[[काञ्चीमाहात्म्यम् Source: EB]]
[
[TABLE]
[TABLE]
श्रियै नमः।
श्रीहयग्रीवाय नमः।
श्रीमते देवाधिराजाय नमः।
ब्रह्माण्डपुराणान्तर्गतम्—
काञ्चीमाहात्म्यम्।
<MISSING_FIG href="#"/><MISSING_FIG href="../books_images/U-IMG-1733467529Screenshot_2024-12-06_12-15-03.png"/>
कदाचिन्नैमिशारण्ये पुण्यक्षेत्रे समागताः।
शौनकाद्या महाभागा मुनयस्संशितव्रताः॥१॥
बोधायनो मुंजकेशो नारदः कण्वकर्दमौ।
कात्यायनो गौतमश्च मुनिर्दाण्डायनोष्टकः॥२॥
भारद्वाजो यवक्रीतो जैमिनिः पैल एवच।
वसिष्ठो वामदेवश्च जाबालिरथकाश्यपः॥३॥
याज्ञवल्क्यः पंचतपा अष्टावक्र स्सुशृङ्खलः।
एते चान्येच मुनयो हंसास्सन्यासिनोपरे॥४॥
यजंतो विविधैर्यज्ञैर्विष्णुमव्यक्तरूपिणम्।
ध्यायंतः पूजयन्तश्च सर्वे कैवल्यकांक्षिणः॥५॥
अथैकदा समासीना स्सर्वे प्रयतमानसाः।
वेदशास्त्रार्थतत्वज्ञाः प्राज्ञाः प्रोचुः परस्परम्॥६॥
केनेहकर्मणा नृृृणां भवेन्मुक्तिप्रदो हरिः।
यज्ञेन तपसा वाथ किंवा दानेन यात्रया॥७॥
इति तेषु ब्रुवाणेषु गौतमस्तपसांनिधिः।
विप्रान् प्रोवाच धर्मात्मा शास्त्रदृष्ट्या स्वनिश्चितम्॥८॥
यज्ञमूर्तिर्महादेवो यज्ञांगो यज्ञभुक्स्वयम् ।
यज्ञेन मुक्तिदो नृृृणां भवेदिति मतिर्मम॥९॥
ततः कण्वो महप्राज्ञस्तपसा धूतकिल्बिषः।
प्रोवाच विप्रानामंत्र्य स्वमतं ब्रह्मनन्दनः॥१०॥
तपोयोगेन महता दमेन नियमेन च।
सद्यः कैवल्यदो विष्णुर्भवेदत्र न संशयः॥११॥
मरीचिस्तान् समाभाष्य प्रोवाच स्वमतं तदा।
नराणां मुक्तिदो विष्णुर्भवेत्तीर्थानुसेवया॥१२॥
अत्रिर्दानेन देवेशं कैवल्यदमथाब्रवीत्।
एवं तदा ब्रुवाणेषु ब्राह्मणेषु परस्परम्॥१३॥
ततस्तानब्रवीत्सर्वान्वसिष्ठो ब्रह्मनन्दनः।
वसिष्ठः।
शृण्वन्तु मुनयस्सर्वे येन मुक्तिप्रदो हरिः॥१४॥
नराणां ब्राह्मणादीनामिह कैवल्यकाङ्क्षिणाम्।
जंबूद्वीपे महापुण्ये खण्डे भारतसंज्ञके॥१५॥
उत्पन्ना मनुजा भूमौ कामक्रोधमदान्विताः।
न कैवल्यमपेक्षन्ते कृपणा भोगलोलुपाः॥१६॥
अल्पायुषो ह्यल्पसत्वा अल्पज्ञाना अकिंचनाः।
न विष्णुं पूजयन्त्येते नयजन्ति स्मरन्तिवा॥१७॥
अन्यान् सम्पूजयन्त्येते भोगाय त्रिदिवौकसः।
नैव जानन्ति तेविष्णुं भोगमोक्षप्रदायिनम्॥१८॥
केचिद्यजन्ति कमलासनमात्मयोनि
मन्ये पुरारिमपरे वलसूदनंच।
स्कन्दं च भानुगणपावयि हव्यवाहं
कामार्थिनस्तनुभृतो न तु विष्णुमीशम्॥१९॥
येह्यम्बुजाक्षमरविन्दभवेशपूर्व
दिक्पालमौलिपरिघट्टितपादपीठम्।
भक्त्यार्चयन्ति मनसा सततं स्मरन्ति
ते मानवास्सपदि मुक्तिपदं प्रयान्ति॥२०॥
ये वा मुकुन्दचरणाम्बुजमर्चयन्ति
ये वा तदीयचरितानि समुच्चरन्ति।
येवा तदीयभवनानि विलोकयन्ति
ते मानवास्सपदि मुक्तिपदं प्रयान्ति॥२१॥
कर्माणिच क्रतुमुखानि तपांसितीर्थे
ष्वामज्जनानि भुवि विप्रकरार्पणानि।
ये ह्यम्बुजाक्षपदपद्मयुगेर्पयन्ति
ते मानवास्सपदि मोक्षमितः प्रयान्ति॥२२॥
कर्म कामाय भवति हरिभक्तिविनाकृतम्।
तदेव मोक्षाय भवेद्धरिभक्तिसमन्वितम्॥२३॥
विष्णुरेवहि मोक्षस्य दाता नान्योस्ति कश्चन।
तदशंभूता ब्रह्माद्या देवाः काम्यफलप्रदाः॥२४॥
तस्मादनन्यभावेन विष्णुमाराधयेन्नरः।
सन्तुष्टे देवदेवेशे मुकुन्दे परमात्मनि॥२५॥
किमलभ्यं नृणां लोके पुरुषार्थचतुष्टये।
तपोयजनयात्राभिर्दानैस्सम्पूज्य केशवम्॥२६॥
विन्देत मुक्तिं मनुजो नचैवान्यानुसेवया।
देशे कालेच पात्रेच विष्णुभक्तिसमन्वितैः॥२७॥
नरैर्यत्क्रियते कर्म तत्कोटिगुणितं भवेत्।
कृते युगे मनुष्याणां तपसा संप्रसीदति॥२८॥
त्रेतायां यजनैर्विष्णु स्सन्तुष्टो भवति द्विजाः।
द्वापरेतु युगे विष्णुः फलदस्तीर्थसेवया॥२९॥
कलौ युगेतु दानेन विप्राणामनुसेवया।
यथा तुष्यति वै विष्णुस्तथा नान्येन केनचित्॥३०॥
चपला मनुजा भूमौ कलौ कलुषमानसाः।
कामक्रोधमदालस्यलोभमोहसमन्विताः॥३१॥
तपोयजनयात्राभिर्नैव विन्दन्ति ते फलम्।
दानमेव कलौनृृृणां भुक्तिमुक्तिप्रदायकम्॥३२॥
तस्माद्दानं प्रशंसंति कलौ मुक्तिप्रदायकम्।
दानेन पूतो भवति नस्नानेन नचेज्यया॥३३॥
न स्नानेन न यज्ञेन यात्रया तपसापि वा।
शुध्द्येत्तु मनुजो लोके यथा दानेन शुध्द्यति॥३४॥
ध्यानयज्ञास्तपोयज्ञा यात्रायज्ञास्तथैवच।
देवर्षिपितृयज्ञाश्च दानयज्ञवतां नृणाम्॥३५॥
ब्रह्मयज्ञाः क्रियायज्ञा याश्चान्याश्चापि सत्क्रियाः।
दानमाश्रित्य फलदा विना दानेन निष्फलाः॥३६॥
तस्माद्दानं प्रकुर्वीत विष्णुभक्त्या स्वशक्तितः।
एकांच दशगुर्दद्याद्दश दद्याच्च गोशती॥३७॥
शतं सहस्रगुर्दद्यात्समं तेषां फलं स्मृतम्।
देशे कालेच पात्रेच प्रयतो विष्णुभक्तिमान्॥३८॥
दद्यात्किंचिदपि द्रव्यं स कोटिद्रव्यदो भवेत्।
ते वयं दानयज्ञेन विष्णुमाराध्य केवलम्॥३९॥
विधूतकल्मषास्सर्वे प्रयामः परमं पदम्।
एवं वसिष्ठे ब्रुवति सर्व एव महर्षयः॥४०॥
प्रहृष्टमनस स्तत्र तमूचुर्ब्रह्मनन्दनम्।
ऋषयः।
साधु साधु महासाधु वसिष्ठ जपतांपर॥४१॥
त्वया निस्संशयोस्माकं मोक्षमार्गः प्रदर्शितः।
कोवा देशश्च कालश्चपात्रंवा कीदृशं वद॥४२॥
यस्मिन् देशेच कालेच पात्रेवा प्रतिपादितम्।
विष्णुप्रीतिकरं भूयात्तादृग्देशादिकं मुने॥४३॥
तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यमब्रवीत्।
वसिष्ठः।
ब्रह्मणा धर्मवृद्ध्यर्थं त्रय एते विनिर्मिताः॥४४॥
देशाः कालाश्चपात्राणि शृण्वन्तु मुनिपुंगवाः।
विष्णुप्रीतिकरान्कालान्प्रवक्ष्याम्यघनाशनान्॥४५॥
आषाढः कार्तिकोमाघश्चैत्रो वैशाखएवच।
श्रावणो मार्गशीर्षश्च श्रेष्ठा मासेषु कीर्तिताः॥४६॥
शुक्लश्चैव तथाकृष्णः पक्षौद्वौसंप्रकीर्तितौ।
शुक्ले देवान्पितृृकृष्णे प्रयजेत द्विजोत्तमः॥४७॥
दशम्येकादशीचैव द्वादशी पूर्णिमा तथा।
अमा तृतीया मध्याच श्रेष्ठास्तिथिषु कीर्तिताः॥४८॥
विषुवायनकालौच यदा संक्रमते रविः।
हस्तातु भरणी श्रोणा तथा तिष्यपुनर्वसू॥ ४९॥
रोहिणीमृगमूलार्द्राज्येष्ठाश्श्रेष्ठाः प्रकीर्तिताः।
ततः पात्राणि मुनयः शृणुध्वं गदतो मम॥५०॥
द्विजएवहि सर्वेषां वर्णानां पात्रमुच्यते।
द्विजेषु साग्निहोत्रश्चेत्पात्रं परममीरितम्॥५१॥
साग्निहोत्रात्परं पात्रं दरिद्रो वेदपारगः।
साचारस्तु परं पात्रं दरिद्राद्वेदपारगात्॥५२॥
साचारात्परमं पात्रं विष्णुभक्तिपरो द्विजः।
साचारस्साग्निहोत्रश्च दरिद्रश्चकुटुम्बबान्॥५३॥
वेदशास्त्रार्थतत्वज्ञ स्सदनुष्ठानतत्परः।
विष्णुभक्तिपरो विद्वान्मुकुन्दार्पितमानसः॥५४॥
यदातु लभ्यते पात्रं तदा कालः प्रशस्यते।
देशाश्च बहवस्सन्ति विष्णुप्रीतिकरा द्विजाः॥५५॥
पुष्करं नैमिशारण्यं सिद्धाश्रम महोबिलम्।
गोवर्धनश्चित्रकूटः कुरुक्षेत्रमथो गया॥५६॥
प्रयागः पंचवट्याख्यः पद्मनाभः प्रकीर्तितः।
कौर्मं क्षेत्रं नारसिह्मं जनार्दनमजामिलम्॥५७॥
श्रीमुष्णं कुम्भघोणाख्यं श्रीरंगं वृषभाचलः।
पाटलः पाण्डुरंगाख्यो जगन्नाथस्तथैवच॥५८॥
अयोध्या मधुरा माया काशी काञ्चीह्यवंतिका।
पुरी द्व रवती चैव सप्तैता भुक्तिमुक्तिदाः॥५९॥
एता न्यन्यानि पुण्यानि क्षेत्राणि वसुधातले।
तेषु पुण्यतमा काञ्चीकलिकल्मषनाशिनी॥६०॥
स्मरणा न्मुक्तिदा नृृृणां किमु तत्र निवासिनाम्।
तत्र सन्निहितो विष्णुर्गुहायां इस्तिभूभृतः॥६१॥
तत्र विष्णुं समुद्दिश्य यत्किंचिदपि मानवः।
स्नानदानादिकं कर्म कुर्वन्मुक्तिमवाप्नुयात्॥६२॥
एवं मया पंकजजन्मनो मुखा
च्छ्रुतंहि सर्वं कथितं द्विजाग्र्याः।
कांचीनिवासः कलिकल्मषापहः
करोति जन्तून्कमलेश पार्श्वगान्॥६३॥
इति श्रीब्रह्माण्डपुराणे
काञ्चीमाहात्म्ये
प्रथमोध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1733482941Screenshot_2024-12-06_16-31-58.png"/>
श्रीः।
अथद्वितीयोऽध्यायः।
<MISSING_FIG href="../books_images/U-IMG-1733485382Screenshot_2024-12-06_17-12-44.png"/>
एवं वसिष्ठे ब्रुवति सर्व एव महर्षयः।
प्रहृष्टवदना भूत्वा प्रशशंसुर्द्विजर्षभम्॥१॥
धन्यस्त्वं कृतकृत्यस्त्वं यद्भवान् संशयात्मनाम्।
अस्माकं सुलभेनैव मोक्षमार्गमदर्शयत्॥२॥
काञ्चीक्षेत्रस्य माहात्म्यं संक्षेपेण प्रशृण्वताम्।
नतृप्तिर्जायतेस्माकं तन्नो विस्तरतो वद॥३॥
केन सानिर्मिता पूर्वं केन कांचीति विश्रुता।
सत्यव्रतं भास्कराख्यं तत्क्षेत्रमभवत्कुतः॥४॥
वसिष्ठः।
द्वैपायनानुग्रहजेन सम्य
ज्ज्ञानेन युक्तः किल सूतपुत्रः।
वक्तुं सएवार्हति भूसुराणां
क्षेत्राणि तीर्थानि रथांगपाणेः॥५॥
सत्यव्रतं भास्कराख्यंच यस्मा
त्ख्यातं क्षेत्रं मुक्तिदं चैव नृृृणाम्।
यथा तत्र प्रादुरभून्मुकुन्दो
प्येतत्सर्वं प्रवदेत्सूतपुत्रः॥६॥
वाक्यं वसिष्ठस्य निशम्य विप्रा
मुकुन्द गाधा श्रवणे कृतादराः।
तत्रा भियान्तं ददृशुर्यदृच्छया
सूतं तदा विप्रवरै रुपेतम्॥७॥
ततो विप्रा नभिवन्द्या सनस्थं
सूतं दृष्ट्वा शौनकाद्याश्चसर्वे।
पप्रच्छु रेनं परिहृष्टचेतसः
पादाम्बुजध्यानपरा मुरारेः॥८॥
ऋषयः।
सूतसूत महाभाग सर्वशास्त्रार्थ कोविद।
दैवयोगा दनुप्राप्तो भागधेयेन नो भवान्॥९॥
भवता कथिताः पूर्वं वर्णाश्रमसमाश्रिताः।
कथाः कैवल्यफलदा विष्णुभक्ति प्रदायकाः॥१०॥
क्षेत्राणिच सुपुण्यानि तीर्था न्यायतनानिच।
कथितानि त्वया विद्वँ ल्लोकानां चरितानिच॥११॥
इदानीं श्रोतुमिच्छामः कांचीक्षेत्रस्य वैभवम्।
यत्तु सत्यव्रतंनाम भास्कराख्यंच मुक्तिदम्॥१२॥
कति स्थानानि वै विष्णोः कति रुद्रस्यचानघ॥१३॥
तीर्थानि कतिवासन्ति ह्रदा नद्यश्च पुण्यदाः।
तत्सर्वं विस्तरेणैव त्वं नो वक्तुमिहार्हसि॥१४॥
तेषां तद्वचनं श्रुत्वा मुनीनां भावितात्मनान्।
नत्वा सत्यवतीपुत्रं सूतः प्रोवाच तान्मुनीन्॥१५॥
सूतः।
हन्त वः कथयिष्यामि शृणुध्द्वंविप्रपुंगवाः।
एवमेव पुरा पृष्टो भगवान्नारदो मुनिः॥१६॥
यदुवाच तदा राज्ञे ह्यंबरीषाय पृच्छते।
तद्वोहं कथयिष्यामि कांचीक्षेत्रस्य वैभवम्॥१७॥
राजाभूदंबरीषाख्यो महानिक्ष्वाकुवंशजः।
अयोध्याधिपतिः श्रीमान्नरमेधं सचाकरोत्॥१८॥
भार्गवन्तु शुनश्शेफं ऋचीकतनयं द्विजाः।
पुरस्कृत्य वसिष्ठाद्याश्चक्रुःकर्माणिचाध्वरे॥१९॥
तस्मिन्यज्ञे समाप्तेतु राजा सम्पूर्णमानसः।
सकृतावभृधः पूतो विष्णुध्यानपरायणः॥२०॥
दत्वा दानानि विप्रेभ्यो ऋत्विग्भ्यश्चविशेषतः।
तत्रागतं देवऋषिं सर्वज्ञं ब्रह्मणस्सुतम्॥२१॥
संपूज्य विधिवद्राजा परिपप्रच्छ नारदम्।
अम्बरीषः।
त्वया देवऋषे पूर्वं सर्वे धर्माः प्रकीर्तिताः॥२२॥
चतुर्णां चैव वर्णानामाश्रमाणां तथैवच।
ये धर्मा योगशीलानां वेदाध्ययनशालिनाम्॥२३॥
तेच त्वया द्विधाप्रोक्ताः कामदा मोक्षदा इति।
येच वै विनियुज्यन्ते देवेष्वन्येषु कामदाः॥२४॥
हरौचेद्विनियुज्यन्ते काम्या मोक्षप्रदा इति।
धर्माश्च बहुशश्चीर्णा अपि विष्णुविवर्जिताः॥२५॥
सुकृता अपि ते व्यर्था यथाभस्मनि वै हुताः।
