विश्वास-प्रस्तुतिः
सूत उवाच ॥
एवं प्रजासन्निवेशं श्रुत्वा वै शांशपायनिः ॥
पप्रच्छ नियतं सूतं पृथिव्युद धिविस्तरम् ॥ १५.१ ॥
मूलम्

कति द्वीपा समुद्रा वा पवता वा कति स्मृताः ॥
कियन्ति चैव वर्षाणि तेषु नद्यश्च काः स्मृताः ॥ १५.२ ॥

महा भूतप्रमाणं च लोकालोकं तथैव च ॥
पर्यायं परिमाणं च गतिं चन्द्रार्कयोस्तथा ॥
एतत्प्रबूहि नः सर्वं विस्तरेण यथार्थतः ॥ १५.३ ॥

हन्त वोऽहं प्रवक्ष्यामि पृथिव्यायामविस्तरम् ॥ १५.४ ॥

सङ्ख्यां चैव समुद्राणां द्वीपानां चैव विस्तरम् ॥
द्वीपभेदसहस्राणि सप्तस्वन्तर्गतानि च ॥ १५.५ ॥

न शक्यन्ते क्रमेणेह वक्तुं यैः सततं जगत् ॥
सप्त द्वीपान्प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह ॥ १५.६ ॥

तेषां मनुष्या स्तर्क्केण प्रमाणानि प्रचक्षते ॥
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् ॥ १५.७ ॥

प्रकृतिभ्यः परं यच्च तदचिन्त्यं प्रचक्षते ॥
नववर्षं प्रवक्ष्यामि जम्बूद्वीपं यथातथम् ॥ १५.८ ॥

विस्तरान्मण्डलाच्चैव योजनैस्तन्निबोधत ॥
शतमेकं सहस्राणां योजनाग्रात्समन्ततः ॥ १५.९ ॥

नानाजनपदाकीर्णः पुरैश्च विविधैश्शुभैः ॥
सिद्धचारणसङ्कीणः पर्वतैरुपशोभितः ॥ १५.१० ॥

सर्वधातुनिबद्धैश्च शिलाजाल समुद्भवैः ॥
पर्वतप्रभवाभिश्च नदीभिः सर्वतस्ततः ॥ १५.११ ॥

जम्बूद्वीपः पृथुः श्रीमान् सर्वतः पृथुमण्डलः ॥
नवभिश्चावृतः सर्वो भुवनैर्भूतभावनैः ॥ १५.१२ ॥

लवणेन समुद्रेण सर्वतः परिवारितः ॥
जम्बूद्वीपस्य विस्तारात् समेन तु समन्ततः ॥ १५.१३ ॥

प्रागायताः सूपर्वाणः षडिमे वर्षपर्वताः ॥
अवगाढा ह्युभयतः मसुद्रौ पूर्वपश्चिमौ ॥ १५.१४ ॥

हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान् ॥
सर्वर्त्तुषु सुखश्चापि निषधः पर्वतो महान् ॥ १५.१५ ॥

चतुर्वर्णश्च सौवर्णो मेरुश्चारुतमः स्मृतः ॥
द्वात्रिंशच्च सहस्राणि विस्तीर्णः स च मूर्द्धनि ॥ १५.१६ ॥

वृत्ताकृतिप्रमाणश्च चतुरस्रः समुच्छ्रितः ॥
नानावर्णास्तु पार्श्वेषु प्रजापतिगुणान्वितः ॥ १५.१७ ॥

नाभिबन्धनसम्भूतो ब्रह्मणोऽव्यक्तजन्मनः ॥
पूर्वतः श्र्वेतवर्णश्च ब्राह्मणस्तस्य तेन तत् ॥ १५.१८ ॥

पार्श्वमुत्तरतस्तस्य रक्तवर्मः स्वभावतः ॥
तेनास्य क्षत्र्रभावस्तु मेरोर्नानार्थकारणात् ॥ १५.१९ ॥

पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते ॥
भृङ्गपत्रनिभश्चापि पश्चिमेन समाचितः ॥ १५.२० ॥

