०१९

विश्वास-प्रस्तुतिः

सूत उवाच ॥
प्लक्षद्वीपं प्रवक्ष्यामि यथावदिह सङ्ग्रहात् ॥
श्रृणुतेमं यथातत्त्वं ब्रुवतो मे द्विजोत्तमाः ॥ १९.१ ॥

मूलम्

जम्बूद्वीपस्य विस्ताराद्द्विगुणास्तस्य विस्तरः ॥
विस्तराद्द्विगुणश्चास्य परिणाहः समन्ततः ॥ १९.२ ॥

तेनावृतः समुद्रो वै द्वीपेन लवणोदकः ॥
तत्र पुण्या जनपदाश्चिरान्न म्रियते जनः ॥ १९.३ ॥

कृत एव च दुर्भिक्षं जराव्याधिभयं कुतः ॥
तत्रापि पर्वताः पुण्याः सप्तैव मणिभूषणाः ॥ १९.४ ॥

रत्नाकरास्तथा नद्यस्तासां नामानि च बुवे ॥
ब्लक्षद्वीपादिषु त्वेषु सप्त सप्त तु पञ्चसु ॥ १९.५ ॥

ऋज्वायताः प्रतिदिशं निविष्टा वर्षपर्वताः ॥
प्लक्षद्वीपे तु वक्ष्यामि सप्तद्वीपान् महा बलान् ॥ १९.६ ॥

गोमेदकोऽत्र प्रथमः पर्वतो मेघसन्निभः ॥
ख्यायते यस्य नाम्ना तु वर्षं गोमेदसञ्ज्ञितम् ॥ १९.७ ॥

द्वितीयः पर्वतश्चन्द्रः सर्वौष धिसमन्वितः ॥
अश्विभ्याममृतस्यार्थमोषध्यो यत्र सम्भृताः ॥ १९.८ ॥

तृतीयो नारदो नाम दुर्गशैलो महोच्चयः ॥
तत्राचले समुत्पन्नौ पूर्वं नारदपर्वतौ ॥ १९.९ ॥

चतुर्थस्तत्र वै शैलो दुदुम्भिर्न्नाम नामतः ॥
छन्दमृत्युः पुरा तस्मिन्दुन्दुभिः सादितः सुरैः ॥ १९.१० ॥

रज्जुदोलोरुकामं यः शाल्मलिश्चासुरान्तकृत् ॥
पञ्चमः सोमको नाम देवैर्यत्रामृतं पुरा ॥ १९.११ ॥

सम्भृतं चाहृतं चैव मातुरर्थे गरुत्मता ॥
षष्टस्तु सुमना नाम सप्तमर्षभ उच्यते ॥ १९.१२ ॥

हिरण्यक्षो वराहेण तस्मिञ्छैले निषूदितः ॥
वैभ्राजः सप्तमस्तत्र भ्राजिष्णुः स्फाटिको महान् ॥ १९.१३ ॥

अर्चिर्भिर्भ्राजते यस्माद्वैभ्राजस्तेन संस्मृतः ॥
तेषां वर्षाणि वक्ष्यामि नामतस्तु यथाक्रमम् ॥ १९.१४ ॥

गोमेदं प्रथमं वर्षं नाम्नाशान्तभयं स्मृतम् ॥
चन्द्रस्य शिशिरं नाम नारदस्य सुखोदयम् ॥ १९.१५ ॥

आनन्दं दुन्दुभेर्वर्षं सोमकस्यशिवं स्मृतम् ॥
क्षेमकं वृषभस्यापि वैभ्राजस्य ध्रुवं तथा ॥ १९.१६ ॥

एतेषु देवगन्धर्वाः सिद्धाश्च सह चारणैः ॥
विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह ॥ १९.१७ ॥

तेषां नद्यस्तु सप्तैव प्रतिवर्षं समुद्रगाः ॥
नामतस्ताः प्रवक्ष्यामि सप्तगङ्गास्तपोधनाः ॥ १९.१८ ॥

अनुतप्तासुखी चैव विपाशा त्रिदिवा क्रमुः ॥
अमृता सुकृता चैव सप्तैताः सरितां वराः ॥ १९.१९ ॥

अभिगच्छन्ति ता नद्यस्ताभ्यश्चान्याः सहस्रशः ॥
बहूदका ह्योघवत्यो यतो वर्षति वासवः ॥ १९.२० ॥

ताः पिबन्ति सदा हृष्टा नदीजनपदास्तु ते ॥
शुभाः शान्तभयाश्चैव प्रमुदं शैशिराः शिवाः ॥ १९.२१ ॥

आनन्दाश्च सुखाश्चैव क्षेमकाश्च ध्रुवैः सह ॥
वर्णाश्रमाचारयुता प्रजास्तेष्ववधिष्ठिताः ॥ १९.२२ ॥

सर्वे त्वरोगाः सुबलाः प्रजाश्चामयव र्जिताः ॥
अवसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी न च ॥ १९.२३ ॥

न तत्रास्ति युगावस्था चतुर्युगकृता क्वचित् ॥
त्रेतायुगसमः कालः सर्वदा तत्र वर्त्तते ॥ १९.२४ ॥

