००५

विश्वास-प्रस्तुतिः

श्रीसूत उवाच
आपोऽग्रे सर्वगा आसन्नेतस्मिन्पृथिवीतले ।
शान्तवातैः प्रलीनेऽस्मिन्न प्राज्ञायत किञ्चन ॥ १.५.१ ॥

मूलम्

एकार्णवे तदा तस्मिन्नष्टे स्थावरजङ्गमे ।
विभुर्भवति स ब्रह्मा सहस्राक्षः सहस्रपात् ॥ १.५.२ ॥

सहस्रशीर्षा पुरुषो रुक्मवर्णो ह्यतीन्द्रियः ।
ब्रह्म नारायणाख्यस्तु सुष्वाप सलिले तदा ॥ १.५.३ ॥

सत्त्वोद्रेकान्निषिद्धस्तु शून्यं लोकमवैक्षत ।
इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ॥ १.५.४ ॥

आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः प्रोक्तास्तेन नारायणः स्मृतः ॥ १.५.५ ॥

तुल्यं युगसहस्रस्य वसन्कालमुपास्यतः ।
स्वर्णपत्रे प्रकुरुते ब्रह्मत्वादर्शकारणात् ॥ १.५.६ ॥

ब्रह्मा तु सलिले तस्मिन्नवाग्भूत्वा तदा चरन् ।
निशायामिव खद्योतः प्रावृट्काले ततस्ततः ॥ १.५.७ ॥

ततस्तु सलिले तस्मिन् विज्ञायान्तर्गते महत् ।
अनुमानादसम्मूढो भूमेरद्धरणं प्रति ॥ १.५.८ ॥

ओङ्काराषृतनुं त्वन्यां कल्पादिषु यथा पुरा ।
ततो महात्मा मनसा दिव्यरूपम चिन्तयत् ॥ १.५.९ ॥

सलिलेऽवप्लुतां भूमिं दृष्ट्वा स समचिन्तयत् ।
किं तु रूपमहं कृत्वा सलिलादुद्धरे महीम् ॥ १.५.१० ॥

जलक्रीडासमुचितं वाराहं रूपमस्मरत् ।
अदृश्यं सर्वभूतानां वाङ्मयं ब्रह्मसञ्ज्ञितम् ॥ १.५.११ ॥

दशयोजनविस्तीर्णमायतं शतयोजनम् ।
नीलमेघप्रतीकाशं मेघस्तनितनिःस्वनम् ॥ १.५.१२ ॥

महापर्वतवर्ष्माणं श्वेततीक्ष्णोग्रदंष्ट्रिणम् ।
विद्युदग्निप्रतिकाशमादित्यसमतेजसम् ॥ १.५.१३ ॥

पीनवृत्तायतस्कन्धं विष्णुविक्रमगामि च ।
पीनोन्नतकटीदेशं वृषलक्षणपूजितम् ॥ १.५.१४ ॥

आस्थाय रूपमतुलं वाराहममितं हरिः ।
पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ॥ १.५.१५ ॥

दीक्षासमाप्तीष्टिदंष्ट्रःक्रतुदन्तो जुहूमुखः ।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥ १.५.१६ ॥

वेदस्कन्धो हविर्गन्धिर्हव्यकव्यादिवेगवान् ।
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरन्वितः ॥ १.५.१७ ॥

दक्षिणा हृदयो योगी श्रद्धासत्त्वमयो विभुः ।
उपाकर्मरुचिश्चैव प्रवर्ग्यावर्तभूषणः ॥ १.५.१८ ॥

नानाछन्दोगतिपथो गुह्योपनिषदासनः ।
मायापत्नीसहायो वै गिरिशृङ्गमिवोच्छ्रयः ॥ १.५.१९ ॥

अहोरात्रेक्षणाधरो वेदाङ्गश्रुतिभूषणः ।
आज्यगन्धः स्रुवस्तुण्डः सामघोषस्वनो महान् ॥ १.५.२० ॥

सत्यधर्ममयः श्रीमान् कर्मविक्रमसत्कृतः ।
प्रायश्चित्तनखो घोरः पशुजानुर्महामखः ॥ १.५.२१ ॥

उद्गातान्त्रो होमलिङ्गः फलबीजमहोषधीः ।
वाद्यन्तरात्मसत्रस्य नास्मिकासोमशोणितः ॥ १.५.२२ ॥

