०१०

विश्वास-प्रस्तुतिः

ऋषिरुवाच ॥
अस्मिन्कल्पे त्वया नोक्तः प्रादुर्भावो महात्मनः ॥
महादेवस्य रुद्रस्य साधकैर्ऋषिभिः सह ॥ १ ॥

मूलम्

सूत उवाच ॥
उत्पत्तिरादिसर्गस्य मया प्रोक्ता समासतः ॥
विस्तरेण प्रवक्ष्यामि नामानि तनुभिः सह ॥ २ ॥

पत्नीषु जनयामास महादेवः सुतान्बहून ॥
कल्पेष्वन्येष्वतीतेषु ह्यस्मिन्कल्पे तु ताञ्श्रृणु ॥ ३ ॥

कल्पादावात्मनस्तुल्यं सुतमध्यायत प्रभुः ॥
प्रादुरा सीत्ततोङ्केऽस्य कुमारो नीललोहितः ॥ ४ ॥

रुरोद सुस्वरं घोरं निर्दहन्निव तेजसा ॥
दृष्ट्वा रुदन्तं सहसा कुमारं नीललोहितम् ॥ ५ ॥

किं रोदिषि कुमारेति ब्रह्मा तं प्रत्यभाषत ॥
सोऽब्रवीद्देहि मे नाम प्रथमं त्वं पितामह ॥ ६ ॥

रुद्रस्त्वं देव नामाऽसि स इत्युक्तोऽरुदत्पुनः ॥
किं रोदिषि कुमारेति ब्रह्मा तं प्रत्यभाषत ॥ ७ ॥

नाम देहि द्वितीयं मे इत्युवाच स्वयम्भुवम् ॥
भवस्त्वं देवनाम्नाऽसि इत्युक्तः सोऽरुदत्पुनः ॥ ८ ॥

किं रोदिषीति तं ब्रह्मा रुदन्तं प्रत्युवाच ह ॥
तृतीयं देहि मे नाम इत्युक्तः सोऽब्रवीत्पुनः ॥ ९ ॥

शर्वस्त्वं देव नाम्नाऽसिङत्युक्तः सोऽरुदत्पुनः ॥
किं रोदिषीति तं ब्रह्मा रुदन्तं प्रत्युवाच ह ॥ १० ॥

चतुर्थ देहि मे नाम इत्युक्तः सोऽब्रवीत्पुनः ॥
ईशानो देवनाम्नाऽसि इत्युक्तः सोऽरुदत्पुनः ॥ ११ ॥

किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत् ॥
पञ्चमं नाम देहीति प्रत्युवाच स्वयम्भुवम् ॥ १२ ॥

पशूनां त्वं पतिर्देव इत्युक्तः सोऽरुदत्पुनः ॥
किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत् ॥ १३ ॥

षष्ठं वै देहि मे नाम इत्युक्तः प्रत्युवाच तम् ॥
भीमस्त्वं देव नाम्नाऽसि इत्युक्तः सोऽरुदत्पुनः ॥ १४ ॥

मूलम्

षष्ठं वै देहि मे नाम इत्युक्तः प्रत्युवाच तम् ॥
भीमस्त्वं देव नाम्नाऽसि इत्युक्तः सोऽरुदत्पुनः ॥ १४ ॥

विश्वास-प्रस्तुतिः

किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत् ॥
सप्तमं देहि मे नाम इत्युक्तः प्रत्युवाच ह ॥ १५ ॥

उग्रस्त्वं देव नाम्नाऽसि इत्युक्तः सोऽरुदत्पुनः ॥
तं रुदन्तं कुमारं तु मारोदीरिति सोऽब्रवीत् ॥ १६ ॥

सोऽब्रवीदष्टमं नाम देहि मे त्वं विभो पुनः ॥
त्वं महादेवनामासि इत्युक्तो विरराम ह ॥ १७ ॥