प्लक्षद्वीपादिषु ज्ञेयः पञ्चस्वेतेषु सर्वशः ॥
देशस्यानुविधानेन कालस्यानुविधाः स्मृताः ॥ १९.२५ ॥

पञ्चवर्षसहस्राणि तेषु जीवन्ति मानवाः ॥
सुरूपाश्च सुवेषाश्च ह्यरोगा बलिनस्तथा ॥ १९.२६ ॥

सुखमायुर्बलं रुपमारोग्यं धर्म एव च ॥
प्लक्षद्वीपादिषु ज्ञेयः शाकद्वीपान्तिकेषु वै ॥ १९.२७ ॥

प्रक्षद्वीपः पृथुः श्रीमान्सर्वतो धनधान्यवान् ॥
दिव्यौषधिफलोपेतः सर्वौषधिवनस्पतिः ॥ १९.२८ ॥

आवृतः पशुभिः सर्वैर्ग्राम्यारण्यैः सहस्रशः ॥
जम्बूवृक्षेम सङ्ख्यातस्तस्य मध्ये द्विजोत्तमाः ॥ १९.२९ ॥

प्लक्षो नाम महावृक्षस्तस्य नाम्ना स उच्यते ॥
स तत्र पूज्यते स्थाने मध्ये जनपदस्य ह ॥ १९.३० ॥

स चापीक्षुरसोदेन प्रक्षद्वीपः समावृतः ॥
प्लक्षद्वीपसमेनैव वैपुल्यद्विस्तरेण तु ॥ १९.३१ ॥

इत्येवं सन्निवेशो वः प्लक्षद्वीपस्य कीर्तितः ॥
आनुपूर्व्यात्समासेन शाल्मलं तु निबोधत ॥ १९.३२ ॥

ततस्तृतीयं वक्ष्यामि शाल्मलं द्वीपसुत्तमम् ॥
शाल्मलेन समुद्रस्तु द्वीपेनेक्षुरसोदकः ॥ १९.३३ ॥

प्लक्षद्वीपस्य विस्ताराद्द्विगुणेन समावृतः ॥
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः ॥ १९.३४ ॥

रत्नाकरास्तथा नद्यस्तेषां वर्षेषु सप्तसु ॥
प्रथमः सूर्यसङ्काशः कुमुदो नाम पर्वतः ॥ १९.३५ ॥

सर्वधातुमयैः श्रृङ्गैः शिलाजालसमाकुलैः ॥
द्वितीयः पर्वतश्चात्र ह्युत्तमो नाम विश्रुतः ॥ १९.३६ ॥

हरितालमयैः श्रृङ्गैर्दिवमावृत्य तिष्ठति ॥
तृतियः पर्वतस्तत्र बलाहक इति श्रुतः ॥ १९.३७ ॥

जात्यञ्जनमयैः श्रृङ्गैर्दिवमावृत्य तिष्ठति ॥
चतुर्थः पर्वतो द्रोणो यत्र सा वै सहोषधिः ॥ १९.३८ ॥

विशल्यकरणी चैव मृतसञ्जीविनी तथा ॥
कङ्कस्तु पञ्चमस्तत्र पर्वतः सुमहोदयः ॥ १९.३९ ॥

नित्यपुष्पफलोपेतो वृक्षवीरुत्समावृतः ॥
षष्ठस्तु पर्वतस्तत्र महिषो मेघसन्निभः ॥ १९.४० ॥

यस्मिन्सोऽग्निर्निवसति महिषो नाम वारिजः ॥
सप्तमः पर्वतस्तत्र ककुद्मान्नाम भाष्यते ॥ १९.४१ ॥

तत्र रत्नान्यनेकानि स्वयं रक्षति वासवः ॥
प्रजापतिमुपादाय प्रजाभ्यो विधिवत्स्वयम् ॥ १९.४२ ॥

इत्येते पर्वताः सप्त शाल्मले मणिभूषणाः ॥
तेषां वर्षाणि वक्ष्यामि सर्पैव तु शुभानि वै ॥ १९.४३ ॥

कुमुदस्य स्मृतं श्वेतमुत्तमस्य च लोहितम् ॥
बलाहकस्य जीमूतं द्रोणस्य हरितं स्मृतम् ॥ १९.४४ ॥

कङ्कस्य वैद्युतं नाम महिषस्य च मानसम् ॥
ककुदः सुप्रदं नाम सप्तैतानि तु सप्तधा ॥ १९.४५ ॥

वर्षाणि पर्वताश्चैव नदीस्तेषु निबोधत ॥
ज्योतिः शान्तिस्तथा तुष्टा चन्द्रा शुक्रा विमोचनी ॥ १९.४६ ॥

निवृत्तिः सप्तमी तासां प्रतिवर्षं तु ताः स्मृताः ॥
तासां समीपगाश्चान्याः शतशोऽथ सहस्रशः ॥ १९.४७ ॥

न सङ्ख्यां परिसङ्ख्यातुं शक्नुयात्कोऽपि मानवः ॥
इत्येष सन्निवेशो वः शाल्मलस्य प्रकीर्त्तितः ॥ १९.४८ ॥

