥ २१.७८ ॥

काष्ठयोरन्तरं ह्येतद्योजनाग्रात्प्रकीर्तितम् ॥
काष्ठयोर्लेखयोश्चैव ह्यन्तरं दक्षिणोत्तरे ॥ २१.७९ ॥

तेन्ववक्ष्ये प्रसङ्ख्याय चोजनैस्तन्निबोधत ॥
एकैकमन्तरं तस्य वियुतान्येकसप्ततिः ॥ २१.८० ॥

सहस्राण्यतिरिक्ताश्च ततोऽन्या पञ्चसप्ततिः ॥
लेखयोः काष्ठयोश्चैव बाह्याभ्यन्तरयोः स्मृतम् ॥ २१.८१ ॥

अभ्यन्तरं तु पर्येति मण्डलान्युत्तरायणे ॥
बाह्यतो दक्षिणे चैव सततं तु यथाक्रमम् ॥ २१.८२ ॥

मण्डलानां शतं पूर्मं त्र्यशीत्यधिकमुत्तरम् ॥
चरते दक्षिणे चापि तावदेव विभावसुः ॥ २१.८३ ॥

प्रमाणं मण्डलस्याथ योजनाग्रं निबोधत ॥
योजनानां सहस्राणि सप्तादश समासतः ॥ २१.८४ ॥

शते द्वे पुनरप्यन्ये योजनामां प्रकीर्त्तिते ॥
एकविंशतिभिश्चैव योजनैरधिकैर्हि ते ॥ २१.८५ ॥

एतत्प्रमाणमाख्यातं योजनैर्मण्डलस्य च ॥
विष्कम्भो मण्डलस्याथ तिर्यक् स तु विधीयते ॥ २१.८६ ॥

प्रत्यहं चरते तानि सूर्या वै मण्डलक्रमात् ॥
कुलालचक्रपर्यन्तो यथा शीघ्रं निवर्त्तते ॥ २१.८७ ॥

दक्षिणप्रक्रमे सूर्यस्तथा शीघ्रं प्रवर्त्तते ॥
तस्मात्प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति ॥ २१.८८ ॥

सूर्यो द्वादशभिः शैघ्र्यान्मुहूर्तैर्दक्षिणायने ॥
त्रयोदशार्द्धमृक्षाणामह्ना तु चरते रविः ॥ २१.८९ ॥

मुहूर्तै स्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥
कुलालचक्रमध्ये तु यथा मन्दं प्रसर्पति ॥ २१.९० ॥

तथोदगयने सूर्यः सर्पते मन्दविक्रमः ॥
तस्मा द्दीर्घेन कालेन भूमिं स्वल्पानि गच्छति ॥ २१.९१ ॥

अष्टादश मुहूर्त तु उत्तरायणपश्चिमम् ॥
अहो भवति तच्चापि चरते मन्दविक्रमः ॥ २१.९२ ॥

त्रयोदशार्द्धं मान्द्येन त्व् ऋक्षाणां चरते रविः ॥
मुहूर्तैस् तावद् ऋक्षाणि नक्तं द्वादशभिश् चरन् ॥ २१.९३ ॥

ततो मन्दतरं नाभ्यां चक्रं भ्रमति वै यथा ॥
+++(चक्रनाभिस्थ-)+++मृत्-पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा ॥ २१.९४ ॥+++(5)+++

त्रिंशन् मुहूर्तान् एवाहुर् अहोरात्रं ध्रुवो भ्रमन् ॥
उभयोः काष्ठयोर् मध्ये भ्रमते मण्डलानि तु ॥ २१.९५ ॥

कुलाल-चक्र-नाभिश् च यथा तत्रैव वर्त्तते ॥
ध्रुवस् तथा हि विज्ञेयस् तत्रैव परीवर्त्तते ॥ २१.९६ ॥+++(5)+++

उभयोः काष्ठयोर्मध्ये भ्रमते मण्डलानि सः ॥
दिवानक्तं च सूर्यस्य मन्दा शीघ्रा च वै गातिः ॥ २१.९७ ॥

उत्तरप्रक्रमे चापि दिवा मन्दा गतिस्तथा ॥
तथैव च पुनर्नक्तं शीघ्रा सूर्यस्य वै गातिः ॥ २१.९८ ॥

