०२०

विश्वास-प्रस्तुतिः

सूत उवाच ।.
अधःप्रमाणमूर्द्ध्व च वक्ष्यमाणं निबोधत ॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ २०.१ ॥

मूलम्

अनन्ता धातवो ह्येतं व्यापकास्तु प्रकीर्त्तिताः ॥
जननी सर्वभूतानां सर्वसत्त्वधरा धरा ॥ २०.२ ॥

नानाजनपदाकीर्णा नानाधिष्ठानपत्तना ॥
नानानदनदीशैला नैकजातिसमाकुला ॥ २०.३ ॥

मूलम्

नानाजनपदाकीर्णा नानाधिष्ठानपत्तना ॥
नानानदनदीशैला नैकजातिसमाकुला ॥ २०.३ ॥

विश्वास-प्रस्तुतिः

अनन्ता गीयते देवी पृथिवी बहुविस्तरा ॥
नदीनदससुद्रस्थास्तन्था क्षुद्राश्रयस्थिताः ॥ २०.४ ॥

पर्वताकाशसंस्थाश्च अन्तर्भूमिगाताश्च याः ॥
आपोऽनन्ता हि विज्ञेयास्तथाग्निः सर्वलोकगः ॥ २०.५ ॥

अनन्तः पठ्यते चैव व्यापकः सर्वसम्भवः ॥
तथाकाशमनालेख्यं रम्यं नानाश्रयं स्मृतम् ॥ २०.६ ॥

अनन्तं पठ्यते चैव वायुश्चाकाशसम्भवः ॥
आपः पृथिव्यामुदके पृथिव्युपरि संस्थिताः ॥ २०.७ ॥

आकाशश्चापरमथ पुनर्भूमिः पुनर्जलम् ॥
एवं मतमनन्तस्य भौतिकस्य न विद्यते ॥ २०.८ ॥

परस्परैः सोपचिता भूमिश्चैव निबोधत ॥
भूमिर्जलमथा काशमिति या या परम्परा ॥ २०.९ ॥

स्थितिरेषा तु विख्याता सप्तमेऽस्मिन्नसातले ॥
दशयोजनसाहस्रमेकं भौमं रसातलम् ॥ २०.१० ॥

साधुभिः परिसङ्ख्यातमेकैकेनैव विस्तरम् ॥
प्रथमं तत्वलं नाम सुतलं तु ततः परम् ॥ २०.११ ॥

ततस्तलातलं विद्यादतलं बहुविस्तरम् ॥
ततोऽर्वाक्च तलं नाम परतश्च रसातलम् ॥ २०.१२ ॥

एतेषामप्यधोभागे पातालं सप्तमं स्मृतम् ॥
कृष्णभौमश्च प्रथमो भूमिभागः प्रकीर्त्तितः ॥ २०.१३ ॥

पाण्डुभूमिर्द्वितीयस्तु तृतीयो नीलमृत्तिकः ॥
पीतभौमश्चतुर्थस्तु पञ्चमः शर्करामयः ॥ २०.१४ ॥

षष्ठः शिलामयो ज्ञेयः सौवर्णः सप्तमः स्मृतः ॥
प्रथमेऽस्मिंस्तले ख्यातमसुरेन्द्रस्य मन्दिरम् ॥ २०.१५ ॥

नमुचेरिन्द्रशत्रोश्च महानादस्य चालयम् ॥
पुरं च शङ्कुकर्णस्य कबन्धस्य च मन्दिरम् ॥ २०.१६ ॥

निष्कुलादस्य च पुरं प्रहृष्टजनसङ्कुलम् ॥
राक्षसस्य च भीमस्य शूलदन्तस्य चालयम् ॥ २०.१७ ॥

लोहिताक्षकलिङ्गानां नगरं श्वापदस्य च ॥
धनञ्जयस्य च पुरं नागेन्द्रस्य महात्मनः ॥ २०.१८ ॥

कालियस्य च नागस्य नगरं कौशिकस्य च॥
एवं पुरसहस्राणि नागदानवरक्षसाम् ॥ २०.१९ ॥

तले ज्ञेयानि प्रथमे कृष्णभौमे न संशयः ॥
द्वितीये सुतले विप्रा दैत्येन्द्रस्य च रक्षसः ॥ २०.२० ॥

