विश्वास-प्रस्तुतिः
सूत उवाच ॥
एवमेव निसर्गो वै वर्षाणां भारते शुभे ॥
दृष्टः परमतत्त्वज्ञैर्भूयः किं वर्णयामि वः ॥ १६.१ ॥
मूलम्

ऋषिरुवाच ॥
यदिदं भारतं वर्षं यस्मिन्स्वायम्भुवादयः ॥
चतुर्दशैते मनवः प्रजासर्गेऽभवन्पुनः ॥ १६.२ ॥

एतद्वेदितुमिच्छामस्तन्नो निगद सत्त्मः ॥
एतच्छ्रुतवचस्तेषामब्रवीद्रोमहर्षणः ॥ १६.३ ॥

अत्र वो वर्णयिष्यामि वर्षेऽस्मिन् भारते प्रजाः ॥
इदं तु मध्यमं चित्रं शुभाशुभफलोदयम् ॥ १६.४ ॥

उत्तरं यत्ममुद्रस्य हिमवद्दक्षिणं च यत् ॥
वर्षं तद्भारतं नाम यत्रेयं भारती प्रजा ॥ १६.५ ॥

भरणाच्च प्रजानां वै मनुर्भरत उच्यते ॥
निरुक्तवचनाच्चैवं वर्षं तद्भारतं स्मृतम् ॥ १६.६ ॥

इतः स्वर्गश्च मोक्षश्च मध्यश्चान्तश्च गम्यते ॥
न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते ॥ १६.७ ॥

भारतस्यास्य वर्षस्य नव भेदान्निबोधत ॥
समुद्रातरिता ज्ञेयास्ते त्वगम्याः परस्परम् ॥ १६.८ ॥

इन्द्रद्वीपः कशेरूमांस्ताम्रवर्णो गभस्तिमान् ॥
नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः ॥ १६.९ ॥

अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ॥
योजनानां सहस्रे तु द्वीपोऽयं दक्षिणोत्तरात् ॥ १६.१० ॥

आयतो ह्याकुमार्य्या वै चागङ्गाप्रभवाच्च वै ॥
तिर्यगुत्तरविस्तीर्मः सहस्राणि नवैव तु ॥ १६.११ ॥

द्वीपो ह्युपनिविष्टोऽयं म्लेच्छैरन्तेषु सर्वशः ॥
पूर्वे किराता ह्यस्यान्ते पश्चिमे यवनाः स्मृताः ॥ १६.१२ ॥

ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः ॥
इज्यायुधवणिज्याभिर्वर्त्तयन्तो व्यवस्थिताः ॥ १६.१३ ॥

तेषां संव्यवहारोऽत्र वर्त्तते वै परस्परम् ॥
धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु ॥ १६.१४ ॥

सङ्कल्पः पञ्चमानां च ह्याश्रमाणां यथाविधि ॥
इह स्वर्गापवर्गार्थं प्रवृत्तिर्येषु मानुषी ॥ १६.१५ ॥

यस्त्वयं नवमो द्वीपस्तिर्यगायाम उच्यते ॥
कृत्स्नं जयति यो ह्येनं सम्राडित्यभिधीयते ॥ १६.१६ ॥

अयं लोकस्तु वै सम्राडन्तरिक्षं विराट् स्मृतम् ॥
स्वराडसौ स्मृतो लौकः पुनर्वक्ष्यामि विस्तरात् ॥ १६.१७ ॥

सप्तैवास्मिन्सुपर्वाणो विश्रुताः कुल पर्वताः ॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ १६.१८ ॥

विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥
तेषां सहस्रश्चान्ये पर्व तास्तु समीपगाः ॥ १६.१९ ॥

अविज्ञाताः सारवन्तो विपुलाश्चित्रसानवः ॥
सन्दरः पर्वतश्रेष्ठो वैहारो दुर्दुरस्तथा ॥ १६.२० ॥

कोलाहलः ससुरसो मैनाको वैद्युतस्तथा ॥
वातन्धमो नागगिरिस्तथा पाण्डुरपर्वतः ॥ १६.२१ ॥

तुङ्गप्रस्थः कृष्णगिरिर्गोधनो गिरिरेव च ॥
पुष्पगिर्युज्जयन्तौ च शैलो रैवतकस्तथा ॥ १६.२२ ॥

श्रीपर्वतश्चित्रकूटः कूटशैलो गिरिस्तथा ॥
अन्ये तेभ्योऽपरिज्ञाता ह्रस्वाः स्वलपोपजी विनः ॥ १६.२३ ॥