तेनास्य शूद्रभावः स्यादिति वर्णाः प्रकीर्त्तिताः ॥
वृत्तः स्वभावतः प्रोक्तो वर्णतः परिमाणतः ॥ १५.२१ ॥

नीलश्च वैदुर्यमयः श्वेतः घुक्लो हिरण्मयः ॥
मयुरबर्हवर्णस्तु शातकौम्भश्च श्रृङ्गवान् ॥ १५.२२ ॥

एते पर्वतराजानः सिद्धचारणसेविताः ॥
तेषामन्तरविष्कम्भो नवसाहस्र उच्यते ॥ १५.२३ ॥

मध्ये त्विलावृतं नाम महामेरोः समन्तमः ॥
नवैवं तु सहस्राणि विस्तीर्णं सर्वतस्तु तत् ॥ १५.२४ ॥

मध्ये तस्य महामेरुर्विधूम इव पावकः ॥
वेद्यर्द्धं दक्षिणं मेरोरुत्तरार्द्धं तथोत्तरम् ॥ १५.२५ ॥

वर्षाणि यानि षट् चैव तेषां ये वर्षपर्वताः ॥
द्वे द्वे सहस्रे विस्तीर्णा योजनानां समुच्छ्रयात् ॥ १५.२६ ॥

जम्बूद्वीपस्य विस्तारात्तेषामायाम उच्यते ॥
योजनानां सहस्राणि शतं द्वावायतौ गिरी ॥ १५.२७ ॥

नीलश्च निषधश्चैव ताभ्यां हीनास्तु ये परे ॥
श्वेतश्च हेमकूटश्च हिमवाञ्छृङ्गवांस्तथा ॥ १५.२८ ॥

नवती द्वे अशीती द्वे सहस्राण्यायतास्तु तेः ॥
तेषां मध्ये जनपदास्तानि वर्णाणि सप्त वै ॥ १५.२९ ॥

प्रपातविषमैस्तैस्तु पर्वतैरावृतानि तु ॥
सन्ततानि नदीभेदैरगम्यानि परस्परम् ॥ १५.३० ॥

वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः ॥
इदं हैमवतं वर्षं भारतं नाम विश्रुतम् ॥ १५.३१ ॥

हेमकूटं परं ह्यस्मा न्नान्ना किंषुरुपं स्मृतम् ॥
नैषधं हेमकूटात्तु हरिवर्षं तदुच्यते ॥ १५.३२ ॥

हरिवर्षात्परं चापि मेरोश्व तदिलावृतम् ॥
िलावृतात्परं नीलं सम्यकं नाम विश्रुतम् ॥ १५.३३ ॥

रम्यकात्परतः श्र्वेतं विश्रुतं तद्धिरण्मयम् ॥
हिरण्मयात्परं चैव श्रृङ्गवत्तः कुरु स्मृतम् ॥ १५.३४ ॥

धनुःसंस्थे तु विज्ञेये द्वे वर्षे दक्षिणोत्तरे ॥
दीर्घाणि तत्र चत्वारि मध्यमं तदिलावृतम् ॥ १५.३५ ॥

अर्वाक् च निषधस्याथ वेद्यर्द्धं दक्षिणं स्मृतम् ॥
परं नीलवतो यच्च वेद्यर्द्धं तु तदुत्तरम् ॥ १५.३६ ॥

वेद्यर्द्धे दक्षिणे त्रीणि त्रीणि वर्षाणि चोत्तरे ॥
तयोर्मध्ये तु विज्ञेयो मेरुर्मध्य इलावृतम् ॥ १५.३७ ॥

दक्षिणेन तु नीलस्य निषधस्योत्तरेम तु ॥
उदगायेतो महाशैलो माल्यवान्नाम नामतः ॥ १५.३८ ॥

योजनानां सहस्रं तु आनील निषधायतः ॥
आयामतश्चतुस्त्रिंशत्सहस्राणि प्रकीर्तितः ॥ १५.३९ ॥

तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः ॥
आयामतोऽथ विस्तारान्माल्यवा नितिविश्रुतः ॥ १५.४० ॥

परिमण्डलयोर्मेरुर्मध्ये कनकपर्वतः ॥
चतुर्वणः स सौवर्णः चतुरस्रः समुच्छ्रितः ॥ १५.४१ ॥

सुमेरुः शुशुभेशुभ्रो राजव त्समधिष्ठितः ॥
तरुणादित्यवर्णाभो विधूम इव पावकः ॥ १५.४२ ॥

योजनानां सहस्राणि चतुरशीतरुच्छ्रितः ॥
प्रविष्टः षोडशाधस्ताद्विस्तृतः षोडशैव तु ॥ १५.४३ ॥

शरावसंस्थितत्वात्तु द्वात्रिंशन्मूर्ध्निविस्तृतः ॥
विस्तारात्रिगुणस्तस्य परिणाहः समन्ततः ॥ १५.४४ ॥

मण्डलेन प्रमाणेन त्र्यस्रे मानं तदिष्यते ॥
चत्वारिंशत्सहस्राणि योजनानां समन्ततः ॥ १५.४५ ॥

अष्टाभिरधिकानि स्युस्त्र्यस्रे मानं प्रकीर्त्तितम् ॥
चतुरस्रेण मानेन परिणाहः समन्ततः ॥ १५.४६ ॥

चतुः षष्टिसहस्राणि योजनानां विधीयते ॥
स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः ॥ १५.४७ ॥

भुवनैरावृतः सर्वो जातरूपमयैः शुभैः ॥
तत्र देवगणाः सर्वे गन्धर्वोरगराक्षसाः ॥ १५.४८ ॥

शैलराजे प्रदृश्यन्ते शुभाश्चाप्सरसां गणाः ॥
स तु मेरुः परिवृतो भुवनैर्भूतभावनैः ॥ १५.४९ ॥

चत्वारो यस्य देशा वै चतुःपार्श्वेष्वधिष्ठिताः ॥
भद्राश्वा भरताश्वैव केतुमालाश्च पश्चिमाः ॥ १५.५० ॥

उत्तराः कुरवश्चैव कृतपुण्यप्रतिश्रयाः ॥
गन्धमादनपर्श्वे तु परैषाऽपरगण्डिका ॥ १५.५१ ॥

सर्वर्त्तुरमणीया च नित्यं प्रमुदिता शिवा ॥
द्वात्रिंशत्तु सहस्राणि योजनैः पूर्वपश्चिमात् ॥ १५.५२ ॥

आयामतश्चतुस्त्रिंशत्सहस्राणि प्रमाणतः ॥
तत्र ते शुभकर्माणः केतुमालाः प्रतिष्ठिताः ॥ १५.५३ ॥

तत्र काला नराः सर्वे महासत्त्वा महाबलाः ॥
स्त्रियश्चोत्पल पत्राभाः सर्वास्ताः प्रियदर्शनाः ॥ १५.५४ ॥

तत्र दिव्यो महावृक्षः पनसः पड्रसाश्रयः ॥
ईश्वरो ब्रह्मणः पुत्रः कामचारी मनोजवः ॥ १५.५५ ॥

तस्य पीत्वा फलरसं जीवन्ति च समायुतम् ॥
पार्श्वे माल्यवतश्चापि पूर्वेऽपूर्वा तु गण्डिका ॥ १५.५६ ॥

आयामादथ विस्ताराद्यथैषापरगण्डिका ॥
भद्राश्वास्तत्र विज्ञेया नित्यं मुदितमानसाः ॥ १५.५७ ॥

भद्रशालवनं चात्र कालाम्रस्तु महाद्रुमः ॥
तत्र ते पुरुषाः स्वेता महोत्साहा बलान्विताः ॥ १५.५८ ॥

स्त्रियः कुमुदवर्णाभाः सुन्दर्यः प्रियदर्शनाः ॥
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्र निभाननाः ॥ १५.५९ ॥

