०१३

विश्वास-प्रस्तुतिः

सुत उवाच ॥
ब्रह्मणः सृजतः पुत्रान् पूर्वं स्वायम्भुवेंऽतरे ॥
गात्रेभ्यो जज्ञिरे तस्य मनुष्यासुरदेवताः ॥ १३.१ ॥

मूलम्

पितृवन्मन्यमानास्तं जज्ञिरे पितरोऽपि च ॥
तेषां निसर्गः प्रागुक्तः समासाच्छ्रुयतां पुनः ॥ १३.२ ॥

देवासुरमनुष्यांश्च सृष्ट्वा ब्रह्माभ्यमन्यत ॥
पितृवन्मन्यमाना वै जज्ञिरेऽस्योपपक्षतः ॥ १३.३ ॥

मध्वादयः षडृतवः पितॄंस्तान्परिचक्षते ॥
ऋतवः पितरो देवा इत्येषा वैदिकी श्रुतिः ॥ १३.४ ॥

मन्वन्तरेषु सर्वेषु ह्यतीतानागतेषु वै ॥
एते स्वायम्भुवे पूर्वमुत्पन्नाश्चान्तरे शुभे ॥ १३.५ ॥

अग्निष्वात्ता स्मृता नाम्ना तथा बर्हिषदश्च वै ॥
अयज्वानस्तथा तेषामासन्ये गृहमेधिनः ॥ १३.६ ॥

अग्निष्वात्ता स्मृतास्ते वै पितरो नाहिताग्नयः ॥
यज्वानस्तेषु ये त्वासन्पितरः सोमपीथिनः ॥ १३.७ ॥

स्मृता बर्हिषदस्ते वै पितरस्त्वग्निहोत्रिणः ॥
ऋतवः पितरो देवाः शास्त्रेऽस्मिन्निश्चयं गताः ॥ १३.८ ॥

मधुमाधवौ रसौ ज्ञेयौ शुचिशुक्रौ च शुष्मिणौ ॥
नभाश्चैव नभस्यश्च जीवावेतावुदाहृतौ ॥ १३.९ ॥

इषश्चैव तथोर्जश्च स्वधावन्तावुदाहृतौ ॥
सहश्चैव सहस्यश्च घोरावेतावुदाहृतौ ॥ १३.१० ॥

तपाश्चैव तपस्यश्च मन्युमन्तौ तु शैशिरौ ॥
कालावस्थासु षट्स्वेते मासाख्या वै व्यवस्थिताः ॥ १३.११ ॥

इमे च ऋतवः प्रोक्ताश्चेतनाचेतनेषु वै ॥
ऋतवो ब्रह्मणः पुत्रा विज्ञेयास्तेऽभिमानिनः ॥ १३.१२ ॥

मासार्द्धमासस्थानेषु स्थानिनौ ऋतवो मताः ॥
स्थानानां व्यतिरेकेण ज्ञेयाः स्थानाभिमानिनः ॥ १३.१३ ॥

अहोरात्राणि मासाश्च ऋतवश्चायनानि च ॥
संवत्सराश्च स्थानानि कामाख्या ह्यभिमानिनाम् ॥ १३.१४ ॥

एतेषु स्थानिनो ये तु कालावस्था व्यवस्थिताः ॥
तत्सतत्त्वास्तदात्मानस्तान्वक्ष्यामि निबोधत ॥ १३.१५ ॥

पार्वण्यस्तिथयः सन्ध्याः पक्षा मासार्द्धसम्मिताः ॥
निमेषाश्च कलाः कष्ठा मुहुर्त्ता दिवसाः क्षयाः ॥ १३.१६ ॥

द्वावर्द्धमासौ मासस्तु द्वौ मासावृतुरुच्यते ॥
ऋतुत्रयं चाप्ययनं द्वेऽयने दक्षिणोत्तरे ॥ १३.१७ ॥

संवत्सरः समेतश्च स्थानान्येतानि स्थानिनाम् ॥
ऋतवस्तु निमेः पुत्रा विज्ञेयास्ते तथैव षट् ॥ १३.१८ ॥

