विश्वास-प्रस्तुतिः
सुत उवाच ॥
अथान्तरेषु सर्वेषु अतीतानागतेष्विह ॥
तुल्याभिमानिनः सर्वे जायन्ते नामरूपतः ॥ १४.१ ॥
मूलम्

देवाश्चाष्टविधा ये च तस्मिन्मम्वन्तरेऽधिपाः ॥
ऋषयो मनवश्चैव सर्वे तुल्यप्रयोजनाः ॥ १४.२ ॥

महर्षिसर्गः सङ्क्रान्तो वंशं स्वायम्भुवस्य तु ॥
विस्तरेणानुपूर्व्या च कीर्त्य मानं निबोधत ॥ १४.३ ॥

मनोः स्वायम्भूवस्यासन् दश पौत्रास्तु तत्समाः ॥
यैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ॥ १४.४ ॥

ससमुद्रा करवती प्रतिवर्षं निवेशिता ॥
स्वायम्भुवेंऽतरे पूर्वमाद्ये त्रेतायुगे तथा ॥ १४.५ ॥

प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायम्भुवस्य तु ॥
प्रजा सत्त्वतपोयुक्तैस्तैरियं विनिवेशिता ॥ १४.६ ॥

प्रियव्रतात्प्रजोपेतान् वीरान्काम्यान्व्यजायत ॥
कन्या सा तु महाभाग कर्दमस्य प्रजा पतेः ॥ १४.७ ॥

कन्ये द्वे दश पुत्राश्च सम्राट् कुक्षिश्च ते शुभे ॥
तयोर्वै भ्रातरः शूराः प्रजापतिसमा दश ॥ १४.८ ॥

आग्नीध्रश्चाग्निबा हुश्च मेधा मेधातिथिर्वसुः ॥
ज्योतिष्मान् द्युतिमान्हव्यः सवनः सभ्र एव च ॥ १४.९ ॥

प्रियव्रतोऽभ्यषिञ्चत्तान्सप्तसप्तसु पार्थिवान् ॥
द्वीपेषु तेषु धर्मेण द्वीपान्ताश्च निबोधत ॥ १४.१० ॥

जम्बूद्वीपेश्वरं चक्रे आग्नीध्रं सुमहाबलम् ॥
प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः ॥ १४.११ ॥

शाल्मले तु वपुष्मन्तं राजानं सोऽभिषिक्तवान् ॥
ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान्प्रभुः ॥ १४.१२ ॥

द्युतिमन्तं च राजानं क्रौञ्चद्वीपेऽभ्यषेचयत् ॥
शाकद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः ॥ १४.१३ ॥

पुष्कराधिपतिं चैव सवनं कृतवान्प्रभुः ॥
पुष्करे सवनस्याथ महावीतः सुतोऽभवत् ॥ १४.१४ ॥

धातकिश्चापि द्वावेतौ पुत्रौ पुत्रवता वरौ ॥
महावीतं स्मृतं वर्षं तस्य नाम्ना महात्मनः ॥ १४.१५ ॥

नाम्ना च धातकेश्चापि धातकीखण्ड उच्यते ॥
हव्यो व्यजनयत्पुत्राञ् शाकद्वीपेश्वराञ् प्रभुः ॥ १४.१६ ॥

जलदं च कुमारं च सुकुमारं मणीवकम् ॥
कुसुमोत्तरमोदाकौ सप्तमं च महाद्रुगम् ॥ १४.१७ ॥

जलदं जलदस्याथ प्रथमं वर्षमुच्यते ॥
कुमारस्य तु कौमारं द्वितीयं परिकीर्तितम् ॥ १४.१८ ॥

सुकुमारं तृतीयं तु सुकुमारस्य तत्स्सतम् ॥
मणीवस्य चतुर्थं तु मणीवकमिहोच्यते ॥ १४.१९ ॥

कुसुमोत्तरवर्षं यत्पञ्चमं कुसुमोत्तरम् ॥
मोदकस्यापि मोदाकं षष्ठं वर्षं प्रकीर्त्तितम् ॥ १४.२० ॥