लब्ध्वा नामानि चैतानि ब्रह्माणं नीललोहितः ॥
प्रोवाच नाम्नामेतेषां स्थानानि प्रदिशेति ह ॥ १८ ॥

ततो विसृष्टास्तनव एषां नाम्ना स्वयम्भुवा ॥
सूर्यो जलं मही वायुर्व ह्निराकाशमेव च ॥ १९ ॥

दीक्षिता ब्राह्मणश्चन्द्र इत्येवं तेऽष्टधा तनुः ॥
तेषु पूज्यश्च वन्द्यश्च नमस्कार्यश्च यत्नतः ॥ २० ॥

प्रोवाच तं पुनर्ब्रह्मा कुमारं नीललोहितम् ॥
यदुक्तं ते मया पूर्वं नाम रुद्रेति वै विभो ॥ २१ ॥

तस्यादित्यतनुर्नाम्नः प्रथमा प्रथमस्य ते ॥
इत्युक्ते तस्य यत्तेजश्चक्षुस्त्वासीत्प्रकाशकम् ॥ २२ ॥

विवेश तत्तदाऽदित्यं तस्माद्रुद्रो ह्यसौ स्मृतः ॥
उद्यतमस्तं यन्तं च वर्जयेद्दर्शने रविम् ॥ २३ ॥

शश्वच्च जायते यस्माच्छश्वत्सन्तिष्ठते तु यत् ॥
तस्मात्सूर्यं न वीक्षेत आयुष्कामः शुचिः सदा ॥ २४ ॥

अतीतानागतं रुद्रं विप्रा ह्याप्याययन्ति यत् ॥
उभे सन्ध्ये ह्युपासीना गृणन्तः सामऋग्यजुः ॥ २५ ॥

उद्यन्स तिष्ठते ऋक्षु मध्याह्ने च यजुःष्वथ ॥
सामस्वथापराह्णे तु रुद्रः संविशति क्रमात् ॥ २६ ॥

तस्माद्भवेन्नाभ्युदितो बाह्यस्तमित एव च ॥
न रुद्रम्प्रति मेहेत सर्वावस्थं कथञ्चन ॥ २७ ॥

एवं युक्तान् द्विजान् देवो रुद्रस्तान्न हिनस्ति वै ॥
ततोऽब्रवीत्पुनर्ब्रह्मा तं देवं नीललोहितम् ॥ २८ ॥

द्वितीयं नामधेयं ते मया प्रोक्तं भवेति यत् ॥
एतस्यापो द्वितीया ते तनुर्नाम्ना भवत्विति ॥ २९ ॥

इत्युक्ते त्वथ तस्यासीच्छरीरस्थं रसात्मकम् ॥
विवेश तत्तदा यस्तु तस्मादापो भवः स्मृतः ॥ ३० ॥

यस्माद्भवन्ति भूतानि ताभ्यस्ता भावयन्ति च ॥
भवनाद्भावनाच्चैव भूतानामुच्यते भवः ॥ ३१ ॥

तस्मान्मूत्रं पुरीषं च नाऽप्सु कुर्वीत कर्हिचित् ॥
न निष्ठीवेन्नावगाहेन्नैव गच्छेच्च मैथुनम् ॥ ३२ ॥

न चैताः परिचक्षीत वहन्त्यो वा स्थिता अपि ॥
मैध्यामेध्यास्त्वपामेतास्तनवो मुनिभिः स्मृताः ॥ ३३ ॥

विवर्णरसगन्धाश्च वर्ज्या अल्पाश्च सर्वशः ॥
अपां योनिः समुद्रस्तु तस्मात्तं कामयन्ति ताः ॥ ३४ ॥

मध्याश्चैवामृता ह्यापो भवन्ति प्राप्य सागरम् ॥
तस्मादपो न रुन्धीत समुद्रं कामयन्ति ताः ॥ ३५ ॥