ऋतुपुत्राः स्मृताः पञ्च प्रजाः स्वार्तवलक्षणाः ॥
यस्माच्चैवार्त्तवेभ्यस्तु जायन्ते स्थाणु जङ्गमाः ॥ १३.१९ ॥

आर्तवाः पितरस्तस्मादृतवश्च पितामहाः ॥
समेतास्तु प्रसूयन्ते प्रजाश्चैव प्रजापतेः ॥ १३.२० ॥

तस्मात्स्मृतः प्रजानां वै वत्सरः प्रपितामहः ॥
स्थानेषु स्थानिनो ह्येते स्थानात्मानः प्रकीर्त्तिताः ॥ १३.२१ ॥

तदाख्यास्तत्ससत्त्वाश्च तदात्मानश्च ते स्मृताः ॥
प्रजापतिः स्मृतो यस्तु स तु संवत्सरो मतः ॥ १३.२२ ॥

संवत्सरसुतो ह्यग्नि ऋत इत्युच्यते बुधैः ॥
ऋतात्तु ऋतवो यस्माज्जज्ञिरे ऋतवस्ततः ॥ १३.२३ ॥

मासाः षडर्तवो ज्ञेयास्तेषां पञ्चर्तवाः स्मृताः ॥
द्विपदां चतुष्पदां चैव पक्षिणां सर्वतामपि ॥ १३.२४ ॥

स्थावराणां च पञ्चानां पुष्पं कालार्त्तवं स्मृतम् ॥
ऋतुत्वमार्तवत्वं च पितृत्वं च प्रकीर्त्तितम् ॥ १३.२५ ॥

इत्येते पितरो ज्ञेया ऋतवश्चार्तवाश्च ये ॥
सर्वभूतानि तेभ्यो यदृतुकालाद्विजज्ञिरे ॥ १३.२६ ॥

तस्मादेते हि पितर आर्तवा इति नः श्रुतम् ॥
मन्वन्तरेष्विह त्वेते स्थिताः कालभिमानिनः ॥ १३.२७ ॥

कार्यकारणयुक्तास्तु ए श्वर्याद्व्याप्य संस्थिताः ॥
स्थानाभिमानिनो ह्येते तिष्ठन्तीह प्रसङ्गमात् ॥ १३.२८ ॥

अग्निष्वात्ता बर्हिषदः पितरो विविधाः पुनः ॥
जज्ञे स्वधापितृभ्यस्तु द्वे कन्ये लोकविश्रुते ॥ १३.२९ ॥

मेना च धारणी चैव याभ्यां धृतमिदं जगत् ॥
ते उभे ब्रह्मवादिन्यौ योगिन्यौ चैव ते उभे ॥ १३.३० ॥

पितरस्ते निजे कन्ये धर्मार्थं प्रददुः शुभे ॥
अग्निष्वात्तास्तु ये प्रोक्तास्तेषां मेना तु मानसी ॥ १३.३१ ॥

धारणी मानसी चैव कन्या बर्हिषदां स्मृता ॥
मेरोस्तां धारणीं नाम पत्न्यर्थं वा सृजन् शुभाम् ॥ १३.३२ ॥

पितरस्ते बर्हिषदः स्मृता ये सोमपायिनः ॥
अग्निष्वात्तास्तु तां मेना पत्नी हिमवते ददुः ॥ १३.३३ ॥

उपहूता स्मृता ये वै तद्दौहित्रान्निबोधत ॥
मेना हिमवतः पत्नी मैनाकं सा व्यजायत ॥ १३.३४ ॥

गङ्गां सरिद्वरां चैव पत्नी या लवणोदधेः ॥
मैनाकस्यात्मजः क्रौचः क्रौञ्चद्वीपो यतः स्मृतः ॥ १३.३५ ॥

मेरोस्तु धारणी पत्नी दिव्यौषधिसमन्वितम् ॥
मन्दरं सुषुवे पुत्रं तिस्रः कन्याश्च विश्रुताः ॥ १३.३६ ॥

