विश्वास-प्रस्तुतिः
सूत उवाच
इत्येवं प्रथमं पादं प्रकृत्यर्थं प्रकीर्तितम् ।
श्रुत्वा तु संहृष्टमनाः कापेयः संशयायति ॥ १.६.१ ॥
मूलम्

आराध्य वचसा सूतं तस्यार्थ त्वपरां कथाम् ।
अथ प्रबृति कल्पज्ञः प्रतिसन्धिः प्रचक्षते ॥ १.६.२ ॥

समतीतस्य कल्पस्य वर्तमानस्य चानयोः ।
कल्पयोरन्तरं यत्र प्रतिसन्धिश्च यस्तयोः ।
एतद्वेदितुमिच्छामि यथावत्कुशलो ह्यसि ॥ १.६.३ ॥

कापेयेनैवमुक्तस्तु सूतः प्रवदतां वरः ।
त्रैलोक्यस्योद्भवं कृत्स्नमाख्यातुमुपचक्रमे ॥ १.६.४ ॥

अत्र वै वर्णयिष्यामि याथातथ्येन सुव्रताः ।
कल्पं भूतं भविष्यं च प्रतिसन्धिश्च यस्तयोः ॥ १.६.५ ॥

मन्वन्तराणि कल्पेषु यानि यानि च सुव्रताः ।
यश्चायं वर्तते कल्पो वाराहः साम्प्रतः शुभः ॥ १.६.६ ॥

अस्मात्कल्पात्तु यः पूर्वः कल्पोऽतीतः सनातनः ।
तस्य चास्य च कल्पस्य मध्यावस्थां निबोधत ॥ १.६.७ ॥

प्रत्यागते पूर्वकल्पे प्रतिसन्धिं विनानघाः ।
अन्यः प्रवर्त्तते कल्पो जनलोकादयः पुनः ॥ १.६.८ ॥

व्युच्छिन्नप्रतिसन्धिस्तु कल्पात्कल्पः परस्परम् ।
व्युच्छिद्यन्ते प्रजाः सर्वाः कल्पान्ते सर्वशस्तदा ॥ १.६.९ ॥

तस्मात्कल्पात्तु कल्पस्य प्रतिसन्धिर्न विद्यते ।
मन्वन्तरे युगाख्यानामविच्छिन्नास्तु सन्धयः ॥ १.६.१० ॥

परस्परात्प्रवर्तन्ते मन्वन्तरयुगैः सह ।
उक्ता ये प्रक्रियार्थेन पूर्वकल्पाः समासतः ॥ १.६.११ ॥

तेषां परार्द्धकल्पानां पूर्वे यस्मात्तु यः परः ।
आसीत्कल्पे व्यतीते वै परर्द्धात्परमस्तु यः ॥ १.६.१२ ॥

कल्पास्त्वन्ये भविष्या ये ह्यपरार्द्धगुणीकृताः ।
प्रथमः साम्प्रतस्तेषां कल्पों यो वर्तते द्विजाः ॥ १.६.१३ ॥

अस्मिन्पूर्वे परार्द्धे तु द्वितीयः पर उच्यते ।
एष संस्थितकालस्तु प्रत्याहारस्ततः स्मृतः ॥ १.६.१४ ॥

अस्मात्कल्पात्ततः पूर्वं कल्पोऽतीतः पुरातनः ।
चतुर्युगसहस्रति सह मन्वन्तरैः पुरा ॥ १.६.१५ ॥

क्षीणे कल्पे ततस्तस्मिन् दाहकाल उपस्थिते ।
तस्मिन्काले तदा देवा आसन्वैमानिकास्तु ये ॥ १.६.१६ ॥

नक्षत्रग्रहताराश्च चन्द्रसूर्यादयस्तु ते ।
अष्टाविंशतिरेवैताः कोट्यस्तु सुकृतात्म नाम् ॥ १.६.१७ ॥

मन्वन्तरे यथैकस्मिन् चतुर्द्दशसु वै तथा ।
त्रीणि कोटिशतान्यासन् कोट्यो द्विनवतिस्तथा ॥ १.६.१८ ॥

अथाधिकासप्त तिश्च सहस्राणां पुरा स्मृता ।
एकैकस्मिंस्तु कल्पे वै देवा वैमानिकाः स्मृताः ॥ १.६.१९ ॥