न हिनस्ति भवो देवो य एवं ह्यप्सु वर्तते ॥
ततोऽब्रवीत्पुनर्ब्रह्मा कुमारं नीललोहितम् ॥ ३६ ॥

शर्वेति यत्तृतीयं ते नाम प्रोक्तं मया विभो ॥
तस्य भूमिस्तृतीयस्य तनुर्नाम्ना भवत्त्वियम् ॥ ३७ ॥

इत्युक्ते यत्स्थिरं तस्य शरीरे ह्यस्थिसञ्ज्ञितम् ॥
विवेश तत्तदा भूमिं यस्मात्सा शर्व उच्यते ॥ ३८ ॥

तस्मात्कृष्टेन कुर्वीत पुरीषं मूत्रमेव च ॥
न च्छायायां तथा मार्गे स्वच्छायायां न मेहयेत् ॥ ३९ ॥

शिरः प्रावृत्य कुर्वीत अन्तर्धाय तृणैर्महीम् ॥
एवं यो वर्तते भूमौ शर्वस्तं न हिनस्ति वै ॥ ४० ॥

ततोऽब्रवीत्पुनर्ब्रह्मा कुमारं नीललोहितम् ॥
ईशानेति चतुर्थ ते नाम प्रोक्तं मयेह यत् ॥ ४१ ॥

चतुर्थस्य चतुर्थी तु वायुर्नाम्ना तनुस्तव ॥
इत्युक्ते यच्छरीरस्थं पञ्चधा प्राणसञ्ज्ञितम् ॥ ४२ ॥

विवेश तस्य तद्वायुमीशानस्तेन मारुतः ॥
तस्मान्नैनं परिवदेत्प्रवान्तं वायुमीश्वरम् ॥ ४३ ॥

यज्ञैर्व्यवहरन्त्येनं ये वै परिचरन्ति च ॥
एवं युक्तं महेशानो नैव देवो हिनस्ति तम् ॥ ४४ ॥

ततोऽब्रवीत्पुनर्ब्रह्मा तं देवं धूम्रमीश्वरम् ॥
नाम यद्वै पशुपतिरित्युक्तं पञ्चमं मया ॥ ४५ ॥

पञ्चमी पञ्चमस्यैषा तनुर्नाम्नाग्निरस्तु ते ॥
इत्युक्ते यच्छरीरस्थं तेजस्तस्योष्णसञ्ज्ञितम् ॥ ४६ ॥

विवेश तत्तदा ह्यग्निं तस्मात्पशुपतिस्तु सः ॥
यस्मादग्निः पशुश्चासीद्यस्मात्पाति पशूंश्च सः ॥ ४७ ॥

तस्मात्पशुपतेस्तस्य तनुरग्निर्निरुच्यते ॥
तस्मादमेध्यं न दहेन्न च पादौ प्रतापयेत् ॥ ४८ ॥

अधस्तान्नोपदध्याच्च न चैनमतिलङ्घयेत् ॥
नैनं पशुपतिर्देव एवं युक्तं हिनस्ति वै ॥ ४९ ॥

ततोऽब्रवीत्पुनर्ब्रह्मा तं देवं श्वेतपिङ्गलम् ॥
षष्ठं नाम मया प्रोक्तं तव भीमेति यत्प्रभो ॥ ५० ॥

आकाशं तस्य नाम्नस्तु तनुः षष्ठी भवत्विति ॥
इत्युक्ते सुषिरं तस्य शरीरस्थमभूच्च यत् ॥ ५१ ॥

विवेश तत्तदाऽकाशं तस्माद्भीमस्य सा तनुः ॥
यदाकाशे स्मृतो देवस्तस्मान्ना संवृतः क्वचित् ॥ ५२ ॥

कुर्यान्मूत्रं पुरीषं वा न भुञ्जीत पिबेन्न वा ॥
मैथुनं वाऽपि न चरेदुच्छिष्टानि च नोत्क्षिपेत् ॥ ५३ ॥