धर्मोह्यणुरपि ध्यात्वा हरिं हृदि कृतो भवेत्॥२६॥
सएव भवति स्थूलो नराणां वटबीजवत्।
तस्माद्विष्णुं समुद्दिश्य पुण्यक्षेत्रेषु भक्तिमान्॥२७॥
करोति मनुजोधर्मान् समुक्तिं लभतेतराम्॥२८॥
ध्यायेत्तुविष्णोः पदपंकजं हृदा
नामानि विष्णोः प्रवदेच्च वाचा।
श्रूयाच्च विष्णोश्वरितं श्रवोभ्या
मीक्षेत विष्णोर्मुखमीक्षणाभ्याम्॥२९॥
यजन्ति विष्णुं प्रयजन्ति विष्णुं नमन्ति विष्णुंनतमस्तकाये।
नन्दन्ति विष्णुंच नदन्ति विष्णुं नृत्यन्ति तेविष्णुपदं प्रयान्ति॥३०॥
इति त्वयोदितं पूर्व मह्यं शुश्रूषवेऽनघ।
इदानीं श्रोतुमिच्छामि क्षेत्राण्यायतनानिच॥३१॥
जम्बूद्वीपे महापुण्ये खंडे भारतखंज्ञके।
स्थितानि विष्णोः स्थानानि भुक्तिमुक्तिप्रदानिच॥३२॥
तेषां पुण्यतमं श्रेष्ठं नाम्ना सत्यव्रतं शुभम्।
स्मरणान्मुक्तिदं नृृृणां देवर्षिगणसेवितम्॥३३॥
इति त्वयोदितं पूर्वं संक्षेपेण द्विजर्षभ।
ब्रूहि विस्तरतो मह्यं यथा तुष्येन्मनो मम॥३४॥
इति तस्य ब्रुवाणस्य राज्ञो वचनमद्भुतम्।
श्रुत्वा ब्रह्मात्मजश्श्रीमान्नारदो वाक्यमब्रवीत्॥३५॥
॥नारद उवाच॥
धन्यस्त्वं कृतकृत्यस्त्वं यस्य ते मतिरीदृशी।
जाता विष्णुकथास्वादे पवित्रे लोकपावने॥३६॥
हन्त ते कीर्तयिष्यामि विष्णोः क्षेत्रस्य वैभवम्।
सत्यव्रतं भास्कराख्यं क्षेत्रं विष्णोरतिप्रियम्॥३७॥
जम्बूद्वीपे पुण्यतमे वर्षे भारतसंज्ञके।
गंगाया दक्षिणे भागे योजनानां शतद्वये॥३८॥
पूर्वाब्धे स्तीरमारभ्य दशयोजनमायतम्।
दक्षिणोत्तरतस्तावद्विस्तृतं क्षेत्रमुत्तमम्॥३९॥
पुण्यवृक्षलतायुक्तं पुण्योपवनशोभितम्।
सत्यव्रतं भास्कराख्यं वाराहाख्यंच वत्स्मृतम्॥४०॥
नारसिंह्मंच तत्क्षेत्रं नृसिंहाध्युषितं यतः।
अम्बरीषः।
तस्य क्षेत्रस्य देवर्षे यतस्सत्यव्रताभिधा॥४१॥
येन तद्भास्करं क्षेत्रं वाराहाख्यंच हेतुना।
नारसिंह्ममभूद्येन तन्मे विस्तरतो वद॥४२॥
नारदः।
श्रुणु राजन् प्रवक्ष्यामि तुभ्यं शुश्रूषवे नघ।
तत्सत्यममृतंचेति यो विष्णुस्समुदाहृतः॥४३॥
यज्ञमूर्तिः परं ब्रह्म सत्यो नारायणो हरिः।
स कदाचिन्महाराज संयुक्तेन सुरर्षिभिः॥४४॥
ब्रह्मणा समनुद्ध्यातस्सुरकार्यार्थसिद्धये।
हिरण्याक्षवधार्थाय प्राप्तो यज्ञवराहताम्॥४५॥
ततः प्रविश्य पातालमर्वागम्भसि संप्लुतः।
क्षणेन चाभिदुद्राव दानवेन्द्रममर्षणः॥४६॥
तत्र दृष्ट्वा हिरण्याक्षं भूमिं तत्कक्षगामपि।
भूमिं तुण्डेनचाकृष्य हत्वा क्रोधेन दानवम्॥४७॥
आजगामाथवेगेन दंष्ट्रयोद्धृत्य भूतलम्।
क्रोडोद्दृतधरश्श्रीशश्शुशुभे स्थलसंस्थितः॥४८॥
यथाकरोद्धृतच्छत्रो नरो भाति हरिस्तथा।
ततस्समाश्वास्य धरां स्थापयामास पूर्ववत्॥४९॥
तत्र स्वदंष्ट्रेण हरिः कृत्वा विवरमंजसा।
तेनैवतु बिलेनोर्व्याः पातालादूर्ध्वमुत्पतन्॥५०॥
ऊर्ध्वमुत्पततस्तस्य वेगेनोत्कंपिता मही।
उन्नता भूद्बिलद्वरिंवल्मीकसदृशाकृतिः॥५१॥
तद्वै वराहवल्मीकमभूत्पर्वतसन्निभम्।
ततो रसातलाद्भूमिमुत्पतन्सूकराकृतिः॥५२॥
बिलस्य पार्श्वे वायव्ये लुलुंठं धरणीतले।
लुठतस्तस्य रोमाणि धूत्वतश्च मुहुर्मुहुः॥५३॥
फट्कुर्वतश्च तुण्डेन सटाः कम्पयतोभृशम्।
पातालोदकसिक्तस्य तस्यांगात्तोयबिन्दवः॥५४॥
पतिता यत्र राजेन्द्र तत्राभूत्पल्वलम्महत्।
सपंकमभवत्तोयं वराहांगसमुद्भवम्॥५५॥
वराहतीर्त्थमाख्यातं सर्वपापप्रणाशनम्।
यदनन्तसरो नाम ख्यातं लोके सुपावनम्॥५६॥
अनन्ताख्येन नागेन हरिमर्चयता ह्रदे।
उषितं तत्र तेनैव कारणेन तदाह्वयम्॥५७॥
ततोधरा समुद्बीक्ष्य हरिं सन्तुष्टमानसा।
आत्मानमसुराक्रान्तामुद्धर्तुं किटिरूपिणम्॥५८॥
शुद्धस्फटिकसंकाशं शंखचक्रगदाधरम्।
भूत्वा स्वरूपिणी देवी स्निग्धवैडूर्यसन्निभा॥५९॥
प्रणम्य देवमीशानं बद्धांजलिपुटा तथा।
तुष्टा वानन्तसरसस्तीरं पश्चिममाश्रिता॥६०॥
धरण्युवाच।
नमोनन्ताय शान्ताय करुणामृतसिन्धवे।
सुरेशाय सुदंष्ट्राय नमस्सूकरमूर्तये॥६१॥
सत्यव्रतं सत्ययोनिं सत्यात्मकमरिन्दमम्।
सत्योद्धरणकर्तारं त्वां प्रपद्ये जनार्दनम्॥६२॥
निष्पिष्टगात्रामसुरेंद्रपीडना
दनन्यनाधा मभयैषिणीमिह।
कुरुष्व मां पङ्कजनाथ पार्श्वगा
महीन्द्रतल्पेशयनो यथा रमाम्॥६३॥
इति स्तुतस्तत्र तया हरिस्ता
मालिङ्ग्य दोर्भ्यां विममर्श पाणिना।
आरोप्य चांकं परिसान्त्वयन्मुहुः
प्रोवाच वाक्यं परिहृष्टचेतनाम्॥६४॥
प्रमुंच भीतिं दनुजेंद्रसंभम्वा
मुपस्थितोहन्तव पालनाय।
स्वस्थाच भद्रे भव विज्वराच ते
पुनः प्रियं किङ्करवाण्यहं वद॥६५॥
इत्यंबुजाक्षस्य वचो निशम्य त
द्वराहरूपस्य वसुन्धरा तदा।
यदब्रवीद्राजवर ब्रवीमि ते
तदद्भुतं वाक्य मनन्यधीश्शृणु॥६६॥
धरणी।
देव देव जगन्नाथ त्वयाहं सम्यगुद्धुता।
हत्वा दानवराजन्तमुन्मत्तं देवकण्टकम्॥६७॥
भयमन्यच्च मे देव वर्तते तद्व्यपोहय।
हतो दक्षिणदिग्भागे देशे द्वादशयोजने॥६८॥
वसत्यद्रिनिभा घोरा राक्षसी कामरूपिणी।
भयदा सर्वजन्तूनां झिल्लिका नाम नामतः॥६९॥
सातु शंकरमाराध्य संवृद्धा चलसन्निभा।
पापा लब्धवरा तस्माच्छंकरात्तुमहात्मनः॥७०॥
भक्षयन्ती नरान् सर्वान् सर्वांश्च मृगपक्षिणः।
तद्वनं नविशंत्येव झिल्लिकाभयकंपिताः॥७१॥
झिल्लिकावनमित्येव तद्वदन्तिच तापसाः।
तस्याश्च देहभारेण निम्नाहमभवं हरे॥७२॥
दक्षिणायामपि दिशि निमग्नेवार्णवाम्भसि।
तां हत्वा राक्षसींघोरां मामुद्धर्तुमिहार्हसि॥७३॥
एवमुक्तस्तु देवेशो धरण्या क्रोडरूपधृक्।
क्षेत्रात्सत्यव्रता त्तस्मादुत्पपात नभो हरिः॥७४॥
दक्षिणां दिशमुद्वीक्ष्य यत्र साभूत्तु राक्षसी।
दृष्ट्वा तां राक्षसींतत्र प्रवृद्धामगसन्निभाम्॥७५॥
क्रोडेन जठरं भित्वाप्रविवेशोदरं किटिः।
आन्त्राणि तस्या निष्कृष्य प्रापतद्धरणीं पुनः॥७६॥
सा पपात हता भूमौ प्रवृद्धा चलसन्नि भा।
यत्राचलनिभा राजन् प्रवृद्धा निहता भवत्॥७७॥
तत्र वृद्धाचलाख्योभूत्प्रदेशः पुरुषर्षभ।
हत्वातु झिल्लिकां तत्रराक्षसीं घोररूपिणीम्॥७८॥
विचचार वने तस्मिन्कंचित्कालमरिन्दम्।
श्रिया विहीनम्भयदं राक्षस्योत्सादितं पुरा॥७९॥
श्रिया मुष्टमभूद्यस्मात्काननं झिल्लिकाश्रितम्।
तस्माच्छ्रीमुष्टमाख्यातं पुण्यदं झिल्लिकावनम्॥८०॥
किटिस्तत्रावसद्राजन् झिल्लिकाख्ये वने तदा।
सत्यव्रतेपिच क्षेत्रे धरण्या सहितो वसत्॥८१॥
सत्यो विष्णु र्यज्ञमूर्तिर्वराह
स्तेनेयं भूस्संवृता यत्र तस्मात्।
आसीद्राजं स्तद्धि सत्यव्रताख्यं
वाराहं चाप्युषितं यत्र तेन॥८२॥
इति श्रीब्रह्माण्डपुराणे
काञ्चीमाहात्म्ये
द्वितीयोध्यायः॥
<MISSING_FIG href="#"/><MISSING_FIG href="../books_images/U-IMG-1733549777Screenshot_2024-12-07_11-05-59.png"/>
श्रीरस्तु।
अथतृतीयोऽध्यायः।
<MISSING_FIG href="../books_images/U-IMG-1733550461Screenshot_2024-12-07_11-17-28.png"/>
श्रीनारदः।
येन सत्यव्रतं क्षेत्रं नारसिह्ममभून्नृप।
भास्कराख्यमभूद्येन तन्मे निगदतश्शृणु॥१॥
आसीत्तस्मिन्युगे पूर्वंदैतेयः काश्यपो बली।
हिरण्यकशिपुर्नाम्ना ख्यातो दानवपुंगवः॥२॥
स तपो दीर्घमातिष्ठद्गोकर्णे पुण्यवर्धने।
ऊर्द्धवबाहुः पंचतपाः पादांगुष्ठाश्रितावनिः॥३॥
वायुभक्षो जितक्रोधो वर्षाणामयुतं नृप।
तोषयामासतपसाब्रह्माणमसुरोत्तमः॥४॥
ततः कालेन महता ब्रह्मा लोकपितामहः।
हिरण्यकशिपुं दृष्ट्वा तप्यन्तं परमं तपः॥५॥
सन्तुष्टस्तपसा तस्य वचनं चेदमब्रवीत्।
हिरणकशिपो वत्स किं ते भिलषितं हृदि॥६॥
वरं वृणीष्व भद्रं ते तुष्टोस्मि तपसातव।
ततस्तुष्टं समाज्ञाय ब्रह्माणमसुरोत्तमः॥७॥
दृष्ट्वा तत्राग्रतो देवं ब्रह्मर्षिगणसेवितम्।
प्रणम्य दण्डवद्भूमौ कृतांजलिरुवाच ह॥८॥
यदि तुष्टोसि देवेश तपसासुकृतेन मे।
तान् प्रदेहि वरान् ब्रह्मन्यानिच्छतिच मे मनः॥९॥
भवेयमहमेवेशस्त्रैलोक्यस्यास्य नान्यथा।
त्वत्सृष्टेभ्योथ जन्तुभ्यो न भयं मे भवेत्क्वचित्॥१०॥
मत्त एवहि सर्वेषां भयं भवतु नित्यशः।
नच मेस्याद्दिवा मृत्युर्नच रात्रौ कदाचन॥११॥
एतदन्यच्च देवेश शृणुष्व वचनम्मम।
संयुगे युध्यमानस्य शत्रुभिर्विक्षतस्य मे॥१२॥
गात्राद्यदि पतिष्यन्ति धरण्यां रक्तबिन्दवः।
तत्क्षणादेव ते सर्वेभवन्तु मम रूपिणः॥१३॥
यावन्तो बिन्दवो भूमौ पतंति मम गात्रतः।
तावत्संख्या मम तनुर्भवेत्सततमाहवे॥१४॥
इत्युक्तस्तेन देवेशस्तस्मै दत्वा तथा वरम्।
एवम्भवतु भद्रन्त इत्युक्त्वांतर्हितो भवत्॥१५॥
सोन्तर्हिते भगवति हिरण्यकशिपुः क्रमात्।
जिगाय लोकां स्तरसा सदेवासुरमानवान्॥१६॥
आक्रम्य लोकांल्लोकेशो बभूव दनुजोत्तमः।
सभां सुधर्मामाक्रम्य कामगां देवनिर्मिताम्॥१७॥
तस्यामेव समासीन श्शुशुभे देवराजवत्।
एवं वर्षसहस्राणि बहूनि नृपनन्दन॥१८॥
अतीतान्य सुरेंद्रस्य देवशत्रो स्तरस्विनः।
ततो देवर्षिगन्धर्वा ब्राह्मणा ब्रह्मवादिनः॥१९॥
हन्यमानाश्च तेनैव दिशोवैसंप्रदुद्रुवुः।
द्रावयामास तान् सर्वान्वरदानात्स्वयंभुवः॥२०॥
निर्यज्ञाभूद्वसुमती निःस्वाध्यायवषट्क्रिया।
निर्मनुष्या निरानन्दा निरस्ताशेषसज्जना॥२१॥
एतस्मिन्नेव कालेतु तस्य पुत्रो बभूवह।
प्रह्लादो नाम राजेंद्र भगवद्भक्तिसंयुतः॥२२॥
विष्णुध्यानहताशेषसंसारसुखबन्धनः।
नान्यज्जानाति वैनित्यं विष्णोर्नामानुकीर्तनात्॥२३॥
स्मरन्तमनिशं विष्णुं स्वपुत्रं वीक्ष्यचासुरः।
मेने शत्रुर्न पुत्रोयं यतश्शत्रुमुपाश्रितः॥२४॥
तस्मादेनं वधिषामि नायमर्हति पुत्रताम्।
इत्युक्त्वा खड्गमादाय पुत्रं हन्तुं समुद्यतः॥२५॥
तमुद्यतासिंसंप्रेक्ष्य हन्तुकाममुपस्थितम्।
तुष्टाव विष्णुं प्रह्लादस्सर्वलोकभयापहम्॥२६॥
भजे हमद्याभयदं त्रिलोक्या
अजेशपूर्वै रमरैरभिष्टुतन।
व्रजेयमन्यं कमिहाशरण्यः
गजेन्द्रमुक्तिप्रदमीश्वरं विना॥२७॥
मां देवदेवेश कृपाम्बुराशे
भयार्णवे मग्नमिहोद्धराशु।
नारायणा नन्तगुणासुरारे
तव प्रपन्नोस्मि पदाब्जयुग्मम्॥२८॥
अयन्तु मां हन्तुमुपैति वीर्यवा
नसिं समुद्यम्य करेण रोषात्।
अनन्यनाथम्भवता विनाद्यमा
मुपैहिगोप्तुं तरसाम्बुजाक्ष॥२९॥
इति स्तुतो सावसुरार्भकेण
स्तम्भात्सभाया हरिराविरासीत्।
संगृह्य रूपं परमं विचित्रं
न तन्मृगस्यापि न मानुषस्य॥३०॥
तदा नृसिंह्मं प्रसमीक्ष्य चासुरः
स तेन योद्धुं जगृहेऽसिचर्मणी।
गृहीतचर्मासिमभिभ्रमन्तं
विभ्रामयन्तं निशितासिमीक्ष्य॥३१॥
करेण तस्योरसि शैलसारे
सम्प्राहरद्वज्रनखेन विष्णुः।
तस्योरसः सम्प्रहतस्य विष्णुना
विनिर्गताश्शोणितबिन्दवो ये॥३२॥
सद्यस्तएवा सुरराजकोटयो
बभूवुरुर्व्यां शतशश्व सायुधाः।
ततो नृसिह्मोपि समीक्ष्यदानवान्
सटा विधुन्वन् ससृजे नृसिह्मान्॥३३॥
सृष्टैर्नृसिह्मैःपरितस्सुपूर्णा
बभूव भूमिस्सवनाद्रिसागरा।
तान्वीक्ष्य देवाऋषयो नृसिह्मा
न्प्रणम्य हृष्टाः प्रशशंसुरेनम्॥३४॥
अहो वीर्यमहो धैर्यमहो बाहुपराक्रमः।
नरसिह्मस्य पश्यध्व महोरूपं महाबलम्॥३५॥
अहोदंष्ट्राह्यहो वक्त्रमहो रूपाण्यनेकशः।
