विश्वास-प्रस्तुतिः
सूत उवाच
रुद्रं धर्मं मनश्चैव रुचिं चैवाकृतिं तथा ।
पञ्च कर्तॄन् हि स तदा मनसा व्यसृजत्प्रभुः ॥ १.९.१ ॥
मूलम्

एते महाभुजाः सर्वे प्रजानां स्थितिहेतवः ।
औषधीः प्रतिसन्धत्ते रुद्रः क्षीणः पुनः पुनः ॥ १.९.२ ॥

प्राप्तौषधिफलैर्देवः सम्यगिष्टः फलार्थिभिः ।
त्रिभिरेव कपालैस्तु त्र्यम्बकैरोषधीक्षये ॥ १.९.३ ॥

इज्यते मुनिभिर्यस्मात्तस्मात्त्त्र्यम्बक उच्यते ।
गायत्रीं चैव त्रिष्टुप्च जगती चैव ताः स्मृताः ॥ १.९.४ ॥

अम्बिकानां मया प्रोक्ता योनयः सवनस्पतेः ।
ताभिरेकत्वभूताभिस्त्रिविधाभिः स्ववीर्यतः ॥ १.९.५ ॥

त्रिसाधनः पुरोडाशस्त्रिकपालस्ततः स्मृतः ।
त्र्यम्बकः स पुरोडाशस्तेनेह त्र्यम्बकः स्मृतः ॥ १.९.६ ॥

धत्ते धर्मः प्रजाः सर्वा मनो ज्ञानकरं स्मृतम् ।
आकृतिः सुरुचे रूपं रुचिः श्रद्धाकरः स्मृतः ॥ १.९.७ ॥

एवमेते प्रजापालाः प्रजानां स्थितिहेतवः ।
अथास्य सृजतः सर्गं प्रजानां परिवृद्धये ॥ १.९.८ ॥

न व्यवर्द्धत ताः सृष्टाः प्रजाः केनापि हेतुना ।
ततः स विदधे बुद्धिमर्थनिश्चयगामिनीम् ॥ १.९.९ ॥

अथात्मनि समद्राक्षीत्तमोमात्रां तु चारिणीम् ।
रजः सत्त्वं परित्यज्य वर्तमानां स्वकर्मतः ॥ १.९.१० ॥

ततः स तेन दुखेन शुचं चक्रे जगत्पतिः ।
तमश्च व्यनुदत्पश्चाद्रजसा तु समावृणोत् ॥ १.९.११ ॥

तत्तमः प्रतिनुत्तं वै मिथुनं सम्प्रसूयत ।
अधर्माचरणा त्तस्य हिंसा शोको व्यजायत ॥ १.९.१२ ॥

ततस्तस्मिन्समुद्भूते मिथुने वरणात्मके ।
ततः स भगवानासीत्प्रीतश्चैतं हि शिश्रिये ॥ १.९.१३ ॥

एवं प्रीतात्मनस्तस्य स्वदेहार्द्धाद्विनिःसृता ।
नारी परमकल्याणी सर्वभूतमनोहरा ॥ १.९.१४ ॥

सा हि कामात्मना सृष्टा प्रकृतेः सा सुरूपिणी ।
शतरूपेति सा प्रोक्ता सा प्रोक्तैव पुनः पुनः ॥ १.९.१५ ॥

ततः प्रजाः समुद्भूता यथा प्रोक्ता मया पुरा ।
प्रक्रियायां यथा तुभ्यं त्रेतामध्ये महात्मनः ॥ १.९.१६ ॥

यदा प्रजास्तु ताः सृष्टा न व्यवर्द्धन्त धीमतः ।
ततोऽन्यान्मानसान्पुत्रानात्मनः सदृशोऽसृजत ॥ १.९.१७ ॥

भृग्वङ्गिरोमरीचींश्च पुलस्त्यं पुलहं क्रतुम् ।
दक्षमत्रिं वसिष्ठं च निर्ममे मानसान्सुतान् ॥ १.९.१८ ॥

नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ।
ब्रह्मा यतात्मकानां तु सर्वेषामात्मयोनिनाम् ॥ १.९.१९ ॥

ततोऽसृजत्पुनर्ब्रह्मा धर्मं भूतसुखावहम् ।
प्रजापतिं रुचिं चैव पूर्वेषामेव पूर्वजौ ॥ १.९.२० ॥

बुद्धितः ससृजे धर्मं सर्वभूतसुखावहम् ।
मनसस्तु रुचिर्नाम जज्ञे जोऽव्यक्तजन्मनः ॥ १.९.२१ ॥

भृगुस्तु त्दृदयाज्जज्ञे ऋषिः साललयोनिनः ।
प्राणाद्दक्षं सृजन्ब्रह्मा चक्षुर्भ्यां तु मरीचिनम् ॥ १.९.२२ ॥

अभिमानात्मकं रुद्रं निर्ममे नीललोहितम् ।
शिरसोङ्गिरसं चैव श्रोत्रादत्रिं तथैव च ॥ १.९.२३ ॥

पुलस्त्यं च तथोदानाद्व्यानाच्च पुलहं पुनः ।
समानजो वसिष्ठश्च ह्यपानान्निर्ममे क्रतुम् ॥ १.९.२४ ॥

इत्येते ब्रह्मणः पुत्राः प्रजादौ द्वादश स्मृताः ।
धर्मस्तेषां प्रथमजो देवतानां स्मृतस्तु वै ॥ १.९.२५ ॥

भृग्वादयस्तु ये सृष्टास्ते वै ब्रह्मर्षयः स्मृताः ।
गृहमेधिपुराणास्ते धर्मस्तैः प्राक्प्रवर्त्तितः ॥ १.९.२६ ॥

द्वादशैते प्रसूयन्ते प्रजाः कल्पे पुनः पुनः ।
तेषां द्वादश ते वंशा दिव्या देवगुणान्विताः ॥ १.९.२७ ॥

क्रियावन्तः प्रजावन्तो महर्षिभिरलङ्कृताः ।
यदा तैरिह सृष्टैस्तु धर्म्माद्यैश्च महर्षिभिः ॥ १.९.२८ ॥

सृज्यमानाः प्रजाश्चैव न व्यवर्द्धन्त धीमतः ।
तमोमात्रावृतः सोऽभूच्छोकप्रतिहतश्च वै ॥ १.९.२९ ॥

यथाऽवृतः स वै ब्रह्मा तमोमात्रा तु सा पुनः ।
पुत्राणां च तमोमात्रा अपरा निःसृताभवत् ॥ १.९.३० ॥

प्रतिस्रोतात्मकोऽधर्मो हिंसा चैवाशुभात्मिका ।
ततः प्रतिहते तस्य प्रतीते वरणात्मके ॥ १.९.३१ ॥

स्वां तनुं स तदा ब्रह्मा समपोहत भास्वराम् ।
द्विधा कृत्वा स्वकं देहमर्द्धेन पुरुषोऽभवत् ॥ १.९.३२ ॥

अर्धेन नारी सा तस्य शतरूपा व्यजायत ।
प्रकृतिर्भूतधात्री सा कामाद्वै सृजतः प्रभोः ॥ १.९.३३ ॥

सा दिवं पृथिवीं चैव महिम्ना व्याप्य सुस्थिता ।
ब्रह्माणः सा तनुः पूर्वा दिवमावृत्य तिष्टतः ॥ १.९.३४ ॥

या त्वर्द्धा सृज्यते नारी शतरूपा व्यजायत ।
सा देवी नियुतं तप्त्वा तपः परम दुश्चरम् ॥ १.९.३५ ॥

भर्त्तारं दीप्तयशसं पुरुषं प्रत्यपद्यत ।
स वै स्वायम्भुवः पूर्वं पुरुषो मनुरुच्यते ॥ १.९.३६ ॥

तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते ।
लब्ध्वा तु पुरुषः पत्नीं शतरूपामयोनिजाम् ॥ १.९.३७ ॥

तया स रमते सार्द्धं तस्मात्सा रतिरुच्यते ।
प्रथमः सम्प्रयोगः स कल्पादौ समवर्त्तत ॥ १.९.३८ ॥

विराजमसृजद्ब्रह्मा सोऽभवत्पुरुषो विराट् ।
सम्राट्सशतरूपस्तु वैराजस्तु मनुः स्मृतः ॥ १.९.३९ ॥

स वैराजः प्रजासर्गं ससर्ज पुरुषो मनुः ।
वैराजात्पुरुषाद्वीरौ शतरूपा व्यजायत ॥ १.९.४० ॥

प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ ।
कन्ये द्वे सुमहाभागे याभ्यां जाता इमाः प्रजाः ॥ १.९.४१ ॥

देवी नाम्ना तथाकूलिः प्रसूतिश्चैव ते शुभे ।
स्वायम्भुवः प्रसूतिं तु दक्षाय व्यसृजत्प्रभुः ॥ १.९.४२ ॥

रुचेः प्रजापतेश्चैव आकूतिं प्रत्य पादयत् ।
आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् ॥ १.९.४३ ॥

यज्ञश्च दक्षिणा चैव यमलौ तौ बभूवतुः ।
यज्ञस्य दक्षिणायां च पुत्रा द्वादश जज्ञिरे ॥ १.९.४४ ॥

यामा इति समाख्याता देवाः स्वायम्भुवेतरे ।
यमस्य पुत्रा यज्ञस्य तस्माद्यामास्तु ते स्मृताः ॥ १.९.४५ ॥

अजिताश्चैव शुक्राश्च द्वौ गणौ ब्रह्मणः स्मृतौ ।
यामाः पूर्वं परिक्रान्ता येषां सञ्ज्ञा दिवौकसः ॥ १.९.४६ ॥

स्वायम्भूव सुतायां तु प्रसूत्यां लोकमातरः ।
तस्यां कन्याश्चतुर्विंशद्दक्षस्त्वजनयत्प्रभुः ॥ १.९.४७ ॥

सर्वास्ताश्च महाभागाः सर्वाः कमललोचनाः ।
योगपत्न्यश्च ताः सर्वाः सर्वास्ता योगमातरः ॥ १.९.४८ ॥

सर्वाश्च ब्रह्मवादिन्यः सर्वा विश्वस्य मातरः ।
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया ॥ १.९.४९ ॥

बुद्धिर्लज्जा वसुः शान्तिः सिद्धिः कीर्त्तिस्त्रयोदश ।
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ॥ १.९.५० ॥

द्वाराण्येतानि चैवास्य विहितानि स्वयम्भुवा ।
यान्याः शिष्टा यवीयस्य एकादश सुलोचनाः ॥ १.९.५१ ॥

सती ख्यातिश्च सम्भूतिः स्मृतिः प्रीतिः क्षमा तथा ।
सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ १.९.५२ ॥

तास्तदा प्रत्यगृह्णन्त पुनरन्ये महार्षयः ।
रुद्रो भृगुर्मरीचिश्च अङ्गिराः पुलहः क्रतुः ॥ १.९.५३ ॥

पुलस्त्योऽत्रिर्वसिष्ठश्च पितरोऽग्निस्तथैव च ।
सतीं भवाय प्रायच्छत्ख्यातिं च भृगवे तथा ॥ १.९.५४ ॥

मरीचये तु सम्भूतिं स्मृतिमङ्गिरसे ददौ ।
प्रीतिं चैव पुलस्त्याय क्षमां वै पुलहाय च ॥ १.९.५५ ॥

क्रतवे सन्ततिं नाम अनसूयां तथात्रये ।
ऊर्जां ददौ वसिष्ठाय स्वाहां चैवाग्नये ददौ ॥ १.९.५६ ॥