महाद्रुमस्य नाम्ना च सप्तमं तन्महाद्रुमम् ॥
तेषां तु नामभिस्तानि सप्त वर्षाणि तत्र वै ॥ १४.२१ ॥

क्रौञ्चद्वीपेश्वरस्यापि पुत्रो द्युतिमतस्तु वै ॥
कुशलो मनोनुगस्छोष्णः पावनश्चान्धकारकः ॥ १४.२२ ॥

मुनिश्च दुन्दुभिश्चैव सुता द्युतिमतस्तु वै ॥
तेषां स्वनामभिर्देशाः क्रौञ्चद्वीपाश्रयाः शुभाः ॥ १४.२३ ॥

कुशलस्य तु देशोऽभूत कौशलो नाम विश्रुतः ॥
देशो मनोनुगस्यापि मानोनुगे इते स्मृतः ॥ १४.२४ ॥

उष्णस्योष्णः स्मृतो देशः पावनस्यापि पावनः ॥
अन्धकारस्य देशस्तु आन्धकारः प्रकीर्त्तितः ॥ १४.२५ ॥

मुनेश्च मौनिदेशो वै दुन्दुभेर्दुन्दुभिः स्मृतः ॥
एते जनपदाः सप्त क्रौञ्चद्वीपे तु भास्वराः ॥ १४.२६ ॥

ज्योतिष्मतः कुशद्वीपे सप्तैवासन्महौजसः ॥
उद्भिज्जो वेणुमांश्चैव वैरथो लवणो धृतिः ॥ १४.२७ ॥

षष्ठः प्रभाकरश्चा पि सप्तमः कपिलः स्मृतः ॥
उद्भिज्जं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ॥ १४.२८ ॥

तृतीयं वै रथाकारं चतुर्थं लवणं स्मृतम् ॥
पञ्चमं धृतिमद्वर्षं षष्ठं वर्षं प्रभाकरम् ॥ १४.२९ ॥

सप्तमं कपिलं नाम कपिलस्य प्रकीर्त्तितम् ॥
तेषां देशाः कशद्वीपे तत्सनामान एव च ॥ १४.३० ॥

आश्रमाचारयुक्ताभिः प्रजाभिः समलङ्कृताः ॥
शाल्मलस्येश्वराः सप्त सुतास्ते च वपुष्मतः ॥ १४.३१ ॥

श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा ॥
वैद्युतो मानसश्चापि सुप्रभः सप्तमस्तथा ॥ १४.३२ ॥

श्वेतस्तु देशः श्वेतस्य हरितस्य सुहारितः ॥
जीमूतस्यापि जीमूतो रोहितस्यापि रोहितः ॥ १४.३३ ॥

वैद्युतो वैद्युतस्यापि मानसस्य तु मानसः ॥
सुप्रभः सुप्रभस्यापि सप्तैते देशपालकाः ॥ १४.३४ ॥

प्लक्ष द्वीपं प्रवक्ष्यामि जम्बूद्वीपादनन्तरम् ॥
सप्त मेधातिथे पुत्राः प्लक्षद्वीपेश्वरा नृपाः ॥ १४.३५ ॥

ज्येष्ठः शान्तभयो नाम द्वितीयः शिशिरः स्मृतः ॥
सुखोदयस्तृतीयस्तु चतुर्थो नन्द उच्यते ॥ १४.३६ ॥

शिवस्तु पेचमस्तेषां क्षेमकः षष्ठ उच्यते ॥
ध्रुवस्तु सप्तमो ज्ञेयः पुत्रा मेधातिथेः स्मृताः ॥ १४.३७ ॥

सप्तानां नामभिस्तेषां तानि वर्षाणि सप्त वै ॥
तस्माच्छान्तभयं चैव शिशिरं च सुखोदयम् ॥ १४.३८ ॥

आनन्दं च शिवं चैव क्षेमकं च ध्रुवं तथा ॥
तानि तेषां समानानि सप्त वर्षाणि भागशः ॥ १४.३९ ॥