प्लक्षवृक्षेण सङ्ख्यातस्तस्य मध्ये महा द्रुमः ॥
शाल्मलिर्विपुलस्कन्धस्तस्य नाम्ना स उच्यते ॥ १९.४९ ॥

शाल्मलस्तु समुद्रेण सुरोदेन समावृतः ॥
विस्तराच्छाल्मलस्वैव समे न तु समन्ततः ॥ १९.५० ॥

उत्तरेषु तु धर्मज्ञाद्वीपेषु श्रृणुत प्रजाः ॥
यथाश्रुतं यथान्यायं ब्रुवतो मे निबोधत ॥ १९.५१ ॥

कुशद्वीपं प्रवक्ष्यामि चतुर्थं तु समासतः ॥
सुरोदकः परिवृतः कुशद्वीपेन सर्वतः ॥ १९.५२ ॥

शाल्मलस्य तु विस्ताराद्द्विगुणेन समन्ततः ॥
सप्तैव च गिरींस्तत्र वर्ण्यमानान्निबोधत ॥ १९.५३ ॥

कुशद्वीपे तु विज्ञेयः पर्वतो विद्रुमश्च यः ॥
द्वीपस्य प्रथमस्तस्य द्वितीयो हेमपर्वतः ॥ १९.५४ ॥

तृतीयो द्युतिमान्नाम जीमूतसदृशो गिरिः ॥
चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ॥ १९.५५ ॥

षष्ठो हरिगिरिर्नाम सप्तमो मन्दरः स्मृतः ॥
मन्दा इति ह्यपा नाम मन्दरो दारणादयम् ॥ १९.५६ ॥

तेषामन्तरविषकम्भो द्विगुणः प्रविभागतः ॥
उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ॥ १९.५७ ॥

तृतीयं वै रथाकारं चतुर्थं लवणं समृतम् ॥
पञ्चमं धृतिमद्वर्षं षष्ठं वर्षं प्रभाकरम् ॥ १९.५८ ॥

सप्तमं कपिलं नाम सर्वे ते वर्ष भावकाः ॥
एतेषु देवगन्धर्वाः प्रजास्तु जगदीश्वराः ॥ १९.५९ ॥

विहरन्ति रमन्ते च हृष्यमाणास्तु सर्वशः ॥
न तेषु दस्यवः सन्ति म्लेच्छ जातय एव च ॥ १९.६० ॥

गौरप्रायो जनः सर्वः क्रमाच्च म्रियते तथा ॥
तत्रापि नद्यः सप्तैव धूतपापाशिवा तथा ॥ १९.६१ ॥

पवित्रा सन्ततिश्चैव विद्युद्दम्भा मही तथा ॥
अन्यास्ताभ्योऽपरिज्ञाताः शतशोऽथ सहस्रशः ॥ १९.६२ ॥

अभिगच्छन्ति ताः सर्वा यतो वर्षति वासवः ॥
घृतोदेन कुशद्वीपो बाह्यतः परिवारितः ॥ १९.६३ ॥

विज्ञेयः स तु विस्तारात्कुशद्वीपसमेन तु ॥
इत्येष सन्निवेशो वः कुशद्वीपस्य कीर्त्तितः ॥ १९.६४ ॥

क्रौञ्चद्वीपस्य विस्तारं वक्ष्याम्यहमतः परम् ॥
कुशद्वीपस्य विस्ताराद्द्विगुणः स तु वै स्मृतः ॥ १९.६५ ॥

घृतोदकसमुद्रो वै क्रौञ्च द्वीपेन संयुतः ॥
तस्मिन्द्वीपे नगश्रेष्ठः क्रौञ्चस्तु प्रथमो गिरिः ॥ १९.६६ ॥

क्रौञ्चात्परो वामनको वामनादन्धकारकः ॥
अन्धकारात्परश्चापि दिवावृन्नाम पर्वतः ॥ १९.६७ ॥

दिवावृतः परश्चापि द्विविदो गिरिसत्तमः ॥
द्विविदात्परतश्चापि पुण्डरीको महागिरिः ॥ १९.६८ ॥

पुण्डरीकात्परश्चापि प्रोच्यते दुन्दुभिस्वनः ॥
एते रत्नमयाः सप्त क्रैञ्चद्वीपस्य पर्वताः ॥ १९.६९ ॥

बहुपुष्पफलोपेतनानावृक्षलतावृताः ॥
परस्परेण द्विगुणा विस्तृता हर्षवर्द्धनाः ॥ १९.७० ॥

वर्षाणि तत्र वक्ष्यामि नामतस्तान्निबोधत ॥
क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः ॥ १९.७१ ॥

मनोनुगात्परश्चोष्णस्तृतीयं वर्षमुच्यते ॥
उष्णात्परः पीवरकः पीवरादन्धकारकः ॥ १९.७२ ॥

अन्धकारात्परश्चापि मुनिदेशः स्मृतो बुधैः ॥
मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः ॥ १९.७३ ॥

सिद्धचारणसङ्कीर्णो गौरप्रयो जनः स्मतः ॥
तत्रापि नद्यः सप्तैव प्रतिवर्ष स्मृताः शुभाः ॥ १९.७४ ॥

गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ॥
ख्यातिश्च पुण्डरीका च गङ्गाः सप्तविधाः स्मृताः ॥ १९.७५ ॥

तासां सहस्रशश्चान्या नद्यो यास्तु समीपगाः ॥
अभिगच्छन्ति ताः सर्वा विपुलाः सुबहूदकाः ॥ १९.७६ ॥

क्रौञ्चद्वीपः समुद्रेण दधिमण्डौदकेन तु ॥
आवृतः सर्वतः श्रीमान्क्रौञ्चद्वीपसमेन तु ॥ १९.७७ ॥

प्लक्षद्वीपादयो ह्येते समासेन प्रकीर्त्तिताः ॥
तेषां निसर्गोद्वीपानामानुपूर्व्येण सर्वशः ॥ १९.७८ ॥

न शक्यो विस्तराद्वक्तुं दिव्यवर्षशतैरपि ॥
निसर्गो यः प्रजानां तु संहारो यश्च तासु वै ॥ १९.७९ ॥

शाकद्वीपं प्रवक्ष्यामि यथावदिह निश्चयात् ॥
श्रृणुध्वं तु यथातथ्यं ब्रुवतो मे यथार्थवत् ॥ १९.८० ॥

क्रौञ्चद्वीपस्य विस्ताराद्द्विगुणास्तस्य विस्तरः ॥
परिवार्य समुद्रं स दधिमण्डोदकं स्थितः ॥ १९.८१ ॥

तत्र पुण्या जनपदाश्चिरात्तु म्रियते जनः ॥
कुत एव च दुर्भिक्षं जराव्याधिभयं कुतः ॥ १९.८२ ॥

तत्रापि पर्वताः शभ्राः सप्तैव मणिभूषणाः ॥
रत्नाकरास्तथा नद्यस्तेषां नामानि मे श्रृणु ॥ १९.८३ ॥

देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते ॥
प्रागायतः स सौवर्णो ह्युदयो नाम पर्वतः ॥ १९.८४ ॥

वृष्ट्यर्थं जलदास्तत्र प्रभंवति च यान्ति च ॥
तस्यापरेण सुमहाञ्जलधारो महागिरिः ॥ १९.८५ ॥

यतो नित्यमुपादत्ते वासवः परमं जलम् ॥
ततो वर्षं प्रभवति वर्षाकाले प्रजास्विह ॥ १९.८६ ॥

तस्योत्तरे रैवतको यत्र नित्यं प्रतिष्ठितम् ॥
रेवती दिवि नक्षत्रं पितामहकृतो विधिः ॥ १९.८७ ॥

तस्यापरेण सुमहान् श्यामो नाम महागिरिः ॥
तस्माच्छ्यामत्वमापन्नाः प्रजाः पूर्वमिमाः किल ॥ १९.८८ ॥

तस्यापरेण सुमहान्नाजतोऽस्तगिरिः स्मृतः ॥
तस्यापरे चाम्बिकेयो दुर्गशैलो महागिरिः ॥ १९.८९ ॥

अम्बिकेयात्परो रम्यः सर्वौषधिसमन्वितः ॥
केसरी केसरयुतो यतो वायुः प्रजापतिः ॥ १९.९० ॥

उदयात्प्रथमं वर्षं महात्तज्जलदं स्मृतम् ॥
द्वितीयं जलधारस्य सुकुमारमिति स्मृतम् ॥ १९.९१ ॥

रैवतस्य तु कौमारं श्यामस्य च मणीवकम् ॥
अस्तस्यापि शुभं वर्षं विज्ञेयं कुसुमोत्तरम् ॥ १९.९२ ॥

अम्बिकेयस्य मोदाकं केसरस्य महाद्रुमम् ॥
द्वीपस्य परिमाणं तु ह्रस्वदीर्घत्वमेव च ॥ १९.९३ ॥

क्रौञ्चद्वीपेन विख्यातं तस्य केतुर्महाद्रुमः ॥
शाको नाम महोत्सेधस्तस्य पूज्या महानुगाः ॥ १९.९४ ॥

तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः ॥
नद्यश्चापि महापुण्या गङ्गाः सप्तविधास्तथा ॥ १९.९५ ॥

सुकुमारी कुमारी च नलिनी वेणुका च या ॥
इक्षुश्च वेणुका चैव गभस्तिः सप्तमी तथा ॥ १९.९६ ॥

नद्यश्चान्याः पुण्यजलाः शीततोयवहाः शुभाः ॥
सहस्रशः समाख्याता यतो वर्षति वासवः ॥ १९.९७ ॥

न तासां नामधेयानि परिमाणं तथैव च ॥
शक्यं वै परिसङ्ख्यातुं पुण्यास्ताः सरिदुत्तमाः ॥ १९.९८ ॥

ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते ॥
शांशपायनविस्तीर्णो द्वीपोऽसौ चक्रसंस्थितः ॥ १९.९९ ॥

नदीजलैः प्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः ॥
सर्वधातुविचित्रैश्च मणिविद्रुमभूषितैः ॥ १९.१०० ॥

