०१८

विश्वास-प्रस्तुतिः

सूत उवाच ॥
मध्ये हिमवतः पृष्ठे कैलासो नाम पर्वतः ॥
तस्मिन्निवसति श्रीमान्कुबेरः सह राक्षसैः ॥ १८.१ ॥

मूलम्

अप्सरोनुचरो राजा मोदते ह्यलकाधिपः ॥
कैलासपादात्सम्भूतं पुण्यं शीतजलं शुभम् ॥ १८.२ ॥

मदं नाम्ना कुमुद्वत्त्त्सरस्तूदधिसन्निभम् ॥
तस्माद्दिव्यात्प्रभवति नदी मन्दाकिनी शुभा ॥ १८.३ ॥

दिव्यं च नन्दनवनं तस्यास्तीरे महद्वनम् ॥
प्रागुत्तरेम कैलासाद्दिव्यं सर्वौषधि गिरिम् ॥ १८.४ ॥

रत्नधातुमयं चित्रं सबलं पर्वतं प्रति ॥
चन्द्रप्रभो नाम गिरिः सुशुभ्रो रत्नसन्निभः ॥ १८.५ ॥

तस्य पादे महाद्दिव्यं स्वच्छोदं नाम तत्सरः ॥
तस्माद्दिव्यात्प्रभवति स्वच्छोदा नाम निम्नगा ॥ १८.६ ॥

तस्यास्तीरे महद्दिव्यं वनं चैत्ररथं शुभम् ॥
तस्मिन् गिरौ निवसति मणिभद्रः सहानुगः ॥ १८.७ ॥

यक्षसेनापतिः क्रूरो गुह्यकैः परिवारितः ॥
पुण्या मन्दाकिनी चैव नदी स्वच्छोदका च या ॥ १८.८ ॥

महीमण्डलमध्येन प्रविष्टे ते महोदधिम् ॥
कैलासाद्दक्षिणे प्राच्यां शिवसत्त्वौषधिं गिरिम् ॥ १८.९ ॥

मनः शिलामयं दिव्यं चित्राङ्गं पर्वतं प्रति ॥
लोहितो हेमश्रृङ्गश्च गिरिः सूर्यप्रभो महान् ॥ १८.१० ॥

तस्य पादे महद्दिव्यं लोहितं नाम तत्सरः ॥
तस्मात्पुण्यः प्रभवति लौहित्यः स नदो महान् ॥ १८.११ ॥

देवारण्यं विशोकं च तस्य तीरे महद्वनम् ॥
तस्मिन्गिरौ निवसति यक्षो मणिधरो वशी ॥ १८.१२ ॥

सौम्यैः मुधार्मिकैश्चैव गुह्यके परिवारितः ॥
कैलासाद्दक्षिणे पार्श्वे क्रूरसत्त्वौषधिर्गिरिः ॥ १८.१३ ॥

वृत्रकायात्किलोत्पन्नमञ्जनं त्रिककुं प्रति ॥
सर्वधातुमयस्तत्र सुमहान्वैद्युतो गिरिः ॥ १८.१४ ॥

तस्य पादे कलः पुण्यं मानसं सिद्धसेवितम् ॥
तस्मात्प्रभवेते पुण्या सरयूर्लोकविश्रुता ॥ १८.१५ ॥

तस्यास्तीरे वन दिव्यं वैभ्राजं नाम विश्रुतम् ॥
कुबेरा नुचरस्तत्र प्रहेतितनयो वशी ॥ १८.१६ ॥

ब्रह्मपितो निवसति राक्षसोऽनन्तविक्रमः ॥
अतरिक्षचरैर्घोरैर्यातुधानशतैर्वृतः ॥ १८.१७ ॥

अपरेण तु कैलासात्पुण्यसत्त्वौषधिर्गिरिः ॥
अरुणः पर्वतश्रेष्ठो रुक्मधातुमयः शुभः ॥ १८.१८ ॥

भवस्य दयितः श्रीमान्पर्वतो मेघसन्निभः ॥
शातकौम्भमयैः शुभ्रैः शिलाजालैः समावृतः ॥ १८.१९ ॥

शातसङ्ख्यैस्तापनीयैः श्रृङ्गैर्दिवमिवोल्लिखन् ॥
मुञ्जवास्तु महादिव्यो दुर्गः शैलो हिमाचितः ॥ १८.२० ॥

तस्मिन्गिरौ निवसति गिरीशो धूम्रलोचनः ॥
तस्या पादात्प्रभवति शैलोदं नाम तत्सरः ॥ १८.२१ ॥