स्वधां चैव पितृभ्यस्तु तास्वपत्यानि मे शृणु ।
एताः सर्वा महाभागाः प्रजास्त्वनुसृताः स्थिताः ॥ १.९.५७ ॥

मन्वन्तरेषु सर्वेषु यावदाभूतसम्प्लवम् ।
श्रद्धा कामं प्रजज्ञेऽथ दर्पो लक्ष्मी सुतः स्मृतः ॥ १.९.५८ ॥

धृत्यास्तु नियमः पुत्रस्तुष्ट्याः सन्तोष उच्यते ।
पुष्ट्या लाभः सुतश्चापि मेधापुत्रः श्रुतस्तथा ॥ १.९.५९ ॥

क्रियायास्तनयौ प्रोक्तौ दमश्च शम एव च ।
बुद्धेर्बोधः सुतश्चापि अप्रमादश्च तावुभौ ॥ १.९.६० ॥

लज्जाया विनयः पुत्रो व्यवसायो वसोः सुतः ।
क्षेमः शान्तेः सुतश्चापि सुखं सिद्धेर्व्यजायत ॥ १.९.६१ ॥

यशः कीर्तेः सुतश्चापि इत्येते धर्मसूनवः ।
कामस्य तु सुतो हर्षो देव्यां सिद्ध्यां व्यजायत ॥ १.९.६२ ॥

इत्येष वै सुखोदर्कः सर्गो धर्मस्य सात्त्विकः ।
जज्ञे हिंसा त्वधर्माद्वै निकृतिं चानृतं च ते ॥ १.९.६३ ॥

निकृत्यनृतयोर्जज्ञ भयं नरक एव च ।
माया च वेदना चापि मिथुनद्वयमेतयोः ॥ १.९.६४ ॥

मयाज्जज्ञेऽथ वै माया मृत्युं भूतापहारिणम् ।
वेदनायां ततश्चापि जेज्ञ दुःखं तु रौरवात् ॥ १.९.६५ ॥

मृत्योर्व्याधिर्जराशोकक्रोधासूया विजज्ञिरे ।
दुःखोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः ॥ १.९.६६ ॥

तेषां भार्यास्ति पुत्रो वा सर्वे ह्यनिधनाः स्मृताः ।
इत्येष तामसः सर्गो जज्ञे धर्मनिया मकः ॥ १.९.६७ ॥

प्रजाः सृचेति व्यादिष्टो ब्रह्मणा नीललोहितः ।
सोऽभिध्याय सतीं भार्यां निर्ममे चात्मसम्भवान् ॥ १.९.६८ ॥

नाधिकान्न च हीनास्तान्मानसानात्मना समान् ।
सहस्रं च सहस्राणामसृजत्कृत्तिवाससः ॥ १.९.६९ ॥

तुल्यानेवात्मना सर्वान् रूपतेजोबल श्रुतैः ।
पिङ्गलान्सनिषङ्गांश्च कपर्दी नीललोहितान् ॥ १.९.७० ॥

विशिखान्हीनकेशांश्च दृष्टिघ्नास्तान्कपालिनः ।
महारूपान्विरूपांश्च विश्वरूपाश्च रूपिणः ॥ १.९.७१ ॥

रथिनो वर्मिणश्चैव धन्विनोऽथ वरूथिनः ।
सहस्रशतबाहूंश्च दिव्यभौमान्तरिक्षगान् ॥ १.९.७२ ॥

स्थूल शीर्षानष्टदंष्ट्रान् द्विजिह्वांस्तु त्रिलोचनान् ।
अन्नादान्पिशितादांश्च आज्यपान्सोमपोस्तथा ॥ १.९.७३ ॥

अतिमेढ्रोग्रकायांश्च शितिकण्ठोग्रमन्युकान् ।
सनिषङ्गतनुत्रांश्च धन्विनो ह्यसिचर्मिणः ॥ १.९.७४ ॥