अथ मन्वन्तरेष्वासंश्चतुर्दशसु खे दिवि ।
देवाश्च पितरश्चैव ऋषयोऽमृतपास्तथा ॥ १.६.२० ॥

तेषामनुचराश्चैव पत्न्यः पुत्रास्तथैव च ।
वर्णाश्रमातिरिक्ताश्च तस्मिन्काले तु खे सुराः ॥ १.६.२१ ॥

तैस्तैः सायुज्यगैः सार्द्ध प्राप्ते वस्तुमये तदा ।
तुल्यनिष्ठाभवन्सर्वे प्राप्ते ह्याभूतसम्प्लवे ॥ १.६.२२ ॥

ततस्तेऽवश्यभावित्वादू बुद्ध्याः पर्या यमात्मनः ।
त्रैलोक्यवासिनो देवा इह तानाभिमानिनः ॥ १.६.२३ ॥

स्थितिकाले तदा पूर्णे आसन्ने पश्चिमोत्तरे ।
कल्पावसानिका देवास्त स्मिनप्राप्ते ह्युपप्लवे ॥ १.६.२४ ॥

तदोत्सुका विषादेन्न त्यक्तस्थानानि भागशः ।
महर्लोकाय संविग्नास्ततस्ते दधिरे मनः ॥ १.६.२५ ॥

ते युक्ता नुपपद्यन्ते महतीं च शरीरिके ।
विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः ॥ १.६.२६ ॥

तैः कल्पवासिभिः सार्द्धं महानासादितस्तदा ।
ब्राह्मणैः क्षत्रियैर्वैश्यैस्तद्भवैश्चापरैर्जनैः ॥ १.६.२७ ॥

गत्वा तु ते महार्लोकं देवसङ्घाश्चतुर्द्दश ।
स्ततस्ते जनलोकाय सोद्वेगा दधिरे मनः ॥ १.६.२८ ॥

एतेन क्रमयोगेन ययुस्ते कल्पवासिनः ।
एवं देवयुगानां तु सहस्राणि परस्परम् ॥ १.६.२९ ॥

विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः ।
तैः कल्पवासिभिः सार्द्धं जन आसादितस्तु वै ॥ १.६.३० ॥

तत्र कल्पान्दश स्थित्वा सत्यं गच्छन्ति वै पुनः ।
गत्वा ते ब्रह्मलोकं वै अपरावर्त्तिनीं गतिम् ॥ १.६.३१ ॥

आधिपत्यं विमाने वै ऐश्वर्येण तु तत्समाः ।
भवन्ति ब्रह्मणा तुल्या रूपेण विषयेण च ॥ १.६.३२ ॥

तत्र ते ह्यवतिष्ठन्त प्रीतियुक्ताश्च संयमान् ।
आनन्दं ब्रह्मणः प्राप्य मुच्यन्ते ब्रह्मणा सह ॥ १.६.३३ ॥

अवश्यभाविनार्थेन प्राकृतेनैव ते स्वयम् ।
मानार्चनाभिः सम्बद्धास्तदा तत्कालभाविताः ॥ १.६.३४ ॥

स्वपतो बुद्धिपूर्वं तु बोधो भवति वै यथा ।
तथातु भाविते सेवां तथानन्दः प्रवर्तते ॥ १.६.३५ ॥

प्रत्याहारैस्तु भोदानां येषां भिन्नानि शुष्मिणाम् ।
तैः सार्द्ध वर्द्धते तेषां कार्याणि करणानि च ॥ १.६.३६ ॥

नाना त्वदर्शिनां तेषां ब्रह्मलोकनिवासिनाम् ।
विनिवृत्ताधिकारणां स्वेन धर्मेण तिष्ठताम् ॥ १.६.३७ ॥

ते तुल्यलक्षणाः सिद्धाः शुद्धात्मानो निरञ्जनाः ।
प्राकृते करणोपेताः स्वात्मन्येव व्यवस्थिताः ॥ १.६.३८ ॥

प्रख्यापयित्वा चात्मानं प्रकृतिस्त्वेष तत्त्वतः ।
पुरुषान्यबहुत्वेन प्रतीता तत्प्रवर्तते ॥ १.६.३९ ॥