तस्मात्प्रभवते पुण्या शिलोदा नाम निम्रगा ॥
सा चक्षुः सीतयोर्मध्ये प्रविष्टा लवणोदधिम् ॥ १८.२२ ॥

तस्यास्तीरे वनं दिव्यं विश्रुतं सुरभीति वै ॥
सव्योत्तरेण कैलासाच्छिवः सत्त्वौषधिर्गिरिः ॥ १८.२३ ॥

गौरं नाम गिरिश्रेष्ठं हरितालमयं प्रति ॥
हिरण्यश्रृङ्गः सुमहान् दिव्यो मणिमयो गिरिः ॥ १८.२४ ॥

तस्या पादे महाद्दिव्यं शुभं काञ्चनवालुकम् ॥
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ॥ १८.२५ ॥

गङ्गनिमित्तं राजर्षिरुवास बहुलाः समाः ॥
दिवं यास्यन्ति ते बुर्वे गङ्गतोयपरिप्लुताः ॥ १८.२६ ॥

मदीय इति निश्चित्य समाहितमनाः शिवे ॥
तत्र त्रिपयगा देवी प्रथमं तु प्रतिष्ठिता ॥
सोमपादात्प्रसूता सा सप्तधा प्रतिपद्यते ॥ १८.२७ ॥

यूपा मणिमयास्तत्र वितताश्च हिरण्मयाः ॥
तत्रेष्ट्वा तु गतः सिद्धिं शक्रः सर्वैः सुरैः सह ॥ १८.२८ ॥

दिवि च्छायापथो यस्तु अनुनक्षत्रमण्डलः ॥
दृश्यते भास्वरो रात्रौ देवी त्रिपथगा तु सा ॥ १८.२९ ॥

अन्तरिक्षं दिवञ्चैव भावयन्ती सुरापगा ॥
भवोत्तमाङ्गे पतिता संरूद्धा यौगमायया ॥ १८.३० ॥

तस्या ये बिन्दवः केचित् क्रुद्धायाः पतिता भुवि ॥
कृतं तु तैर्बिदुसरस्ततो बिन्दुसरः स्मृतम् ॥ १८.३१ ॥

ततो निरूद्धा सा देवी भवेन स्मयता किल ॥
चिन्तयामास मनसा शङ्करक्षेपमं प्रति ॥ १८.३२ ॥

भित्त्वा विशामि पातालं स्रोतसागृह्य शङ्करम् ॥
ज्ञात्वा तम्या अभिप्रायं क्रूरं देव्याश्चिकीर्षितम् ॥ १८.३३ ॥

तिरोभावयितुं बुद्धिरासीदङ्गेषु तां नदीम् ॥
तस्यावलेपं ज्ञात्वा तु नद्याःक्रुद्धस्तुशङ्करः ॥ १८.३४ ॥

न्यरुपाच्च शिरस्येनां वेगेन पततीं भुवि ॥
एतस्मिन्नेव काले तु दृष्ट्वा राजानमग्रतः ॥ १८.३५ ॥

धमनीसन्ततं क्षीणं क्षुधया व्याकुलेन्द्रियम् ॥
अनेन तोषितश्चाहं नद्यर्थं पूर्वमेव तु ॥ १८.३६ ॥

बुद्धाऽस्य वरदानं च कोपं नियतवांस्तु सः ॥
ब्रह्मणो वचनं श्रुत्वा धारय स्वर्णदीमिति ॥ १८.३७ ॥

ततो विसर्जयामास संरुद्धां स्वेन तेजसा ॥
नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः ॥ १८.३८ ॥

ततो विसृज्यमानायाः स्रोत स्तत्सप्तधा गतम् ॥
तिस्रः प्ताचीमिमुखं प्रतीचीं तिस्र एव तु ॥ १८.३९ ॥

नद्याः स्रोतस्तु गङ्गायाः प्रत्यपद्यत सप्तधा ॥
नलिनी ह्लादिनी चैव पावनी चैव प्राच्यगाः ॥ १८.४० ॥

सीता चक्षुश्च सिन्धुश्च प्रतीचीन्दिशमास्थिताः ॥
सप्तमी त्वन्वगात्तासां दक्षिणेन भगीरथम् ॥ १८.४१ ॥

तस्माद्भागीरथी या सा प्रविष्टा लवणोदधिम् ॥
सप्तैता भावयन्तीदं हिमाह्वं वर्षमेव तु ॥ १८.४२ ॥