आसीनान् धावतश्चापि जृम्भतश्चाप्यधिष्ठितान् ।
अधीयानाश्च जपतो युञ्जतो ध्यायतस्तथा ॥ १.९.७५ ॥

ज्वलतो वर्षतश्चैव द्योतमानान्प्रधूपितान् ।
बुद्धान्बुद्धतमांश्चैव ब्रह्मस्वान् ब्रह्मदर्शिनः ॥ १.९.७६ ॥

नीलग्रीवान्सहस्राक्षान् सर्वांश्चैव क्षमाचरान् ।
अदृश्यान्सर्वभूतानां महायोगान्महौजसः ॥ १.९.७७ ॥

रुदतो द्रवतश्चैव एवं युक्तान्सहस्रशः ।
अयातयामान् सृजतं रुद्रमेतान्सुरोत्तमान् ॥ १.९.७८ ॥

दृष्ट्वा ब्रह्माब्रवीदेनं मास्राक्षीरीदृशीः प्रजाः ।
न स्रष्टव्यात्मन स्तल्या प्रजा नैवाधिका तथा ॥ १.९.७९ ॥

अन्याः सृजस्व भद्रं ते प्रजास्त्वं मृत्युसंयुताः ।
नारभन्ते हि कर्माणि प्रजा विगतमृत्यवः ॥ १.९.८० ॥

एवसुक्तोऽब्रवीदेनं नाहं मृत्युजरान्विताः ।
प्रजाः स्रक्ष्यामि भद्रं ते स्थितोऽहं त्वं सृज प्रभो ॥ १.९.८१ ॥

एते ये वै मया सृष्टा विरूपा नीललोहिताः ।
सहस्रं हि सहस्राणामात्मनो मम निःसृताः ॥ १.९.८२ ॥

एते देवा भविष्यन्ति रुद्रा नाम महाबलाः ।
पृथिव्यामन्तरिक्षे च रुद्राण्यस्ताः परिश्रुताः ॥ १.९.८३ ॥

शतरुद्रे समाम्नाता भविष्यन्तीह यज्ञियाः ।
यज्ञभाजो भविष्यन्ति सर्वे देवगणैः सह ॥ १.९.८४ ॥

मन्वन्तरेषु ये देवा भविष्यन्तीह छन्दजाः ।
तैः सार्द्धमिज्यमानास्ते स्थास्यन्तीहायुगक्षयात् ॥ १.९.८५ ॥

एवमुक्तस्ततो ब्रह्मा महादेवेन स प्रभुः ।
प्रत्युवाच तथा भीमं त्दृष्यमाणः प्रजापतिः ॥ १.९.८६ ॥

एवं भवतु भद्रं ते यथा ते व्यात्दृतं प्रभो ।
ब्रह्मणा समनु ज्ञाते ततः सर्वमभूत्किल ॥ १.९.८७ ॥

ततः प्रभृति देवः स न प्रासूयत वै प्रजाः ।
ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसम्प्लवम् ॥ १.९.८८ ॥

यस्मात्प्रोक्तं स्थितोऽस्मीति तस्मात्स्थाणुर्बुधैः स्मृतः ।
ज्ञानं तपश्च सत्यं च ह्यैश्वर्यं धर्म एव च ॥ १.९.८९ ॥

वैराग्यमात्मसम्बोधः कृत्स्नान्येतानि शङ्करे ।
सर्वान्देवानृषींश्चैव समेतानसुरैः सह ॥ १.९.९० ॥

अत्येति तेजसा देवो महादेवस्ततः स्मृतः ।
अत्येति देवा नैश्वर्याद्वलेन च महासुरान् ॥ १.९.९१ ॥

ज्ञानेन च मुनीन्सर्वान्योगाद्भूतानि सर्वशः ।
एवमेव महादेवः सर्वदेवनमस्कृतः ।
प्रजामनु द्यामां सृष्ट्वा सर्गादुपरराम ह ॥ १.९.९२ ॥