न हिनस्ति च तं देवो यो भीमे ह्येवमाचरेत् ॥
ततोऽब्रवीत्पुनर्ब्रह्मा तं देवं सबलं प्रभुम् ॥ ५४ ॥

सप्तमं यन्मया प्रोक्तं नामोग्रेति तव प्रभो ॥
तस्य नाम्नस्तनुस्तुभ्यं द्विजो भवति दीक्षितः ॥ ५५ ॥

एवमुक्ते तु यत्तस्य चैतन्यं वै शरीरगम् ॥
विवेश दीक्षितं तद्वै ब्राह्मणं सोमयाजिनम् ॥ ५६ ॥

तावत्कालं स्मृतो विप्र उग्रो देवस्तु दीक्षितः ॥
तस्मान्नेमं परिवदेन्नाश्लीलं चास्य कीर्त्तयेत् ॥ ५७ ॥

ते हरन्त्यस्य पाप्मानं ये वै परिवदन्ति तम् ॥
एवं युक्तान् द्विजानुग्रो देवस्तान्न हिनस्ति वै ॥ ५८ ॥

ततोब्रवीत्पुनर्ब्रह्मा तं देवं भास्करद्युतिम् ॥
अष्टमं नाम यत् प्रोक्तं महादेवेति ते मया ॥ ५९ ॥

तस्य नाम्नोऽष्टमस्यास्तु तनुस्तुभ्यं तु चन्द्रमाः ॥
इत्युक्ते यन्मनस्तस्य सङ्कल्पकमभूत्प्रभोः ॥ ६० ॥

विवेश तच्चन्द्रमसं महादेवस्ततः शशी ॥
तस्माद्विभाव्यते ह्येष महादेवस्तु चन्द्रमाः ॥ ६१ ॥

अमावास्यां न वै छिन्द्याद्वृक्षगुल्मौषधीर्द्विजः ॥
महादेवः स्मृतः सोमस्तस्यात्मा ह्यौषधीगणः ॥ ६२ ॥

एवं यो वर्त्तते चैह सदा पर्वणि पर्वणि ॥
न हन्ति तं महादेवो य एवं वेद तं प्रभुम् ॥ ६३ ॥

गोपायति दिवादित्यः प्रजा नक्तं तु चन्द्रमाः ॥
एकरात्रौ समेयातां सूर्या चन्द्रमसावुभौ ॥ ६४ ॥

अमावास्यानिशायां तु तस्यां युक्तः सदा भवेत् ॥
रुद्राविष्टं सर्वमिदं तनुभिर्न्नामभिश्च ह ॥ ६५ ॥

एकाकी यश्चरत्येष सूर्योऽसौ रुद्र उच्यते ॥
सूर्यस्य यत्प्रकाशेन वीक्षन्ते चक्षुषा प्रजाः ॥ ६६ ॥

मुक्तात्मा संस्थितो रुद्रः पिबत्यम्भो गभस्तिभिः ॥
अद्यते पीयते चैव ह्यन्नपानादिकाम्यया ॥ ६७ ॥

तनुरम्बूद्भवा सा वै देहेष्वेवोपचीयते ॥
यया धत्ते प्रजाः सर्वाः स्थिरीभूतेन तेजसा ॥ ६८ ॥

पार्थिवी सा तनुस्तस्य साध्वी धारयते प्रजाः ॥
या च स्थिता शरीरेषु भूतानां प्राणवृत्तिभिः ॥ ६९ ॥

वातात्मिका तु चैशानी सा प्राणः प्राणिनामिह ॥
पीताशितानि पचति भूतानां जठरेष्विह ॥ ७० ॥

तनुः पाशुपती तस्य पाचकः सोऽग्निरुच्यते ॥
यानीह शुषिराणि स्युर्देहेष्वन्तर्गतानि वै ॥ ७१ ॥