भक्ता यज्ञवराहान्ताश्चापः सम्प्राविशत्पुनः ।
अग्निसञ्छादितां भूमिं समामिच्छन्प्रजापतिम् ॥ १.५.२३ ॥

उपगम्या जुहावैता मद्यश्चाद्यसमन्यसत् ।
सामुद्राश्च समुद्रेषु नादेयाश्च नदीषु च ।
पृथक्तास्तु समीकृत्य पृथिव्यां सोऽचिनोद्गिरीन् ॥ १.५.२४ ॥

प्राक्सर्गे दह्यमानास्तु तदा संवर्तकाग्निना ।
तेनाग्निना विलीनास्ते पर्वता भुवि सर्वशः ॥ १.५.२५ ॥

सत्यादेकार्णवे तस्मिन् वायुना यत्तु संहिताः ।
निषिक्ता यत्रयत्रासंस्तत्रतत्राचलोऽभवत् ॥ १.५.२६ ॥

ततस्तेषु प्रकीर्णेषु लोकोदधिगिरींस्तथा ।
विश्वकर्मा विभजते कल्पादिषु पुनः पुनः ॥ १.५.२७ ॥

ससमुद्रामिमां पृथ्वीं सप्तद्वीपां सपर्वताम् ।
भूराद्यांश्चतुरो लोकान्पुनःपुनरकल्पयत् ॥ १.५.२८ ॥

लोकान्प्रकल्पयित्वा च प्रजासर्ग ससर्ज ह ।
ब्रह्मा स्वयम्भूर्भगवां सिसृक्षुर्विविधाः प्रजाः ॥ १.५.२९ ॥

ससर्ज सृष्टं तद्रूपं कल्पादिषु यथा पुरा ।
तस्याभिध्यायतः सर्गं तदा वै बुद्धिपूर्वकम् ॥ १.५.३० ॥

प्रधानसमकाले च प्रादुर्भूतस्तमो मयः ।
तमो मोहो महामोहस्तामिस्रो ह्यन्धसञ्ज्ञितः ॥ १.५.३१ ॥

अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ।
पञ्चधावस्थितः सर्गो ध्यायत साभिमानिनः ॥ १.५.३२ ॥

सर्वतस्तमसा चैव बीजकुम्भलतावृताः ।
बहिरन्तश्चाप्रकाशस्तथानिःसञ्ज्ञ एव च ॥ १.५.३३ ॥

यस्मात्तेषां कृता बुद्धिर्दुःखानि करणानि च ।
तस्माच्च संवृतात्मानो नगा मुख्याः प्रकीर्तिताः ॥ १.५.३४ ॥

मुख्यसर्गे तदोद्भूतं दृष्ट्वा ब्रह्मात्मसम्भवः ।
अप्रतीतमनाः सोथ तदोत्पत्तिममन्यत ॥ १.५.३५ ॥

तस्याभिध्यायतश्चान्यस्तिर्यक्स्रोतोऽभ्यवर्तत ।
यस्मात्तिर्यग्विवर्त्तेत तिर्यकस्रोतस्ततः स्मृतः ॥ १.५.३६ ॥

तमोबहुत्वात्ते सर्वे ह्यज्ञानबहुलाः स्मृताः ।
उत्पाद्यग्राहिमश्चैव तेऽज्ञाने ज्ञानमानिनः ॥ १.५.३७ ॥

अहङ्कृता अहम्माना अष्टाविंशद्द्विधात्मिकाः ।
एकादशन्द्रियविधा नवधात्मादयस्तथा ॥ १.५.३८ ॥

अष्टौ तु तारकाद्याश्च तेषां शक्तिवधाः स्मृताः ।
अन्तः प्रकाशास्ते सर्वे आवृताश्च बहिः पुनः ॥ १.५.३९ ॥

तिर्यक्स्रोतस उच्यन्ते वश्यात्मानस्त्रिसञ्ज्ञकाः ॥ १.५.४० ॥
तिर्यक्स्रोतस्तु सृष्ट्वा वै द्वितीयं विश्वमीश्वरः ।
अभिप्रायमथोद्भूतं दृष्ट्वा सर्गं तथाविधम् ॥ १.५.४१ ॥

तस्याभिध्यायतो योन्त्यः सात्त्विकः समजायत ।
ऊर्द्धस्रोतस्तृतीयस्तु तद्वै चोर्द्धं व्यवस्थितम् ॥ १.५.४२ ॥