तैर्विमिश्रा जनपदा आर्या म्लेच्छाश्च भागशः ॥
पीयन्ते यैरिमा नद्यो गङ्गा सिन्धु सरस्वती ॥ १६.२४ ॥

शतद्रुश्चन्द्र भागा च यमुना सरयूस्तथा ॥
इरावती वितस्ता च विपाशा देविका कुहूः ॥ १६.२५ ॥

गोमती धूतपापा च बुद्बुदा च दृषद्वती ॥
कौशकी त्रिदिवा चैव निष्ठीवी गेडकी तथा ॥ १६.२६ ॥

चक्षुर्लोहित इत्येता हिमवत्पादनिस्सृताः ॥
वेदस्मृतिर्वेदवती वृत्रघ्नी सिन्धु रेव च ॥ १६.२७ ॥

वर्णाशा नन्दना चैव सदानीरा महानदी ॥
पाशा चर्मण्वतीनूपा विदिशा वेत्रवत्यपि ॥ १६.२८ ॥

क्षिप्रा ह्यवन्ति च तथा पारियात्राश्रयाः स्मृताः ॥
शोणो महानदश्चैव नर्म्मदा सुरसा क्रिया ॥ १६.२९ ॥

मन्दाकिनी दशार्णा च चित्रकूटा तथैव च ॥
तमसा पिप्पला श्येना करमोदा पिशाचिका ॥ १६.३० ॥

चित्रोपला विशाला च बञ्जुला वास्तुवाहिनी ॥
सनेरुजा शुक्तिमती मङ्कुती त्रिदिवा क्रतुः ॥ १६.३१ ॥

ऋक्षवत्सम्प्रसूतास्ता नद्यो मणिजलाः शिवाः ॥
तापी पयोष्णी निर्विन्ध्या सृपा च निषधा नदी ॥ १६.३२ ॥

वेणी वैतरणी चैव क्षिप्रा वाला कुमुद्वती ॥
तोया चैव महागौरी दुर्गा वान्नशिला तथा ॥ १६.३३ ॥

विन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः ॥
गोदावरी भीमरथी कृष्णवेणाथ बञ्जुला ॥ १६.३४ ॥

तुङ्गभद्रा सुप्रयोगा बाह्या कावेर्यथापि च ॥
दक्षिणप्रवहा नद्यः सह्य पादाद्विनिःस्मृताः ॥ १६.३५ ॥

कृतमाला ताम्रपर्णी पुष्पजात्युत्पलावती ॥
नद्योऽभिजाता मलयात्सर्वाः शीतजलाः शुभाः ॥ १६.३६ ॥

त्रिसामा ऋषिकुल्या च बञ्जुला त्रिदिवाबला ॥
लाङ्गूलिनी वंशधरा महेन्द्रतनयाः स्मृताः ॥ १६.३७ ॥

ऋषिकुल्या कुमारी च मन्दगा मन्दगामिनी ॥
कृपा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः ॥ १६.३८ ॥

तास्तु नद्यः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः ॥
विश्वस्य मातरः सर्वा जगत्पापहराः स्मृताः ॥ १६.३९ ॥

तासां नद्युपनद्योऽन्याः शतशोऽथ सहस्रशः ॥
तास्विमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः ॥ १६.४० ॥

शूरसेना भद्रकारा बोधाः सहपटच्चराः ॥
मत्स्याः कुशल्याः सौशल्याः कुन्तलाः काशिकोशलाः ॥ १६.४१ ॥

गोधा भद्राः करिङ्गाश्च मागधाश्चोत्कलैः सह ॥
मध्यदेश्या जनपदाः प्रायशस्त्त्र कीर्त्तिताः ॥ १६.४२ ॥

सह्यस्य चौत्तरान्तेषु यत्र गोदावरी नदी ॥
पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥ १६.४३ ॥

तत्र गोवर्धनं नाम पुरं रामेण निर्मितम् ॥
रामप्रियाथ स्वर्गीया वृक्ष दिव्यास्त थौषधीः ॥ १६.४४ ॥

भरद्वाजेन मुनिना तत्प्रियार्थेऽवरोपिताः ॥
अतः पुर्वरोद्देशस्तेन जज्ञे मनोरमः ॥ १६.४५ ॥

बाह्लीका वाटधानाश्च आभीरा कालतोयकाः ॥
अपरान्ताश्च मुह्माश्च पाञ्चलाश्चर्ममण्डलाः ॥ १६.४६ ॥

गान्धारा यवनाश्चैव सिन्धुसौवीरमण्डलाः ॥
चीनाश्चैव तुषाराश्च पल्लवा गिरिगह्वराः ॥ १६.४७ ॥