दक्षिणप्रक्रमेणैव दिवा शीघ्रं विधीयते ॥
गतिः सूर्यस्य नक्तं च मन्दा चैव गतिस्तथा ॥ २१.९९ ॥

एवं गतिविशेषेण विभजन् रात्र्यहानि तु ॥
तजापि सञ्चरन्मार्गं समेन विषमेण च ॥ २१.१०० ॥

लोकालोकस्थिता ह्येते लोकपालाश्चतुर्दिशम् ॥
अगस्त्यश्चरते तेषामुपरिष्टाज्जवेन तु ॥ २१.१०१ ॥

भुञ्जन्नसापहोरा त्रमेवं गतिविशेषणम् ॥
दक्षिणे नागवीथ्यास्तु लोकालोकस्य चोत्तरे ।. २१.१०२ ॥
विश्वास-प्रस्तुतिः
लोकसन्तानको ह्येष वैश्वानरपथाद्वहिः ॥
पृष्टे यावत्प्रभा सौरी पुरस्तात्सम्प्रकाशते ॥ २१.१०३ ॥

पार्श्वतः पृष्ठतश्चैव लोकालोकस्य वर्त्तते ॥
योजनानां सहस्राणि दशकं तुच्छ्रितो गिरिः ॥ २१.१०४ ॥

प्रकाशश्चाप्रकाशश्च सर्वतः परिमण्डलः ॥
नक्षत्रचन्द्रसूर्यश्च ग्रहैस्तारागणैः सह ॥ २१.१०५ ॥

अभ्यन्तरं प्रकाशन्ते लोकालोकस्य वै गिरेः ॥
एतावानेव लोकस्तु निरालोकस्ततः परम् ॥ २१.१०६ ॥

लोकेनालोकवानेष निरालोकस्त्वलोकतः ॥
लोकालोकं तु सन्धत्ते यस्मात्सुर्यपरिग्रहम् ॥ २१.१०७ ॥

तस्मात्सन्ध्येति तामाहुरुषाव्युष्ट्योर्यदन्तरम् ॥
उषा रात्रिः स्मृता विप्रैर्व्युष्टिश्चापि त्वहः स्मृतम् ॥ २१.१०८ ॥

सूर्याग्निग्रसमानानां सन्ध्याकाले हि रक्षसाम् ॥
प्रजापतिनियोगेन शापस्त्वेषां दुरात्मनाम् ॥ २१.१०९ ॥

अक्षयत्वं तु देहस्य प्रापिताम्रणं तथा ॥
तिस्रः कोट्यस्तु विख्याता मन्देहा नाम राक्षसाः ॥ २१.११० ॥

प्रार्थयन्ति सहस्रांशुभुदयन्तं दिनेदिने ॥
तापयन्तं दुरात्मानः सूर्यमिच्छन्ति खादितुम् ॥ २१.१११ ॥

अथ सूर्यस्य तेषां च युद्धमासीत्सुदारुणम् ॥
ततो ब्रह्मा च देवाश्च ब्राह्ममाश्चैव सत्तमाः ॥ २१.११२ ॥

सन्ध्यां तु समुपासीनाः प्रक्षिपन्ति जलं सदा ॥
ओङ्कारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितम् ॥ २१.११३ ॥

स्फूर्जज्ज्योतिश्च चण्डांशुस्तथा दीप्यति भास्करः ॥
ततः पुनर्महातेजा महाबलपराक्रमः ॥ २१.११४ ॥

योजनानां सहस्राणि ऊर्द्ध्वमुत्तिष्ठते शतम् ॥
प्रयाति भगवानाशु ब्राह्मणैरभिरक्षितः ॥
वालखिल्यैश्च मुनिभिर्धृतार्चिः समरीचिभिः ॥ २१.११५ ॥

काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठा गणयेत्कलां तु ॥
त्रिंशत्कलाश्चापि भवेन्मुहूर्त्तस्तैस्त्रिंशता रात्र्यहनी समेते ॥ २१.११६ ॥

ह्रासवृद्धी त्वहर्भागैर्दिवसानां यथाक्रमात् ॥ २१.११७ ॥
विश्वास-प्रस्तुतिः
सन्ध्या मुहूर्त्तमात्रा तु ह्रासवृद्धिस्तु सा स्मृता ॥
लेखाप्रभृत्यथादित्ये त्रिमुहूर्त्तगते तु वै ॥ २१.११८ ॥