नगरैश्चैव विविधैः स्फीतैर्जनपदैरपि ॥
वृक्षैः पुष्पफलोपेतैः समन्ताद्धनधान्यवान् ॥ १९.१०१ ॥

क्षीरोदेन समुद्रेण सर्वतः परिवारितः ॥
शाकद्वीपस्य विस्तारात्समेन तु समन्न्ततः ॥ १९.१०२ ॥

तस्मिञ्जनपदाः पुण्याः पर्वताः सरितः शुभाः ॥
वर्णाश्रमसमाकीर्णा देशास्ते सप्त वै स्मृताः ॥ १९.१०३ ॥

न सङ्करश्च तेष्वस्ति वर्णाश्रमकृतः क्वचित् ॥
धर्मस्य चाव्यभीचारादेकान्तसुखिताः प्रजाः ॥ १९.१०४ ॥

न तेषु लोभो माया वा हीर्षासूयाकृतः कुतः ॥
विपर्ययो न तेष्वस्ति कालात्स्वाभाविकं परम् ॥ १९.१०५ ॥

करावाप्तिर्न तेष्वस्ति न दण्डो न च दण्ड्यकाः ॥
स्वधर्मेणैव धर्म ज्ञास्ते रक्षन्ति परस्परम् ॥ १९.१०६ ॥

एतावदेव शक्यं वै तस्मिन्द्वीपे प्रभाषितुम् ॥
एतावदेव श्रोतव्यं शाकद्वीपनिवासिनाम् ॥ १९.१०७ ॥

पुष्करं सप्तमं द्वीपं प्रवक्ष्यामि निबोधत ॥
पुष्करेण तु द्वीपेन वृतः क्षीरोदको बहिः ॥ १९.१०८ ॥

शाकद्वीपस्य विस्ताराद्द्विगुणेन सम्मततः ॥
पुष्करे पर्वतः श्रीमानेक एव महाशिलः ॥ १९.१०९ ॥

चित्रैर्मणिमयैः श्रृङ्गैः शिलाजालैः समुच्छ्रितः ॥
द्वीपस्य तस्य पूर्वर्द्धे चित्रसानुः स्थितो महान् ॥ १९.११० ॥

स मण्डलसहस्राणि विस्तीर्णः पञ्चविंशतिः ॥
उर्द्धं चैव चतुस्त्रिंशत्सहस्राणि महीतलात् ॥ १९.१११ ॥

द्वीपर्धस्य परिक्षिप्तः पर्वतो मानसोत्तरः ॥
स्थितो वेलासमीपे तु नवचन्द्र इवोदितः ॥ १९.११२ ॥

योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः ॥
तावदेव च विस्तीर्णः सर्वतः परिमण्डलः ॥ १९.११३ ॥

स एव द्वीपपश्चार्द्धे मानसः पृथिवीधरः ॥
एक एव महासारः सन्निवेशो द्विधा कृतः ॥ १९.११४ ॥

स्वादूदकेनोदधिना सर्वतः परिवारितः ॥
पुष्करद्वीपविस्ताराद्विस्तीर्णोऽसौ समन्ततः ॥ १९.११५ ॥

तस्मिन्द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ ॥
अभितो मानसस्याथ पर्वतस्य तु मण्डले ॥ १९.११६ ॥

महावीतं तु यद्वर्ष बाह्यतो मानसस्य तत् ॥
त्स्यैवाभ्यन्तरेणापि धातकीखण्डमुच्यते ॥ १९.११७ ॥

दशवर्षसहस्राणि तत्र जीवति मानवाः ॥
अरोगाः सुखबाहुल्या मानसीं सिद्धिमास्थिताः ॥ १९.११८ ॥

मससायुश्च रूपं च तस्मिन्वर्षद्वये स्मृतम् ॥
अधमोत्तमा न तेष्वस्ति तुल्यास्ते रूपशीलतः ॥ १९.११९ ॥

न तत्र दस्युर्दमको नेर्ष्यासूया भयं तथा ॥
निग्रहो न च दण्डोऽस्ति न लोभो न परिग्रहः ॥ १९.१२० ॥

सत्यानृतं न तत्रास्ति धर्माधर्मौ तथैव च ॥
वर्णाश्रमौ वा वार्ता वा पाशुपाल्यं वणिक्पथः ॥ १९.१२१ ॥

त्रयी विद्या दण्डनीतिः शुश्रूषा शिल्पमेव च ॥
वर्षद्वये सर्वमेतत्पुष्करस्य न विद्यते ॥ १९.१२२ ॥

न तत्र वर्षं नद्यो वा शीतोष्णं वापि विद्यते ॥
उद्भिदान्युदकान्यत्र गिरिप्रस्रवणानि च ॥ १९.१२३ ॥

उत्तराणां कुरूणां च तुल्यकालो जनस्तथा ॥
सर्वर्त्तुसुसुखस्तत्र जराक्रमविवर्जितः ॥ १९.१२४ ॥

इत्येष धातकीखण्डे महा वीते तथैव च ॥
आनुपूर्व्याद्विधिः कृत्स्नः पुष्करस्य प्रकीर्त्तितः ॥ १९.१२५ ॥