वेलां च नियतिं चैव तृतीयां चायतिं विदुः ॥
धातुश्चैवायतिः पत्नी विधातुर्नियतिः स्मृता ॥ १३.३७ ॥

स्वायं भुवेंऽतरे पूर्वं ययोर्वै कीर्त्तिताः प्रजाः ॥
सुषुवे सागराद्वेला कन्यामेकामनिन्दिताम् ॥ १३.३८ ॥

सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः ॥
सवर्णायां सुता जाता दश प्राचीनबर्हिषः ॥ १३.३९ ॥

सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ॥
तेषां स्वायम्भुवो दक्षः पुत्रत्वं जग्मि वान्प्रभुः ॥ १३.४० ॥

त्रयम्बकस्याभिशापेन चाक्षुषस्यान्तरे मनोः ॥
एतच्छुत्वा ततः सूतमपृच्छच्छांशपायनिः ॥ १३.४१ ॥

उत्पन्नः स कथं दक्षो ह्यभिशापाद्भवस्य तु ॥
चाक्षुषस्यान्तरे पूर्वं तन्नः प्रब्रूहि पृच्छताम् ॥ १३.४२ ॥

इत्युक्तः कथयामास सूतो दक्षाश्रयां कथाम् ॥
शांशपायनिमामन्त्र्य त्र्यम्बकाच्छापकारणम् ॥ १३.४३ ॥

सूत उवाच ॥
दक्षस्यासन्सुता ह्यष्टौ कन्या याः कीर्त्तिता मया ॥
स्वेभ्यो गृहेभ्य आनाय्य ताः पिताभ्यर्चयद्गृहे ॥ १३.४४ ॥

ततस्त्वभ्यर्चिताः सर्वा न्यवसंस्ताः पितुर्गृहे ॥
तासां ज्येष्ठा सती नाम पत्नी या त्र्यम्बकस्य वै ॥ १३.४५ ॥

नाजुहावात्मजां तां वै दक्षो रुद्रमभिद्विषन् ॥
अकरोत्सन्नतिं दक्षे न कदाचिन्महेश्वरः ॥ १३.४६ ॥

जामाता श्वशुरे तस्मिन्स्वभावात्तेजसि स्थितः ॥
ततो ज्ञात्वा सती सर्वाः न्यवसंस्ताः पितुर्गृहे ॥ १३.४७ ॥

जगाम साप्यनाहूता सती तत्स्व पितुर्गृहम् ॥
ताभ्यो हीनां पिता चक्रे सत्याः पूजामसम्मताम् ॥ १३.४८ ॥

ततोऽब्रवीत्सा पितरं देवी क्रोधादमर्षिता ॥
यवीयसीभ्योप्यधमां पूजां कृत्वा मम प्रभो ॥ १३.४९ ॥

असत्कृत्य पितर्मां त्वं कृतवानसि गर्हितम् ॥
अहं ज्येष्ठा वरिष्ठा च त्वं मां सत्कर्तुमर्ह सि ॥ १३.५० ॥

एवमुक्तोऽब्रवीदेनां दक्षः संरक्तलोचनः ॥
त्वत्तः श्रेष्ठावरिष्ठाश्च पूज्या बालाः सुता मम ॥ १३.५१ ॥

तासां चैव तु भर्तारस्ते मे बहुमताः सति ॥
ब्रह्मिष्ठाः सुतपस्काश्च महायोगाः सुधार्मिकाः ॥ १३.५२ ॥

गुणैश्चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यम्बकात्सति ॥
वसिष्ठोऽत्रिः पुलस्त्यश्च ह्यङ्गिरा पुलहः क्रतुः ॥ १३.५३ ॥

भृगुर्मरीचिश्च तथा श्रैष्ठा जामातरो मम ॥
यस्मान्मां स्पर्द्धते शर्वः सदा चैवावमन्यते ॥ १३.५४ ॥

तेन त्वां न विभूषामि प्रतिकूलो हि मे भवः ॥
इत्युक्तवांस्तदा दक्षः सम्प्रमूढेन चेतसा ॥ १३.५५ ॥

