०११

विश्वास-प्रस्तुतिः

सूत उवाच ॥
भृगोः ख्यातिर्विजज्ञे वै ईश्वरौ सुखदुःखयोः ॥
शुभाशुभप्रदातारौ सर्वप्राणभृतामिह ॥ ११.१ ॥

मूलम्

देवौ धातृविधातारौ मन्वन्तरविचारिणौ ॥
तयार्ज्येष्ठा तु भगिनी देवी श्रीर्लोकभाविनी ॥ ११.२ ॥

सा तु नारायणं देवं पति मासद्य शोभना ॥
नारायणात्मजौ तस्यां बलोन्मादौव्यजायताम् ॥ ११.३ ॥

बलस्य तेजः पुत्रस्तु उन्मादस्य तु संशयः ॥
तस्याऽन्ये मानसाः पुत्रा आसन् व्योमविचारिणः ॥ ११.४ ॥

ये वहन्ति विमानानि देवानां पुण्यकर्मणाम् ॥
मेरुकल्पे स्मृते भार्ये विधातुर्धातुरेव च ॥ ११.५ ॥

आयतिर्नियतिश्चैव तयोः पुत्रौ दृढव्रतौ ॥
प्राणश्चैव मृकण्डश्च ब्रह्मकोशौ सनातनौ ॥ ११.६ ॥

मनस्विन्यां मृकण्डस्य मार्कण्डेयो बभूव ह ॥
सुतो वेदशिरास्तस्य धूम्रपत्न्यामजायत ॥ ११.७ ॥

पीवर्यां वेदशिरसः पुत्रा वशकराः स्मृताः ॥
मार्कण्डेयाः समाख्याता ऋषयो वेदपारगाः ॥ ११.८ ॥

प्राणस्य पुण्डरीकायां द्युतिमानात्मजोऽभवत् ॥
उन्नतश्चद्युतिमतः स्वनवातश्च तावुभौ ॥ ११.९ ॥

तयोः पुत्राश्च पौत्राश्च भार्गवाणां परस्परात् ॥
स्वायम्भुवेन्तरेऽतीता मरीचेः श्रृणुत प्रजाः ॥ ११.१० ॥

पत्नी मरीचेः सम्भूतिर्विजज्ञे ह्यात्मसम्भंवम् ॥
प्रजापतेः पूर्णमासं कन्याश्चेमा निबोधत ॥ ११.११ ॥

कृषिर्वृष्टिस्त्विषा चैव तथा चोपचितिः शुभा ॥
पूर्णमासः सरस्वत्यां पुत्रौ द्वावुदपादयत् ॥ ११.१२ ॥

विरजं चैव धर्मिष्ठं पर्वशं चैव तावुभौ ॥
विरजस्यात्मजो विद्वान् सुधामा नाम विश्रुतः ॥ ११.१३ ॥

सुधामा स तु वैराजः प्राचीं दिशमुपा श्रितः ॥
लोकपालः स धर्मात्मा गौरीपुत्रः प्रतापवान् ॥ ११.१४ ॥

पर्वशः पर्वगणनां प्रविष्टः स महायशाः ॥
पर्वशः पर्वशायां तु जनया मास वै सुतौ ॥ ११.१५ ॥

यजुर्धाम च धीमन्तं स्तम्भकाश्यपमेव च ॥
तयोर्गोत्रकरौ पुत्रौ जातौ सन्न्यासनिश्चितौ ॥ ११.१६ ॥

स्मृतस्त्वं गिरसः पत्नी जज्ञे सा ह्यात्मसम्भवान् ॥
पुत्रो कन्याश्चतस्रश्च पुण्यास्ता लोकविश्रुताः ॥ ११.१७ ॥

सिनीवाली कुहूश्चैव राका चाऽनुमतिस्तथा ॥
तथैव भरताग्निं च कीर्तिमन्तं च तावुभौ ॥ ११.१८ ॥

अग्नेः पुत्रं च पर्जन्यं सद्वती सुषुवे तथा ॥
हिरण्यरोमा पर्जन्यो मारीच्यामुदपद्यत ॥ ११.१९ ॥

आभूतसम्प्लवस्थायी लोकपालः स वै स्मृतः ॥
यज्ञे कीर्त्तिमतश्चापि धेनुका वीतकल्मषौ ॥ ११.२० ॥

चरिष्णुं धृतिमन्तं च उभावङ्गिरसां वरौ ॥
तयोः पुत्राश्च पौत्राश्च अतीता वै सहस्रशः ॥ ११.२१ ॥

अनसूया विजज्ञे वै पञ्चात्रेयानकल्मषान् ॥
कन्यां चैव श्रुतिं नाम माता शङ्खपदस्य सा ॥ ११.२२ ॥