प्रातस्ततः स्मृतः कालो भागश्चाह्नः स पञ्चमः ॥
तस्मात्प्रातस्तनात्कालात्र्रिमुहूर्त्तस्तु सङ्गवः ॥ २१.११९ ॥

मध्याह्नस्त्रिमुहूर्त्तस्तु तस्मात्कालश्च सङ्गवात् ॥
तस्मान्मध्यन्दिनात्कालादपराह्ण इति स्मृतः ॥ २१.१२० ॥

त्रय एव मुहूर्त्तास्तु कालागः स्मृतो बुधैः ॥
अपराह्णे व्यतीते तु कालः सायाह्न उच्यते ॥ २१.१२१ ॥

दशपञ्च मुहूर्ताह्नो मुहूर्त्तास्त्रय एव च ॥
दशपञ्चमुहूर्त्त वै ह्यहर्वैषुवतं स्मृतम् ॥ २१.१२२ ॥

वर्द्धन्ते च ह्रसन्ते च ह्ययने दक्षिणोत्तरे ॥
अहस्तु ग्रसते रात्रिं रात्रिश्च ग्रसते त्वहः ॥ २१.१२३ ॥

शरद्वसन्तयोर्मध्यं विषुवत्परिभाव्यते ॥
अहोरात्रे कलाश्चैव समं सोमः समश्नुते ॥ २१.१२४ ॥

तथा पञ्चदशाहानि पक्ष इत्यभिधीयते ॥
द्वौच पक्षौभवेन्मासो द्वौमासावर्कजावृतुः ॥ २१.१२५ ॥

ऋतुत्रितयमयने द्वे हि वर्षं तु सौरकम् ॥
निमेषा विद्युतश्चैव काष्टास्ता दश पञ्च च ॥ २१.१२६ ॥

कलास्तास्त्रिशतः काष्ठा मात्रा शीतिद्वयात्मिका ॥
सप्तैका द्व्यधिका त्रिशन्मात्रा षटत्रिंशदुत्तरा ॥ २१.१२७ ॥

द्विषाष्टिना त्रयोविंशन्मात्रायाश्च कला भवेत् ॥
चत्वारि शत्सहस्राणि शतान्यष्टौ च विद्युतः ॥ २१.१२८ ॥

सप्ततिश्चैव तत्रापि नवतिं विद्धि निश्चये ॥
चत्वार्येव शतान्याहुर्विद्युते द्वे च संयुते ॥ २१.१२९ ॥

वरांशो ह्येष विज्ञेयो नाडिका चात्र कारणम् ॥
संवत्सरादयः पञ्च चतुर्मानविकल्पिताः ॥ २१.१३० ॥

निश्चयः सर्वकालस्य युगमित्यभिधीयते ॥
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः ॥ २१.१३१ ॥

इडावत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः ॥
पञ्चमोवत्सरस्तेषां कालस्तु युगसंहितः ॥ २१.१३२ ॥

त्रिंशच्छतं भवेत्पूर्णं पर्वणां तु रवेर्युगे ॥
शतान्यष्टादश त्रिंशदुदयाद्भास्करस्य च ॥ २१.१३३ ॥

ऋतवस्त्रिंशतः सौरादयनानि दशैव तु ॥
पञ्च च त्रिशतं चापि षष्टिवर्षं च भास्करम् ॥ २१.१३४ ॥

त्रिशदेव त्वहोरात्रास्तैस्तु मासस्तु भास्करः ॥
एकषष्टि त्वहोरात्रमृतुरेको विभाव्यते ॥ २१.१३५ ॥

अह्नां तु त्र्यधिकाशीतिः शतं चाप्यधिकं भवेत् ॥
मानं तच्चित्रभानोस्तु विज्ञेयमयनस्य ह ॥ २१.१३६ ॥

सौरं सौम्यं तु विज्ञेयं नाक्षत्रं सावनं तथा ॥
मानान्येतानि चत्वारि यैःपुराणे हि निश्चयः ॥ २१.१३७ ॥

यः श्वेतस्योत्तरश्चैव श्रृङ्गवान्नाम पर्व्वतः ॥
त्रीणितस्य तु श्रृङ्गाणि स्पृशन्तीव नभस्तलम् ॥ २१.१३८ ॥