यस्मादूर्द्धं न्यवर्तन्त तदूर्द्धस्रोतसञ्ज्ञकम् ।
ताः सुखं प्रीतिबहुला बहिरन्तश्च वावृताः ॥ १.५.४३ ॥

प्रकाशा बहिरन्तश्च ऊर्द्धस्रोतःप्रजाः स्मृताः ।
नवधातादयस्ते वै तुष्टात्मानो बुधाः स्मृताः ॥ १.५.४४ ॥

ऊर्द्धस्रोतस्तृतीयो यः स्मृतः सर्वः सदैविकः ।
ऊर्द्धस्रोतःसु सृष्टेषु देवेषु स तदा प्रभुः ॥ १.५.४५ ॥

प्रीतिमानभवद्ब्रह्मा ततोऽन्यं नाभिमन्यत ।
सर्गमन्यं सिसृक्षुस्तं साधकं पुनरीश्वरः ॥ १.५.४६ ॥

तस्याभिध्यायतः सर्गं सत्याभिध्यायिनस्तदा ।
प्रादुर्बभौ भौतसर्गः सोर्वाक्स्रोतस्तु साधकः ॥ १.५.४७ ॥

यस्मात्तेर्वाक्प्रवर्तन्ते ततोर्वाक्स्रोतसस्तु ते ।
ते च प्रकाशबहुलास्तमस्पृष्टरजोधिकाः ॥ १.५.४८ ॥

तस्मात्ते दुःखबहुला भूयोभूयश्च कारिणः ।
प्रकाशा बहिरन्तश्च मनुष्याः साधकाश्च ते ॥ १.५.४९ ॥

लक्षणैर्नारकाद्यैस्तैरष्टधा च व्यवस्थिताः ।
सिद्धात्मानो मनुष्यास्ते गन्धर्वैः सह धर्मिणः ॥ १.५.५० ॥

पञ्चमोऽनुग्रहः सर्गश्चतुर्द्धा स व्यवस्थितः ।
विपर्ययेण शक्त्या च सिद्ध मुख्यास्तथैव च ॥ १.५.५१ ॥

निवृत्ता वर्तमानाश्च प्रजायन्ते पुनःपुनः ।
भूतादिकानां सत्त्वानां षष्ठः सर्गः स उच्यते ॥ १.५.५२ ॥

स्वादनाश्चाप्यशीलाश्च ज्ञेया भूतादिकाश्च ते ।
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः ॥ १.५.५३ ॥

तन्मात्राणां द्वितीयस्तु भूत सर्गः स उच्यते ।
वैकारिकस्तृतीयस्तु चैद्रियः सर्ग उच्यते ॥ १.५.५४ ॥

इत्येत प्राकृताः सर्गा उत्पन्ना बुद्धिपूर्वकाः ।
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥ १.५.५५ ॥

तिर्यक्स्रोतः ससर्गस्तु तैर्यग्योन्यस्तु पञ्चमः ।
तथोर्द्धस्रोतसां सर्गः षष्ठो देवत उच्यते ॥ १.५.५६ ॥

तत्रोर्द्धस्रोतसां सर्गः सप्तमः स तु मानुषः ।
अष्टमोनुग्रहः सर्गः सात्त्विकस्तामसश्च सः ॥ १.५.५७ ॥

पञ्चैते वैकृताः सर्गाः प्राकृताद्यास्त्रयः स्मृताः ।
प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ॥ १.५.५८ ॥

प्राकृता बुद्धिपूर्वास्तु त्रयः सर्गास्तु वैकृताः ।
बुद्धिपूर्वाः प्रवर्तेयुस्तद्वर्गा ब्राह्मणास्तु वै ॥ १.५.५९ ॥

विस्तराच्च यथा सर्वे कीर्त्यमानं निबोधत ।
चतुर्द्धा च स्थितस्सोऽपि सर्वभूतेषु कृत्स्नशः ॥ १.५.६० ॥

विपर्यायेण शक्त्या च बुद्ध्या सिद्ध्या तथैव च ।
स्थावरेषु विपर्यासस्तिर्यग्योनिषु शक्तितः ॥ १.५.६१ ॥ (तुलनीय - पद्म पुराणम् १.३.७३. लिङ्ग पुराणम् १.७०.१५८

सिद्धात्मानो मनुष्यास्तु पुष्टिर्देवेषु कृत्स्नशः ।
अथो ससर्ज वै ब्रह्मा मानसानात्मनः समान् ॥ १.५.६२ ॥