शापार्थमात्मनश्चैव ये चोक्ताः परमर्षयः ॥
तथोक्ता पितरं सा वै क्रुद्धा देवीदमब्रवीत् ॥ १३.५६ ॥

वाङ्मनः कर्मभिर्यस्माददुष्टां मां विगर्हसे ॥
तस्मात्त्यजाम्यहमिमं देहं तात तवात्मजम् ॥ १३.५७ ॥

ततस्तेनावमानेन सती दुःखादमर्षिता ॥
अब्रवीद्वचनं देवी नमस्कृत्य स्वयम्भुवे ॥ १३.५८ ॥

यत्राहमुपपद्ये च पुनर्देहेन भास्वता ॥
तत्राप्यहमसम्भूता सम्भूता धार्मिकादपि ॥ १३.५९ ॥

गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः ॥
तत्रैवाथ समासीना युक्तात्मानं समादधे ॥ १३.६० ॥

धारयामास चाग्नेयीं धारणां मनसात्मनः ॥
तत आत्मसमुत्थोऽस्या वायुना समुदीरितः ॥
सर्वागेभ्यो विनिःसृत्य वह्निस्तां भस्मसात्करोत् ॥ १३.६१ ॥

तदुपश्रुत्य निधनं सत्या देवोऽथ शूलभृत् ॥
संवादं च तयोर्बुद्ध्वा याथातथ्येन शङ्करः ॥
दक्षस्य च ऋषीणां च चुकोप भगवान्प्रभुः ॥ १३.६२ ॥

रुद्र उवाच ॥
सर्वेषामेव लोकानां भूर्लोकस्त्वादिरुच्यते ॥
तं सदा धारयिष्यामि निदेशात्परमेष्ठिनः ॥ १३.६३ ॥

अस्यां क्षितौ धृता लोकाः सर्वे तिष्ठन्ति भास्वराः ॥
तानहं धारयामीह सततं च तदाज्ञया ॥ १३.६४ ॥

चातुर्वर्ण्यं हि देवानां ते चाप्येकत्र भुञ्जते ॥
नाहं तैः सह भोक्ष्ये वै ततो दास्यन्ति ते पृथक् ॥ १३.६५ ॥

यस्मादवमता दक्ष मत्कृतेऽनागसा सती ॥
प्रशस्ताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह ॥ १३.६६ ॥

तस्माद्वैवस्वते प्राप्ते पुनरेते महर्षयः ॥
उत्पत्स्यन्ते द्वितीये वै मम यज्ञ ह्ययोनिचाः ॥ १३.६७ ॥

हुते वै ब्रह्मणा शुक्रे चाक्षुषस्यान्तरे मनोः ॥
अभिव्याहृत्य सर्वांस्तान् दक्षं चैवाशपत्पुनः ॥ १३.६८ ॥

भविता मानुषो राजा चाक्षुषस्य त्वमन्वये ॥
प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसाम् ॥ १३.६९ ॥

दक्ष एवेह नाम्ना तु मारिषायां जनिष्यसि ॥
कन्यायां शाखिनां त्वं वै प्राप्ते वैवस्वतेंऽतरे ॥ १३.७० ॥

विघ्नं तत्राप्यहं तुभ्यमाचरिष्यामि दुर्मते ॥
धर्म्मयुक्ते च ते कार्ये एकस्मिंस्तु दुरासदे ॥ १३.७१ ॥

तदुपश्रुत्य दक्षस्तु रुद्रं सोऽभ्यशपत्पुनः ॥
यस्मात्त्वं मत्कृतेऽनिष्टमृषीणां कृतवानसि ॥
तस्मात्सार्द्धं सुरैर्यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः ॥ १३.७२ ॥

हुत्वाऽऽहुतिं तव क्रूर ह्यपः स्प्रक्ष्यन्ति कर्मसु ॥
इहैव वत्स्यसि तथा दिवं हित्वा युगक्षयात् ॥ १३.७३ ॥

ततो देवैः स तैः सार्द्धं नेज्यते पृथगिज्यते ॥
ततोऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा ॥ १३.७४ ॥