तैश्चापि श्रृङ्गैस्सनगः श्रृङ्गवा निति कथ्यते ॥
एकश्च मार्गविष्कम्भविस्तारश्चास्य कीर्तितः ॥ २१.१३९ ॥

तस्य वै पूर्वतः श्रृङ्गं मध्यमं तद्धिरण्मयम् ॥
दक्षिणं राजतं चैव श्रृङ्गं तु स्फटिकप्रभम् ॥ २१.१४० ॥

सर्वरत्नमयं चैव श्रृङ्गमुत्तरमुत्तमम् ॥
एवं कूटैस्त्रिभिः शैलः श्रृङ्गवानिति विश्रुतः ॥ २१.१४१ ॥

यत्तद्वै पूर्वतः श्रृङ्गं तदर्कः प्रतिपद्यते ॥
शरद्वसन्तयोर्मध्ये मध्यमां गतिमास्थितः ॥ २१.१४२ ॥

अतस्तुल्यमहोरात्रं करोति तिमिरा पहः ॥
हरिताश्च हया दिव्यास्तस्य युक्ता महारथे ॥
अनुलिप्ता इवाभान्ति पद्मरक्तैर्गभस्तिभिः ॥ २१.१४३ ॥

मेषति च तुलान्ते च भास्करोदयतः स्मृताः ॥
मुहूर्त्ता दश पञ्चैव अहो रात्रिश्च तावती ॥ २१.१४४ ॥

कृत्तिकानां यदा सूर्यः प्रथमां शगतो भवेत् ॥
विशाखानां तदा ज्ञेयश्चतुर्थांश निशाकरः ॥ २१.१४५ ॥

विशाखानां यदा सूर्यश्चरतेंशं तृतीयकम् ॥
तदा चन्द्रं विजानीयात्कृत्तिकाशिरसि स्थितम् ॥ २१.१४६ ॥

विषुवं तं विजानीयादेवमाहुर्महर्षयः ॥ २१.१४७ ॥
विश्वास-प्रस्तुतिः
सूर्येण विषुवं विद्या त्कालं सोमेन लक्षयेत् ॥
समा रात्रिरहश्चैव यदा तद्विषुवं भवेत् ॥ २१.१४८ ॥

तदा दानानि देयानि पितृभ्यो विषुवेषु च ॥
ब्राह्मणेभ्यो विशेषेण मुखमेतत्तु दैवतम् ॥ २१.१४९ ॥

ऊनमासाधिमासौ च कला काष्ठा मुहूर्त्तकाः ॥
पौर्णमासी तथा ज्ञेया अमावास्या तथैव च ॥
सिनीवाली कुहूश्चैव राका चानुमतिस्तथा ॥ २१.१५० ॥

तपस्तपस्यौ मदुमाधवौ च शुक्रःशुचिश्चायनमुत्तरं स्यात् ॥
नभोनभस्याविषऊर्जसञ्ज्ञौ सहःसहस्याविति दक्षिणं स्यात् ॥ २१.१५१ ॥

आर्तवाश्च ततो ज्ञेया पञ्चाब्दा ब्रह्मणाः सुताः ॥ २१.१५२ ॥
विश्वास-प्रस्तुतिः
तस्माच्च ऋतवो ज्ञेया ऋतुभ्यो ह्यार्त्तवाः स्मृताः ॥
तस्मादृतुमुखी ज्ञेया अमावास्यास्य पर्वणः ॥ २१.१५३ ॥

तस्मात्तु विषुवं ज्ञेयं पितृदेवहितं सदा ॥
पर्व ज्ञात्वा न मुह्येत पित्र्ये दैवे च मानवः ॥ २१.१५४ ॥

तस्मात्स्मृतं प्रचानां वै विषुवत्सर्वगं सदा ॥
आलोकात्तु स्मृतो लोको लोकालोकः स उच्यते ॥ २१.१५५ ॥

लोकपालाः स्थितास्तत्र लोकालोकस्य मध्यतः ॥
चत्वारस्ते महात्मानस्तिष्टन्त्याभूतसम्प्लवात् ॥ २१.१५६ ॥