शाका भद्राः कुलिन्दाश्च पारदा विन्ध्यचूलिकाः ॥
अभीषाहा उलूताश्च केकया दशामालिकाः ॥ १६.४८ ॥

ब्राह्मणाः क्षत्रियाश्चैव वैश्यशूद्रकुलानि तु ॥
कांवोजा दरदाश्चैव बर्बरा अङ्गलौहिकाः ॥ १६.४९ ॥

अत्रयः सभरद्वाजाः प्रस्थलाश्च दशेरकाः ॥
लमकास्तालशालाश्च भूषिका ईजिकैः सह ॥ १६.५० ॥

एते देशा उदीच्या वै प्राच्यान्देशान्निबोधत ॥
अङ्गवङ्गा श्चोलभद्राः किरातानां च जातयः ॥
तोमरा हंसभङ्गाश्च काश्मीरास्तङ्गणास्तथा ॥ १६.५१ ॥

झिल्लिकाश्चाहुकाश्चैव हूणदर्वास्तथैव च ॥ १६.५२ ॥
विश्वास-प्रस्तुतिः
अन्ध्रवाका मुद्गरका अन्तर्गिरिबहिर्गिराः ॥
ततः प्लवङ्गवो ज्ञेया मलदा मलवर्तिकाः ॥ १६.५३ ॥

समन्तराः प्रावृषेया भार्गवा गोपपार्थिवाः ॥
प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलिप्तकाः ॥ १६.५४ ॥

मल्ला मगधगोनर्दाः प्राच्यां जनपदाः स्मृताः ॥
अथापरे जनपदा दक्षिणापथवासिनः ॥ १६.५५ ॥

पण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव च ॥
सेतुका मूषिकाश्चैव क्षपणा वनवासिकाः ॥ १६.५६ ॥

माहराष्ट्रा महिषिकाः कलिङ्गश्चैव सर्वशः ॥
आभीराश्च सहैषीका आटव्या सारवास्तथा ॥ १६.५७ ॥

पुलिन्दा विन्ध्यमौलीया वैदर्भा दण्डकैः सह ॥
पौरिका मौलिकाश्चैव ्श्मका भोगवर्द्धिनाः ॥ १६.५८ ॥

कोङ्कणाः कन्तलाश्चान्ध्राः कुलिन्दाङ्गारमारिषाः ॥
दाङिणाश्चैव ये देशा अपरांस्तान्निबोधत ॥ १६.५९ ॥

सूर्य्यारकाः कलिवना दुर्गालाः कुन्तरौः सहः ॥
पौलेयाश्च किराताश्च रूपकास्तापकैः सह ॥ १६.६० ॥

तथा करीतयश्चैव सर्वे चैव करन्धराः ॥
नासिकाश्चैव ये चान्ये ये चैवान्तरनर्मदाः ॥ १६.६१ ॥

सहकच्छाः समाहेयाः सह सारस्वतैरपि ॥
कच्छिपाश्च सुराष्ट्राश्च आनर्ताश्चर्बुदैः सह ॥ १६.६२ ॥

इत्येते अपरान्ताश्च श्रृणुध्वं विन्ध्यवासिनः ॥
मलदाश्च करूथाश्च मेकलाश्चैत्कलैः सह ॥ १६.६३ ॥

उत्तमानां दशार्णाश्च भोजाः किष्किन्धकैः सह ॥
तोशलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा ॥ १६.६४ ॥

तुहुण्डा बर्बराश्चैव षट्पुरा नैषधैः सह ॥
अनूपास्तुण्डिकेराश्च वीतिहोत्रा ह्यवन्तयः ॥ १६.६५ ॥

एते जनपदाः सर्वे विन्ध्यपृष्ठनिवासिनः ॥
अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये ॥ १६.६६ ॥

निहीरा हंसमार्गाश्च कुपथास्तङ्गणाः शकाः ॥
अपप्राव रणाश्चैव ऊर्णा दर्वाः सहूहुकाः ॥ १६.६७ ॥

त्रिगर्त्ता मण्डलाश्चैव किरातास्तामरैः सह ॥
चत्वारि भारते वर्षे युगानि ऋषयोऽब्रुवन् ॥ १६.६८ ॥

कृतं त्रेतायुगं चैव द्वापरं तिष्यमेव च ॥
तेषां निसर्गं वक्ष्यामि उपरिष्टादशेषतः ॥ १६.६९ ॥

इति श्रीब्रoमहापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे
भारतवर्मतं नाम षोडशोऽध्यायः ॥ १६ ॥