वैवर्त्येन तु ज्ञानेन निवृत्तास्ते महौजसः ।
सम्बुद्ध्य चैव नामाथो अपवृत्तास्त्रयस्तु ते ॥ १.५.६३ ॥

असृष्ट्वैव प्रजासर्गं प्रतिसर्गं ततस्ततः ।
ब्रह्मा तेषु व्यरक्तेषु ततोऽन्यान्साधकान्सृजन् ॥ १.५.६४ ॥

स्थानाभिमानिनो देवाः पुनर्ब्रह्मानुशासनम् ।
अभूतसृष्ट्यवस्था ये स्थानिनस्तान्निबोध मे ॥ १.५.६५ ॥

आपोऽग्निः पृथिवी वायुरन्तरिक्षो दिवं तथा ।
स्वर्गो दिशः समुद्राश्च नद्यश्चैव वनस्पतीन् ॥ १.५.६६ ॥

औषधीनां तथात्मानो ह्यात्मनो वृक्षवीरुधाम् ।
लताः काष्ठाः कलाश्चैव मुहूर्ताः सन्धिरात्र्यहाः ॥ १.५.६७ ॥

अर्द्धमासाश्च मासाश्च अयनाब्दयुगानि च ।
स्थाने स्रोतःस्वभीमानाः स्थानाख्याश्चैव ते स्मृताः ॥ १.५.६८ ॥

स्थानात्मनः स सृष्ट्वा तु ततोऽन्यान्स तदासृजत् ।
देवांश्चैव पितॄंश्चैव यौरिमा वर्द्धिताः प्रजाः ॥ १.५.६९ ॥

भृग्वङ्गिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः ।
दक्षोऽत्रिश्च वसिष्ठश्च सासृजन्नव मानसान् ॥ १.५.७० ॥

नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ।
ब्रह्मा यथात्मकानां तु सर्वेषां ब्रह्मयोगिनाम् ॥ १.५.७१ ॥

ततोऽसृजत्पुनर्ब्रह्मा रुद्रं रोषत्मसम्भवम् ।
सङ्कल्पं चैव धर्म च सर्वेषामेव पर्वतौ ॥ १.५.७२ ॥

सोऽसृजद्व्यवसायं तु ब्रह्मा भूतं सुखात्मकम् ।
सङ्कल्पाच्चैव सङ्कल्पो जज्ञे सोऽव्यक्तयोनिनः ॥ १.५.७३ ॥

प्राणाद्दक्षोऽसृजद्वाचं चक्षुर्भ्यां च मरीचिनम् ।
भृगुश्च हृदयाज्जज्ञे ऋषिः सलिलयोनिनः ॥ १.५.७४ ॥

शिरसश्चाङ्गिराश्चैव श्रोत्रादत्रिस्तथैव च ।
पुलस्त्यश्च तथोदानाद्व्यानात्तु पुलहस्तथा ॥ १.५.७५ ॥

समानतो वसिष्ठश्च ह्यपानान्निर्ममे क्रतुम् ।
इत्येते ब्रह्मणः श्रेष्ठाः पुत्रा वै द्वादश स्मृताः ॥ १.५.७६ ॥

धर्मादयः प्रथमजा विज्ञेया ब्रह्ममः स्मृताः ।
भृग्वादयस्तु ये सृष्टा न च ते ब्रह्मवादिनः ॥ १.५.७७ ॥

गृहमेधिपुराणास्ते विज्ञेया ब्रह्मणः सुताः ।
द्वादशैते प्रसूयन्ते सह रूद्रेण च द्विजाः ॥ १.५.७८ ॥

क्रतुः सनत्कुमारश्च द्वावेतावूर्द्धरेतसौ ।
पूर्वोत्पत्तौ पुरा ह्येतौ सर्वेषामपि पूर्वजौ ॥ १.५.७९ ॥

व्यतीतौ सप्तमे कल्पे पुराणौ लोकसाधकौ ।
विरजेतेऽत्र वै लोके तेजसाक्षिप्य चात्मनः ॥ १.५.८० ॥

तापुभौ योगधर्माणावारोप्यात्मानमात्मना ।
प्रजाधर्मं च कामं च वर्तयेते महौजसौ ॥ १.५.८१ ॥

यथोत्पन्नस्तथैवेह कुमार इति चोच्यते ।
ततः सनत्कुमारेति नाम तस्य प्रतिष्ठितम् ॥ १.५.८२ ॥