सुधामा चैव वैराजः कर्दमः शङ्खपास्तथा ॥
हिरण्यरोमा पर्जन्यः केतुमान्राजसश्च यः ॥ २१.१५७ ॥

निर्द्वन्द्वा निरभीमाना निः सीमा निष्परिग्रहाः ॥
लोकपालाः स्थिता ह्येते लोकालोके चतुर्दिशम् ॥ २१.१५८ ॥

उत्तरं यदपस्तस्य ह्यजवीथ्याश्च दक्षिणाम् ॥
पितृयानः स वै पन्था वैश्वानरपथाद्वहिः ॥ २१.१५९ ॥

तत्रासते प्रजावन्तो मुनयो येऽग्निहोत्रिणः ॥
लोकस्य सन्तानकराः पितृयानपथे स्थिताः ॥ २१.१६० ॥

भूतारम्भकृतं कर्म आशिषो ऋत्विगुद्यताः ॥
प्रारभन्ते लोककामास्तेषां पन्थाः स दक्षिणाः ॥ २१.१६१ ॥

चलितं ते पुनर्धर्मं स्थापयन्ति युगेयुगे ॥
सन्तप्तास्तपसा चैव मर्यादाभिः श्रुतेन च ॥ २१.१६२ ॥

जायमानास्तु पूर्वे वै पश्चिमानां गृहे ष्विह ॥
पश्चिमाश्चैव पूर्वेषां जायन्ते निधनेष्वपि ॥ २१.१६३ ॥

एवमावर्त्तमानास्ते तिष्ठन्त्याभूतसम्प्लवात् ॥
अष्टाशीतिसहस्राणि ऋषीमाङ्गृहमेधिनाम् ॥ २१.१६४ ॥

सवितुर्दक्षिणं मार्गश्रिता ह्याचन्द्रतारकम् ॥
क्रियावतां प्रसङ्ख्यैषा ये श्मशानानि भेजिरे ॥ २१.१६५ ॥

लोकसंव्यवहाराश्च भूतारम्भकृतेन च ॥
इच्छाद्वेषप्रवृत्त्या च मैथुनोपगमेन वै ॥ २१.१६६ ॥

तथा कामकृतेनेह सेवनाद्विषयस्य च ॥
एतैस्तैः कारणैः सिद्धा ये श्मशानानि भेजिरे ॥ २१.१६७ ॥

प्रचैषिणस्ते मुनयो द्वापरेष्विह जज्ञिरे ॥
नागवीथ्युत्तरो यश्च सप्तर्षिगणदक्षिणः ॥ २१.१६८ ॥

उत्तरः सवितुः पन्था देवयानश्च स स्मृतः ॥
यत्र ते वासिनः सिद्धा विमला ब्रह्मचारिणः ॥ २१.१६९ ॥

सन्ततिं ते जुगुप्सन्ते तस्मान्मृत्युस्तु तैर्जितः ॥
अष्टाशीतिसहस्राणि ऋषीणामूर्द्ध्वरेतसाम् ॥ २१.१७० ॥

उदक्पन्थानमत्यर्थं श्रिता ह्याश्रितसम्प्लवात् ॥
ते सम्प्रयोगाल्लोकस्य मैथुनस्य च वर्जनात् ॥ २१.१७१ ॥

इच्छाद्वेषनिवृत्त्या च भूतारम्भविवर्जनात् ॥
पुनश्चाकामसंयोगाच्छब्दादेर्दोषद र्शनात् ॥ २१.१७२ ॥

इत्येतैः कारणैः सिद्धास्तेऽमृतत्वं हि भेजिरे ॥
आभूतसम्प्लवस्थानाममृतत्वं विभाव्यते ॥ २१.१७३ ॥

त्रैलोक्यस्थिति कालाय पुनर्दाराभिगमिनाम् ॥
ब्रूणहत्याश्वमेधाभ्यां पुण्यपापकृतोऽपरे ॥ २१.१७४ ॥

आभूतसम्प्लवान्ते तु क्षीयं ते ह्यूर्ध्वरेतसः ॥
उर्द्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र स वै स्मृतः ॥ २१.१७५ ॥

एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् ॥
यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् ॥
धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाधकाः ॥ २१.१७६ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे
आदित्यव्यूहकीर्त्तनं नामैकविंशतितमोऽध्यायः ॥ २१ ॥