स्वादूदकेनोदधिना पुष्करः परिवारितः ॥
विस्तारान्मण्डलाच्चैव पुष्करस्य समेन तु ॥ १९.१२६ ॥

एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ॥
द्वीपस्यानन्तरो यस्तु सामुद्रस्तत्समस्तु सः ॥ १९.१२७ ॥

एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परात् ॥
अपां चैव समुद्रेकात्सामुद्र इति सञ्ज्ञितः ॥ १९.१२८ ॥

विशन्तिर्निवसन्त्यस्मिन्प्रजा यस्माच्चतुर्विधाः ॥
तस्माद्वर्षमिति प्रोक्तं प्रजानां सुखदं यतः ॥ १९.१२९ ॥

ऋष इत्येष रमणे वृषशक्तिप्रबन्धने ॥
रतिप्रबधनात्मिद्धं वर्षं तत्तेषु तेन वै ॥ १९.१३० ॥

शुक्लपक्षे चन्द्रवृद्ध्या समुद्रः पूर्यते सदा ॥
प्रक्षीयमाणे बहुले क्षीयतेऽस्तमिते खगे ॥ १९.१३१ ॥

आपूर्यमाणो ह्युदधिः स्वत एवाभिपूर्यते ॥
तथोपक्षीयमाणेऽपि स्वात्मन्येवावकृष्यते ॥ १९.१३२ ॥

उखास्थमग्निसंयोगादुद्रिक्तं दृश्यते यथा ॥
महोदधिगतं तोयं स्वत उद्रिच्यते तथा ॥ १९.१३३ ॥

अन्यूनानतिरिक्तांश्च वंर्द्वत्यापो ह्रसन्ति च ॥
उदयास्तमये त्विन्दौ पक्षयोः शुक्लकृष्णयोः ॥ १९.१३४ ॥

क्षयवृद्धत्वमुदधेः सोमवृद्धिक्षयात्पुनः ॥
दशोत्तराणि पञ्चैव ह्यङ्गुलानि शतानि च ॥ १९.१३५ ॥

अपां वृद्धिः क्षयो दृष्टः सामुद्रीणां तु पर्वसु ॥
द्विराप्कत्वात्स्मृता द्वीपाः सर्वतश्चोदकावृताः ॥ १९.१३६ ॥

उदकस्यायनं यस्मात्तस्मादुदधिरुच्यते ॥
अपर्वाणस्तु गिरयः पर्वभिः पर्वताः स्मृताः ॥ १९.१३७ ॥

प्लक्षद्वीपे तु गोमेदः पर्वतस्तेन चौच्यते ॥
शाल्मलिः शाल्मले द्वीपे पूज्यते सुमहाव्रतैः ॥ १९.१३८ ॥

कुशद्वीपे कुशस्तम्बस्तस्यनाम्ना स उच्यते ॥
क्रौञ्चद्वीपे गिरिः कौञ्चो मध्ये जनपदस्य ह ॥ १९.१३९ ॥

शाकद्वीपे द्रुमः शाकस्तस्य नाम्ना स उच्यते ॥
न्यग्रोधः पुष्करद्वीपे तत्रत्यैः स नमस्कृतः ॥ १९.१४० ॥

महादेवः पूज्यते तु ब्रह्मा त्रिभुवनेश्वरः ॥
तस्मिन्नि वसति ब्रह्मा साध्यैः सार्द्धं प्रजापतिः ॥ १९.१४१ ॥

उपासन्ते तत्र देवास्त्रयस्त्रिंशन्महर्षिभिः ॥
स तत्र पूज्यते चैव देवेर्देवोतमोतमः ॥ १९.१४२ ॥

जम्बूद्वीपात्प्रवर्त्तन्ते रत्नानि विविधानि च ॥
द्वीपेषु तेषु सर्वेषु प्रजानां क्रमतस्तु वै ॥ १९.१४३ ॥

सर्वशो ब्रह्मवर्येण सत्येन च दमेन च ॥
आरोग्ययुःप्रमाणाभ्यां प्रमाणं द्विगुणं ततः ॥ १९.१४४ ॥

एतस्मिन्पुष्करद्वीपे यदुक्तं वर्षकद्वयम् ॥
गोपायति प्रजास्तत्र स्वयम्भूर्जड पण्डिताः ॥ १९.१४५ ॥

ईश्वरो दण्डसुद्यम्य ब्रह्मा त्रिभुवनेश्वरः ॥
स विष्णोः सचिवो देवः स पिता स पितामहः ॥ १९.१४६ ॥

भोजनं चाप्रयत्नेन तत्र स्वयमुपस्थितम् ॥
षड्रसं सुमहावीर्यं भुञ्जते तु प्रजाः सदा ॥ १९.१४७ ॥

परेण पुष्करस्यार्द्धे आवृत्यावस्थितो महान् ॥
स्वादूदकः समुद्रस्तु समन्तात्परिवेष्ट्य तम् ॥ १९.१४८ ॥

परेण तस्य महती दृश्यते लोकसंस्थितिः ॥
काञ्चनी द्विगुणा भूमिः सर्वाह्येकशिलोपमा ॥ १९.१४९ ॥