वायोः सञ्चरणार्थानि भीमा सा प्रोच्यते तनुः ॥
वैतान्यादीक्षितानां तु या स्थितिर्ब्रह्मवादिनाम् ॥ ७२ ॥

तनुरुग्रात्मिका सा तु तेनोग्रो दीक्षितः स्मृतः ॥
यत्तु सङ्कल्पकं तस्य प्रजास्विह समास्थितम् ॥ ७३ ॥

सा तनुर्मानसी तस्य चन्द्रमाः प्राणिषु स्थितः ॥
नवोनवो यो भवति जायमानः पुनःपुनः ॥ ७४ ॥

पीयतेऽसौ यथाकालं विबुधैः पितृभिः सह ॥
महादेवोऽमृतात्मा स चन्द्रमा अम्मयः स्मृतः ॥ ७५ ॥

तस्य या प्रथमा नाम्ना तनू रौद्री प्रकीर्त्तिता ॥
पत्नी सुवर्च्चला तस्याः पुत्रश्चास्य शनैश्चरः ॥ ७६ ॥

भवस्य या द्वितीया तु आपो नाम्ना तनुः स्मृता ॥
तस्या धात्री स्मृता पत्नी पुत्रश्च उशना स्मृतः ॥ ७७ ॥

शर्वस्य या तृतीयस्य नाम्नो भूमिस्तनुः स्मृता ॥
तस्याः पत्नी विकेशी तु पुत्रोऽस्याङ्गारकः स्मृतः ॥ ७८ ॥

ईशानस्य चतुर्थस्य नाम्ना वातस्तनुस्तु या ॥
तस्याः पत्नी शिवा नाम पुत्रश्चास्या मनोजवः ॥ ७९ ॥

अविज्ञातगतिश्चैव द्वौ पुत्रौ चाऽनिलस्य तु ॥
नाम्ना पशुपतेर्या तु तनुरग्निर्द्विजैः स्मृता ॥ ८० ॥

तस्याः पत्नी स्मृता स्वाहा स्कन्दस्तस्याः सुतः स्मृतः ॥
नाम्ना षष्ठस्य या भीमा तनुराकाशमुच्यते ॥ ८१ ॥

दिशः पत्न्यः स्मृतास्तस्य स्वर्गश्चापि सुतः स्मृतः ॥
उग्रा तनुः सप्तमी या दीक्षितो ब्राह्मणः स्मृतः ॥ ८२ ॥

दीक्षा पत्नी स्मृता तस्याः सन्तानः पुत्र उच्यते ॥
नाम्नाष्टमस्य महस्तनुर्या चन्द्रमाः स्मृतः ॥ ८३ ॥

तस्य वै रोहिणी पत्नी पुत्रस्तस्य बुधः स्मृतः ॥
इत्येतास्तनवस्तस्य नामभिः सह कीर्तिताः ॥ ८४ ॥

तासु वन्द्यो नमस्यश्च प्रतिनामतनूषु वै ॥
सूर्येप्सूर्व्यां तथा वायावग्नौ व्योम्न्यथ दीक्षिते ॥ ८५ ॥

भक्तैस्तथा चन्द्रमसि भक्त्या वन्द्यस्तु नामभिः ॥
एवं यो वेत्ति तं देवं तनुभिर्नामभिश्च ह ॥ ८६ ॥

प्रजावानेति सायुज्यमीश्वरस्य भवस्य सः ॥
इत्येतद्वो मया प्रोक्तं गुह्यं भीमस्य यद्यशः ॥ ८७ ॥

शन्नोऽस्तु द्विपदे विप्राः शन्नोऽस्तु च चतुष्पदे ॥
एतत्प्रोक्तमिदानीं च तनूनां नामभि सह ॥
महादेवस्य देवस्य भृगोस्तु श्रृणुत प्रजाः ॥ ८८ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे महादेवविभूतिवर्णनं ना दशामोऽध्योयः ॥ १० ॥