स्वायम्भुवीं तनुं त्यक्त्वा उत्पन्नो मानुषेष्विह ॥ १३.७५ ॥
ज्ञात्वा गृहपतिर्दक्षो यज्ञानामीश्वरं प्रभुम् ॥
समस्तेनेह यज्ञेन सोऽयजद्दैवतैः सह ॥ १३.७६ ॥

अथ देवी सती या तु प्राप्ते वैवस्वतेंऽतरे ॥
मेनायां तामुमां देवीं जनयामास शैलराट् ॥ १३.७७ ॥

या तु देवी सती पूर्वमासीत्पश्चादुमाऽभवत् ॥
सदा पत्नी भवस्यैषा न तया मुच्यते भवः ॥ १३.७८ ॥

मरीचं कश्यपं देवी यथादितिरनुव्रता ॥
यथा नारायणं श्रीश्च मघवन्तं शची यथा ॥ १३.७९ ॥

विष्णुं कीर्ती रुषा सूर्यं वसिष्ठं चाप्यरुन्धती ॥
नैतास्तु विजहत्येतान् भर्तॄन्देव्यः कदाचन ॥ १३.८० ॥

आवर्तमानाः कल्पेषु जायन्ते तैः पुनः सह ॥
एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषेंऽतरे ॥ १३.८१ ॥

दशभ्यस्तु प्रचेतोभ्यो मारिषायां पुनर्नृपः ॥
जज्ञे तदाभिशापेन द्वितीय इति नः श्रुतम् ॥ १३.८२ ॥

भृगवादयश्च ये सप्त जज्ञिरे च महर्षयः ॥
आद्ये त्रेतायुगे पूर्वं मनोर्वैवस्वतस्य च ॥ १३.८३ ॥

देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥
इत्येषोऽनुशयो ह्यासीत्तयोर्जात्यन्तरानुगः ॥ १३.८४ ॥

प्रजापतेश्च दक्षस्य त्र्यम्बकस्य च धीमतः ॥
तस्मान्नानुशयः कार्यो वैरेष्विह कदाचन ॥ १३.८५ ॥

जात्यन्तरगतस्यापि भवितस्य शुभाशुभैः ॥
ख्यातिं न मुञ्चते जन्तुस्तन्न कार्यं विपश्चिता ॥ १३.८६ ॥

इत्येषा समनुक्रान्ता कथा पापप्रमोचनी ॥
या दक्षमधिकृत्येह त्वया पूर्वं प्रचौदिता ॥ १३.८७ ॥

पितृवंशप्रसङ्गेन कथा ह्येषा प्रकीर्त्तिता ॥
पितॄणामानुपूर्व्येण देवान्वक्ष्याम्यतः परम् ॥ १३.८८ ॥

त्रेतायुगमुखे पूर्वमासन्स्वायम्भुवेंऽतरे ॥
देवा यामा इति ख्याताः पूर्वं ये यज्ञसूनवः ॥ १३.८९ ॥

प्रथिता ब्रह्मणः पुत्रा अजत्वादजितास्तु ते ॥
पुत्राः स्वायम्भुवस्यैते शक्ता नाम तु मानसाः ॥ १३.९० ॥

तेषां यतो गणा ह्येते देवानां तु त्रयः स्मृताः ॥
छन्दजास्तु त्रयस्त्रिंशत्सर्गे स्वायम्भुवस्य ह ॥ १३.९१ ॥

यदुर्ययातिर्देवौ द्वौ वीवधस्रासतो मतिः ॥
विभासश्च क्रतुश्चैव प्रयातिर्विश्रुतो द्युतिः ॥ १३.९२ ॥

वायव्यः संयमश्चैव यामा द्वादश कीर्त्तिताः ॥
असमश्चोग्रदृष्टिश्च सुनयोऽथ शुचिश्रवाः ॥ १३.९३ ॥

केवलो विश्वरूपश्च सुदक्षो मधुपस्तथा ॥
तुरीय इन्द्रयुक्चैव युक्तो ग्रावजितस्तु वै ॥ १३.९४ ॥