अहो गर्जनमत्युग्रमहो बलकरंसताम्॥३६॥
इति देवैस्स्तुतो यस्मात्तत्र क्षेत्रमभूद्धरेः।
अहोवलाख्यं राजेन्द्र सर्वपापप्रणाशनम्॥३७॥
ततो हरिः समुद्वीक्ष्य हिरण्यकशिपुं पुरः।
अपातयित्वा रक्तानां बिन्दूनेतस्य भूतले॥३८॥
हन्यामिममहं पापं ब्रह्मणो वरदर्पितम्।
इति संचिन्त्य भगवानुत्पपातासुरं प्रति॥३९॥
करैश्चतुर्भिस्तं बध्वा दीर्घैर्नखरसंयुतैः।
करेणैकेन संगृह्य पादयोरसुरोत्तमम्॥४०॥
इतरेण शिरो गृह्य स्वांकमारोपयत्तदा।
स्फुरन्तं तं समुद्वीक्ष्य हरिस्स्वकरपीडनात्॥४१॥
कराभ्यामुदरं भित्वा वक्त्रं कृत्वास्य चोदरे।
चुचोष रुधिरं कोष्णं सफेनमसुरस्यतु॥४२॥
एवं विनिहतेतस्मिन्दानवेन्द्रे महाबले।
तुतुषुर्देवतास्सर्वा स्सर्वेच परमर्षयः॥४३॥
गन्धर्वाश्च जगुस्सर्वे ननृतुश्चाप्सरोगणाः।
तस्मिन्नेव मुहूर्तेतु तस्यरक्तोद्भवाश्च ये॥४४॥
असुरास्संहृतास्सर्वे नृसिह्मैरपरैरपि।
हत्वाहिरण्यकशिपुं स्वयमेव जनार्दनः॥४५॥
दृष्ट्वा तत्रासुरीं सेनां सवाजिरधकुंजराम्।
महतीमर्णवप्रख्यां प्रविवेश जिघांसया॥४६॥
चक्रमुद्यम्य वै गर्जन्विधून्वंश्चसटा मुहुः।
जघान कांश्चिच्चक्रेण नखैः कांश्चिद्व्यदारयत्॥४७॥
प्रममाथोरसा कांश्चिद्दंष्ट्रैः कांचिद्ददंश ह।
केचित्तस्यैव नादेन पतिता धरणीतले॥४८॥
प्रदुद्रुवुस्तथाचान्ये दिशो दश भयार्दिताः।
ततो दृष्ट्वा हतां सेनां नृसिह्मेन महात्मना॥४९॥
सचिवा दानवेन्द्रस्य दुःखिता भयकम्पिताः।
सुधन्वा धूम्रकेतुश्च धूम्राक्षो धर्मपालकः॥५०॥
विप्रचित्तिर्मधुर्वाणः कालनेमिश्व विश्रुतः।
अष्टावेते दुराधर्षा दानवा गलितायुधाः॥५१॥
हतावशिष्टैर्दनुजैस्सहितास्संप्रदुद्रुवुः।
अर्दिता नरसिह्मेण सर्वे प्राणपरीप्सवः॥५२॥
ते वै सत्यब्रतक्षेत्रं दृष्ट्वागहनमद्भुतम्।
नानावृक्षलतागुल्मं बहुकन्दरशोभितम्॥५३॥
सिह्मव्याघ्रवराहैश्च गजयूधै स्समावृतम्।
तत्र वाराहवल्मीकं दृष्ट्वा पर्वतसन्निभम्॥५४॥
कलभैः कुञ्जरैश्चैव करिणीभिस्समावृतम्।
सवै हस्तिगिरिर्नाम हस्तियुधावृतो यतः॥५५॥
गजेन्द्रः कश्चिदागन्य स्वयूधैरभिसंवृतः।
बहुवर्षसहस्राणि पूजयन्पुरुषोत्तमम्॥५६॥
उवास तस्माद्राजेंद्र हस्तिशैल इतीरितः।
तस्य शैलस्य परित स्समन्ताद्दशयोजनम्॥५७॥
व्यालव्याघ्रसमाक्रान्तं कान्तारं रोमहर्षणम्।
तत्प्रविश्य वनं सर्वे दानवा भयविह्वलाः॥५८॥
वृक्षगुल्माद्रिपाषाणमृगपक्षिगणानपि।
वने पश्यन्ति तान् सर्वान्मन्यन्ते नृहरीनिव॥५९॥
माक्षिकादपि चोड्डीनात्पर्णात्प्रचलितादपि।
भीताः प्रकम्पितधियः निलिल्युः कानने क्वचित्॥६०॥
शैलस्थोपत्यकागर्ते हस्तिनाम्नः परंतप।
प्रलीनास्तत्र तेसर्वे किंचिद्भयविवर्जिताः॥६१॥
मन्दमन्दं जजल्पुश्च नृसिह्मागमशंकया।
किंकुर्मोद्य क्ववा यामः कोवा नश्शरणं भवेत्॥६२॥
कस्याश्रयबलंवीक्ष्य ननो हन्यान्नृकेसरी।
इति तेषु ब्रुवाणेषु भीतेष्वसुरपुंगवः॥६३॥
कालनेमिस्तु तान्सर्वान्समाभाष्येदमब्रवीत्।
शृणुध्वमसुरास्सर्वे यद्ब्रवीमि वचो मम॥६४॥
यथा नृसिह्मश्चोद्वेगात्पलायनपरो भवेत्।
यमाश्रित्य वयं सर्वे भवेम भयवर्जिताः॥६५॥
तं वयं लोककर्तारं व्रजामश्शरणं भवम्।
त्रिपुरघ्नं त्रिलोकेशं दक्षाध्वरहरं हरम्॥६६॥
सएव कर्ता लोकस्य हर्ता भक्तजनाश्रयः।
सम्पूजितः क्षणादेव भक्तानामिष्टदो भवेत्॥६७॥
इति तस्य वचश्श्रुत्वा सर्वे दानवपुंगवाः।
उत्तस्थुर्हृष्टरोमाण श्शंभुमभ्यर्चितुं तदा॥६८॥
संस्थाप्य लिंगं रुद्रस्य पूजार्हं समपूजयन्।
सत्यं नाथोभवेच्छम्भुरस्माकमितिदानवाः॥६९॥
यस्मादपूजयन्सर्वे लिंगं पार्त्थिवमादरात्।
तस्मात्तत्सत्यनाथाख्यं स्थानं रुद्रस्य भूतले॥७०॥
हस्तिशैलस्य वायव्ये देशेतल्लिंगमुत्तमम्।
असमाप्ते ततस्तेषां रुद्रस्य बलिकर्मणि॥७१॥
अकस्मात्कंपिता भूमिस्सनागाद्रिवना तदा।
वृक्षाः प्रकंपितास्सर्वे धावन्ति मृगपक्षिणः॥७२॥
भीतास्ते दानवास्सर्वे किमेतदिति सम्भ्रमात्।
शुश्रुवुश्च तदा शब्दं ब्रह्माण्डस्फोटसन्निभम्॥७३॥
गर्जतो नरसिह्मस्य दानवान्प्रतिजघ्नतः।
ददृशुश्चापि दैतेयान्नृसिह्मेण प्रधावितान्॥७४॥
भिन्नगात्रानसृग्दिग्धान्भग्नानापततो भयात्।
हतशेषान्नृसिह्मेण दृष्ट्वा प्रथममागतान्॥७५॥
अत्राप्यायाति नो हन्तुमिति प्राणपरीप्सवः।
तं रुद्रबलिमुत्सृज्य भीताः प्रविविशुर्गुहाम्॥७६॥
अधस्ताद्धस्तिशैलस्य तां वराहेण निर्मिताम्।
तद्बिलं ते प्रविश्याशु पातालमभिदुद्रुवुः॥७७॥
नृसिह्मोपि ततस्सर्वान् हत्वा शत्रुगणान्पुनः।
हतावशिष्टान्द्रवतो भीषयन्न नुदु द्रुवे॥७८॥
चक्रमुद्यम्य हस्तेन गर्जन्घोरं मुहुर्मुहुः।
दक्षिणान्दिशमुद्दिश्य यत्र ते दानवा गताः॥७९॥
यत्र सत्यब्रतं नाम क्षेत्रं पापप्रणाशनम्।
पुण्यवृक्षलतागुल्मं पुण्योपवनशोभितम्॥८०॥
कुल्यापल्वलकासारवापीकूप शतैर्युतम्।
वराहव्याघ्रमहिषऋक्षहर्यक्षकुंजरौः॥८१॥
अन्यैर्नानाविधाकारैर्विवर्णैश्चमृगैर्युतम्।
चूतपुन्नागवकुल केसरोद्दालकादिभिः॥८२॥
अन्यैश्चविविधैर्वृक्षैर्युतं कूजद्विहंगमैः।
देवगन्धर्वसिद्धैश्च सेवितं परमर्षिभिः॥८३॥
तत्र गत्वा वने राजन् नरसिह्मो महाबलः।
दृष्ट्वा तच्च वराहाख्यमनंताख्यंच यत्सरः॥८४॥
तत्तीरानिलसंस्पृष्टो बभूव विगतक्लमः।
अदृष्ट्वा तत्र दैवेयान् दध्यौ ते क्व गता इति॥८५॥
ततो दृष्ट्वा गुहांरम्यां हरिर्हस्तिगिरेरथः।
प्रविश्य तां गुहांतत्र ददर्श बिलमद्भुतम्॥८६॥
दंष्ट्रया दारितं पूर्वं स्वैनैव किटिरूपिणा।
तत्र ज्ञात्वासुरान्भीत्या बिलात्पातालमाश्रितान्॥८७॥
तत्रैव तद्बिलद्वारे गुहायां हस्तिभूभृतः।
न्यवसद्धन्तुकामो वै दानवान्पुनरागतान्॥८८॥
यस्मात्तत्रावसद्देवो देवसंघैरभिष्टुतः।
तस्मात्सत्यव्रतं क्षेत्रं नारसिह्ममभून्नृप॥८९॥
नारसिह्ममुपाख्यानं शृण्वन्ति च पठंति ये।
संभृतास्सकलैरर्थैः भवन्ति मनुजा भुवि॥९०॥
हत्वा नृसिह्मो दनुजेंन्द्रमुद्धतं
दत्वा भयं दैत्यपतेस्सुताय।
कृत्वा महीं दुर्जनभारवर्जितां
गत्वाथ नागाद्रिदरीमुवास ह॥९१॥
इति श्रीब्रह्माण्डपुराणे
काञ्चीमाहात्म्ये
तृतीयोध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1733570231Screenshot_2024-12-07_16-46-53.png"/>
श्रीरस्तु।
अथचतुर्थोऽध्यायः।
<MISSING_FIG href="../books_images/U-IMG-1733584644Screenshot_2024-12-07_11-05-59.png"/>
श्रीनारदः।
शृणुराजन्प्रवक्ष्यामि वचस्तद्ब्रुवतो मम।
यच्छ्रुत्वा मनुजः पापान्मुक्तो मोक्षमवाप्नुयात्॥१॥
यस्मिन् देशे नृपश्रेष्ठ ब्राह्मणा वेदपारगाः।
ब्रह्मिष्ठा विष्णुभक्ताश्च विष्णुव्रतपरायणाः॥२॥
निवसंत्यग्नि सदृशास्सदेशः पुष्कराभिधः।
यस्मिन् देशे ह्रदाः पुण्यास्सरितस्सागरंगमाः॥३॥
शोभंते पर्वताश्चैव सदेशोहिं विपुष्करः।
यस्मिन् हंसाश्च सारंगा मयूराश्चमरास्तथा॥४॥
देवर्षिपितृगन्धर्वा वसन्ति समहोदयः।
यस्मिन् देशेस्वयं विष्णुरेको वसति केवलम्॥५॥
देवदेवो जगन्नाधस्सर्वलोकाभयंकरः।
सदेशः पुण्डरीकाख्यः पुण्डरीकाक्षसंश्रितः॥६॥
देवा विष्णुस्सरितश्चाद्रयश्च
ह्रदाश्च पुण्याः पुष्करिण्यश्च यत्र।
सवै देशः कथितो भास्कराख्यः
पुण्यप्रदः पापहरश्च नृृृणाम्॥७॥
अतस्सत्यव्रतं क्षेत्रं भास्कराख्यमभून्नृप।
तत्र देवास्सगन्धर्वास्सिद्धाश्च परमर्षयः॥८॥
संपूज्य देवदेवेशं संप्राप्ताः परमां गतिम्।
पुण्यवृद्धिकरं नृृणां क्षेत्रंपापप्रणाशनम्॥९॥
शैलाश्च पुष्करिण्यश्चह्रदा नद्यश्च पुण्यदाः।
सन्ति तत्र महाराज क्षेत्रे सत्यव्रते शुभे॥१०॥
समन्ताद्धस्तिशैलस्य दशयोजनमायतम्।
नानातीर्थसमायुक्तं देवर्षिगणशोभितम्॥११॥
पुण्यवृक्षलतागुल्मं क्षेत्रं विष्णुप्रियं शुभम्।
धर्मोप्यणुस्तत्र कृतः स्थूलो भवति पार्थिव॥१२॥
अनेकैः किं कृतैर्धर्मैरन्यत्राल्पफलप्रदैः।
एकस्तत्र कृतो धर्मोवर्धतेहि सहस्रशः॥१३॥
तत्रैवहि हरिर्दृष्टो ब्रह्मणा परमेष्ठिना।
हयमेधेन यज्ञेन विष्णुमभ्यर्चता पुरा॥१४॥
विमाने पुण्यकोट्याख्ये हस्तिशैलस्य मूर्धनि।
पावनं पुण्यकोट्याख्यं विमानं पुण्यवर्धनम्॥१५॥
सकृद्दर्शनमात्रेण सप्तजन्माघनाशनम्।
कोटिं दृष्ट्वा विमानस्य हस्तिशैलस्य मूर्धनि॥१६॥
नराः पातकिनोवापि सद्यः पूता भवन्ति हि।
तस्मात्तत्पुण्यकोट्याख्य मभूत्पुण्यप्रवर्धनात्॥१७॥
जन्तुभिर्यत्कृतं पुण्यं तत्कोटिगुणितं भवेत्।
यस्य दर्शनमात्रेण तदाख्या तेन तस्य हि॥१८॥
तत्र कांचीति विख्याता पुरी पुण्यविवर्धनी।
विधातुरश्वमेधार्थेनिर्मिता विश्वकर्मणा॥१९॥
सप्तयोजनविस्तीर्णा सप्तयोजनमायता।
पुण्योद्यानवती रम्या समभूमौ प्रतिष्ठिता॥२०॥
वापीकूपतटाकाढ्या सरित्पल्वलमण्डिता।
देवदानवगन्धर्वसिद्धविद्याधरोरगैः॥२१॥
सन्ततं सेविता विप्रैर्ब्रह्मकल्पैर्महर्षिभिः।
ब्रह्मर्षिगणसम्पूर्णां तथा राजर्षिभिर्वृता॥२२॥
अन्यैर्नानाविधैः पुण्यैश्चतुर्वर्णैर्जनैर्वृता।
पाटलाशोकपुन्नागवकुलामलकासनैः॥२३॥
कपित्थपनसाश्वत्थवटोदुम्बरतिन्दुकैः
जम्ब्वाम्रतिन्त्रिणीलोध्रनारिकेलार्जुनादिकैः॥२४॥
अन्यैर्नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः।
सदा सर्वर्तुकुसुमैर्नत्यूहकुलसंकुलैः॥२५॥
शुकबर्हिबकक्रौंचषट्पदालापसंकुलैः।
प्रवृद्धशाखैरगमैर्वायुकंपितमस्तकैः॥२६॥
संवृता सा पुरी श्रेष्ठा यथेन्द्रस्यामरावती।
कुमुदोत्पलकल्हारशतपत्रश्रियोज्वलैः॥२७॥
हंसकुक्कुटकोयष्टिकारण्डवरवान्वितैः।
संवृता सर्वतोरम्यै स्सरोभिर्देवनिर्मितैः॥२८॥
नद्यः प्रसन्ना विमलास्स्वच्छोदाश्शुभ्रवालुकाः।
सुखावगाहास्सुभगा स्सुपुण्यास्सुरसेविताः॥२९॥
वहन्ति तत्र राजेन्द्र मज्जनान्मुक्तिदायकाः।
अश्वाच वंजुला कम्पा हरिद्रा विरजा तथा॥३०॥
क्षीरा वेगवतीत्येता स्सप्त नद्योतिपुण्यदाः।
देवोद्यानशताकीर्णा देवायतनसंकुला॥३१॥
देवाभैर्नृवरैः पूर्णा कांची कामितदायिनी।
कांची कांक्षितदा नृृृणां सृष्टा कमलजन्मना॥३२॥
स्मरणान्मुक्तिदा नृृृणां किमु तत्रैव तस्थुषाम्।
क इति ब्रह्मणो नाम तेन तत्रांचितो हरिः॥३३॥
हयमेधेन राजेन्द्र तस्मात्कांचीति बिश्रुता।
गजवाजिरथैः पूर्णा वृषगोकुलसंकुला॥३४॥
कृतपुण्यैर्मृगैरन्यै रजोष्ट्रमहिषैरपि।
सौधाट्टालकसयुक्ता गृहगोपुरमण्डिता॥३५॥
वातायनवितर्दीक विटंकान्वितमन्दिरा।
गृहैरचलसंकाशै श्शोभिता स्वर्णकुट्टिमैः॥३६॥
दान्तराजतसोपानैर्वैडूर्यतलशोभितैः।
सुवर्णशिखरैश्चित्रै स्सौधैरभ्रंकषैर्वृता॥३७॥
विमानैर्देवसंघानां सर्वतस्समलंकृता।
वेदविद्भिर्व्रतस्नातैर्जपहोमपरायणैः॥३८॥
साचारै र्विनयोपेतैर्दांतैरनलसन्निभैः।
साग्निहोत्रैश्च संपूर्णा ब्राह्मणैर्निष्प्रतिग्रहैः॥३९॥
स्वधर्मनिरतैश्चान्यैर्वदान्यैस्संवृता जनैः।
सदा मृदंगनिस्साणभेरीपटहनादिता॥४०॥
उच्चैरुच्चारितैर्विप्रै स्सषडंगैस्सलक्षणैः।
सुस्वरैर्वेदघोषैश्च सन्नादितदिगन्तरा॥४१॥