प्रवर्तिते पुनः सर्गे तेषां साकारणात्मनाम् ।
संयोगे प्रकृतिर्ज्ञैया मुक्तानां तत्त्वदर्शिनाम् ॥ १.६.४० ॥

तत्रोपवर्गिणां तेषां न पुनर्मार्गगामिनाम् ।
अभावः पुनरुत्पन्नः शान्तानामर्चिषामिव ॥ १.६.४१ ॥

ततस्तेषु गतेषूर्ध्वं त्रैलोक्येषु महात्मसु ।
एतैः सार्धं महर्लोकस्तदानासादितस्तु वै ॥ १.६.४२ ॥

तच्छिष्या वै भविष्यन्ति कल्पदाह उपस्थिते ।
गन्धर्वाद्याः पिशाचाश्च मानुषा ब्राह्मणादयः ॥ १.६.४३ ॥

पशवः पक्षिणस्चैव स्थावराश्च सरीसृपाः ।
तिष्ठत्सु तेषु तत्कालं पृथिवीतलवासिषु ॥ १.६.४४ ॥

सहस्रं यत्तु रश्मीनां स्वयमेव विभाव्यते ।
तत्सप्तरश्मयो भूत्वा एकैको जायते रविः ॥ १.६.४५ ॥

क्रमेणोत्तिष्टमानास्ते त्रींल्लोकान्प्रदहन्त्युत ।
जङ्गमाः स्थावराश्चैवनद्यः सर्वे च पर्वताः ॥ १.६.४६ ॥

शुष्काः पूर्वमनावृष्ट्या सूर्य्यैस्ते च प्रधूपिताः ।
तदा तु विवशाः सर्वे निर्दग्धाः सूर्यरश्मि भिः ॥ १.६.४७ ॥

जङ्गमाः स्थावराश्चैव धर्माधर्मात्मकास्तु वै ।
दग्धदेहास्तदा ते तु धूतपापायुगान्तरे ॥ १.६.४८ ॥

ख्यातातपा विनिर्मुक्ताः शुभय चातिबन्धया ।
ततस्ते ह्युपपद्यन्ते तुल्यरूपैर्जनैर्जनाः ॥ १.६.४९ ॥

उषित्वा रजनीं तत्र ब्रह्मणोऽव्यक्तजन्मनः ।
पुनः सर्गे भवन्तीह मानसा ब्रह्मणः सुताः ॥ १.६.५० ॥

ततस्तेषूपपन्नेषु जनैस्त्रैलोक्यवासिषु ।
निर्दग्धेषु च लोकेषु तदा सूर्यैस्तु सप्तभिः ॥ १.६.५१ ॥

वृष्ट्या क्षितौ प्लावितायां विजनेष्वर्णवेषु च ।
सामुद्राश्चैव मेघाश्च आपः सर्वाश्च पार्थिवाः ॥ १.६.५२ ॥

शरमाणा व्रजन्त्येव सलिलाख्यास्तथा नुगाः ।
आगतागतिकं चैव यदा तत्सलिलं बहु ॥ १.६.५३ ॥

सञ्छाद्येमां स्थितां भमिमर्णवाख्यं तदाभवत् ।
आभाति यस्मात्स्वाभासो भाशब्दो व्याप्तिदीप्तिषु ॥ १.६.५४ ॥

सर्वतः समनुप्राप्त्या तासां चाम्भो विभाव्यते ।
तदन्तस्तनुते यस्मात्सर्वां पृथ्वीं समन्त ततः ॥ १.६.५५ ॥

धातुस्तनोति विस्तारे नचैतास्तनवः स्मृताः ।
शर इत्येष शीर्णे तु नानार्थो धातुरुच्यते ॥ १.६.५६ ॥

एकार्णवे भवत्यापो न शीघ्रास्तेन ते नराः ।
तस्मिन् युगसहस्रान्ते संस्थिते ब्रह्मणोऽहनि ॥ १.६.५७ ॥

तावत्काले रजन्यां च वर्तन्त्यां सलिलात्मना ।
ततस्तु सलिले तास्मिन्नष्टाग्नौ पृथवीतले ॥ १.६.५८ ॥

प्रशान्तवातेऽन्धकारे निरालोके समन्ततः ।
एतेनाधिष्ठितं हीदं ब्रह्मा स पुरुषः प्रभुः ॥ १.६.५९ ॥