जनिमा विश्वदेवा च जविष्ठो मितवानपि ॥
जरो विभुर्विभावश्च स ऋचीकोऽथ दुर्दिहः ॥ १३.९५ ॥

श्रुतिर्गृणानोऽथ बृहच्छुक्रा द्वादश कीर्त्तिताः ॥
अासन्स्वायम्भुवस्यैते चान्तरे सोमपायिनः ॥ १३.९६ ॥

दीप्तिमन्तो गणा ह्येते वीर्यवन्तो महाबलाः ॥
तेषामिन्द्रस्तदा ह्यासीत्प्रथमे विश्वभुक् प्रभुः ॥ १३.९७ ॥

असुरा ये तदा तेषामासन् दायादबान्धवाः ॥
सुपर्णयक्षगन्धर्वाः पिशाचोरगराक्षसाः ॥ १३.९८ ॥

अष्टौ ताः पितृभिः सार्द्धमासन्या देवयोनयः ॥
स्वायम्भुवेन्तरेऽतीताः प्रजास्तासां सहस्रशः ॥ १३.९९ ॥

प्रभावरूपसम्पन्ना आयुषा च बलेन च ॥
विस्तरादिह नोच्यन्ते माप्रसङ्गो भवेदिह ॥ १३.१०० ॥

स्वायम्भुवो विसर्गस्तु विज्ञेयः साम्प्रतेन ह ॥
अतीतो वर्तमानेन दृष्टो वैवस्वतेन सः ॥ १३.१०१ ॥

प्रजाभिर्देवाताभिश्च ऋषिभिः पितृभिः सह ॥
तेषां सप्तर्षयः पूर्वमासन्ये तान्निबोधत ॥ १३.१०२ ॥

भृग्वङ्गिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः ॥
अत्रिश्चैव वसिष्ठस्च सप्त स्वायम्भुवेऽतरे ॥ १३.१०३ ॥

आग्नीध्रश्चाग्निबाहुश्च मोधा मेधातिथिर्वसुः ॥
ज्योतिष्मान् द्युतिमान्हव्यः सवनः सत्त्र एव च ॥ १३.१०४ ॥

मनोः स्वायम्भुवस्यैते दश पुत्रा महौजसः ॥
वायुवेगा महासत्त्वा राजानः प्रथमेंऽतरे ॥ १३.१०५ ॥

सासुरं तत्सुगन्धर्वं सयक्षोरगराक्षसम् ॥
सपिशाचमनुष्यं च ससुपर्णाप्सरोगणम् ॥ १३.१०६ ॥

न शक्यमानुपूर्व्येण वक्तुं वर्षशतैरपि ॥
बहुत्वान्नामधेयानां सङ्ख्या तेषां कुतः कुले ॥ १३.१०७ ॥

या वै प्रजा युगाख्यास्तु आसन्स्वायम्भुवेंऽतरे ॥
कालेन महताऽतीता अयनाब्दयुगक्रमैः ॥ १३.१०८ ॥

ऋषय ऊचुः ॥
क एष भगवान् कालः सर्वभूतापहारकः ॥
कस्य योनिः किमादिश्च किं सतत्त्वः किमात्मकः ॥ १३.१०९ ॥

किमस्य चक्षुः का मूर्तिः के वा अवयवाः स्मृताः ॥
किं नामधेयं कोऽस्यात्मा एतत्त्वं ब्रूहि तत्त्वतः ॥ १३.११० ॥

श्रूयतां कालसद्भावः श्रुत्वा चैवावधार्यताम् ॥
सूर्ययोनिर्निमेषादिः सङ्ख्याचक्षुः स उच्यते ॥ १३.१११ ॥

मूर्तिरस्य त्वहोरात्रो निमेषावयवश्च सः ॥
संवत्सरः सतत्त्वश्च नाम चास्य कलात्मकः ॥ १३.११२ ॥

साम्प्रतानागतातीतकालात्मा स प्रजापतिः ॥
पञ्चधा प्रविभक्तां तु कालावस्थां निबोधत ॥ १३.११३ ॥

दिवसार्द्धमासमासैश्च ऋतुभिस्त्वयनैस्तथा ॥
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः ॥ १३.११४ ॥