ब्रह्मादिभिस्सुरैः सेव्या सा पूर्ब्रह्मपुरोपमा।
काञ्च्यांवसति यो मर्त्य स्सदेवैरपि पूज्यते॥४२॥
चण्डालः पुल्कसस्स्तेनो ब्रह्महा गुरुतल्पगः।
सुरापः पतितश्चैव येच पातकिनोपरे॥४३॥
तेपि काञ्चीनिवासेन पुण्यभाजो भवन्तिहि।
तस्मात्कांच्यां वसेत्प्राज्ञो यावदायुः प्रमुक्तये॥४४॥
वसेत्संवत्सरंवापि षम्णासान्मासमेव वा।
दशरात्रं त्रिरात्रंवा तेन पापात्प्रमुच्यते॥४५॥
वसेन्मार्गवशात्कांच्या मेकामपि निशां यदि।
तेन पापाद्विनिर्मुक्तः पुण्यांल्लोकानवाप्नुयात्॥४६॥
अकर्मकारिणो येच येच सत्कर्मवर्जिताः।
विकर्मस्थाश्च ये विप्राः केवलं स्वोदरंभराः॥४७॥
अज्ञानिनश्शठा मूर्खा जपहोमविवर्जिताः।
परान्ननिरता नित्यं परदारेषु लोलुपाः॥४८॥
पिशुना निन्दकाः क्षुद्रा विष्णुद्वेषपराश्च ये।
तेपि कांचीनिवासेन पुण्यांल्लोकान् व्रजन्ति हि॥४९॥
किंपुनश्श्रद्धया भक्त्या जपहोमपरायणः।
योहि कांच्यां वसेद्विप्रो विष्णुध्यानपरायणः॥५०॥
परान्नविमुखो नित्यं परदारानचिन्तयन्।
तर्पयंश्च पितृृृन्देवानर्चयन्पुरुषोत्तमम्॥५१॥
ध्यायन् जपंश्च सततं तमेव मधुसूदनम्।
करस्थं तस्य कैवल्यं प्रवदन्ति मनीषिणः॥५२॥
यत्र कुत्र स्थितो वापि काञ्चीं प्राप्य सकृन्नरः।
क्षेत्रं सत्यव्रतं नत्वा कृत्वातु वपनं शुचिः॥५३॥
समुद्दिश्य पितॄन् सर्वान् पिण्डैश्श्राद्धं करोति यः।
स कोटिकुलमुध्दृत्य विष्णुलोके महीयते॥५४॥
गोदानमन्नदानंच पितॄनुद्दिश्य यो नरः।
करोति तत्रराजेंद्र नन्दन्ति पितरोखिलाः॥५५॥
वृषश्राद्धं प्रकुर्वीत विष्णुप्रीतिकरं शुभम्।
अश्वमेधसहस्रस्य फलदन्तत्तु कीर्तितम्॥५६॥
गृहं विप्राय यो दद्याद्धनधान्यैस्सुसंवृतम्।
विष्णुना स परिष्वक्तो मोदते विष्णुमन्दिरे॥५७॥
कन्यादानं तु यःकुर्यात्सालंकारं सदक्षिणम्।
तस्य नन्दन्ति पितरो विमुक्तास्सर्वकिल्बिषैः॥५८॥
अन्नानि दद्याद्विप्रेभ्यः स्वादूनि गुणवन्तिच।
तत्र विष्णुं समुद्दिश्य भक्तियुक्तेन चेतसा॥५९॥
विष्णुप्रीतिकरं ह्यन्नं क्षेत्रे तस्मिन्विशेषतः।
तदेकमपि वा विप्रं भोजयेत्सुसमाहितः॥६०॥
शंखचक्रधरश्श्रीमान्पीतवासा जगत्पतिः।
स्वयंहि विप्ररूपेण तत्र भुङ्क्ते जनार्दनः॥६१॥
तस्मादन्नं द्विजाग्र्येभ्य स्सम्प्रयच्छेत्प्रयत्नतः।
प्रदक्षिणन्तु कुर्वीत यावत्सत्यव्रतं भवेत्॥६२॥
अशक्तस्तु प्रकुर्वीत कांचींवा मोक्षदायिनीम्।
हस्तिशैलस्य परितः पंचक्रोशमथापिवा॥६३॥
तत्र तत्रच तीर्थेषु ह्रदेषु कृतमज्जनः।
तर्पयित्वा पितृृृन्देवान् श्राद्धैर्भक्त्या हरिं स्मरन्॥६४॥
ततस्सम्भोजयेद्विप्रान् घृतसूपादिभिर्भृशम्।
एवं कृते महाराज क्षेत्रभूम्याः प्रदक्षिणे॥६५॥
पदेपदे श्वमेधस्य फलंप्राप्नोति मानवः।
दुर्बलो दूरदेशस्थः पंगुरन्धोपिवा जनः॥६६॥
संस्मरन्मनसा कांचीं प्रणमेत्तां दिशंयदि।
सोपि पापाद्विनिर्मुक्तो भवेत्तत्र नसंशयः॥६७॥
या विष्णुं यजता पुराहि विधिना सत्यव्रते निर्मिता
या मर्त्यान्वितनोति वीतकलुषानात्माश्रितानंजसा।
तामासाद्य नरो वसेदनुदिनं भक्त्यार्चयन्नच्युतं
कांचीं वांछितदायिनीं कलिमलप्रध्वंसिनीं पावनीम्॥६८॥
इति श्रीब्रह्माण्डपुराणे
काञ्चीमाहात्म्ये
चतुर्थोऽध्यायः॥
श्रीरस्तु।
अथपंचमोध्यायः।
अम्बरीषः।
कथं सत्यव्रतक्षेत्रे ब्रह्मालोकपितामहः।
किमर्थमयजत्तत्र हयमेधेन शार्ङ्गिणम्॥१॥
कथंवा निर्मिता कांची विख्याता केन हेतुना।
कस्मिन्काले द्विजश्रेष्ठ निर्मिता विश्वकर्मणा॥२॥
तस्मिन् क्षेत्रे महापुण्ये हस्तिशैलस्य मूर्धनि।
कथमाविरभूद्देवः पुण्यकोट्यां हरिस्स्वयम्॥३॥
अश्वमेधे महायज्ञे ब्रह्मणा समनुष्ठिते।
यज्ञमूर्तिरनन्तात्मा तत्र प्रादुर्बभूवह॥४॥
तत्र तीर्थानि पुण्यानि विष्णोरायतनानिच।
अन्यानि कति पुण्यानि सन्ति सत्यव्रते शुभे॥५॥
श्रेष्ठानि कति तीर्थानि तथैवायतनानिच।
कानि नामानि तीर्थानां रूपाणां वा मधुद्विषः॥६॥
रूपैर्वा कीदृशैर्विष्णु स्तत्रास्ते कैश्च पूजितः।
सर्वमेतदशेषेण विस्तराद्वक्तुमर्हसि॥७॥
इति सम्पृच्छतस्तस्य राज्ञो वचनमुत्तमम्।
श्रुत्वा देवऋषिश्रेष्ठः प्रवक्तुमुपचक्रमे॥८॥
नारदः।
हन्त ते कथयिष्यामि राजन्नेकमनाश्शृणु।
सत्यव्रतस्य क्षेत्रस्य माहात्म्यं पुण्यवर्धनम्॥९॥
तीर्थानां कथयिष्यामि माहात्म्यं पापनाशनम्।
वराहांगसमुद्भूत मनंताख्यंच यत्सरः॥१०॥
तद्धि पुण्यतमं प्रोक्तं महापातकनाशनम्।
हेमांभोजाख्यमपरमैशान्यां हस्तिभूभृतः॥११॥
श्रिया विनिर्मितं विष्णुमर्चयंत्या पुरांबुजैः।
लक्ष्मीतीर्थमिति ख्यातं पुण्यदंश्रीविवर्धनम्॥१२॥
ब्रह्माख्यमपरन्तीर्थं ब्रह्मणा निर्मितं हि तत्।
आग्नेय्यां दिशि शैलस्य चाग्न्याख्यं तीर्थमुत्तमम्॥१३॥
ब्रह्मणा मध्नता यज्ञे त्वरणिं चोत्तरारणिम्।
उत्पन्नः पावको यत्रतत्र कृत्वा बिलं विधिः॥१४॥
उत्ससर्ज बिले तोयं साक्षतं शास्त्रतस्तदा।
तस्मात्तदग्रितीर्थाख्य मभूदोजस्करं नृणाम्॥१५॥
नैऋत्यां पूर्णपात्रस्थ मुदकन्तु कुशैस्सह।
उत्सृष्टं ब्रह्मणा यत्र तत्कुशाख्यमभूत्सरः॥१६॥
कुशतीर्थमिति ख्यातं स्नानात्पापहरं नृणाम्।
अश्वमेधे महायज्ञे ब्रह्मणा परमेष्ठिना॥१७॥
वायव्ये गार्हपत्यस्य कुण्डे यत्र सरस्वती।
निर्गता जलरूपेण प्लावयन्ती मखं यतः॥१८॥
अत स्तत्कुण्डतीर्थाख्य मभूत्परमपावनम्।
हस्तिशैलस्य वायव्ये तीर्थं पौरन्दराभिधम्॥१९॥
गौतमेन पुरा शप्तो महेंद्रः पाकशासनः।
अहल्यासंगमाद्राजन्नफलोभूत्सुदुःखितः॥२०॥
पर्यटन् पृथिवींसर्वां निर्वीर्योभयविह्वलः।
सतु सत्यव्रतं क्षेत्रं समासाद्य पुरन्दरः॥२१॥
तत्र देवान् ऋषीन् दृष्ट्वा प्रार्थयामास दुःखितः।
तत्र देवाश्च पितृभिर्यजन्ति पुरुषोत्तमम्॥२२॥
दृष्ट्वा ते विफलं शक्रं मेषस्य वृषणौ नृप।
ददुश्शक्राय पितरस्ताविन्द्रः प्रत्यपद्यत॥२३॥
ततश्शक्रस्सवृषण स्तत्र कृत्वासरो महत्।
तस्मिन्त्सरसि देवेन्द्र स्स्नात्वा देवगणैस्सह॥२४॥
ध्यायन् जनार्दनं देवं चकार तप उत्तमम्।
पश्यंश्च हस्तिशैलाग्रे पुण्यकोट्यां हरिं मुहुः॥२५॥
एवं वर्षशतं राजन्नुषित्वा पाकशासनः।
मुक्तशापश्श्रियं लब्ध्वा जगाम हि पुनर्दिवम्॥२६॥
यदिन्द्र निर्मितं तीर्थं तस्मात्पौरन्दराभिधम्।
तस्मिन्नेवच दिग्भागे तीर्थान्यन्यानि भूमिप॥२७॥
सन्ति तान्यपि वक्ष्यामि शृणुष्व गदतो मम।
वामनाख्यं पापहरं तीर्थं पुण्यप्रवर्धनम्॥२८॥
वामनेन पुरा राजन्बलियज्ञदिदृक्षुणा।
निर्मितं तत्र देवेन तदाख्यमभवद्भुवि॥२९॥
अथापरं पुण्यतमं तीर्थैशृणु नृपोत्तम।
पातालात्स्वयमभ्येत्य विष्णुना शेषरूपिणा॥३०॥
निर्मितं पंचतीर्थाख्यं पंचपातकनाशनम्।
बलेश्च यजमानस्य ब्रह्मर्षेस्तप्यतो भृगोः॥३१॥
तयोरनुग्रहार्थाय वामनस्स्वयमागतः।
दर्शयामास रूपाणि दिव्यानि विविधानिच॥३२॥
यत्र कामेष्टिमकरोद्भृगुर्ब्रह्मर्षिसत्तमः।
श्रिया विहीनो दुःखार्तः प्रपेदे च श्रियं पुनः॥३३॥
यत्र गौरीसमभ्येत्य शङ्करेण प्रकोपिता।
श्रिया विहीना पत्याच चकार तप उत्तमम्॥३४॥
कामकोष्ठे बिलद्वारे सम्यगाराध्य वामनम्।
पुनः पतिं समासाद्य मुमुदे गिरिजा नृप॥३५॥
यत्र वेदिं कल्पयित्वा भृगुः कामितसिद्धये।
चकार कामिकामिष्टिं श्रीर्मेभूयात्सुतेति हि॥३६॥
जुह्वत स्तस्य विप्रर्षे रग्निकुंडात्समुत्थिता।
कन्यारूपधरा लक्ष्मी स्तांदृष्ट्वा मुमुदे भृगुः॥३७॥
ततो होमे समाप्तेतु तस्मिन्कुण्डेथ वामनः।
उत्ससर्ज तदापुण्य मुदकं स्वकमण्डलोः॥३८॥
शेषरूपेण हरिणा भृगुणा बलिना तथा।
वामनेनच लक्ष्म्याचा प्युषितं पंचभिर्यतः॥३९॥
तस्मात्तत्पंचतीर्थाख्यं पावनं श्रीकरं नृणाम्।
तत्रापरं मंगलाख्यं तीर्थमस्ति महत्तरम्॥४०॥
यत्रगंगा नृपश्रेष्ठ शप्ता गिरिजया पुरा।
तप उग्रं समास्थाय मुक्तशापा बभूवह॥४१॥
शापादमंगला भूत्वा पुनर्मंगलमाप यत्।
तस्मात्तन्मंगलं नाम्ना तीर्थं ख्यातं सुमंगलम्॥४२॥
चन्द्राख्यमपरं तीर्थं चन्द्ररूपेण विष्णुना।
निर्मितं रक्षता गौरीं प्रपन्नां भयविह्वलाम्॥४३॥
तद्बैचन्द्रसरो नाम्ना ख्यातमासीत्सुशोभनम्।
यस्मिन् शिवजटाजूटाद्गंगा निपतिता भवत्॥४४॥
क्रुद्धायाः पर्वतेन्द्रस्य पुत्र्याश्शापात्प्रकंपिता।
तस्मात्तच्छिवगंगाख्य मभूच्चन्द्रसरः पुनः॥४५॥
पुनरन्यच्च राजेन्द्र तीर्थानामुत्तमं परम्।
सर्वतीर्थमिति ख्यातं सर्वपापप्रणाशनम्॥४६॥
पुरा देवास्सगन्धर्वाः सिद्धाश्च परमर्षयः।
तीर्थानि यानि लोकेषु ह्रदानद्यो नदा स्तथा॥४७॥
सर्वे समेत्य सहिता स्तुष्टुवुर्यत्र केशवम्।
कर्तुं विकलुषां गंगां गौरीशापादमंगलाम्॥४८॥
तत्रतीर्थवरं पुण्यं सर्वतीर्थैस्समन्वितम्।
तस्य दक्षिणदेशेस्ति पाण्डवं तीर्थमुत्तमम्॥४९॥
पारीक्षितेन यत्रेष्टं पुरा कृष्णं दिदृक्षुणा।
तस्य तीर्थस्य चाग्नेये देशे ज्वरहराभिधम्॥५०॥
तीर्थं तपस्विना पूर्वं ब्राह्मणेन विनिर्मितम्।
तस्य दक्षिणदिग्भागे गारुडंतीर्थमुत्तमम्॥५१॥
गरुडेन कृतं पूर्वं विप्रयोर्मुक्तिमिच्छता।
तस्यचैशान्यदिग्भागे सिद्धाख्यं तीर्थमुत्तमम्॥५२॥
पुरा सिद्धाश्च गन्धर्वास्सेंद्राश्चैव दिवौकसः।
वृत्रं संहर्तुमुद्युक्ताश्शक्रंदृष्ट्वा निरायुधम्॥५३॥
ततः प्रहरणस्यार्थे सर्वे ब्रह्मर्षिमुत्तमम्।
दधीचिं तत्र तप्यन्तं वज्रार्थं शरणं ययुः॥५४॥
अभ्ययाचन्त तं विप्रं वज्रं तद्देहसंभवम्।
तद्दास्यामीति तेनोक्तास्तमेव परिचक्रमुः॥५५॥
ब्रह्मरूपधरा स्सर्वे जटावल्कलधारिणः।
तत्रेन्द्रो निर्ममे तीर्थं सिद्ध्यर्थं स्वस्य कर्मणः॥५६॥
तस्मिन्देवगणै स्सार्धंत्रिकालकृतमज्जनः।
सिषेवे तं महेन्द्रोपि वज्रार्थं ब्रह्मरूपधृक्॥५७॥
एवं वर्षसहस्राणि सेवमानं निरीक्ष्यसः।
ब्रह्मरूपधरं शक्रं विज्ञाय द्विजपुंगवः॥५८॥
देवानामर्थसिद्ध्यर्थं वृत्रं हन्तुंच दानवम्।
शक्राय वज्रं प्रददावुत्सृज्य स्वकलेवरम्॥५९॥
संगृह्य वज्रं शक्रोपिं सर्वैर्देवगणेस्सह।
वृत्रं जघान समरे वज्रेण शतपर्वणा॥६०॥
तत्र तीर्थवरे स्नात्वा देवाश्शक्रपुरोगमाः।
सिद्धिं प्राप्ता यतो राजन् सिद्धतीर्थमभूदतः॥६१॥
सिद्धतीर्थे नरस्स्नात्वा विष्णुं दृष्ट्वेष्टसिद्धिदम्।
सर्वपापविनिर्मुक्त स्सर्वसिद्धिमवाप्नुयात्॥६२॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये
पंचमोध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1733725709Screenshot_2024-12-09_11-58-11.png"/>
श्रीरस्तु।
अथषष्ठोऽध्यायः।
<MISSING_FIG href="../books_images/U-IMG-1733729195Screenshot_2024-12-09_12-56-18.png"/>
नारदः।
गारुडाख्यस्य तीर्थस्यमाहात्म्यं पुनरेवहि।
वक्ष्यामि शृणु राजेंद्र सर्वपापहरं परम्॥१॥
आसीद्राजा विदेहानां सार्वभौमः प्रतापवान्।
वीरः पुरंजयो नाम धर्मनित्यो दृढव्रतः॥२॥
सो श्वमेधेन यज्ञेन यष्टुकामो महीपतिः।
गत्वा हिमवतः पार्श्वं यज्ञभूमिमकल्पयत्॥३॥
ब्राह्मणैस्सहितस्तत्र ऋत्विग्भिस्सचिवैरपि।