कर्दसस्य तु पत्नी सा पौलहस्य प्रजापतेः ॥
सत्यनेत्रश्च हव्यश्च आपो मूर्त्तिः शनैश्चरः ॥ ११.२३ ॥

सोमश्च पञ्चमस्तेषामासीत्स्वायम्भुवेन्तरे ॥
यामदेवैस्सहातीताः पञ्चात्रेयाः प्रकीर्त्तिताः ॥ ११.२४ ॥

तेषां पुत्राश्च पौत्राश्च आत्रेयाणां महात्मनाम् ॥
स्वायम्भुवेऽन्तरेऽतीताः शतशोऽथ सहस्रशः ॥ ११.२५ ॥

प्रीत्यां पुलस्त्यभार्यायां दाना ग्निस्तत्सुतोऽभवत् ॥
पूर्वजन्मनि सोऽगस्त्यः स्मृतः स्वायम्भुवेऽन्तरे ॥ ११.२६ ॥

मध्यमो देवबाहुश्च अत्रिनामा च ते त्रयः ॥
स्वमा यवीयसी तेषां सद्वती नाम विश्रुता ॥ ११.२७ ॥

पर्जन्यजननी शुभ्रा पत्नी चाग्नेः स्मृता शुभा ॥
पौलस्त्यस्य च ब्रह्मर्षेः प्रीतिपुत्रस्य धीमतः ॥ ११.२८ ॥

दानाच्च सुषुवे पत्नी सुजङ्घी चं बहून्सुतान् ॥
पौलस्त्या इति विख्याताः स्मृताः स्वायम्भुवेऽन्तरे ॥ ११.२९ ॥

क्षमा तु सुषुवे पुत्रान्पुलस्त्यस्य प्रजापतेः ॥
त्रेताग्निवर्चसः सर्वे येषां कीर्त्तिः प्रतिष्ठिता ॥ ११.३० ॥

कर्दमश्चोर्वरीवांश्च सहिष्णुश्चेति ते त्रयः ॥
ऋषिः कनकपीठश्च शुभा कन्या च पीवरी ॥ ११.३१ ॥

कर्दमस्य श्रुतिः पत्नी आत्रेय्यजनयत्स्वयम् ॥
पुत्रं शङ्खपदं नाम कन्यां काम्यां तथैव च ॥ ११.३२ ॥

स वै शङ्खपदः श्रीमाँल्लोकपालः प्रजापतिः ॥
दक्षिणस्यां दिशि रतः काम्या दत्ता प्रियव्रते ॥ ११.३३ ॥

काम्या प्रियव्रताल्लेभे स्वायम्भुवसमान्सुतान् ॥
दश कन्याद्वयं चैव यैः क्षत्रं सम्प्रवर्त्तितम् ॥ ११.३४ ॥

पुत्रं कनकपीठस्य सहिष्णुं नाम विश्रुतम् ॥
यशोधरा विजज्ञे वै कामदेवं सुमध्यामा ॥ ११.३५ ॥

क्रतोः क्रतुसमान्पु त्रान् विजज्ञे सन्नतिः शुभान् ॥
तेषां न भार्या पुत्रो वा सर्वे ते उर्द्धरेतसः ॥ ११.३६ ॥

तानि षष्टिसहस्राणि वालखिल्या इति श्रुताः ॥
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ॥ ११.३७ ॥

आभूतसम्प्लवात्सर्वेपतङ्गसहचारिणः ॥
स्वसारौ तद्यवीयस्यौ पुण्या सत्यवती चते ॥ ११.३८ ॥

पर्वशस्य स्नुवे ते वै पूर्णमास सुतस्य तु ॥
ऊर्जायां तु वसिष्ठस्य वासिष्ठाः सप्त जज्ञिरे ॥ ११.३९ ॥

ज्यायसी च सुता तेषां पुण्डरीका सुमध्यमा ॥
जननी सा द्युतिमतः प्राणस्य महिषी प्रियाः ॥ ११.४० ॥

तस्यास्तु ये यवीयांसो वासिष्ठाः सप्त विश्रुताः ॥
रक्षो गर्त्तोर्द्धबा हुश्च सवनः पवनश्च यः ॥ ११.४१ ॥

सुतपाः सङ्कुरित्येते सर्वे सप्तर्षयः समृताः ॥
रत्नो वराङ्ग्यजनयन्मार्कण्डेयी यशस्विनी ॥ ११.४२ ॥

प्रतीच्यां दिशि राजानं केतुमन्तं प्रजापतिम् ॥
गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम् ॥ ११.४३ ॥

स्वायम्भुवेऽन्तरेतीतान्यग्नेस्तु श्रृणुत प्रजाः ॥
इत्येष ऋषिसर्गस्तु सानुबन्धः प्रकीर्त्तितः ॥ ११.४४ ॥

विस्तरेणानुपूर्व्याच्च अग्नेर्वक्ष्याम्यतः परम् ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे ऋषिसर्गवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