इड्वत्सरस्तृतीयश्च चतुर्थश्चानुवत्सरः ॥
पञ्चमो वत्सरस्तेषां कालः स युगसञ्ज्ञितः ॥ १३.११५ ॥

तेषां तत्त्वं प्रवक्ष्यामि कीर्त्यमानं निबोधत ॥
क्रतुरग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः ॥ १३.११६ ॥

आदितेयस्त्वसौ सूर्यः कालाग्निः परिवत्सरः ॥
शुक्लकृष्णगतिश्चापि अपां सारमयः खगः ॥ १३.११७ ॥

स इडावत्सरः सोमः पुराणे निश्चयं गतः ॥
यश्चायं पवते लोकांस्तनुभिः सप्तसप्तभिः ॥ १३.११८ ॥

अनुवाता च लोकस्य स वायुरनुवत्सरः ॥
अहङ्कारादुदग्रुद्रः सम्भूतो ब्रह्मणास्तु यः ॥ १३.११९ ॥

स रुद्रो वत्सरस्तेषां विज्ञेयो नीललोहितः ॥
सतत्त्वं तस्य वक्ष्यमि कीर्त्यमानं निबोधत ॥ १३.१२० ॥

अङ्गप्रत्यङ्गसंयोगात्कालात्मा प्रपितामहः ॥
ऋक्सामयजुषां योनिः पञ्चानां पतिरीश्वरः ॥ १३.१२१ ॥

सोऽग्निर्यमश्च कालश्च सम्भूतिः स प्रजापतिः ॥
प्रोक्तः संवत्सरश्चेति सूर्य योनिर्मनीषिभिः ॥ १३.१२२ ॥

यस्मात्कालविभागानां मासर्त्वयनयोरपि ॥
ग्रहनक्षत्रशीतोष्णवर्षायुः कर्मणां तथा ॥ १३.१२३ ॥

योनिः स प्रविभागानां दिवसानां च भास्करः ॥
वैकारिकः प्रसन्नात्मा ब्रह्मपुत्रः प्रजापतिः ॥ १३.१२४ ॥

एको नैकोऽथ दिवसो मासोऽथर्तुः पितामहः ॥
आदित्यः सविता भानुर्जीवनो ब्रह्मसत्कृतः ॥ १३.१२५ ॥

प्रभवश्चाव्ययश्चैव भूतानां तेन भास्करः ॥
ताराभिमानी विज्ञेयो द्वितीयः परिवत्सरः ॥ १३.१२६ ॥

सोमः सर्वौषधिपतिर्यस्मात्स प्रपितामहः ॥
आजीवः सर्वभूतानां योगक्षेमकृदीश्वरः ॥ १३.१२७ ॥

आवेक्षमाणः सततं बिभर्ति जगदंशुभिः ॥
तिथीनां पर्वसन्धीनां पूर्णिमादर्शयोरपि ॥ १३.१२८ ॥

योनिर्निशाकरो यश्च अमृतात्मा प्रजापतिः ॥
तस्मात्स पितृमान्सोमः स्मृत इड्वत्सरात्मकः ॥ १३.१२९ ॥

प्राणापानसमानाद्यैर्व्यानोदानात्मकैरपि ॥
कर्मभिः प्राणिनां लोके सर्वचेष्टाप्रवर्तकः ॥ १३.१३० ॥

पञ्चानां चेन्द्रियमनोर्बुद्धिस्मृतिबलात्मनाम् ॥
समानकालकरणक्रियाः सम्पादयन्नपि ॥ १३.१३१ ॥

सर्वात्मा सर्वलोकेश आवहप्रवहादिभिः ॥
वर्त्तते चोपकारैर्यस्तनुभिः सप्तसप्तभिः ॥ १३.१३२ ॥

विधाता सर्वभूतानां क्षेमी नित्यं प्रभञ्जनः ॥
योनिरग्नेरपां भूमे रवेश्चन्द्रमसश्च यः ॥ १३.१३३ ॥