तेषां द्वादश ते वंशा दिव्या देवगाणान्विताः ।
क्रियावन्तः प्रजावन्तो महर्षिभिरलङ्कृताः ॥ १.५.८३ ॥

प्राणजांस्तु स दृष्ट्वा वै ब्रह्मा द्वादश सात्त्विकान् ।
ततोऽसुरान्पितॄन्देवान्मनुष्यांश्चासृजत्प्रभुः ॥ १.५.८४ ॥

मुखाद्देवानजनयत्पितॄंश्चैवाथ वक्षसः ।
प्रजननान्मनुष्यान्वै जघनान्निर्ममेऽसुरान् ॥ १.५.८५ ॥

नक्तं सृजन्पुनर्ब्रह्मा ज्योत्स्नाया मानुषात्मनः ।
सुधायाश्च पितॄंश्चैव देवदेवः ससर्जह ॥ १.५.८६ ॥

मुख्यामुख्यान्सृजन्देवानसुरांश्च ततः पुनः ।
मनसश्च मनुष्यांश्च पितृवन्महतः पितॄन् ॥ १.५.८७ ॥

विद्युतोऽशनिमेघांश्च लोहितेन्द्रधनूंषि च ।
ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥ १.५.८८ ॥

उच्चावचानि भूतानि महसस्तस्य जज्ञिरे ।
ब्रह्मणस्तु प्रजासर्गं देवार्षिपितृमानवम् ॥ १.५.८९ ॥

पुनः सृजति भूतानि चराणि स्थावराणि च ।
यक्षान्पिशाचान् गन्धर्वान्सर्वशोऽप्सरसस्तथा ॥ १.५.९० ॥

नरकिन्नररक्षांसि वयः पशुमृगोरगान् ।
अव्ययं वा व्ययञ्चैव द्वयं स्थावरजङ्गमम् ॥ १.५.९१ ॥

तेषां ते यान्ति कर्माणि प्राक्सृष्टानि स्वयम्भुवा ।
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ १.५.९२ ॥

हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मौं कृताकृते ।
तेषामेव पृथक्सूतमविभक्तं त्रयं विदुः ॥ १.५.९३ ॥

एतदेवं च नैवं च न चोभे नानुभे तथा ।
कर्म स्वविषयं प्राहुः सत्त्वस्थाः समदर्शिनः ॥ १.५.९४ ॥

नामात्मपञ्चभूतानां कृतानां च प्रपञ्चताम् ।
दिवशब्देन पञ्चैते निर्ममे समहेश्वरः ॥ १.५.९५ ॥

आर्षाणि चैव नामानि याश्च देवेषु सृष्टयः ।
शर्वर्यां न प्रसूयन्ते पुनस्तेभ्योदधत्प्रभुः ॥ १.५.९६ ॥

इत्येवं कारणाद्भूतो लोकसर्गः स्वयम्भुवः ।
महदाद्या विशेषान्ता विकाराः प्राकृताः स्वयम् ॥ १.५.९७ ॥

चन्द्रसूर्यप्रभो लोको ग्रहनक्षत्रमण्डितः ।
नदीभिश्च समुद्रैश्च पर्वतैश्च सहस्रशः ॥ १.५.९८ ॥

पुरैश्च विविधै रम्यैः स्फीतैर्जनपदैस्तथा ।
अस्मिन् ब्रह्मवनेऽव्यक्तो ब्रह्मा चरति सर्ववित् ॥ १.५.९९ ॥

अव्यक्तबीजप्रभवस्तस्यैवानुग्रहे स्थितः ।
बुद्धिस्कन्धमयश्चैव इन्द्रियान्तरकोटरः ॥ १.५.१०० ॥

महाभूतप्रकाशश्च विशेषैः पत्रवांस्तु सः ।
धर्माधर्मसुपुष्पस्तु सुखदुःखफलोदयः ॥ १.५.१०१ ॥

आजीवः सर्वभूतानां ब्रह्मवृक्षः सनातनः ।
एतद्ब्रह्मवनं चैव ब्रह्मवृक्षस्य तस्य तत् ॥ १.५.१०२ ॥

अव्यक्तं कारणं यत्र नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिम्मायां चैवाहुस्तत्त्वचिन्तकाः ॥ १.५.१०३ ॥