चन्द्रशीतलगात्र्यस्ताः स्त्रिय उत्पलगन्धिकाः ॥
दशवर्षसहस्राणि तेषामायुरनामयम् ॥ १५.६० ॥

कालाम्रस्य रसं पीत्वा सर्वे च स्थिरयौवनाः ॥
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण च ॥ १५.६१ ॥

वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥
रतिप्रधाना विमला जरादौर्गन्ध्यवर्जिताः ॥ १५.६२ ॥

शुक्लाऽभिजनसम्पन्नाः सर्वे च प्रियदर्शनाः ॥
तत्रापि सुमहान्वृक्षो न्यग्रोधो रोहितो महान् ॥ १५.६३ ॥

तस्यापि ते फलरसं पिबन्तो वर्त्तयन्ति वै ॥
दशवर्षसहस्राणि शतानि दश पञ्च च ॥ १५.६४ ॥

जीवन्ति ते महाभागाः सदा त्दृष्टा नरोत्तमाः ॥
दक्षिणे वै श्रृङ्गवतः श्वेतस्याप्युत्तरेण च ॥ १५.६५ ॥

वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी ॥
महाबलाः सुतेजस्का जायन्ते तत्र मानवाः ॥ १५.६६ ॥

यक्षा वीरा महासत्त्वा धनिनः प्रियदर्शनाः ॥
एकादशसहस्राणि वर्षाणां ते महौजसः ॥ १५.६७ ॥

आयुः प्रमाणं जीवन्ति शतानि दश पञ्च च ॥
यस्मिन्वर्षे महावृक्षो लकुचः षड्रसाश्रयः ॥ १५.६८ ॥

तस्य पीत्वा फलरसं ते जीवन्ति निरामयाः ॥
त्रीणि श्रृङ्गवतः श्रृङ्गाण्युच्छ्रितानि महान्ति च ॥ १५.६९ ॥

एकं मणिमयं तेषामेकं चैव हिरण्मयम् ॥
सर्वरत्नमयं चैकं भवनैरुपशोभितम् ॥ १५.७० ॥

उत्तरे वै श्रृङ्गावतः समुद्रस्य च दक्षिणे ॥
कुरवस्तत्र तद्वर्षं पुण्यं सिद्धनिषेवितम् ॥ १५.७१ ॥

तत्र वृक्षा मधु फला नित्यपुष्पफलोपगाः ॥
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥ १५.७२ ॥

सर्वकामप्रदास्तत्र केचिद्वक्षा मनोरमाः ॥
गन्धवर्णरसो पेतं प्रक्षरन्ति मधूत्तमम् ॥ १५.७३ ॥

अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः ॥
ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् ॥ १५.७४ ॥

सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका ॥
सर्वर्तुसुखसम्पन्ना न्निष्पङ्का नीरजा शुभा ॥ १५.७५ ॥

देवलोकच्युतास्तत्र जायन्ते मानवाः शुभाः ॥
शुक्लाभिजनसम्पन्नाः सर्वे च स्थिरयौवनाः ॥ १५.७६ ॥

मिथुनानि प्रसूयन्ते स्त्रियश्चाप्सरसः समाः ॥
तेषां ते क्षीरिणां क्षीरं पिबन्ति ह्यमृतो पमम् ॥ १५.७७ ॥

मिथुनं जायते सद्यः समं चैव विवर्द्धते ॥
समं शीलं च रूपं च प्रियता चैव तत्समा ॥ १५.७८ ॥

अन्योन्यमनुरक्ताश्च चक्रवाकसधर्मिणः ॥
अनामया ह्यशोकाश्च नित्यं सुखनिषेविणः ॥ १५.७९ ॥

त्रयोदशसहस्राणि शतानि दश पञ्च च ॥
जीवन्ति ते महावीर्या न चान्यस्त्रीनिषेविणः ॥ १५.८० ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वीतीयेऽनुषङ्गपादे
पृथिव्यायामविस्तरो नाम पञ्चदशोऽध्यायः ॥ १५ ॥