महाजम्भस्य तु तथा नगरं प्रथमस्य तु ॥
इयग्रीवस्य कृष्णस्य निकुम्भस्य च मन्दिरम् ॥ २०.२१ ॥

शङ्खख्यस्य च दैत्यस्य नगरं गोमुखस्य च ॥
राक्षसस्य च नीलस्य मेघस्य कथनस्य च ॥ २०.२२ ॥

आलयं कुकुपादस्य महोष्णीषस्य चालयम् ॥
कम्बलस्य च नागस्य पुरमश्वतरस्य च ॥ २०.२३ ॥

कद्रूपुत्रस्य च पुरं तक्षकस्य महात्मनः ॥
एवं पुरसहस्राणि नागदानवरक्षसाम् ॥ २०.२४ ॥

द्वितीयेऽस्मिन् तले विप्राः पाण्डुभौमे न संशयः ॥
तृतीये तु तले ख्यातं प्रह्लादस्य महात्मनः ॥ २०.२५ ॥

अनुद्रादस्य च पुरं पुरमग्निमुखस्य च ॥
तारकाश्यस्य च पुरं पुरं त्रिशिरसस्तथा ॥ २०.२६ ॥

शिशुमारस्य च पुरं त्रिपुरस्य तथा पुरम् ॥
पुरञ्जनस्य दैत्यस्य हृष्टपुष्टजनाकुलम् ॥ २०.२७ ॥

च्यवनस्य तु विज्ञेयं राक्षसस्य च मन्दिरम् ॥
राक्षसेन्द्रस्य च पुरं कुम्भिलस्य खरस्य च ॥ २०.२८ ॥

विराधस्य च क्रूरस्य पुरमुल्कासुखस्य च ॥
हेमकस्य च नागस्य तथा पाण्डुरकस्य च ॥ २०.२९ ॥

मणिनागस्य च पुरं कपिलस्य च मन्दिरम् ॥
नेदकस्योरगपतोर्विशालाक्षस्य मन्दिरम् ॥ २०.३० ॥

एवं पुरसहस्राणि नागदानवरक्षसाम् ॥
तृतीयेऽस्मिंस्तले विप्रा नीलभौमे न संशयः ॥ २०.३१ ॥

चतुर्थे दैत्यसिंहस्य कालनेमेर्महात्मनः ॥
गजकर्णस्य च पुरं नगरं कुञ्जरस्य च ॥ २०.३२ ॥

राक्षसेन्द्रस्य च पुरं सुमालेर्बहुविस्तरम् ॥
मुञ्जस्य लोकनाथस्य वृकवक्त्रस्य चालयम् ॥ २०.३३ ॥

बहुयोजनविस्तीर्णं बहुपक्षिसमाकुलम् ॥
नगलं वैनतेयस्य चतुर्थेऽस्मिन्नसातले ॥ २०.३४ ॥

पञ्चमे शर्कराभौमे बहुयोजनविस्तरम् ॥
विरोजनस्य नगरं दैत्यसिंहस्य धीमतः ॥ २०.३५ ॥

वैद्युतस्याग्निजि ह्वस्य हिरण्याक्षस्य चालयम् ॥
पुरं च विद्युज्जिह्वस्य राक्षसेन्द्रस्य धीमतः ॥ २०.३६ ॥

सहामेघस्य च पुरं राक्षसेन्द्रस्य मालिनः ॥
किर्मीरस्य च नागस्य स्वस्तिकस्य जयस्य च ॥ २०.३७ ॥

मूलम्

सहामेघस्य च पुरं राक्षसेन्द्रस्य मालिनः ॥
किर्मीरस्य च नागस्य स्वस्तिकस्य जयस्य च ॥ २०.३७ ॥

विश्वास-प्रस्तुतिः

एवं पुरसहस्राणि नागदानवरक्षसाम् ॥
पञ्चमेऽस्मिंस्तले ज्ञेयं शर्करानिचये सदा ॥ २०.३८ ॥