वायुः प्रजापतिर्भूतो लोकात्मा प्रपितामहः ॥
अहोरात्रकरस्तस्मात्स वायुरनुवत्सरः ॥ १३.१३४ ॥

एते प्रजानां पतयश्चत्वार उपपक्षजाः ॥
पितरः सर्वलोकानां लोकात्मानः प्रकीर्त्तिताः ॥ १३.१३५ ॥

ध्यायतो ब्रह्माणो वक्त्रादुदन्समभवद्भवः ॥
ऋषिर्विप्रा महादेवो भूतात्मा प्रपितामहः ॥ १३.१३६ ॥

ईश्वरः सर्वभूतानां प्रणवो योऽथ पठ्यते ॥
आत्मावेशेन भूतानामङ्गप्रत्यङ्गसम्भवः ॥ १३.१३७ ॥

उन्मादकोऽनुग्रहकृद्रुद्रो वत्सर उच्यते ॥
सूर्य्यश्च चन्द्रमाश्चाग्निर्वायू रुद्रस्तथैव च ॥ १३.१३८ ॥

युगाभिमानी कालात्मा नित्यं सङ्क्षयकृद्विभुः ॥
रुद्रः प्रविष्टो भगवाञ्जगत्यस्मिन्स्वतेजसा ॥ १३.१३९ ॥

आश्रयान्मयि संयोगात्तनुभिर्नामभिस्तथा ॥
ततस्तस्य तु वीर्येण लोकानुग्रहकारकम् ॥ १३.१४० ॥

देवत्वं च पितृत्वं च कालत्वं चास्य यत्परम् ॥
तस्माद्वै सर्वथा रुद्रस्तद्विद्वद्भिरभीज्यते ॥ १३.१४१ ॥

यतः पतिः स भगवान् प्रजेशानां प्रजापतिः ॥
भावनः सर्वभूतानां सर्वात्मा नीललोहितः ॥ १३.१४२ ॥

औषधीः प्रतिसन्धत्ते रुद्रः क्षीणाः पुनः पुनः ॥
प्रजापतिमुखैर्देवैः सम्यगिष्टफलार्थिभिः ॥ १३.१४३ ॥

त्रिभिरेव कपालैश्च त्रयम्बकैरौषधिक्षये ॥
इज्यते भगवान् यस्मात्तस्मात्त्र्यम्बक उच्यते ॥ १३.१४४ ॥

गायत्री चैव त्रिष्टुप्च जगती चैव याः स्मृताः ॥
त्र्यम्बका नामतः प्रेम्णा योनयस्ता वनस्पतेः ॥ १३.१४५ ॥

ताभिरेकत्वभूताभिस्त्रिविधाभिः स्ववीर्यतः ॥
त्रिसाधनः पुरोडाशस्त्रिकपालः स वै स्मृतः ॥ १३.१४६ ॥

त्र्यम्बकः स पुरोडाशस्तेनैष त्र्यम्बकः स्मृतः ॥
इत्येतत्पञ्चवर्षं हि युगं प्रोक्तं मनीषिभिः ॥ १३.१४७ ॥

यश्चैष पञ्चधात्मा वै प्रोक्तः संवत्सरो द्विजैः ॥
सैकः षट्को विजज्ञेऽथ मध्वादिऋतुसञ्ज्ञकः ॥ १३.१४८ ॥

ऋतुपुत्रार्त्तवाः पञ्च इति सर्गः समासतः ॥
इत्येष बहुमानो वै प्राणिनां जीवितानि च ॥
नदीवेग इवासक्तः कालो धावति संहरन् ॥ १३.१४९ ॥

एतेषां यदपत्यं वै तदशक्यं प्रमाणतः ॥
बहुत्वात्परिसङ्ख्यातुं पुत्र पौत्रमनन्तकम् ॥ १३.१५० ॥

इमं वंशं प्रजेशानां महतः पुण्यकर्मणाम् ॥
कीर्त्तयन्पुण्यकीर्त्तीनां महतीं सिद्धिमाप्नुयात् ॥ १३.१५१ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे
कालसद्भाववर्णनं नाम त्रयोदशोंऽध्याय ॥ १३ ॥