निवेशितानि तैस्तानि पूर्वं स्वायम्भूवेन्तरे ॥
मेधा तिथेस्तु पुत्रैस्तैः प्लक्षद्वीपेश्वरैर्नृबैः ॥ १४.४० ॥

वर्णाश्रमाचारयुक्ताः प्लक्षद्वीपे प्रजाः कृताः ॥
प्लक्षद्वीपादिषु त्वेषु शाकद्वीपान्तिकेषु वै ॥ १४.४१ ॥

ज्ञेयः पञ्चसु धर्मो वै वर्णाश्रमविभाजकः ॥
सुखमायुश्च रूपं च बलं धर्मश्च नित्यशः ॥ १४.४२ ॥

पञ्चस्वेतेषु द्वीपेषु सर्वसाधा रणं स्मृतम् ॥
प्रक्षद्वीपः परिष्क्रान्तो जम्बूद्वीपं निबोधत ॥ १४.४३ ॥

आग्नीध्रं ज्येष्ठदायादं काम्यापुत्रं महाबलम् ॥
प्रियव्रतोऽभ्य षिञ्चत्तं जम्बूद्वीपेश्वरं नृपम् ॥ १४.४४ ॥

तस्य पुत्रा बभूवुर्हि प्रजापतिसमा नव ॥
ज्येष्ठो नाभिरिति ख्यातस्तस्य किम्पुरुषोऽनुजः ॥ १४.४५ ॥

हरिवर्षस्तृतीयस्तु चतुर्थोऽभूदिलावृतः ॥
रम्यस्तु पञ्चमः पुत्रो हिरण्वान् षष्ठ उच्यते ॥ १४.४६ ॥

कुरुस्तु सप्तमस्तेषां भद्राश्वश्चाष्टमः स्मृतः ॥
नवमः केतुमालश्च तेषां देशान्निबोधत ॥ १४.४७ ॥

नाभेस्तु दक्षिणं वर्षं हिमाख्यं तु पिता ददौ ॥
हेमकूटं तु यद्वर्षं ददौ किपुरुषाय तत् ॥ १४.४८ ॥

नैषधं यत्स्मृतं वर्षं हरिवर्षाय तं ददौ ॥
मध्यमं यत्सुमेरोस्तु ददौ स तदिलावृतम् ॥ १४.४९ ॥

नीलं तु यत्स्मृतं वर्षं रम्यायैतप्तिता ददौ ॥
श्वेतं यदुत्तरं तस्मात्पित्रा दत्तं हिरण्वते ॥ १४.५० ॥

यदुत्तरे श्रृङ्गवतो वर्षं तत्कुरवे ददौ ॥
साल्यवन्तं तथा वर्षं भद्राश्वाय न्यवेदयत् ॥ १४.५१ ॥

गन्धमादनवर्षं तु केतुमाले न्यवेदयत् ॥
इत्येतानि मयोक्तानि नव वर्षाणि भागशः ॥ १४.५२ ॥

आग्नी ध्रस्तेषु वर्षेषु पुत्रांस्तानभ्यषेचयत् ॥
यथाक्रमं स धर्मात्मा ततस्तु तपसि स्थितः ॥ १४.५३ ॥

इत्येतौः सप्तभिः कृत्स्ना सप्तद्वीपा निवे शिताः ॥
प्रियव्रतस्य पुत्रैस्तैः पौतैः स्वायम्भुवस्य च ॥ १४.५४ ॥

एवं वर्षेषु सर्वेषु सन्निवेशाः पुनः पुनः ॥
क्रियन्ते प्रलये वृत्ते सप्त सप्तसु पार्थिवैः ॥ १४.५५ ॥

एवं स्वभावः कल्पानां द्वीपानां च निवेशने ॥
यानि किम्पुरुषाद्यानि वर्णाण्यष्टौ श्रुतानि तु ॥ १४.५६ ॥

तेषां स्वभावतः सिद्धिः सुखप्रायमयत्नतः ॥
विपर्ययो न तेष्वस्ति जरामृत्युभयं न च ॥ १४.५७ ॥