इत्येषोऽनुग्रहःमर्गो ब्रह्मनैमित्तिकः स्मृतः ।
अबुद्धिपूर्वकाः सर्गा ब्रह्मणः प्राकृतास्त्रयः ॥ १.५.१०४ ॥

सुख्यादयस्तु षट्सर्गा वैकृता बुद्धिपूर्वकाः ।
वैकल्पात्सम्प्रवर्तन्ते ब्रह्मणस्तेभिमन्यवः ॥ १.५.१०५ ॥

इत्येते प्राकृताश्चैव वैकृताश्च नव स्मृताः ।
सर्गाः परस्परोत्पन्नाः कारणं तु बुधैः स्मृतम् ॥ १.५.१०६ ॥

मूर्द्धानं वै यस्य वेदा वदन्ति वियन्नाभिश्चन्द्रसूर्यौं च नेत्रे ।
दिशः श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता ॥ १.५.१०७ ॥

वक्त्राद्यस्य ब्राह्मणाः सम्प्रसूता वक्षसश्चैव क्षत्रियाः पूर्वभागे ।
वैश्या ऊरुभ्यां यस्य पद्भ्यां च शूद्राःसर्वेवर्णा गात्रतः सम्प्रसूताः ॥ १.५.१०८ ॥

नारायणात्परोव्यक्तादण्डमव्यक्तसञ्ज्ञितम् ।
अण्डजस्तु स्वयं ब्रह्मा लोकास्तेन कृताः स्वयम् ॥ १.५.१०९ ॥

तत्र कल्पान् दशस्थित्वा सत्यं गच्छन्ति ते पुनः ।
ते लोका ब्रह्मलोकं वै अपरावर्तिनीं गतिम् ॥ १.५.११० ॥

आधिपत्यं विना ते वै ऐश्वर्येण तु तत्समाः ।
भवन्ति ब्रह्मणा तुल्या रूपेण विषयेण च ॥ १.५.१११ ॥

तत्र ते ह्यवतिष्ठन्ते प्रीतियुक्ताः स्वसंयुताः ।
अवश्यम्भाविनार्थेन प्राकृतं तनुते स्वयम् ॥ १.५.११२ ॥

नानात्वनाभिसम्बध्यास्तदा तत्कालभाविताः ।
स्वपतोऽबुद्धिपूर्व हि बोधो भवति वै यथा ॥ १.५.११३ ॥

तत्कालभाविते तेषां तथा ज्ञानं प्रवर्त्तते ।
प्रत्याहारैस्तु भेदानां तेषां हि न तु शुष्मिणाम् ॥ १.५.११४ ॥

तैश्व सार्धं प्रवर्तन्ते कार्याणि कारणानि च ।
नानात्वदर्शिनां तेषां ब्रह्मलोकनिवासिनाम् ॥ १.५.११५ ॥

विनिवृत्तविकाराणां स्वेन धर्मेण तिष्ठताम् ।
तुल्यलक्षण सिद्धास्तु शुभात्मानो निरञ्जनाः ॥ १.५.११६ ॥

प्राकृते करणोपेताः स्वात्मन्येव व्यवस्थिताः ।
प्रस्थापयित्वा चात्मानं प्रकृतिस्त्वेष तत्तवतः ॥ १.५.११७ ॥

पुरुषान्यबहुत्वेन प्रतीता न प्रवर्तते ।
प्रवर्तते पुनः सर्गस्तेषां साकारणात्मनाम् ॥ १.५.११८ ॥

संयोगः प्रकृतिर्ज्ञेया यक्तानां तत्त्वदर्शिनाम् ।
तत्रोपवर्गिणी तेषामपुनर्भारगामिनाम् ॥ १.५.११९ ॥

अभावतः पुनः सत्यं शान्तानामर्चिषामिव ।
ततरतेषु गतेषूर्द्धं त्रैलोक्यात्तु मुदात्मसु ॥ १.५.१२० ॥

ते सार्द्धं चैर्महर्ल्लोकस्तदानासादितस्तु वै ।
तच्छिष्या ये ह तिष्ठन्ति कल्पदाह उपस्थिते ॥ १.५.१२१ ॥

गन्धर्वाद्याः पिशाचाश्चमानुषा ब्रह्मणादयः ।
पशवः पक्षिणश्चैव स्थावराः ससरीसृपाः ॥ १.५.१२२ ॥

तिष्ठत्सुतेषु तत्कालं पृथिवीतलवसिषु ।
सहस्रंयत्तु रश्मीनां सूर्यस्येह विनश्यति ॥ १.५.१२३ ॥