चकारयज्ञं विप्रान्वै गोभीरत्नैश्च तर्पयन्॥४॥
सुयाजो याजकश्चेति ख्यातौ नाम्नाद्विजर्षभौ।
भ्रातरौ शास्त्रसम्पन्नौवेदवेदान्तपारगौ॥५॥
तयोर्ज्येष्ठस्सुयाजोभूत्कनीन्याजको भवत्।
पुरंजयस्याश्वमेधे ऋत्विजौतौबभूवतुः॥६॥
ज्येष्ठो ब्रह्माभवत्तस्मिन्नध्वर्युरनुजो भवत्।
क्रतुं समाप्य विधिवद्ब्राह्मणा ऋत्विजश्च ये॥७॥
गृहीतदक्षिणास्सर्वे पुनर्जग्मुर्यथागतम्।
सुयाजो याजकश्चोभौ गच्छन्तौ सहितौ पथि॥८॥
कस्मिंश्चिदाह्निकं कर्तुं वने तौ सन्निषीदतुः।
तत्र दृष्ट्वानुजं ज्येष्ठ स्सुयाजोवाक्यमब्रवीत्॥९॥
अध्वर्युस्त्वमहं ब्रह्मा यज्ञेस्मिन्नभवो भवम्।
अनुजेनाधिकं लब्धं ज्येष्ठेनाल्पं धनं मया॥१०॥
ज्येष्ठादप्युच्चतां प्राप्तुं कनीयान्नार्हति क्वचित्।
तस्मात्तव धनं मेस्तु मदीयं ते भवत्विति॥११॥
सतु तस्य वचश्श्रुत्वा कनिष्ठो वाक्यमब्रवीत्।
अध्वर्युणा मया प्राप्तमधिकं धर्मतो धनम्॥१२॥
ब्रह्मणाच त्वया लब्धमल्पं भागक्रमात्क्रतोः।
तस्मान्न ते प्रयच्छामि धनं लब्धं मयाक्रतौ॥१३॥
त्वद्धनं यत्तवैवास्तु ममैवास्तु धनं मम।
इति तस्य ब्रुवाणस्य श्रुत्वावचनमग्रजः॥१४॥
क्रोधसंरक्तनयन स्स्फुरदोष्ठपुटस्तदा।
हस्तेन सलिलं गृह्य शप्तुं तमुपचक्रमे॥१५॥
सोपि क्रुद्धस्स्वहस्तेन सलिलं गृह्य तत्क्षणात्।
शप्तुमारब्धवां स्तंच शेपतुश्च परस्परम्॥१६॥
शापदग्धौच पतितौ मृतौ तत्र बभूवतुः।
भ्रातृघ्नौचैव ब्रह्मघ्नौ भ्रूणघ्नौच बभूवतुः॥१७॥
कर्मणा तेन राजेंद्र तावभूतां कुयोनिजौ।
तयोरेकः कच्छपो भूदग्रजस्त्वनुजो गजः॥१८॥
तस्मिन्महति कांतारे चेरतुस्तौ सुदुःखितौ।
कच्छपस्तत्र कासारे शतयोजनमायते॥१९॥
महाकायो वसद्राजन्बहुवर्षशतायुतम्।
गजोपि तत्र न्यवसत्कानने पर्वतोपमः॥२०॥
एवंतु वसतोस्तत्र महान्कालो बभूवह।
अथैकदा गजोरण्ये तृषार्तः पातुमातुरः॥२१॥
जलं कासारमगम द्यत्रास्ते कच्छपो जले।
तत्र पृष्ठे कच्छपस्य पादं निक्षिप्य कुंजरः॥२२॥
पपौ जलं पुष्करेण तृषार्तो मदविह्वलः।
निक्षिप्तमात्रे पादेतु स्वपृष्ठे कुंजरेणहि॥२३॥
रोषान्वितः कच्छपस्तु तत्पादं जगृहे दृढ़म्।
गृहीतपादस्तु गजः कच्छपेन तदा जले॥२४॥
युयुधे तेन राजेन्द्र कच्छपोप्यग्रसद्गजम्।
बुद्ध्या नियुक्तौ तौ तत्र पूर्ववैरानुबद्धया॥२५॥
एवं संयुद्ध्यतो स्तत्र गजकच्छपयोर्नृप।
अतिक्रान्तमभूत्सम्यग्वत्सराणां शतं तदा॥२६॥
ततः कालेतु कस्मिंश्चिद्गरुडः पततां वरः।
स्वमातुर्वचनात्स्वर्गादमृतं हर्तुमुद्यतः॥२७॥
गच्छन्मार्गे क्षुधाविष्टो ददर्श गजकच्छपौ।
तौदृष्ट्वाधः पतन्पक्षी जन्तू जग्राहवै बलात्॥२८॥
तुण्डेन चैकं संगृह्य चरणेनापरं तदा।
जगाम वायुवेगेन कुर्वन्नुड्डीनमम्बरे॥२९॥
गच्छन्नेव ददर्शाग्रेन्यग्रोधं गिरिसन्निभम्।
पश्चिमस्योदधेस्तीरे महान्तं पक्षिसंकुलम्॥३०॥
यत्र विप्रा वालखिल्या स्तपस्यंन्ति मरीचिपाः।
तस्य शाखां सुविपुलां दृष्ट्वा तत्र न्यषीदत॥३१॥
निषण्णमात्रे गरुडे शाखा भग्ना बभूवह।
दृष्ट्वा धस्ताद्द्विजान्पक्षी कुर्वतस्तप उत्तमम्॥३२॥
शाखापतनमात्रेण म्रियन्ते ब्राह्मणा इति।
शाखां तुण्डेन चाक्रम्य चरणाभ्यां चता वुभौ॥३३॥
उत्पपाताथ वेगेन तत्क्षणाच्छतयोजनम्।
शाखां समुद्रे प्रक्षिप्य क्षुधार्तोभिययौ द्रुतम्॥३४॥
आग्नेयों दिशमुद्दिश्य व्योममार्गेण पक्षिराट्।
गच्छतस्तस्य पादाभ्यां निस्सृतौ पतितौभुवि॥३५॥
सत्यव्रते तदा क्षेत्रे तावुभौ गजकच्छपौ।
पतितौ तौसमुद्वीक्ष्य गरुडो तिबुभुक्षितः॥३६॥
विवेष्टन्तौ धरापृष्ठे मन्दप्राणौत्वरान्वितः।
गरुडोपि समाक्रम्य पादाभ्यां तौबभक्षह॥३७॥
भुंजतस्तस्यतुण्डेन नखैर्दारितयोस्तयोः।
पूर्वस्मृतिरभूद्राजन् क्षेत्रवासप्रभावतः॥३८॥
स्मृत्वा तौपूर्वचरितं सन्तप्तहृदयो शुचा।
ऊचतुर्गरुडं तत्र तावुभौ गजकच्छपौ॥३९॥
मा मारय खगश्रेष्ठ ब्राह्मणौवेत्तुनौ भवान्।
स्वापराधहतौमूर्खौब्रह्मघ्नौ नौ कुयोनिजौ॥४०॥
त्रातुमर्हसि पक्षीन्द्र पापादस्मात्स्वयं कृतात्।
तयोस्तद्वचनं श्रुत्वा गरुडो भयविह्वलः॥४१॥
कथमेतौ द्विजश्रेष्ठौ गजकच्छपरूपिणौ।
मयैवच हतावद्य सप्राणावर्धभक्षितौ॥४२॥
अहंतु विप्रामिषभु गभवं राक्षसो यथा।
कथं पापाद्विमुक्तिर्मेभवेदिति विचिन्तयन्॥४३॥
पप्रच्छ तौखगश्रेष्ठः कुयोनि र्वां कथं द्विजौ।
केन पापविपाकेन प्रापितावीदृशीं गतिम्॥४४॥
केन पुण्यप्रभावेन पूर्वस्मृतिरभूच्च वाम्।
इति पृष्टौतु तौ राजन्गरुडेन महात्मना॥४५॥
भक्षितार्धतनू तेन मन्दासूमन्दमूचतुः।
आवां निबोध गरुड भ्रातरौ ब्राह्मणावुभौ॥४६॥
सुयाजो याजकश्चेति विख्यातौ तपसान्वितौ।
पुरंजयस्य राजर्षे र्यज्ञे लब्ध्वा धनं महत्॥४७॥
विवदन्तौ धनप्रेप्सूमार्गे काननसंवृते।
परस्परं विहिंसन्तौ प्रापितावीदृशीं गतिम्॥४८॥
आवयोर्दुष्कृतं सर्वमेतदुक्तं तवाण्डज।
तव सन्दर्शनात्पुण्यात्पूर्वस्मृतिरभूच्च नौ॥४९॥
त्रातुमर्हसि नावद्य दुःखादस्मात्कुयोनिजात्।
तयो स्तद्वचनं श्रुत्वा गरुडस्तु कृपान्वितः॥५०॥
उद्धर्तुकामस्तरसा सस्मार पितरं तदा।
स्मृतमात्रस्तु पुत्रेण काश्यप स्तपसां निधिः॥५१॥
तत्राजगाम यत्रैते गजकच्छपपक्षिणः।
गरुडः पितरं दृष्ट्वा प्रणिपत्य कृतांजलिः॥५२॥
तयोश्चरितमाचष्टे काश्यपाय कुजन्मनोः।
अज्ञानाद्भक्षितावेतौ क्षुधितेन मया धुना॥५३॥
पापं व्यपोहय क्षिप्रं विप्रमांसाशिनो मम।
एतौच पतितौ पापाद्गजकच्छपरूपिणौ॥५४॥
ब्रह्मघ्नौ दुःखितौ विप्रौ मामद्य शरणं गतौ।
त्रातुमर्हसि विप्रेंद्र मयातस्संस्मृतो भवान्॥५५॥
पूर्वस्मृतिरभूत्केन पुण्येन पितरेतयोः।
इति तस्य वचश्श्रुत्वा वैनतेयस्य काश्यपः॥५६॥
उवाच पुत्र जानेह मैतौविप्रौ तपस्विनौ।
धनलोभाद्विहिंसन्ता वभूतां गजकच्छपौ॥५७॥
स्वापराधादघं प्राप्तौ भ्रूणघ्नाविति पुत्रक।
नैवाद्यमन्नम्मत्तस्य ब्रह्मघ्नस्य सुरापिणः॥५८॥
सुवर्ण स्तेयिनश्चापि गुरुतल्पगतस्यच।
यदि भुङ्क्तेन्नमेतेषां भोक्ता शमलमश्नुते॥५९॥
तस्मात्त्वमेतयोर्मासं जग्ध्वा शमलमाददः।
एतयोरपि ते वत्स क्षुधितस्यान्नदानतः॥६०॥
क्षेत्रेस्मिन् पावने पुण्ये पूर्वस्मृतिरभूत्किल।
इदं सत्यव्रतं नाम क्षेत्रं पापप्रणाशनम्॥६१॥
अत्र त्वां पल्वलं कृत्वा स्नापयाम्यघनाशनम्।
इत्युक्त्वा पल्वलं खात्वा काश्यपः पुत्रमण्डजम्॥६२॥
स्नापयामास विधिवन्मन्त्रैस्तत्राघमर्षणैः।
सोपि स्नात्वा मुक्तपापो बभूव गरुडो यतः॥६३॥
अतस्तद्गारुडं तीर्थ मभूत्पापप्रणाशनम्।
ततस्तौ गरुडोवीक्ष्य कृपया गजकच्छपौ॥६४॥
उद्धर्तुकामो धर्मात्मा पितरं वाक्यमब्रवीत्।
एतावपि सुदुःखार्तौमामेव शरणं गतौ॥६५॥
अनाथौ दुर्बलौब्रह्मन्मत्तुण्डनखविक्षतौ।
त्रातुमर्हसि धर्मज्ञ कृपया गजकच्छपौ॥६६॥
तदा पुत्रवचश्श्रुत्वा तावप्युद्वीक्ष्य काश्यपः।
ब्रह्मघ्नयोः कथं मुक्ति र्भवेदिति विचिन्तयन्॥६७॥
दध्यौ परमधर्मज्ञः ब्रह्मघ्नानां चनिष्कृतिम्।
कपालपाणिः पाषण्डो मुक्तकेशो दिगम्बरः॥६८॥
मृदालेपितसर्वांगो वैष्णवं बिम्बमर्चयन्।
यावदायुश्चरेद्भूमिं ब्रह्मघ्नोहमिति ब्रुवन्॥६९॥
एवंहि ब्रह्महत्याया निष्कृतिः स्मृतिचोदिता।
इत्यालोच्य तदा राजन्काश्यपस्तैस्समन्वितः॥७०॥
सिद्धतीर्थमगात्पुण्यं यत्पुरा वासवोषितम्।
हत्वा दधीचिं वज्रार्थं ब्रह्मर्षिं पाकशासनः॥७१॥
व्यपोहयद्ब्रह्महत्यां यत्र विष्णुं समर्चयन्।
यत्रेष्टसिद्धिदं लिंगं सिद्धतीर्थस्य चोत्तरे॥७२॥
तत्राजगाम तौ गृह्य काश्यपो गजकच्छपौ।
स्नापयित्वा सिद्धतीर्थे जप्त्वा मन्त्रैस्सुपावनैः॥७३॥
निष्कृतिं ब्रह्महत्यायाः कारयामास शास्रतः।
लिंगं संस्थाप्य रुद्रस्य ताभ्यां बलिमकारयत्॥७४॥
सिद्धतीर्थस्य चैशान्ये देशे लिंगं गजाभिधम्।
दक्षिणे कच्छपाख्यंहि लिंगं कच्छपमुक्तिदम्॥७५॥
एवं कृत्वा ततस्ताभ्यां निष्कृतिं काश्यपो ययौ।
गरुडोप्यमृतप्रेप्सु र्जगाम त्रिदिवं ततः॥७६॥
काश्यपेन सपुत्रेण तारितौ ब्राह्मणावुभौ।
दिव्यरूपधरौभूत्वा दिवमारुहतुर्नृप॥७७॥
एवं पुरा गरुडेनाभ्युपेत्य
सत्यव्रते निर्मितं काश्यपेन।
तत्पापहंपुण्यदंचापि यस्मा
त्तद्गारुडन्तथिर्मभून्नृपेन्द्र॥७८॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये
षष्ठोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1733762285Screenshot_2024-12-09_22-07-45.png"/>
श्रीरस्तु।
अथ सप्तमोऽध्यायः।
<MISSING_FIG href="../books_images/U-IMG-1733762632Screenshot_2024-12-09_22-13-34.png"/>
नारदः।
तस्य दक्षिणदिग्भागे तीर्थं यत्पापनाशनम्।
अस्ति पुण्यतमंराजं स्तत्कायारोहणाभिधम्॥१॥
सहैव कायेनारूढ स्स्वर्गं यस्माद्द्विजः पुरा।
तत्कायारोहणं लोके ख्यातं तीर्थं सुपावनम्॥२॥
पुरा राजऋषिः कश्चित्कौशांबीभावसत्पुरीम्।
कौशिको नाम धर्मात्मा प्रजा धर्मेण रंजयन्॥३॥
स कदाचिन्महीं कृत्स्नांपर्यटन्नाजगाम ह।
वसिष्ठस्याश्रमं तेन युयुधे धेनुकारणात्॥४॥
तपस्विना ब्राह्मणेन पराभूतस्स तत्क्षणात्।
हतदर्पोहतोत्साहो हतसैन्यस्सुदुःखितः॥५॥
क्षत्रियोहं कथं वीरो ब्राह्मणेनास्मि निर्जितः।
इति चिन्तासमायुक्तो राज्यमुत्सृज्य कौशिकः॥६॥
क्षात्रात्परतरं मत्वा ब्राह्मं तेजस्तदा नृप।
ब्राह्मण्यं प्राप्तुकामोवै जगाम तपसे वनम्॥७॥
दक्षिणां दिशमुद्दिश्य यत्र सत्यव्रताभिधम्।
क्षेत्रं सुपावनं तत्र चकार तप उत्तमम्॥८॥
ऊर्ध्वबाहुः पंचतपा वायुभक्षो जितेंद्रियः।
एवं वर्षसहस्राणि व्यतीतानि तपस्यतः॥९॥
तस्मिन्नेव तदा काले त्रिशंकुर्नाम नामतः।
अयोध्याधिपतिश्श्रीमान्यष्टुकामो महीपतिः॥१०॥
सहवै स्वशरीरेण स्वर्गन्तव्यमिति स्मयन्।
चकार क्रतुसम्भारान्सुबहून्नृपतिस्तदा॥११॥
तं दृष्ट्वा कृतसम्भारं यष्टुकामं महीपतिम्।
वाक्यं प्रोवाच भगवान्वसिष्ठोब्रह्मणस्सुतः॥१२॥
प्राप्तुं स्वर्गमशक्यंहि स्वदेहेन सह त्वया।
तस्मान्नयाजयिष्यामि त्वामद्य नृपसत्तम॥१३॥
इत्युक्तस्सवसिष्ठेन राजा क्रोधसमन्वितः।
वासिष्ठानुग्रतपसःप्रणिपत्येदमब्रवीत्॥१४॥
याजयन्तु भवन्तो मां यथा स्वर्गमवाप्नुयाम्।
तैश्चाप्यशक्यमित्युक्तस्स बभूव रुषान्वितः॥१५॥
रोषात्प्रस्फुरमाणोष्ठ स्स्मयमानो ब्रवीद्वचः।
मत्याख्यातोस्मि गुरुणा भवद्भिश्चाकृतात्मभिः॥१६॥
किं नसन्ति महात्मानो याजका भवतो विना।
शाखान्तरंवा सम्प्राप्य साधयिष्याम्यहं क्रतुम्॥१७॥
त्रिविष्टपं ममाप्राप्यं कथं भूयान्महात्मनः।
भवत्सु प्रेक्षमाणेषु यास्याम्येव त्रिविष्टपम्॥१८॥
इत्युक्तवन्तं राजानं शेपुः क्रोधसमन्विताः।
वसिष्ठपुत्रा राजेन्द्र सर्वेच समहोदयाः॥१९॥
अवमत्य गुरूनस्मान्यच्छाखान्तरमिच्छसि।
तस्मात्त्वमद्य दुर्मेधश्चण्डालो भव पार्थिव॥२०॥
इति शप्तस्तदा राजा ब्राह्मणैश्शंसितव्रतैः।
बभूव सद्यश्चण्डालो विकृतो घोरदर्शनः॥२१॥
नीलवस्त्रधरो नीलो ध्वस्तकेशो विलोचनः।
तं दृष्ट्वा मन्त्रिणस्सर्वे ब्राह्मणा नैगमास्तथा॥२२॥