तस्यापरेण शैलश्च पर्यासात्पस्मिण्डलः ॥
प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते ॥ १९.१५० ॥

आलोकस्तस्य चार्वक्तु निरालोकस्ततः परम् ॥
योजनानां सहस्राणि दश तस्योच्छ्रयः समृतः ॥ १९.१५१ ॥

तावांश्च विस्तरस्तस्य पृथिव्यां कामगश्च सः ॥
आलोको लोकवृत्तिस्थो निरालोको ह्यलौकिकः ॥ १९.१५२ ॥

लोकार्द्धे सम्मिता लोका निरालोकास्तु बाह्यतः ॥
लोकविस्तारमात्रं तु ह्यलोकः सर्वतो बहिः ॥ १९.१५३ ॥

परिच्छिन्नः समन्ताच्च उदकेनावृतस्तु सः ॥
आलोकात्परतश्चापि ह्यण्डमा वृत्य तिष्ठति ॥ १९.१५४ ॥

अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी ॥
भूर्लोकोऽथ भुवर्ल्लोकः स्वर्लोकोऽथ महस्तथा ॥ १९.१५५ ॥

जनस्तपस्तथा सत्यमेतावांल्लोकसङ्ग्रहः ॥
एतावानेव विज्ञेयो लोकान्तश्चैव यः परः ॥ १९.१५६ ॥

कुम्भस्थायी भवेद्यादृवप्रतीच्यां दिशि चन्द्रमाः ॥
आदितः शुक्लपक्षस्य वपुश्चाण्डस्य तद्विधम् ॥ १९.१५७ ॥

अण्डानामीदृशानां तु कोट्यो ज्ञेयाः सहस्रशः ॥
तिर्यगूर्ध्वमधो वापि कारणस्याव्ययात्मनः ॥ १९.१५८ ॥

धरणैः प्राकृतैस्तत्तदावृतं प्रति सप्तभिः ॥
दशाधिक्येन चान्योन्यं धारयन्ति परस्परम् ॥ १९.१५९ ॥

परस्परावृताः सर्वे उत्पन्नाश्च परस्परम् ॥
अण्डस्यास्य समन्तात्तु सन्निविष्टो घनोदधिः ॥ १९.१६० ॥

समन्तात्तु वनोदेन धार्यमाणः स तिष्टति ॥
बाह्यतो घनतो यस्य तिर्यगूर्द्ध्वं तु मण्डलम् ॥ १९.१६१ ॥

धार्यमाणं समन्तात्तु तिष्ठते यत्तु तेजसा ॥
अयोगुडनिभो वाह्नः समन्ता न्मण्डलाकृतिः ॥ १९.१६२ ॥

समन्ताद्धनवातेन धार्यमाणः स तिष्ठति ॥
घनवातं तथाकाशो दधानः खलु तिष्ठति ॥ १९.१६३ ॥

भूतादिश्च तथा काशं भूतादिश्चाप्यसौ महान् ॥
महाश्च सोऽप्यनन्तेन ह्यव्यक्तेन तु धार्यते ॥ १९.१६४ ॥

अनन्तमपरिव्यक्तं दशधा सूक्ष्ममेव च ॥
अनन्तम कृतात्मानमनादिनिधनं च यत् ॥ १९.१६५ ॥

अनित्यं परतोऽघोरमनालम्बमनामयम् ॥
नैकयोजनसाहस्रं विप्रकृष्टमनावृतम् ॥ १९.१६६ ॥

तम एव निरालोकममर्य्यादमदैशिकम् ॥
देवानामप्यविदितं व्यवहारविवर्जितम् ॥ १९.१६७ ॥

तमसोन्ते च विश्यातमाकाशान्ते ह्यभास्वरम् ॥
मर्यादायामनन्तस्य देवस्यायतनं महत् ॥ १९.१६८ ॥

त्रिदशानामगम्यं ततस्थानं दिव्यमिति श्रुतिः ॥
महतो देवदेवस्य मर्यादा या व्यवस्थिताः ॥ १९.१६९ ॥

चन्द्रादित्यावधस्तात्तु ये लोकाः प्रथिता बुधैः ॥
ते लोका इत्यभिहिता जगतस्च न संशयः ॥ १९.१७० ॥

रसातलतलाः सप्तसप्तैवोर्द्ध्वतलाश्च ये ॥
सप्तस्कन्धस्तथा वायोः सब्रह्मसदना द्विजाः ॥ १९.१७१ ॥

आपातालाद्दिवं यावदत्र पञ्चविधा गतिः ॥
प्रमाणमेतज्जगत एष संसारसागरः ॥ १९.१७२ ॥

मूलम्

आपातालाद्दिवं यावदत्र पञ्चविधा गतिः ॥
प्रमाणमेतज्जगत एष संसारसागरः ॥ १९.१७२ ॥

विश्वास-प्रस्तुतिः

अनाद्यन्तां व्रजन्त्येव नैकजातिसमुद्भवाः ॥
विचित्रा जगतः सा वै प्रकृतिर्ब्रह्मणः स्थिता ॥ १९.१७३ ॥