ते सप्त रश्मयो भूत्वा एकैको जायते रविः ।
क्रमेण शतमानास्ते त्रींल्लोकान्प्रदहन्त्युत ॥ १.५.१२४ ॥

जङ्गमान्स्थावरांश्चैव नदीः सर्वाश्च पर्वतान् ।
शुष्के पूर्वमनावृष्ट्या चैस्तैशचैव प्रतापिताः ॥ १.५.१२५ ॥

तदा ते विवशाः सर्वे निर्दग्धाः सूर्यरश्मिभिः ।
जङ्गमाः स्थावराश्चैव धर्माधर्मादिकास्तु वै ॥ १.५.१२६ ॥

दग्धदेहास्तदा ते तु धूतपापा युगात्यये ।
ख्यातातपा विनिर्मुक्ताः शुभया चातिबन्धया ॥ १.५.१२७ ॥

ततस्ते ह्युपपद्यन्ते तुल्यरूपैर्जनैर्जनाः ।
उषित्वा रजनीं ते च ब्रह्मणोऽव्यक्तजन्मनः ॥ १.५.१२८ ॥

पुनः सर्गे भवन्तीह मानस्यो ब्रह्मणः प्रजाः ।
ततस्तेषु प्रपन्नेषु जनैस्त्रैलोक्यवासिषु ॥ १.५.१२९ ॥

निर्दग्धेषु च लोकेषु तदा सूर्यैस्तु सप्तभिः ।
वृष्ट्या क्षितौ प्लावितायां विजनेष्वर्णवेषु वा ॥ १.५.१३० ॥

समुद्राश्चैव मेघाश्च आपश्चैवाथ पार्थिवाः ।
शरमाणा व्रजन्त्येव सलिलाख्यास्तथाचलाः ॥ १.५.१३१ ॥

आगतागतिकं चैव यदा तु सलिलं बहु ।
सञ्छाद्येमां स्थितां भूमिमर्णवाख्यं तदाभवत ॥ १.५.१३२ ॥

आभाति यस्माच्चाभासाद्भाशब्दः कान्तिदीप्तिषु ।
स सर्वः समनुप्राप्ता मासां भाभ्यो विभाव्यते ॥ १.५.१३३ ॥

तदन्तस्तनुते यस्मात्सर्वां पृथ्वीं समततः ।
धातुस्तनोति विस्तारं ततोपतनवः स्मृताः ॥ १.५.१३४ ॥

शार इत्येव शीर्णे तु नानार्थो धातु रुच्यते ।
एकार्णवे भवन्त्यापो न शीर्णास्तेन ता नराः ॥ १.५.१३५ ॥

तस्मिन् युगसहस्रान्ते संस्थिते ब्रह्मणोऽहनि ।
तावत्कालं रजन्यां च वर्तन्त्यां सलिलात्मनः ॥ १.५.१३६ ॥

ततस्ते सलिले तस्मिन्नष्टाग्नौ पृथिवीतले ।
प्रशान्तवातेऽन्धकारे निरालोके समन्ततः ॥ १.५.१३७ ॥

येनैवाधिष्ठितं हीदं ब्रह्मणः पुरुषः प्रभुः ।
विभागमस्य लोकस्य प्रकर्तुं पुनरैच्छत ॥ १.५.१३८ ॥

एकार्णवे ततस्तस्मिन्नष्टे स्थावर जङ्गमे ।
तदा भवति स ब्रह्मा सहस्राक्षः सहस्रपात् ॥ १.५.१३९ ॥

मूलम्

एकार्णवे ततस्तस्मिन्नष्टे स्थावर जङ्गमे ।
तदा भवति स ब्रह्मा सहस्राक्षः सहस्रपात् ॥ १.५.१३९ ॥

विश्वास-प्रस्तुतिः

सहस्रशीर्षा पुरुषो रुक्मवर्णो ह्यतीन्द्रियः ।
ब्रह्मा नारायणा ख्यस्तु सुष्वाप सलिले तदा ॥ १.५.१४० ॥

सत्त्वोद्रेकात्प्रबुद्धस्तु स शून्यं लोकमैक्षत ।
अनेनाद्येन पादेन पुराणं परिकीर्तितम् ॥ १.५.१४१ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे प्रथमे प्रक्रियापादे लोककल्पनं नाम पञ्चमोऽध्यायः