तत्यजुदूरेतो भीता स्साक्षाच्चण्डालरूपिणम्।
ततश्शोकसमाविष्टो राजा भ्रष्टमनोरथः॥२३॥
बिहीनो राज्यभोगाभ्यां बन्धुभिस्सचिवै रपि।
सन्तप्तहृदयो नित्यं क्रोधेन कलुषीकृतः॥२४॥
करेणासिं समुद्यम्य रात्रावागत्य चाश्रमम्।
जघान स्वपत स्तत्र सर्वानेव गुरोस्सुतान्॥२५॥
हत्वा तान्पूर्वयैरेण काननेषु चचारह।
चण्डालरूपोपि सदा पीडितो ब्रह्महत्यया॥२६॥
एवं वर्ष शतं राजस्तत्र तत्र वने चरन्।
कदाचिद्दैवयोगेन क्षेत्रं सत्यव्रतं ययौ॥२७॥
तत्र दृष्ट्वा तपस्यन्तं कौशिकं गाधिनंदनम्।
पपातपादयो स्तस्य क्रोशन्नुच्चै स्सुदुःखितः॥२८॥
त्राहि मामद्य गाधेय प्रपन्नं शरणैषिणम्।
गुरुशापाद्विरूपाढ्यमावृतं ब्रह्महत्यया॥२९॥
विश्वामित्रस्ततो वीक्ष्य राजानं घोररूपिणम्।
कृपया परया विष्टो वाक्यमेतदुवाच ह॥३०॥
उत्तिष्ठोत्तिष्ठ राजेंद्र शरणं ते भवाम्यहम्।
जानामि त्वां महात्मानं धर्मज्ञं सत्यवादिनम्॥३१॥
केनेह कारणेन त्वं चाण्डालीं प्रापितस्तनुम्।
तस्मै तदा समाचष्ट वृत्तं निखिलमादितः॥३२॥
तस्याभिलषितं श्रुत्वा विश्वामित्रो महामनाः।
न भेतव्यं त्वयेत्युक्त्वा प्रतिज्ञामकरोत्तदा॥३३॥
नहि मां शरणं प्राप्तो वृथा गच्छेन्नरः क्वचित्।
अद्य त्वां प्रापयिष्यामि स्वदेहेन त्रिविष्टपम्॥३४॥
इत्युक्त्वा स समाहूय ब्राह्मणान्वेदपारगान्।
यष्टुमारब्धवान्यज्ञं येन राजा दिवं व्रजेत्॥३५॥
तत्र वेगवतीतीरे क्षेत्रे सत्यव्रते शुभे।
वेदिं कृत्वा विधानेन जुहावाग्नौ महातपाः॥३६॥
तत्र भागार्थिनो यज्ञे ज्ञात्वा देवाननागतान्।
स्रुवमुद्यम्य हस्तेनरोषाद्वचनमब्रवीत्॥३७॥
गच्छ मत्तपसा राजन्गुप्तस्स्वर्गमितस्सुखम्।
इत्युक्तमात्रे वचने कौशिकेन महात्मना॥३८॥
उत्पतात नभो राजा स्वशरीरेण हृष्टधीः।
तमागतमभिप्रेक्ष्य वासवस्समरुद्गणः॥३९॥
उवाच रोषताम्राक्षो वज्रमुद्यम्य देवराट्।
त्रिशंको पत भूयोपि कौशिकस्य मखालये॥४०॥
विप्रशापहतो मूढ़ स्वर्गं नार्हसि पापकृत्।
इत्युक्ते वासवेनासौ वेद्यामग्नौ पपातह॥४१॥
पात्यमानं नृपं दृष्ट्वा मघोना कौशिकस्तदा।
जलं चकार तत्राग्निं कुण्डस्थं तपसा किल॥४२॥
शांतो भवनृपेत्युक्त्वा ससृजे राक्षसान्पुनः।
निबर्हणार्थं शक्रस्य सवज्रस्य रुषान्वितः॥४३॥
प्रेषयामास रक्षांसि शक्रं पीडयितुं तदा।
पीडयित्वाहमद्यैव शक्रं सह मरुद्गणैः॥४४॥
तपसा स्थापयिष्यामि त्वामेवेंद्रपदे नृप।
इत्युक्त्वा स पुनर्लोका नन्यान्स्रष्टुमियेष च॥४५॥
ततस्सेंद्रा दिविषदः पीड्यमानास्समन्ततः।
रक्षोभिः कौशिकोत्सृष्टैस्तमेव शरणं ययुः॥४६॥
पाहि कौशिक भद्रं ते देवान्नश्शरणं गतान्।
त्रिशंकुस्सह देहेन स्वर्गं समधिगच्छतु॥४७॥
इति तेषु ब्रुवाणेषु देवेषु कुशिकात्मजः।
सुप्रसन्नमना भूत्वा शमयामास राक्षसान्॥४८॥
ततस्त्रिशंकुमाहूय दिव्यरूपधरं नृपम्।
कुण्डाग्निना दग्धपापमभिषिक्तं जलैः पुनः॥४९॥
तं विमाने समारोप्य स्वर्गमारोपयन्मुनिः।
तत्रान्यं स्वर्गसदृशं स्वातन्त्र्येणावसन्नपः॥५०॥
ततो देवास्सहेंद्रेण दृष्ट्वा तत्कर्मचाद्भुतम्।
सत्यव्रतस्य क्षेत्रस्य महिम्ना कुशिकात्मजः॥५१॥
प्रवृद्धस्तपसाचाभूदग्निंचाप्यकरोज्जलम्।
अद्य प्रभृति लोकेस्मिं स्तीर्थे मज्जन्ति ये नराः॥५२॥
सहैव कायैस्ते सर्वे प्रयांतु त्रिदशालयम्।
इति तीर्थस्य ते सर्वे वरं दत्वा दिवौकसः॥५३॥
विश्वामित्रं समाभाष्य प्रतिजग्मुर्यथागतम्।
विश्वामित्रोपि धर्मात्मा प्रेषयित्वा नृपं दिवम्॥५४॥
पश्चिमांदिशमुद्दिश्य जगाम तपसे वनम्।
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये
सप्तमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1731337289Untitled5-removebg-preview.png"/>
श्रीरस्तु।
अथ अष्टमोऽध्यायः।
<MISSING_FIG href="../books_images/U-IMG-1730286691Screenshot2024-10-30124529.png"/>
नारदः।
आसीत्कश्चित्पुरा राजन्ब्राह्मणो मद्रके पुरे।
कृषीवल इति ख्यातो दुर्बुद्धिरजितेंद्रियः॥१॥
पिशुनस्सौर्यतन्त्रज्ञः पितुरर्थापहारकः।
द्यूतासवरतो नित्यं गणिसिगंलोलुपः॥२॥
वंचयित्वा तु पितरं चौर्यात्संगृह्य तद्धनम्।
गणिकाभ्यश्च सर्वाभ्यः प्रयच्छतिहि मन्दधीः॥३॥
एवं पापसमाचारः पित्रा निर्वासितो गृहाद्।
ततस्सगत्वा न्यवसद्गणिकाया निवेशने॥४॥
भुञ्जानश्च तयासार्धं क्रीडमानो दिवानिशम्।
पतितः कर्मणा भ्रष्टः स्नानसन्ध्याग्निवर्जितः॥५॥
किरातसदृशो नित्यं मांसादो मद्यपो भवत्।
तस्यैवं वर्तमानस्य सर्वंक्षीणमभूद्धनम्॥६॥
साचाभूद्गणिका रुष्टा निस्स्वं प्रेक्ष्य द्विजाधमम्।
तया सन्तर्जितश्चासौ दुःखितो भूद्धनक्षयात्॥७॥
दुर्मना दुष्कुलोत्यन्तं दुर्बलोनशनेनच।
सचिन्तयामास तदा कथंस्यान्मे धनं बहु॥८॥
इति प्रमत्तवद्राजं श्चिन्तयित्वा धनातुरः।
प्रविश्य राजभवनं निशि नावेक्षितो भटैः॥९॥
तत्र स्वपन्तं शयने सर्वाभरणभूषितम्।
दृष्ट्वा राजसुतं विप्रो बालमप्राप्तयौवनम्॥१०॥
गोवत्समिव शार्दूलो हत्वा तं निशि दारुणः।
तदाभरणसर्वस्वं गृहीत्वा प्राद्रवद्बहिः॥११॥
द्रवमाणं बहिर्द्वारेदृष्ट्वा राजभटा द्विजम्।
जगृहुस्तं धनेनैव सह राज्ञे न्यवेदयन्॥१२॥
म्रियमाणस्तदा बालो रुराव भृशपीडितः।
श्रुत्वातु रुदतश्शब्दं भीता स्तत्रान्तपालकाः॥१३॥
ददृशुस्तं मृतं बालं बालघ्नंच भटैर्धृतम्।
चुक्रुशुश्चापि दुःखार्ताः परिवार्य समन्ततः॥१४॥
राजाच स्वसुतं दृष्ट्वा मृतं चोरेण घातितम्।
शोकसंविग्नहृदयो विललाप भृशं किल॥१५॥
विलप्य सुचिरं कालंबांधवैस्सचिवैस्सह।
समाश्वस्तो भवद्विप्रैः कालधर्मानुवादिभिः॥१६॥
परेद्युः प्रातरुत्थाय मृतस्य सलिलक्रियाम्।
कारयामास विधिवच्छोकव्याकुलमानसः॥१७॥
ततश्चोरं समुद्वीक्ष्य ब्राह्मणं बालघातिनम्।
ब्राह्मणो नैव हन्तव्यस्तेनः स्याद्ब्रह्महापिवा॥१८॥
तस्य संगृह्य सर्वस्वं कृत्वा वपनमागलम्।
कपालंच करे दत्वा श्वानपादेन लांछनम्॥१९॥
चत्वरे तं समाघोष्य राष्ट्रान्निष्कासयेद्बहिः।
इति स्मृतिं समालोच्य तथा तमकरोन्नृपः॥२०॥
ततः कृषविलोविप्रो राज्याद्विप्रोषितो वने।
चचार दुःखसन्तप्तः पश्चात्तापेन यन्त्रितः॥२१॥
विप्रोहं कर्मणा भ्रष्टो मातापित्रोर्धनापहः।
स्तेयीच मद्यपायीच सदा शूद्रान्नभोजनः॥२२॥
अवकीर्णीच पापात्मा पतितश्चाभवं किल।
कथं मे निष्कृतिर्भूयादिति दुःखसमन्वितः॥२३॥
चचार दक्षिणे पार्श्वे विन्ध्यारण्ये कृषीवलः।
धर्माद्विहीनं पतितं पाहि मां पुरुषोत्तम॥२४॥
पुण्डरीकाक्ष विश्वेश पुण्यश्रवणकीर्तन।
समुद्धरोद्धर हरे नान्योस्ति शरणं मम॥२५॥
इत्येवं प्रलपन्विप्रोनिश्वसंश्च मुहुर्मुहुः।
क्रोशन्नुच्चैः क्वचिद्भ्रांतस्त्राहि नारायणेतिच॥२६॥
काननात्काननं गच्छन्नद्रेरद्रिं ह्रदाद्ध्रदम्।
तत्र तत्रच तीर्थेषु ह्रदेषुच नदीषुच॥२७॥
कुर्वन्निमज्जनं स्मृत्वा पुण्डरीकाक्षमच्युतम्।
आजगामाथ कालेन क्षेत्रं सत्यव्रतं नृप॥२८॥
तत्र तीर्थवरं दृष्ट्वा कौशिकेन विनिर्मितम्।
ध्यात्वा देवं रमानाधं स्नातुं समुपचक्रमे॥२९॥
तस्मिन्कालेद्विजेंद्रस्य दक्षिणो बाहुरस्फुरत्।
दक्षिणञ्चास्य नयनम्प्रसन्नमभवन्मनः॥३०॥
तानि दृष्ट्वा निमित्तानि हर्षात्संपूर्णमानसः।
गर्जन्नारायणेत्युच्चै र्ममज्जांभसि सुव्रतः॥३१॥
तस्मिन्काले सुरास्सेंद्रास्समुपेत्य तदन्तिकम्।
मुमुचुः पुष्पवर्षाणि ननृतुश्चाप्सरोगणाः॥३२॥
स्नात्वोत्तीर्णन्तु तीरस्थं दृष्ट्वा देवगणा द्विजम्।
विमुक्तं किल्बिषात्सर्वाच्चन्द्रं राहुमुखादिव॥३३॥
संप्रहृष्टमुखास्सर्वे तमूचुर्हिकृषीवलम्।
कृषीवलमहाप्राज्ञ सर्वपुण्यवतां वरम्॥३४॥
सकृत्स्नानेन तीर्थेस्मिन्नभवो मुक्तकिल्विषः।
सहैव त्वं स्वकायेन क्षिप्रमेहि त्रिविष्टपम्॥३५॥
इत्युक्त्वा विप्रमारोप्य विमाने हंससंयुते।
निन्युस्सुरगणास्सर्वे प्रशंसन्तस्त्रिविष्टपम्॥३६॥
यस्मात्सहैव कायेन समारूढ़स्त्रिविष्टपम्।
तस्मात्तीर्थवरं पुण्यं तत्कायारोहणाभिधम्॥३७॥
कायारोहणतीर्थस्य प्राच्यामस्ति सुपावनम्।
तीर्थं गजाह्वयं पुण्यं गजेंद्रेण विनिर्मितम्॥३८॥
एवमेतानि तीर्थानि कांच्यामुक्तानि मुख्यतः।
श्रेष्ठानि तत्र तीर्थानामेतान्यष्टादशैव हि॥३९॥
संत्यन्यानिच तीर्थानि क्षेत्रे सत्यव्रते शुभे।
हस्तिशैलस्य गव्यूत्यां पश्चिमे तीर्थमुत्तमम्॥४०॥
यन्निर्मितं राघवेण दण्डकारण्यवासिना।
नैवापमुदकं दातुमुद्यतेन जटायवे॥४१॥
रावणेन हतम्याजौ सद्यः कैवल्यमिच्छतः।
गृध्रस्य दर्शयामास स्वं रूपं यत्र राघवः॥४२॥
दत्त्वातु मुक्तिं गृध्रस्य विचिन्वमैथिलीं वने।
न्यवसत्सानुजो यत्र कंचित्कालमरिंदमः॥४३॥
अतस्तु राघवं प्राहुर्नाम्ना विच[ज]यराघवम्।
तत्र तद्गृध्रतीर्यार्ख्यंपुण्यंरामेण निर्मितम्॥४४॥
जटायुमुक्तिदे तीर्थे स्नात्वा विचयराघवम्।
ये पश्यन्ति नरा लोके मुक्तास्सद्यो भवन्तिहि॥४५॥
तस्यास्ति पश्चिमे देशे तीर्थं क्रोशद्वये परम्।
पापनाशनमाख्यातं पुण्यं पापप्रणाशनम्॥४६॥
शिश्ये यत्र नदीं रोद्धुं हरिरर्णवसन्निभान्।
तं वदन्ति हरिं तत्र नाम्रा प्रलयरोधकम्॥४७॥
ततः पश्चिमदिग्भागे सीमांतेयोजनत्रये।
अस्ति सारस्वतं नाम तीर्थं गजगिरेरधः॥४८॥
विधातुरश्वमेधस्य ब्रह्मणः परमेष्ठिनः।
कांचीं प्लावयितुं वेगादुद्वृत्तार्णवसन्निभाम्॥४९॥
आयांतीमभिसंक्रुद्धां हरिर्वीक्ष्य सरस्वतीम्।
शयानश्शेषपर्यंके न्यरुणद्यत्र तां नदीम्॥५०॥
तं विष्णुं शयनेशाख्य मद्यापि प्रवदन्ति हि।
तत्र सारस्वतं तीर्थमैशान्ये तत्र वैहरेः॥५१॥
सारस्वते पुण्यतमे तीर्थे कृत्वा निमज्जनम्।
शयनेशं हरिं दृष्ट्वा नरः पापाद्विमुच्यते॥५२॥
हस्तिशैलस्य वायव्ये देशे गव्यूतिपंचके।
अस्ति तीर्थद्वयं पुण्यं मुक्तिदं सर्वदेहिनाम्॥५३॥
ब्रह्माख्यंच वसिष्ठाख्यं घटिकाद्रेरधोनृप।
यत्र हंतुंच दितिजा नुद्यतस्तु नृकेसरी॥५४॥
शैलाग्नं स समारुह्य न्यवसत्घटिकां यतः।
घटिकाद्रिरतः प्रोक्तस्सर्वपापहरो भुवि॥५५॥
उत्तरे हस्तिशैलस्य प्रदेशे योजनद्वये।
हृत्तापनाशनं नाम तीर्थमस्ति सुपावनम्॥५६॥
यत्र रामः पुरा राजन्निवसन्दण्डकावने।
ब्राह्मणानां हितार्थाय ब्रह्मघ्नान्दुष्टचारिणः॥५७॥
निहत्य स्वेन वीर्येण खरप्रमुखराक्षसान्।
ततो युद्धपरिश्रान्तः क्षुत्तृड्भ्यां परिपीडितः॥५८॥
शिश्ये मुहूर्तं विप्रेण शालिहोत्रेण चार्चितः।
हृत्तापनाशनाख्यस्य तीर्थस्योत्तरतस्तटे॥५९॥
शालिहोत्राश्रमे पुण्ये शयानं वीरराघवम्।
दृष्ट्वा स्नात्वाच तत्तीर्थे नरः पापाद्विमुच्यते॥६०॥
एवं तीर्थानि पुण्यानि सन्ति सत्यव्रते शुभे।
अश्वमेधे महायज्ञे सुकृते पद्मयोनिना॥६१॥
अनिशं भुंजमानानां विप्राणां तत्र कोटिशः।
तेषां तृप्त्यर्थमसृजद्विश्वकर्मा समन्ततः॥६२॥
सर्पिषां पयसां दध्नांह्रदानमृतसन्निभान्।
शर्करासवमाध्वीक पुष्पासवफलासवैः॥६३॥
