विश्वास-प्रस्तुतिः
ऋषय ऊचुः ॥
यच्च किम्पुरुषं वर्षं हरिवर्षं तथैव च ॥
आचक्ष्व नो यथातत्त्वं कीर्त्तितं भारतं त्वया ॥ १७.१ ॥
मूलम्

सूत उवाच ॥
शुश्रूषा यत्र वो विप्रास्तच्छृणुध्वमतन्द्रिताः ॥
प्लक्षखण्डः किम्पुरुषे सुमहान्नन्दनोपमः ॥ १७.२ ॥

दशवर्षसहस्राणि स्थितिः किम्पुरुषे स्मृता ॥
सुवर्णवर्णाः पुरुषाः स्त्रियश्चाप्सरसो पमाः ॥ १७.३ ॥

अनामया अशोकाश्च नित्यं मुदितमानसाः ॥
जायन्ते मानवास्तत्र निस्तप्तकनकप्रभाः ॥ १७.४ ॥

वर्षे किम्पुरुषे पुण्ये वृक्षो मधुवहः शुभः ॥
तस्य किम्पुरुषाः सर्वेऽपिबन् हि रसमुत्तमम् ॥ १७.५ ॥

ततः परं किम्पुरुषो हरिवर्षः प्रचक्षते ॥
महारजतसङ्काशा जायन्ते तत्र मानवाः ॥ १७.६ ॥

देवलोकच्युताः सर्वे देवानूकाश्च सर्वेशः ॥
हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुफम् ॥ १७.७ ॥

एकादश सहस्राणि वर्षाणां तु निरामयाः ॥
हरिवर्षे तु जीवन्ति सर्वे मुदितमानसाः ॥ १७.८ ॥

न जरा बाधते तत्र न म्रियन्ते च तेऽचिरात् ॥
मध्यमं यन्मया प्रोक्तं नाम्ना वर्षमिलावृतम् ॥ १७.९ ॥

न तत्र सूर्यस्तपति न तु जीर्यन्ति मानवाः ॥
चन्द्रसूर्यै सनक्षत्रौ न प्रकाशाविला वृते ॥ १७.१० ॥

पद्मप्रभाः पद्बवर्णास्तथा पद्बनिभेक्षणाः ॥
पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ॥ १७.११ ॥

जम्बूफलरसाहारा अनिष्यन्दाः सुगन्धिनः ॥
मनस्विनो भुक्तभोगाः सत्कर्मफलभोगिनः ॥ १७.१२ ॥

देवलोकच्यताश्चैव महारजतवाससः ॥
त्रयोदशसहस्राणि वर्षाणां ते नरोत्तमाः ॥ १७.१३ ॥

आयुः प्रमाणं जीवन्ति ये तु वर्ष इलावृते ॥
मेरोः प्रतिदिशं यच्च नवसाहस्रविस्तृतम् ॥ १७.१४ ॥

योजनानां सहस्राणि षट्त्रिंशत्तस्य विस्तरः ॥
यतुरस्रं समन्ताच्च शरावाकारसंस्थितम् ॥ १७.१५ ॥

मेरोः पश्चिमभागे तु नवसाहस्रसम्मिते ॥
चतुस्त्रिंशत्सहस्राणि गन्धमादनपर्वतः ॥ १७.१६ ॥

उदग्दक्षिणतश्चैव आनीलनिषधायतः ॥
चत्वारिंशत्सहस्राणि परिवृद्धो महीतलात् ॥ १७.१७ ॥

सहस्रमवगाढश्च तावदेव च विस्तृतः ॥
पूर्वेण माल्यवाञ्छैलस्तत्प्रमाणः प्रकीर्त्तितः ॥ १७.१८ ॥

दक्षिणेन तु नीलश्च निषधश्चोत्तरेण तु ॥
तेषां मध्ये महामेरुः स्वैः प्रमाणैः प्रतिष्ठितः ॥ १७.१९ ॥

सर्वेषामेव शैलानामवगाढो यथा भवेत् ॥
विस्तरस्तत्प्रमाणः स्यादायामो नियुतं स्मृतः ॥ १७.२० ॥

वृत्तभावास्समुद्रस्य महीमण्डलभावतः ॥
आयामाः परिहीयन्ते चतुरस्रसमाः स्मृताः ॥ १७.२१ ॥

इलावृतं चतुष्कोणं भिन्दन्ती मध्यभागतः ॥
प्रभिन्नाञ्जनसङ्काशा जम्बूरसवती नदी ॥ १७.२२ ॥

मेरोस्तु दक्षिणे पार्श्वे निषधस्योत्तरेण च ॥
सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः ॥ १७.२३ ॥

नित्यपुष्पफलोपेतः सिद्धचारणसेवितः ॥
तस्य नाम्ना समा ख्यातो जम्बूद्वीपो वनस्पतेः ॥ १७.२४ ॥

योजनानां सहस्रं च शतं चान्यन्महात्मनः ॥
उत्सेधो वृक्षराजस्य दिवं स्पृशति सर्वतः ॥ १७.२५ ॥

अरत्नीनां शतान्यष्टावेकषष्ट्यधिकानि तु ॥
फलप्रमाणं सङ्ख्यातमृषिभिस्तत्त्वदर्शिभिः ॥ १७.२६ ॥

पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम् ॥
तस्या जम्ब्वाः फलरसो नदी भूत्वा प्रसर्प्पति ॥ १७.२७ ॥

मेरुं प्रदक्षिणं कृत्वा जम्बूमूलं विशत्यधः ॥
तं पिबन्ति सदा त्दृष्टा जम्बूरसमिलावृते ॥ १७.२८ ॥

जम्बूफलरसे पीते न जरा बाधते तु तान् ॥
न क्षुधा न श्रमश्चापि न मृत्युर्न च तन्द्रि तम् ॥ १७.२९ ॥

तत्र जाम्बूनदं नाम कनकं देवभूषमम् ॥
इन्द्रगोपकसङ्काशं जायते भास्वरं तु तत् ॥ १७.३० ॥

सर्वेषां वर्षवृक्षाणां शुभः फलरसः स्तुतः ॥
स्कन्नं भवति तच्छुभ्रं कनकं देवभूषणम् ॥ १७.३१ ॥

तेषां मूत्रं पुरीषं च दिक्षु सर्वासु सर्वशः ॥
ईश्वरानुग्रहाद्भूमिर्मृताश्च ग्रसते तु तान् ॥ १७.३२ ॥

रक्षःपिशाचयक्षाश्च सर्वे हैमवतः स्मृताः ॥
हेमकूटे तु गन्धर्वा विज्ञेयाः साप्सरोगणाः ॥ १७.३३ ॥

सर्वे नागस्तु निषधे शेषवासुकितक्षकाः ॥
महामेरौ त्रयस्त्रिंशत्क्रीडन्ते यज्ञियाः सुराः ॥ १७.३४ ॥

नीले तु वैदूर्यमये सिद्धा ब्रह्मर्षयोऽमलाः ॥
दैत्यानां दानवानां च श्र्वेतः पर्वत उच्यते ॥ १७.३५ ॥

श्रृङ्गवान्पर्वतश्रेष्ठः पितॄणां प्रतिसञ्चरः ॥
नवस्वेतेषु वर्षेषु यथाभागं स्थितेषु वै ॥ १७.३६ ॥

भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च ॥
तेषां विवृद्धिर्बहुधा दृश्यते दिव्यमानुषी ॥
न सङ्ख्या परिसङ्ख्यातुं श्रद्धेया तु बुभूषताम् ॥ १७.३७ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे
किम्पुरुषादिवर्षवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