धर्माधर्मौ न तेष्वास्ता नोत्तमाधममध्यमाः ॥
न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टासु सर्वशः ॥ १४.५८ ॥

नाभेर्निसर्गं वक्ष्यामि हिमाह्वेऽस्मिन्निबोधत ॥
नाभिस्त्वज नयत्पुत्रं मेरुदेव्यां महाद्युतिम् ॥ १४.५९ ॥

ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूर्वजम् ॥
ऋषभाद्भरतो जज्ञे वीरः पुत्रशताग्रजः ॥ १४.६० ॥

सोभिषिच्यर्षभः पुत्रं महाप्रव्रज्यया स्थितः ॥
हिमाह्वं दक्षिणं वर्षं भरताय न्यवेदयत् ॥ १४.६१ ॥

तस्मात्तु भारतं वर्षं तस्य नाम्ना विदुर्बुधाः ॥
भरतस्यात्मजो विद्वान्सुमतिर्नाम धार्मिकः ॥ १४.६२ ॥

बभूव तस्मिन् राज्ये तम्भरतस्त्वभ्यषेचयत् ॥
पुत्रसङ्क्रामितश्रीस्तु वनं राजा विवेश सः ॥ १४.६३ ॥

तेजसस्तत्सुतश्चापि प्रजापतिरमित्रजित् ॥
तेजसस्यात्मजो विद्वानिन्द्रद्युम्न इति स्मृतः ॥ १४.६४ ॥

परमेष्ठी सुतश्चापि निधने तस्य चाप्यभूत् ॥
प्रतीहारः कुलं तस्य नाम्ना जज्ञे तदन्वयः ॥ १४.६५ ॥

प्रतिहर्तेति विख्यातो जज्ञे तस्यापि धीमतः ॥
उन्नेता प्रतिहर्तुस्तु भूमा तस्य सुतः स्मृतः ॥ १४.६६ ॥

उद्गीथस्तस्य पुत्रोऽभूतप्रस्ताविश्चापि तत्सुतः ॥
प्रस्तावेस्तु विभुः पुत्रः पृथुस्तस्य सुतोऽभवत् ॥ १४.६७ ॥

पृथोश्चापि सुतो नक्तो नक्तस्यापि गयः सुतः ॥
गयस्यापि नरः पुत्रो नरस्यापि सुतो विराट् ॥ १४.६८ ॥

विराट्सुतो महावीर्यो धीमांस्तस्य सुतोऽभवत् ॥
धीमतश्च महान्पुत्रो महतश्चापि भौवनः ॥ १४.६९ ॥

भौवनस्य सतस्त्वष्टा विरजास्तस्य चात्मजः ॥
रजा विरजसः पुत्रः शतजिद्रजसस्तथा ॥ १४.७० ॥

तस्य पुत्रशतं त्वासीद्राजानः सर्व एव तु ॥
विश्वज्योतिष्प्रधानास्ते यैरिमा वर्द्धिताः प्रजाः ॥ १४.७१ ॥

तैरिदं भारतं वर्षं सप्तद्वीपमिहाङ्कितम् ॥
तेषां वंशप्रसूतैस्तु भुक्तेयं भारती पुरा ॥ १४.७२ ॥

कृतत्रेतादियुक्तास्तु युगाख्या ह्येकसप्ततिः ॥
येऽतीतास्तैर्युगैः सार्धं राजानस्ते तदन्वयाः ॥ १४.७३ ॥

स्वायम्भुवेंऽतरे पूर्वं शतशोऽथ सहस्रशः ॥
एवं स्वायं भुवः सर्गो येनेदं पूरितं जगत् ॥ १४.७४ ॥

ऋषिभिर्दैवतैश्चापि पिर्तृगन्धवराक्षसैः ॥
यक्षभूतपिशाचैश्च मनुष्यमृगपक्षिभिः ॥
तेषां सृष्टिरियं प्रोक्ता युगैः सह विवर्त्तते ॥ १४.७५ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे
प्रियव्रतवंशानुकीर्त्तनं नाम चतुदशोऽध्यायः ॥ १४ ॥