इक्षूदकैश्चसम्पूर्णा ह्रदा स्तत्र विनिर्मिताः।
तेपि पुण्यप्रदा नृृृणां मज्जनादघनाशनाः॥६४॥
एतानि राजन्परमाद्भुतानि
तीर्थानि पुण्यानि सुपावनानि।
एष्वाप्लुतो मुक्तिमुपैति जन्तु
सद्यः प्रमुक्तो खिलपापबन्धैः॥६५॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये
अष्टमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1731343037Untitled5-removebg-preview.png"/>
श्रीरस्तु।
अथ नवमोऽध्यायः।
<MISSING_FIG href="../books_images/U-IMG-1733834335Screenshot_2024-12-10_18-08-41.png"/>
अथ तेहं प्रवक्ष्यामि श्रुणुष्वैकमना नृप।
यथा हस्तिगिरेरग्रे हरिः प्रादुरभूत्किल॥१॥
आसीत्पुरा जगत्सर्वं सलिलेन समावृतम्।
तत्रोपरि नभश्चासीदन्धेन तमसा वृतम्॥२॥
ततः कदाचित्तत्राभूद्भित्वाम्भः पद्ममुत्थितम्।
सहस्रादित्यसंकाशं सहस्रदलमद्भुतम्॥३॥
तदादिपद्ममाख्यातं यस्मिन्नासीत्पुरा पुमान्।
तत्रोपविष्टः पुरुषः पद्मगर्भसमुद्भवः॥४॥
चिन्तयामास किमिदं कोहं केनेह निर्मितः।
इति चिन्तयतस्तस्य तेजसा तत्र तज्जलम्॥५॥
संशोषितमभूत्सर्वं सोप्यभूच्चतुराननः।
ततश्चतुर्भिर्वदनैर्दिशस्सर्वास्समन्ततः॥६॥
विलोक्य व्याप्तमाकाश मभूद्विस्मितमानसः।
तं कर्तव्यमजानन्तं विस्मयाविष्टमानसम्॥७॥
ध्यायन्तं पद्मजं प्रेक्ष्य वागुवाचाशरीरिणी।
भोभो ब्रह्मन्जगत्स्रष्टुमिच्छता परमात्मना॥८॥
उत्पादितस्त्वमेतस्मिं स्तन्नाभीरुहपंकजे।
अनन्तशक्तिरव्यक्तः परमात्मा सनातनः॥९॥
सृष्ट्वा भवन्तमेतस्य धातारं कर्तुमिच्छति।
पदंच पारमेष्ठ्यं ते दत्तमव्यक्तमूर्तिना॥१०॥
तस्मात्सृजस्व लोकांस्त्री नित्युक्त्वा विररामच।
ततस्तद्वाक्यमाकर्ण्य धाता विगतसाध्वसः॥११॥
का शक्तिर्मेजगत्स्रष्टुमिति मत्वाब्जसम्भवः।
अव्यक्ते मनसा ध्यायं स्तप उग्रं चचारह॥१२॥
तस्य सन्तप्यतो धातु रत्यगाद्वत्सरायुतम्।
ददर्श सततो हंसंश्वेतपक्षचयांचितम्॥१३॥
दृष्ट्वा चतुर्मुखो हंसमपृच्छत्कोभवानिति।
तमब्रवीत्तदा राजन् हंसाकृतिरधोक्षजः॥१४॥
अहं प्रसुप्तोभवमप्सु लोका
न्निगृह्य कुक्षौ सचराचरान्पुरा।
स्वयोगसृष्टामनुसृत्य निद्रा
मद्य प्रबुद्धोस्मि चिराय विद्वन्॥१५॥
संसृष्टुकामम्पुनरात्मकुक्षे
र्जगद्यथापूर्वमिदं स्वयेच्छया।
अनन्तमव्यक्तमजं त्वमद्य
मां विद्धि नारायणमब्जजन्मन्॥१६॥
यदीयनाभीसरसीसमुद्भवा
न्महाम्बुजादाविरभूद्भवानिह।
अहं त्रिलोक्यास्सचराचराया
स्सिसृक्षया त्वामसृजंजगद्गुरुम्॥१७॥
तपश्च मत्प्रीतिकरं सुतप्तं
त्वयाद्य मद्भक्तियुतेन चेतसा।
मया प्रदत्तं तव पारमेष्ठ्यं
पदं त्वदन्यैर्दुरवापमग्र्यम्॥१८॥
तस्मात्त्वमद्यैव सृजाशु सर्वं
जगद्यथापूर्वमिदं मदाज्ञया।
अथैवमुक्त्वा प्रददौ स तस्मै
वेदाननन्तान् हरिरण्डजाकृतिः॥१९॥
विज्ञातवेदः कमलासनस्तदा
प्रणम्य हंसाकृतिमप्रमेयम्।
तत स्तदाज्ञां शिरसा प्रगृह्य
स्रष्टुं जगत्सर्वमियेष तत्क्षणात्॥२०॥
अनुग्रहाद्धंसतनोर्हरेरति
प्रवृद्धविज्ञानघनात्मशक्तिः।
मेने विधाता जगतः कृतिन्तदा
करस्थजम्बूफलसन्निकाशाम्॥२१॥
ततोन्तर्हित आकाशे हरौ हंसस्वरूपिणि।
तेनाधिगतविज्ञानो ब्रह्मा ब्रह्मविदांवरः॥२२॥
ससृजे सर्वभूतानि भूतानामाश्रयानपि।
खं वायुं ज्योतिरुदकं भुवं सर्वाश्रयामपि॥२३॥
रूपादीन्विषयांश्चैव तथा सर्वेन्द्रियाणिच।
मनो बुद्धिमहंकारं धृतिं श्रद्धां गुणानपि॥२४॥
कालान्कर्माणिच तथा भुवनानि चतुर्दश।
तथा ब्रह्मविदो मुख्यान् ब्रह्मर्षीनसृजद्विभुः॥२५॥
तत्र तत्र प्रजानाथां ल्लोकपालान् समन्ततः।
दिक्पालकानपि तथा वर्णांश्चैवाश्रमांस्तथा॥२६॥
देवर्षिपितृगन्धर्व सिद्धविद्याधरोरगान्।
दानवासुरभेताल यक्षरक्षःपिशाचकान्॥२७॥
मृगपक्षिमनुष्यांश्च वृक्षगुल्मलता अपि।
सरित्समुद्रशैलांश्च ह्रदांश्व विविधानपि॥२८॥
द्वीपान् खण्डांश्च विविधान् क्षेत्राणि विविधानिच
ससर्ज भगवान्ब्रह्मा हरेराज्ञाय शासनम्॥२९॥
एवं सृष्ट्वा जगत्सर्वं ब्रह्मा ब्रह्मविदां वरः।
ततश्शान्तमना भूत्वा कार्यशेषमचिन्तयत्॥३०॥
हरेरनुज्ञया सृष्टिर्जगतोहि मया कृता।
कथम्भूयात्स्वरूपेण हरिर्मेदृष्टिगोचरः॥३१॥
सतु हंसस्वरूपेण मया दृष्टः पुरा किल।
धरण्यां निगृहीताया मसुरेण मया स्मृतः॥३२॥
तदापि क्रोडरूपेण केवलंहाररीक्षितः।
जातमात्रं विमुह्यन्तं भीतं पंकजमध्यगम्॥३३॥
मामाश्वासयदव्यक्तो वाङ्मात्रेणैव यः पुरा।
दत्वा मे महतीं शक्तिं वेदांश्चोपदिदेश यः॥३४॥
तमद्यदेवदेवेशं शंखचक्रगदाधरम्।
पीताम्बरधरं विष्णुं द्रष्टुमिच्छतिमे मनः॥३५॥
यावन्न पश्यामि हरिं वरदं वारिजेक्षणम्।
श्रीवत्सलाञ्छनं तावन्न मे शान्तिर्भविष्यति॥३६॥
यावन्न पद्मनयनं पश्यामि शुभकुण्डलम्।
उन्नसं चारुदशनं बिंबोष्ठं सुस्मिताधरम्॥३७॥
बाललोलगुडाकेशैरावृतं चन्द्रसन्निभम्।
मुकुन्दस्य मुखं तावन्न मे शान्तिर्भविष्यति॥३८॥
यदा पश्यामि लोकेशं दिव्यरूपिणमच्युतम्।
तदा मे मनसश्शांतिर्भविष्यति नसंशयः॥३९॥
शङ्खचक्रगदापाणिं योगिध्येयं निरञ्जनम्।
अपश्यतो मत्पिरं काशान्तिर्हृदयस्य मे॥४०॥
श्रीभूमिसहितं शान्तं वरदं भक्तवत्सलम्।
तस्माद्यज्ञेन वा सम्यक्सम्पूज्य तपसापिवा॥४१॥
वासुदेवम्प्रपश्यामि नान्यथातु कथञ्चन।
इति निश्चित्य मनसा पद्मयोनिः पुरा नृप॥४२॥
स्वलोकं सम्परित्यज्य सत्याख्यममरैस्सह।
भूमिम्प्रत्यागतःश्रीमान् क्षिप्रं कर्मफलप्रदाम्॥४३॥
वासुदेवप्रियान्देवीं मन्यमानस्स्वमातरम्।
जम्बूद्वीपे महापुण्ये खण्डे भारतसंज्ञके॥४४॥
सम्पश्यन्विविधान् देशां स्तत्रतत्र मनोहरान्।
क्रमेण यमुनातीरमाजगाम पितामहः॥४५॥
तत्र दृष्ट्वा शुभं क्षेत्रं पुण्योपवनशोभितम्।
अत्रैव हयमेधेन यक्ष्यामि पुरुषोत्तमम्॥४६॥
इति निश्चित्य मनसा ब्रह्मा ब्रह्मर्षिभिस्सह।
कालिन्द्याश्चोत्तरे तीरे यज्ञभूमिप्रकल्पयत्॥४७॥
कृत्वातु यज्ञसंभारा न्यष्टुं समुपचक्रमे।
तत्र देवास्सगन्धर्वास्सिद्धाश्च परमर्षयः॥४८॥
द्रष्टुं पैतामहं यज्ञं समवेताहि संवशः।
तत्र यज्ञोपि ववृधे बह्वन्नो भूरिदक्षिणः॥४९॥
उत्तमानुपमो लोकेष्वाश्चर्यार्यानन्दवर्धनः।
पितामहस्य देवस्य केशवं द्रष्टुमिच्छतः॥५०॥
ततो यज्ञे समाप्तेतु कृत्वावभृथमज्जनम्।
चिन्तयामास लोकेशः केशवं नावलोकयन्॥५१॥
यदेकेनाश्वमेधेन हरिर्नावेक्षितो मया।
तच्छतं चाश्वमेधानां कर्तव्यं विष्णुतुष्टये॥५२॥
इति निश्चित्य मनसा धाता विष्णुमनुस्मरन्।
शताश्वमेधानाजह्रे तत्रैव यमुनातटे॥५३॥
प्रकृष्टैरश्वमेधैर्यदयजत्कमलासनः।
तस्मात्सदेशो विख्यातः प्रयाग इति पुण्यदः॥५४॥
एवं प्रयजतस्तस्य हरेर्दर्शनकांक्षया।
ब्रह्मणः प्रत्यगाद्राजन्वत्सराणां शतं तदा॥५५॥
**कृतेषु चाश्वमेधानां शतेषु विधिना नृप।
नैव प्रादुरभूद्विष्णु स्तस्मिन् क्षेत्रेतु यामुने॥५६ **
ततस्सचिन्तयामास ब्रह्मा कमलसम्भवः।
अश्वमेधशतेनापि नैवाद्राक्षमहं विभुम्॥५७॥
इह विष्णुर्नतुष्टोभूदश्वमेधैर्मयाकृतः।
तस्मादिहाद्य तपसा तोषयिष्यामि केशवम्॥५८॥
यावत्प्रनुष्टो भगवान् भूयान्मे दृष्टिगोचरः।
तावत्तपः प्रतप्स्यामि न्यर्बुदान्वापि वत्सरान्॥५९॥
इतिनिश्चित्य मनसा तपस्तप्तुं पितामहः।
दीक्षां वर्षसहस्रप्त्य कृत्वा तप उपारभत्॥६०॥
ध्यात्वा नारायणन्देवं प्राणानायम्य वाग्यतः।
हृत्पुण्डरीकमध्यस्थं योगिध्येयं निरंजनम्॥६१॥
निमीलिताक्षस्सततं तताप तप उत्तमम्।
तत्राब्दानां शतं राजन्नभूत्सन्तप्यतो विधेः॥६२॥
ततो दृष्ट्वाब्जपोनिं तं तप्यन्त परमं तपः।
अन्तरिक्षादुवाचेदं वाणी भागवतीकिल॥६३॥
भोभो ब्रह्मन्निबोधेदं वचनं यद्ब्रवीमि ते।
तपश्च सुमहत्तप्तं यज्ञाश्चैव कृतास्त्वया॥६४॥
देशोयं पुण्यदो नृृणां प्रयागाख्यः कृतस्त्वया।
तथाप्यत्र तपोयोगैः यज्ञैर्वासुकृतैरपि॥६५॥
नैव तुष्टिं गमिष्यामि नच दास्यामि ते वरम्।
सहस्रेणाश्वमेधानां यदा यष्टासि सुव्रत॥६६॥
तदा ते दर्शयिष्यामि स्वरूपं निर्गुणं विधे।
शंखचक्रधरं दिव्यं चिदानंदमयं शुभम्॥६७॥
सहस्रमश्वमेधानां दुष्करं भवता किल।
तस्मात्तेहं प्रवक्ष्यामि मम दर्शनमिच्छतः॥६८॥
यत्रैवैकाश्वमेधेन भवान् साहस्रकृद्भवेत्।
यत्राहं सहितो देव्या निवसाम्यनिशं विधे॥६९॥
यत्रभूस्संवृता पूर्वं मया सूकरमूर्तिना।
यत्रैकोपि कृतो धर्मो वर्धतेच सहस्रशः॥७०॥
तत्क्षेत्रं पावनं पुण्यं नाम्ना सत्यव्रतं शुभम्।
अस्तिचैतस्य देशस्य भवता निर्मितस्यहि॥७१॥
प्रयागाख्यस्य चाग्नये देशे क्रोशसहस्रके।
तदुत्तमंहि क्षेत्राणां यतो मत्प्रीतिवर्धनम्॥७२॥
तत्र गत्वाश्वमेधेन यज मां कमलोद्भव।
तत्रास्ति हस्तिशैलाख्यो गिरिर्मत्प्रीतिवर्धनः॥७३॥
गुहायान्तस्य शैलस्य निवसाम्यनिशं यतः।
तस्मान्मम प्रीतिकरं क्षेत्रं सत्यव्रताभिधम्॥७४॥
तत्रैकेनाश्वमेधेन सुकृतेन त्वया विधे।
प्रसन्नोहं भविष्यामि तव नास्त्यत्र संशयः॥७५॥
तस्माद्गत्वा त्वमद्यैव क्षेत्रं सत्यव्रतं विधे।
अश्वमेधं कुरु क्षिप्रमित्युक्त्वा विररामह॥७६॥
तत्रान्तरिक्षादुदितं हरेर्बच
श्श्रुत्वाब्जयोनिः परममहृष्टः।
नत्वा हरिं तीर्थवरात्प्रयागा
त्सत्यव्रतं क्षेत्रमियेष गन्तुम्॥७७॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये
नवमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1733895807Screenshot_2024-12-11_11-13-08.png"/>
श्रीरस्तु।
अथ दशमोऽध्यायः।
<MISSING_FIG href="../books_images/U-IMG-1733896784Screenshot_2024-12-11_11-29-27.png"/>
नारदः।
हरेरनुज्ञामाज्ञाय ब्रह्मा ब्रह्मविदां वरः।
विमानवरमारुह्य ब्रह्मर्षिगणसेवितः॥१॥
संस्तूयमानो विबुधैर्ययौ सत्यव्रतं प्रति।
संवीज्यमानो विबुधैश्चामरैर्व्यजनैरपि॥२॥
भेरीमृदंगपटहपणवानकवादकैः।
गन्धर्वास्परसां संघैस्समन्तात्संवृतो ययौ॥३॥
सतु गत्वा महाराज क्षेत्रं सत्यव्रतं तदा।
ददर्श तत्रपुण्यानि वनान्युपवनानिच॥४॥
दशयोजनविस्तारं दशयोजनमायत्तम्।
परितो हस्तिशैलस्य बहुवृक्षलतायुतम्॥५॥
पुण्यद्विजसमाकीर्णं मृगयूधैरलंकृतम्।
मयूरहंसभ्रमरनत्यूहकुलनादितैः॥६॥
सर्वर्तुकुसुमोपेतैः फलवद्भिश्च पादपैः।
संवृतं सर्वतो रम्यं मन्दानिलनिषेवितम्॥७॥
क्षेत्रं नेत्रमनःकांत ददर्श कमलासनः।
तत्र हस्तिगिरिं दृष्ट्वा दृष्ट्वा वाराहपल्वलम्॥८॥
गुहायां हस्तिशैलस्य दृष्ट्वा नरहरिं तदा।
प्रणम्य सहितो देवैननन्द चतुराननः॥९॥
ततश्शैलंसमारुह्य वीक्षमाणस्समन्ततः।
इदं सत्यव्रतं क्षेत्रं विष्णोः प्रीतिकरं परम्॥१०॥
अत्रैव हयमेधेन यक्ष्यामि पुरुषोत्तमम्।
इति निश्चित्य मनसा तैश्च ब्रह्मर्षिभिस्सह॥११॥
विश्वकर्माणमाहूय ततो वचनमब्रवीत्।
विश्वकर्मन्कुरु क्षिप्रं पुरीमत्र महावने॥१२॥
सप्तयोजनविस्तारां समन्तादस्य भूभृतः।
देवदानवगन्धर्वमनुष्योरगरक्षसाम्॥१३॥
ब्राह्मणानामृषीणांच निवासाय क्षिताविह।
तेषामपिच सर्वेषां ये सृष्टा जन्तवो मया॥१४॥