विभागमस्य लोकस्य प्रकर्तुं पुनरैच्छत ।
एकार्णवे तदा तस्मिन्नष्टे स्थावरजङ्गमे ॥ १.६.६० ॥

तदा भवति स ब्रह्मा सहस्राक्षः सहस्रपात् ।
सहस्रशीर्षा पुरुषो रुक्मवर्णो जितेन्द्रियः ।
इमं चोदाहरन्त्यत्रर्श्लोकं नारायणं प्रति ॥ १.६.६१ ॥

आपो नारास्तत्तनव इत्यर्था ननुशुश्रुम ।
आपूर्यमाणास्तत्रास्ते तेन नारायणः स्मृतः ॥ १.६.६२ ॥

सहस्रशीर्षा सुमनाः सहस्रपात्सहस्रचक्षुर्वदनः सहस्रकृत् ।
सहस्रबाहुः प्रथमः प्रजापतिस्त्रयीमयोऽयं पुरुषो निरुच्यते ॥ १.६.६३ ॥

आदित्यवर्णो भुवनस्य गोप्ता एको ह्यमूर्तः प्रथमस्त्वसो विराट् ।
हिरण्य गर्भः पुरुषो महात्मा सम्पद्यते वै मनसः परस्तात् ॥ १.६.६४ ॥

कल्पादौ रजसोद्रिक्तो ब्रह्मा भूस्त्वासृजत्प्रभुः ।
कल्पान्ते तमसोद्रिक्तः कालो भूत्वाग्रसत्पुनः ॥ १.६.६५ ॥

स वै नारायणो भूत्वा सत्त्वोद्रिक्तो जलाशये ।
त्रिधा विभज्य चात्मानं त्रैलोक्ये सम्प्रवर्त्तते ॥ १.६.६६ ॥

सृजति ग्रसते चैव वीक्ष्यते च त्रिभिः स्वयम् ।
एकार्णवे तदा तस्मिन्नष्टे स्थावरजङ्गमे ॥ १.६.६७ ॥

चतुर्युगसहस्रान्ते सर्वतः स जलावृते ।
ब्रह्मां नारायणाख्यस्तु स चकाशे भवे स्वयम् ॥ १.६.६८ ॥

चतुर्विधाः प्रजाः सर्वा ब्रह्मशक्त्या तमोवृताः ।
पश्यन्ति तं महर्लोके कालं सुप्तं महर्षयः ॥ १.६.६९ ॥

भृग्वादयो यथोद्दिष्टास्तस्मिन् काले महर्षयः ।
सत्यादयस्तथा त्वष्टौ कल्पे लीने महर्षयः ।
तदा विवर्त्यमानैस्तैर्महत्परिगतं पराम् ॥ १.६.७० ॥

गत्यर्थादृषतेर्धातोर्नामनिष्पत्तिरुच्यते ।
यस्मादृषतिसत्त्वेन महत्तस्मान्महर्षयः ॥ १.६.७१ ॥

महर्लोकस्थितैर्दृष्टः कालः सुप्तस्तदा च तैः ।
सत्त्वाद्याः सप्त ये त्वासन्कल्पेऽतीते महर्षयः ॥ १.६.७२ ॥

एवं ब्रह्मा तासु तासु रजनीषु सहस्रशः ।
दृष्टवन्तस्तदानीताः कालं सुप्तं महर्षयः ॥ १.६.७३ ॥

कल्पस्यादौ सुबहुला यस्मात्संस्थाश्चतुर्द्दश ।
कल्पया मास वै ब्रह्मा तस्मात्कल्पो निरुच्यते ॥ १.६.७४ ॥

स स्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः ।
व्यक्ताव्यको महादेवस्तस्य सर्वमिदं जगत् ॥ १.६.७५ ॥

इत्येष प्रतिसम्बन्धः कीर्तितः कल्पयोर्द्वयोः ।
साम्प्रतं हि तयोर्मध्ये प्रागवस्था बभूव ह ॥ १.६.७६ ॥

कीर्तितस्तु समासेन पूर्वकल्पे यथातथम् ।
साम्प्रतं सम्प्रवक्ष्यामि कल्पमेतं निबोधत ॥ १.६.७७ ॥