प्रसूताः सप्त नद्यस्ताः शुभा बिन्दु सरोद्भवाः ॥
नानादेशान्प्लावयन्त्यो मलेच्छप्रायास्तु सर्वशः ॥ १८.४३ ॥

उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः ॥
शिलीन्ध्रान्कुन्त लांश्चीनान्बर्बरान्यवनाध्रकान् ॥ १८.४४ ॥

पुष्कराश्च कुलिन्दांश्च अचोंलद्विचराश्च ये ॥
कृत्वा त्रिधा सिंहवन्तं सीताऽगात्पश्चिमोद धिम् ॥ १८.४५ ॥

अथ चीनमरूंश्चैव तालांश्च मसमूलिकान् ॥
भद्रास्तुषाराँल्लाम्याकान्बाह्लवान्पारटान्खशान् ॥ १८.४६ ॥

एताञ्जनपदां श्चक्षुः प्रावयन्ती गतोदधिम् ॥
दरदांश्च सकाश्मीरान् गान्धरान् रौरसान् कुहान् ॥ १८.४७ ॥

शिवशैलानिन्द्रपदान्वसतीश्च विसर्जमान् ॥
सैन्धवान्रन्ध्रकरकाञ्छमठाभीररोहकान् ॥ १८.४८ ॥

शुनासुखांश्चोर्द्धमरून्सिन्धुरेतान्निषेवते ॥
गन्धर्वकिन्नरान्यक्षान्रक्षोविद्याधरोरगान् ॥ १८.४९ ॥

कलापग्रामकांश्चैव पारदांस्तद्गणान् खशान् ॥
किरातांश्चपुलिन्दांश्च कुरून् सभरतानपि ॥ १८.५० ॥

पञ्चालान्काशिमत्स्यां श्च मगधाङ्गांस्तथैव च ॥
सुह्मोत्तरांश्च वङ्गांश्च ताम्रलिप्तांस्तथैव च ॥ १८.५१ ॥

एताञ्जनपदान्मान्यान्गङ्गा भावयते शुभान् ॥
ततः प्रतिहता विन्ध्यात्प्रविष्टा लवणोदधिम् ॥ १८.५२ ॥

ततश्च ह्लादिनी पुण्य प्राचीमभिमुखा ययौ ॥
प्रावयन्त्युपभागांश्च नैषधांश्च त्रिगर्त कान् ॥ १८.५३ ॥

धीवरानृषिकांश्चैव तथा नीलमुखानपि ॥
केकरानौष्टकर्णांश्च किरातानपि चैव हि ॥ १८.५४ ॥

कालोदरान्विवर्णाश्च कुमारान्स्वर्णभूमिकान् ॥
आमण्डलं समुद्रस्य तिरोभूतांश्च पूर्वतः ॥ १८.५५ ॥

ततस्तु पावनी चापि प्राचीमेव दिशं ययौ ॥
सुपथान्पावयं तीह त्विन्द्रद्युम्नसरोपि च ॥ १८.५६ ॥

तथा खरपथांश्चैव वेत्रशङ्कुपथानपि ॥
मध्यतोजानकिमथो कुथप्रावरणान्ययौ ॥ १८.५७ ॥

इन्द्रद्वीप समुद्रं तु प्रविष्टां लवणोदधिम् ॥
ततस्तु नलिनी प्रायात् प्राचीमाशां जवेन तु ॥ १८.५८ ॥

तोमरान्भावयन्तीह हंसमार्गान्सहैहयान् ॥
पूर्वन्देशांश्च सेवन्ती भित्त्वा सा बहुधागिरीन् ॥ १८.५९ ॥

कर्णप्रावरणान्प्राप्य सङ्गत्या श्वमुखानपि ॥
सिकतापर्वतमरुं गत्वा विद्याधरान्ययौ ॥ १८.६० ॥

नगमण्डलमध्येन प्रविष्टा लवणोदधिम् ॥
तासां नद्युपनद्यश्च शतशोऽथ सहस्रशः ॥ १८.६१ ॥

मूलम्

नगमण्डलमध्येन प्रविष्टा लवणोदधिम् ॥
तासां नद्युपनद्यश्च शतशोऽथ सहस्रशः ॥ १८.६१ ॥

विश्वास-प्रस्तुतिः

उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः ॥
वक्वौकसायास्तीरे तु वनं सुरभि विश्रुतम् ॥ १८.६२ ॥

हिरण्यश्रृङ्गे वसति विद्वान्कौबेरको वशी ॥
यज्ञोपेतश्च सुमहानमितौजाः सुविक्रमः ॥ १८.६३ ॥