षष्ठे तले दैत्यपतेः केसरे नगरोत्तमम् ॥
सुपर्वणः पुलोम्नश्च नगरं महिषस्य च ॥ २०.३९ ॥

राक्षसेन्द्रस्य च पुरं सुरोषस्य महात्मनः ॥
तत्रास्ते सुरमापुत्रः शतशीर्षो मुदा युतः ॥ २०.४० ॥

महेन्द्रस्य सखा श्रीमान्वासुकिनाम नागराट् ॥
एवं पुरसहस्राणि नागदानवरक्षसाम् ॥ २०.४१ ॥

षष्ठे तलेऽस्मिन्विख्याते शिलाभौमे रसातले ॥
सप्तमे तु तले ज्ञेयं पाताले सर्वपश्चिमे ॥ २०.४२ ॥

पुरं बलेः प्रमुदितं नरना रीगणाकुलम् ॥
असुराशीविषैः पूर्णं सुखितैर्देवशत्रुभिः ॥ २०.४३ ॥

मुचुकुन्दस्य देत्यस्य तत्रैव नगरं महात् ॥
अनेकैर्दितिपुत्राणां समुदीर्णैर्महापुरैः ॥ २०.४४ ॥

तथैव नागनगरैर्द्युतिमद्भिः सहस्रशः ॥
दैत्यानां दानवानां च समुदीर्णैर्महापुरैः ॥ २०.४५ ॥

उदीर्णै राक्षसावासैरनेकैश्च समाकुलम् ॥
पातालान्ते च विप्रेन्द्रा विस्तीण बहुयोजने ॥ २०.४६ ॥

आस्ते रक्तारविन्दाक्षो महात्मा ह्यजरामरः ॥
धौतशङ्खोदरवपुर्नील वासा महाबलः ॥ २०.४७ ॥

विशालभोगो द्युतिमांश्चित्रमाल्यधरो बली ॥
रुक्मश्रृङ्गावदातेन दीप्तास्येन विराजता ॥ २०.४८ ॥

प्रभुर्मुख सहस्रेण शोभते चैककुण्डली ॥
स जिह्वामालया दीप्तो लोलज्ज्वालानलार्चिषा ॥ २०.४९ ॥

ज्वालामालापरिक्षिप्तः कैलास इव लक्ष्य ते ॥
स तु नेत्रसहस्रेण द्विगुणेन विराजता ॥ २०.५० ॥

बालसूर्याभिताम्रेण शरीरस्निग्धपाण्डुना ॥
तस्य कुन्देन्दुवर्णस्य नेत्रमाला विराजते ॥ २०.५१ ॥

तरुणादित्यमालेव श्वेतपर्वतमूर्द्धनि ॥
विकरालोच्छ्रिततनुर्लक्ष्यते शयनासने ॥ २०.५२ ॥

विस्तीर्ण इव मेदिन्यां सहस्रशिखरो गिरिः ॥
महानागैर्महाभोगैर्महाविज्ञैर्महात्मभिः ॥ २०.५३ ॥

उपास्यते महातेजा महानागपतिः स्वयम् ॥
स राजा सर्वनागानां शेषोऽनन्तो महाद्युतिः ॥ २०.५४ ॥

सा वैष्णवी व्यवहृतिर्मर्यादा या व्यवस्थिता ॥
सप्तैवमेते कथिता व्यवहार्या रसातलाः ॥ २०.५५ ॥

देवासुरम हानागराक्षसाध्युषिताः सदा ॥
अतः परमनालोकमगम्यं सिद्धसाधुभिः ॥ २०.५६ ॥

देवानामप्यविदितं व्यवहारविवक्षया ॥
पृथ्व्यम्बुव ङ्निवायूनां नभसश्च द्विजोत्तमाः ॥ २०.५७ ॥

महत्त्वमृषिभिश्चैवं वर्ण्यते नात्र संशयः ॥
अत ऊर्द्ध्वं प्रवक्ष्यामि सूर्याचन्द्रमसोर्गतिम् ॥ २०.५८ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे
द्वितीयेऽनुषङ्गपादेऽधोलोकवर्णनं नाम विंशतितमोऽध्यायः ॥ २० ॥