यच्चैह दैविकं वाथ निसर्गं बहुविस्तरः ॥
अतीन्द्रियेर्महाभागैः सिद्धैरपि न लक्षितः ॥ १९.१७४ ॥

पृथिव्यम्ब्वग्निवायूनां नभसस्तमसस्तथा ॥
मानसस्य तु देहस्य अनन्तस्य द्विजोत्तमाः ॥ १९.१७५ ॥

क्षयो वा परिणामो वा अन्तो वापि न विद्यते ॥
अनन्त एष सर्वत्र एवं ज्ञानेषु पठ्यते ॥ १९.१७६ ॥

तस्य चोक्तं मया पूर्व तस्मिन्नामानुकीर्तने ॥
यः पद्मनाभनाम्ना तु तत्कार्त्स्न्येन च कीर्त्तितः ॥ १९.१७७ ॥

स एव सर्वत्र गतः सर्वस्थानेषु पूज्यते ॥
भूमौ रसातले चैव आकाशे पवनेऽनले ॥ १९.१७८ ॥

अर्णवेषु च सर्वेषु दिवि चैव न संशयः ॥
तथा तमसि विज्ञेय एष एव महाद्युतिः ॥ १९.१७९ ॥

अनेकधा विभक्ताङ्गो महायोगी जनार्दनः ॥
सर्वलोकेषु लोकेश इज्यते बहुधा प्रभुः ॥ १९.१८० ॥

एवं परस्परोत्पन्न धार्यन्ते च परस्परम् ॥
आधाराधेयभावेन विकारास्तेऽविकारिणः ॥ १९.१८१ ॥

पृथ्व्यादयो विकारास्ते परिच्छिन्नाः परस्परम् ॥
परस्परधिकाश्चैव प्रविष्टास्ते परस्परम् ॥ १९.१८२ ॥

यस्मात्सृषटास्तु तेऽन्योन्यं तस्मात्स्थैर्यमुपागताः ॥
प्रागासन्नविशेषास्तु विशेषोऽन्यविशेषणात् ॥ १९.१८३ ॥

पृथिव्याद्यास्तु वाद्यन्तापरिच्छिन्नास्त्रयस्तु ते ॥
गुणोपचयसारेण परिच्छेदो विशेषतः ॥ १९.१८४ ॥

शेषाणां तु परिच्छेदः सौक्ष्म्यान्नेह विभाव्यते ॥
भूतेभ्यः परतस्तेभ्यो व्यालोका सा धरा स्मृता ॥ १९.१८५ ॥

भूतान्यालोक आकाशे परिच्छिन्नानि सर्वशः ॥
पात्रे महति पात्राणि यथैवान्तर्गतानि तु ॥ १९.१८६ ॥

भवन्त्यन्योन्यहीनानि परस्परसमाश्रयात् ॥
तथा ह्यालोक आकाशे भेदास्त्वन्तर्गता मताः ॥ १९.१८७ ॥

कृत्त्नान्येतानि चत्वारि ह्यन्योन्यस्याधिकानि तु ॥
यावदेतानि भूतानि तावदुत्पत्तिरुच्यते ॥ १९.१८८ ॥

तन्तुनामिव सन्तारो भूतेष्वन्तर्गतो मतः ॥
प्रत्या ख्याय तु भूतानि कार्योत्पर्त्तिन विद्यते ॥ १९.१८९ ॥

तस्मात्परिमिता भेदाः स्मृताः कार्य्यात्मकास्तु ते ॥
कारणात्मकास्तथैक स्युर्भेदा ये महदादयः ॥ १९.१९० ॥

इत्येष सन्निवेशो वै मया प्रोक्तो विभागशः ॥
सप्तद्वीपसमुद्राड्यो याथातथ्यन वै द्विजाः ॥ १९.१९१ ॥

विस्तरान्मण्डलाश्चैव प्रसङ्ख्यानेन चैव हि ॥
वैश्वरूप्रधानस्य परिणामैकदेशिकः ॥ १९.१९२ ॥

अधिष्ठितं भगवता यस्य सर्वमिदं जगत् ॥
एवम्भूतगणाः सप्त सन्निविष्टाः परस्परम् ॥ १९.१९३ ॥

एतावान्सन्निवेशस्तु मया शक्यः प्रभाषितुम् ॥
एतावदेव श्रोतव्यं सन्निवेशे तु पार्थेवे ॥ १९.१९४ ॥

सप्त प्रकृतयस्त्वेता धारयन्ति परस्परम् ॥
तास्त्वहं परिमाणेन नं सङ्ख्यातुमिहोत्सहे ॥ १९.१९५ ॥

असङ्ख्याताः प्रकृतयस्तिर्य्यगूर्द्ध्वमधस्तथा ॥
तारकासन्निवेशश्च यावद्दिव्यानुमण्डलम् ॥ १९.१९६ ॥

पर्य्या यसन्निवेशस्तु भूमेस्तदनु मण्डलः ॥
अत ऊर्ध्वं प्रवक्ष्यामि कृथिव्या वै विचक्षणाः ॥ १९.१९७ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे
प्लक्षादिद्वीपवर्णनं नामैकोनविंशतितमोऽध्यायः ॥ १९ ॥