तत्रत्यैस्तैः परिवृतौ विद्वद्भिर्ब्रह्मराक्षसैः ॥
कुबेरानुचरा ह्येते चत्वारस्तु समाः स्मृताः ॥ १८.६४ ॥

एवमेव तु विज्ञेया ऋद्धिः पर्वतवासिनाम् ॥
परस्परेण द्विगुणा धर्मतः कामतोऽर्थतः ॥ १८.६५ ॥

हेमकूटस्य पृष्ठे तु वर्चोवन्नामतः सरः ॥
मनस्विनीप्रभवति तस्माज्ज्योतिष्मती च या ॥ १८.६६ ॥

अवगाढे ह्युभयतः समुद्रौ पूर्वपश्चिमौ ॥
सरो विष्णुपदं नाम निषधे पर्वतोत्तमे ॥ १८.६७ ॥

तस्माद्द्वयं प्रभवति गान्धर्वी नाकुली च तैः ॥
मेरोः पार्श्वात्प्रभवति ह्रदश्चन्द्रप्रभो महान् ॥ १८.६८ ॥

तत्र जम्बूनदी पुण्या यस्या जाम्बूनदं स्मृतम् ॥
पयोदं तु सरो नीले सुशुभ्रं पुण्डरीकवत् ॥ १८.६९ ॥

पुण्डरीका पयोदा य तस्मान्नद्यौ विनिर्गते ॥
श्वेतात्प्रवर्त्तते पुण्यं सरयूर्मानसाद्ध्रुवम् ॥ १८.७० ॥

ज्योत्स्ना च मृगाकामा च तस्माद्द्वे सम्बभूवतुः ॥
सरः कुरुषु विख्यातं पद्ममीनद्विजाकुलम् ॥ १८.७१ ॥

रुद्रकान्तमिति ख्यातं निर्मितं तद्भवेन तु ॥
अन्ये चाप्यत्र विख्याताः पद्मामीनद्विजाकुलाः ॥ १८.७२ ॥

नाम्ना ह्रदा जया नाम द्वादशोदधिसन्निभाः ॥
तेभ्यः शान्ता य माध्वी च द्वे नद्यौ सम्बभूवतुः ॥ १८.७३ ॥

यानि किम्पुरुषाद्यानि तेषु देवो न वर्षति ॥
उद्भिदान्युदकान्यत्र प्रवहन्ति सरिद्वराः ॥ १८.७४ ॥

ऋषभो दुन्दुभिश्चैव धूम्नश्च सुमहागिरिः ॥
पूर्वायता महापर्वा निमग्ना लवणाभसि ॥ १८.७५ ॥

चन्द्रः काकस्तथा द्रोणः सुमहान्तः शिलोच्चयाः ॥
उदग्याता उदीच्यान्ता अवगाढा महोदधिम् ॥ १८.७६ ॥

सोमकश्च वराहश्च नारदश्च महीधरः ॥
प्रतीच्यामायतास्ते वै प्रविष्टा लवणोदधिम ॥ १८.७७ ॥

चक्रो बलाहकश्चैव मैनाको यश्च पर्वतः ॥
आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति ॥ १८.७८ ॥

चक्रमैनाकयोर्मध्य विदिशं दक्षिणां प्रति ॥
तत्र संवर्त्तको नाम सोऽग्निः पिबति तज्जलम् ॥ १८.७९ ॥

नाम्ना समुद्रवासस्तु और्वःस वडवामुखः ॥
द्वादशैते प्रविष्टा हि पर्वता लवणोदधिम् ॥ १८.८० ॥

महेन्द्रभयवित्रस्ताः पक्षच्छे दभयात्पुरा ॥
यदेतदॄश्यते चन्द्रे श्वेते कृष्णशशाकृति ॥ १८.८१ ॥

भारतस्य तु वर्षस्य भेदास्ते नव कीर्त्तिताः ॥
इहोदितस्य दृश्यन्ते यथान्येऽन्यत्र चोदिते ॥ १८.८२ ॥

उत्तरोत्तरमेतेषां वर्षमुद्दिश्यते गुणैः ॥
आरोग्यायुः प्रमाणानां धर्मतः कामतोऽर्थतः ॥ १८.८३ ॥

समन्वितानि भूतानि पुण्यैरेतैस्तु भागशः ॥
वसन्ति नानाजातीनि तेषु वर्षेषु तानि वै ॥
इत्येषा धारयन्तीदं पृथ्वी विश्वं जगत्स्थितम् ॥ १८.८४ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे
जम्बूद्वीपवर्णनं नामाऽष्टादशोऽध्यायः ॥ १८ ॥