त्रैलोक्यान्तस्स्थितान्सर्वान्समानय मदाज्ञया।
तेषामपि च सर्वेषामन्नानि गुणवन्ति च॥१५॥
ब्राह्मणानां विशेषेण भक्ष्यैरुच्चावचैस्सह।
संसृज्यतां कामधेन्वा यस्य यस्य यथेप्सितम्॥१६॥
हस्तिशैलस्य परितो यज्ञभूमिर्विधीयताम्।
शालां तत्र विशालां च पंचक्रोशायतां कुरु॥१७॥
वेदिं च हस्तिशैलाग्रे विशालांशुभलक्षणाम्।
वास्तुभूतबलिं कृत्वा तथा त्रैयंबकं बलिम्॥१८॥
यथाह्यविघ्नो भूयान्मे वाजिमेधः क्रतूत्तमः।
तथा वत्स कुरुक्षिप्रं पुरीं चानुपमामिह॥१९॥
इति तक्षं समादिश्य विश्वकर्माणमब्जभूः।
अवतीर्याचलात्तस्मादृषिसंघैस्समावृतः॥२०॥
उपाविशच्छुभे देशे शेषकासारपश्चिमे।
तत्रेष्टिं विधिवत्कृत्वा रक्षामश्वस्य चाकरोत्॥२१॥
दत्त्वा गाअपि विप्रेभ्यो मुमोचाश्वं सुलक्षणम्।
आद्यर्तौ प्रथमे मासि रोकायामिन्दुवासरे॥२२॥
यज्ञार्थमृषिभिस्सार्धमश्वो मुक्तः स्वयम्भुवा।
तदा श्वमन्वगाद्राजन्महेन्द्रः पाकशासनः॥२३॥
लब्ध्वा ब्रह्मण आदेशं देवैस्सह महर्षिभिः।
जुह्वन्पदेपदे श्वस्य तत्रैवासीच्चतुर्मुखः॥२४॥
ध्यायन्हृदा जगन्नाथं शंखचक्रगदाधरम्।
ब्रह्मणाच समाज्ञप्तो विश्वकर्मा प्रणम्य तम्॥२५॥
निर्ममेथ पुरीं श्रेष्ठां स्वर्णप्राकारगोपुराम्।
गृहैश्व गिरिसंकाशैर्युक्तां स्फटिकतोरणैः॥२६॥
नानारत्नचितैश्चित्रै स्सौधैश्चाभ्रंलिहैर्वृताम्।
तलैस्स्फाटिकसंछन्नैरुपेतां स्वर्णकुट्टिमाम्॥२७॥
जालवातायनोपेतां वितर्दिशतसंकुलाम्।
चत्वरापणरथ्याढ़्यामुच्चाट्टालकसंकुलाम्॥२८॥
वापीकूपतटाकाद्यैरन्यैश्चैव जलाशयैः।
इक्षुकाण्डरसाम्भोदैस्सर्वतस्समलंकृताम्॥२९॥
सर्वर्तुकुसुमोपेतैरुपेतांचित्रपादपैः।
पुण्यैरुपवनैश्चान्यैस्सर्वतस्समलंकृताम्॥३०॥
वस्त्रैराभरणैश्चित्रैर्धनैर्धान्यैश्च संकुलाम्।
देवायतनसम्बाधां विमानशतसंकुलाम्॥३१॥
अनुत्तमामृद्धिमतीं गजवाजिरथाकुलाम्।
सर्वसंस्कारसुकृतामिन्द्रस्येवामरावतीम्॥३२॥
सप्तयोजनविस्तीर्णां सप्तयोजनमायताम्।
विधातुरश्वमेधार्थं निर्ममे तां पुरीं शुभाम्॥३३॥
वीध्यस्तत्र शुभादीर्घा विस्तीर्णगृहसंकुलाः।
पताकाध्वजसम्पन्नास्संसिक्ताश्चन्दनोदकैः॥३४॥
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्।
पृथक्पृथगसस्वाधा निर्मिता विश्वकर्मणा॥३५॥
ततस्समध्यमे देशे नगर्याः पुरतो गिरेः।
यज्ञशालां सुविपुलां विधातुमुपचक्रमे॥३६॥
विश्वकर्मा विधेराज्ञा मनुसृत्य विधानतः।
वास्तुभूतबलिं कर्तुं स्नात्वाशेषह्रदे शुभे॥३७॥
कृत्वा दारुमयम्भूतं फलपुष्पान्नमोदकैः।
दध्यक्षतघृतैर्मांसैर्लाजैश्च सतिलोदनैः॥३८॥
वास्तुं सन्तर्पयित्वाथ हुत्वा चैवानले पृथक्।
ब्राह्मणै ऋषिभिश्चैव सहितो वेदपारगैः॥३९॥
वास्तुं संगृह्य विधिवन्मन्त्रानाधर्वणान् जपन्।
यज्ञभूमिं परिक्रम्य दिक्षुप्रागादिषु क्रमात्॥४०॥
हस्तिशैलस्य चैशान्ये प्रदेशे योजनद्वये।
खात्वा गर्तंसुविपुलं भूतं संस्थाप्य शास्त्रतः॥४१॥
न्यपिंच च्छेषकासारा दाहृतैः कलशोदकैः।
तत्र मांसै र्बलिं दत्वा सम्पूज्य विधिवत्पुनः॥४२॥
रक्षार्थं वास्तुभूतस्य लिंगं संस्थाप्य शूलिनः।
त्रैयम्बक बलिं कृत्वा केशवं मनसा स्मरन्॥४३॥
प्रागात्समन्वितो विप्रैःपश्चान्नै वावलोकयन्।
न्यषिंचद्यत्रवै वास्तुं शेषकासारजैर्जलैः॥४४॥
तत्राप्यभूदनन्ताख्यं सरो राजन्सुपावनम्।
विश्वकर्मा ततोभ्येत्य हस्तिशैलस्य मूर्धनि॥४५॥
बह्वन्तरायान्यज्ञस्य समुद्वीक्ष्यैव शास्त्रतः।
यज्ञविन्न विघाताय सेनाधीश मपूजयत्॥४६॥
तम्पूजयित्वा गणपं चकारोत्तरवेदिकाम्।
ततश्शैलस्य परित श्शालांचैवाकरोन्नुप॥४७॥
मध्ये नगर्या विपुलामुन्नतां शुभलक्षणाम्।
पूर्वपश्चिमतश्शालापंचक्रोशायताहि सा॥४८॥
दक्षिणोत्तरतश्चापि तथा गव्यूति विस्तृता।
स्तम्भैरनेकसाहस्रैःकांचनै रत्नचित्रितैः॥४९॥
कूटागारैर्विटंकैश्च जालवातायनैरपि।
तलैस्स्फटिकसञ्छन्नैरिष्टकाभिश्चसंचिता॥५०॥
मुक्तावैडूर्यसञ्छन्नैः कांचनैर्द्वारतोरणैः।
निर्व्यूहैरत्नविकृतैर्महामृगगणैरपि॥५१॥
वृक्षैश्चकांचनैर्दिव्यैःसर्वतस्समलङकृता।
दिव्यैर्माल्यैस्सुगंधैश्चधूपैरगरुगन्धिभिः॥५२॥
दिव्यांबरैराभरणैर्दिव्यस्रगनुलेपनैः।
सम्पन्ना सर्वकामैश्च कल्माषीपशुभिर्वृता॥५३॥
कामधेनुस्तदा भ्येत्य तस्मिन्यज्ञ द्विजन्मनाम्।
तृप्त्यर्थमन्नान्यसृजन्मृष्टानि गुणवान्तच॥५४॥
सूपानुच्चावचान्भक्ष्यां ल्लेह्यान्पेयांश्च सर्वशः।
दधिकुल्यां पयःकुल्यां घृतकुल्याम्मधूनिच॥५५॥
लाजांश्चैव स्रजस्तत्र यस्य यस्य यथेप्सितम्।
भुञ्जते कोटिशस्तत्र ब्राह्मणाहानिशं नृप॥५६॥
तत्र दारुमया यूपाः कांचनालंकृताश्शुभाः।
एकविंशतिसंख्याका द्बात्रिंशत्किष्कुमुच्छ्रिताः॥५७॥
व्यस्तबाहुपरिग्राह्याः कारिताः शास्त्रतः क्रमात्।
स्थापितास्सर्वतो दिक्षु विंशद्यूपास्सुपूजिताः॥५८॥
मध्ये स्याः स्थापितस्त्वेकः प्रधानस्तुरगाश्रयः।
वासोभिर्भूषितास्सर्वे गन्धैस्स्रग्भिरलंकृताः॥५९॥
विरेजुस्तत्र यूपास्ते सप्तर्षय इवांवरे।
एवम्पुरींच शालांचयूपांश्चैवाथ वेदिकाः॥६०॥
तथैव सर्वसम्भारानिर्ममे मनसा स्वयम्।
यथोक्तं ब्रह्मणा पूर्वं कृत्वा तत्त्रिगुणं तथा॥६१॥
व्यजिज्ञपद्विश्वकर्मा तत्स्वकर्म स्वयम्भुवम्।
ततस्स्वयम्भूर्भगवान्दृष्ट्वा तत्कर्मचाखिलम्॥६२॥
पुरीं शालांच सम्प्रेक्ष्य तुतोषात्यंदमब्जभूः।
तुष्टः प्रोवाच वचनं विश्वकर्माणमीक्ष्य सः॥६३॥
इयं कांचीति विख्याता पुरी भवतु नामतः।
अद्यप्रभृति लोकेषु भोगमोक्षप्रदायिनी॥६४॥
स्मरणात्सर्वपापघ्नी नृणां भूतलवासिनाम्।
इत्युक्त्वा वचनं धाता ब्रह्मर्षिगणसंयुतः॥६५॥
अश्वमेधस्य यज्ञस्य दीक्षां कर्तुमियेष ह।
तत्र देवर्षिगन्धर्वाः पितरस्सहचारणैः॥६६॥
नागा विद्याधरा यक्षा दानवाः पतगा अपि।
असुरा राक्षसैस्सार्धंसमाजग्मुश्च सर्वशः॥६७॥
तथैवा म्परसां संघा गुह्यकानां गणैस्सह।
आजग्मुस्सवलोकेभ्यो द्रष्टुं पैतामहं मखम्॥६८॥
तथैव मानुषास्सर्वे ब्राह्मणाः क्षत्रिया विशः।
शूद्राश्चैव समाजग्मुर्येस्थिता धरणीतले॥६९॥
ततस्संवत्सरस्यान्ते शुभनक्षत्रसंयुते॥७०॥
दिवसे सहितः प्रत्न्या सावित्र्याकमलासनः।
विवेश दीक्षां प्रयत स्त्यक्त्वा वाणीमनागताम्॥७१॥
तदा ब्रह्मर्षयस्सर्वे कर्म कुर्वन्ति चाध्वरे।
तत्राध्वर्युर्वसिष्ठो भूद्धोता भूदंगिरा नृप॥७२॥
अभून्मरीचिरुद्गाता ब्रह्मा भृगुरभूत्क्रतौ।
अत्रिः पुलस्त्यः पुलहः कण्वोदक्षश्च काश्यपः॥७३॥
बृहस्पतिः क्रतुः काव्य स्संवर्तोसित एवच।
जमदग्निर्भरद्वाजो वामदेवोथ गौतमः॥७४॥
सुयज्ञश्चैव जाबालिर्येचान्ये द्विजपुंगवाः।
तत्तत्कुर्वन्ति कर्माणि शास्त्रतः कृतुसत्तमे॥७५॥
द्विजानां भोजने सम्यक्तथान्न परिवेषणे।
यमोभूत्स्वगणैस्सार्धं समाज्ञप्तस्स्वयम्भुवा॥७६॥
चन्दनानां च पुष्पाणां सुगन्धानां स्रजां व्यये।
वरुणस्स्वगणैस्सार्धमभूत्तत्र क्रतूत्तमे॥७७॥
रत्नानां कांचनानां च रजतानां च वाससम्।
व्यये कुबेरस्तत्राभूदाज्ञया परमेष्ठिनः॥७८॥
वायुश्व स्वगणैर्युक्तश्चामरैर्व्यजनैरपि।
सिषेवे ब्राह्मणांस्तत्र भुञ्जत स्त्वनिशं मखे॥७९॥
ईशानश्च क्रतोः कार्ये पशूनां समिधामपि।
आसीदानयने तत्र ऋत्विजामुपसेवने॥८०॥
हवींषि श्रपयन्नग्निर्धूपैश्चागरुगन्धिभिः।
दीपैस्सभामलंकुर्वन्नासीत्स्व गणसंयुतः॥८१॥
पौलस्त्यो नैऋतश्चासीत्स्वयुधैरभिसंवृतः।
रत्नचित्रेषु पीठेषु विप्राणामुपवेशने॥८२॥
इन्द्रस्सर्वेषु कार्येषु सर्वेषामुपवीक्षकः।
वसुभिस्सहितस्तत्र विचचार समन्ततः॥८३॥
सूर्याचंन्द्रमसौ चोभौ दिव्यचामरधारिणौ।
ब्रह्माणमुपतस्थाते पार्श्वयोरुभयोरपि॥८४॥
वसवो मनवस्सिद्धा विश्वदेवास्तथाश्विनौ।
देवर्षिपितृगन्धर्वाः प्रमोदं प्रापुरुत्तमम्॥८५॥
तत्र गायन्ति गन्धर्वानृत्यन्त्यप्सरसां गणाः।
तालस्वस्तिकवीणाभिर्मृदंगैराहतैर्मुहुः॥८६॥
निस्सृतो मधुरश्शब्दः श्रूयते तत्र संसदि।
ऋचां च यजुषांचैव साम्नामपि विशेषतः॥८७॥
शब्दः पापहरः पुण्यो रोदसी अन्वनादयत्।
ब्राह्मणा भुञ्जते तत्र शतशोथ सहस्रशः॥८८॥
अन्नकूटाश्च दृश्यन्ते शालायां पर्वतोपमाः।
भक्ष्यान्भोज्यांश्च विविधान्पेयान्खाद्यांश्च भूरिशः॥८९॥
भक्षयन्तोपि सततं नतृप्तिं प्रतिपेदिरे।
भुक्तानां भोक्ष्यमाणानां भुंजतां च द्विजन्मनाम्॥९०॥
परिचर्यां प्रकुर्वन्ति गन्धर्वास्समलंकृताः।
षष्टिकोट्यस्तथा राजन्युवत्यश्शुभलक्षणाः॥९१॥
बभूवुस्तत्र वै यज्ञे विप्राणां परिवेषकाः।
दीयतां दीयतामन्नं वासांस्याभरणानिच॥९२॥
इति शब्दो महानासी ज्जल्पतां त्रिदिवौकसाम्।
तत्रेंद्राचासुरगणाः परमानन्दनिर्भराः॥९३॥
परिक्रामन्ति सर्वेषु कार्येषुच विशेषतः।
तेषां स्त्रियोपि संहृष्टाः सर्वालंकारशोभिताः॥९४॥
इन्द्राण्या सहितास्सर्वाः पूजयन्ति द्विजस्त्रियः।
तान्दृट्वा तत्र संहृष्टान्देवानिन्द्रपुरोगमान्॥९५॥
सन्तप्तहदयास्सर्वे बभूवुरसुरास्तदा।
कालनेमिर्विप्रचित्ति बणिश्शंबरएवच॥९६॥
हपग्रीवो मुरश्शंखो मणिमान्निशठो मयः।
एते चान्येच देतेया यज्ञं द्रष्टुमुपागताः॥९७॥
तथा श्वमेधेन सुपावनेन
यज्ञेन यज्ञाभिवमब्जनाभम्।
यष्टुं किल प्रारभदब्जयोनि
राद्वादशाहं त्वनुसृत्य दीक्षाम्॥९८॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये दशमोध्यायः॥
————
अथ एकादशोध्यायः।
————
नारदः
ततो यज्ञाहि ववृधे ब्राह्मणैर्वेदपारगैः।
अहन्यहनि राजेंद्र बह्णन्नो भूरिदक्षिणः॥१॥
ततोग्निचयमाधानं चक्रुष्षोडशऋत्विजः।
प्रागुदक्प्रवणां वेदिं दक्षिणाग्नेरकल्पयन्॥२॥
प्रतीचीं गार्युपत्यस्य वेदिमब्जदलाकृतिम्।
तथैवाहसनीयाग्निदीचीं चक्रुरायताम्॥३॥
वायव्ये पंचकोणोभूदैशान्यां चन्द्रसन्निभः।
दक्षिणे चाष्टकोणोभूत्रैऋस्यां कूर्मसन्निभः॥४॥
अग्नेनेच त्रिकोणोभूत्प्राच्यां यूपस्समुच्छ्रितः।
गारुडं चयनं चक्रुः कौर्मं मायूरमेवच॥५॥
चक्राब्जमण्डलंचैव हंसांकुशदलं तथा।
दर्भैस्समैस्समास्तीर्थ लाजैः पुष्पैस्तथांकुरैः॥६॥
दध्यक्षततिलानांच तथैव मधुसर्पिषाम्।
सुसंस्कृतानि पात्राणि स्थापितानि द्विजोत्तमैः॥७॥
नानावर्णजलैः पूर्णा रत्नवल्लवशोभिताः।
स्थापितास्स्वर्णकलशास्तत्र तंतुभिरावृताः॥८॥
य जकाश्चक्रुरुत्थान मरणिं चोत्तरारणिम्।
प्रवर्ग्य शास्त्रतश्चक्रु स्तथोपसदनं द्विजाः॥९॥
सतास्तं गत आदित्ये प्रथमे इति ऋत्विजः।
ब्रह्मणासहिता स्तत्र कर्म कुर्वन्ति शास्त्रतः॥१०॥
रात्रौ चैव तथाहुत्वा हे अशेषं समापयन्।
परेद्युः प्रातरुत्थाय सर्वे षोडश ऋत्विजः॥११॥
ब्रह्मणा सहिता स्तत्र कर्म कुर्वन्ति शास्त्रतः।
प्रातस्सघनमाजह्रु र्विधिवद्यज्ञकोविदाः॥१२॥
यूपास्तत्र विराजन्ते सुकृतास्समलंकृताः।
षड्वैल्वाः खादिराः सप्त षट्पलाशमया स्तथा॥१३॥
देवदारुमयस्त्वेक औदुम्बरमयो परः।
यूपेषु बद्धाः पशव स्संस्कृताश्च स्वलंकृताः॥१४॥
उरगाः पक्षिणश्चैव तथा जलचरा मृगाः।
पशूनां त्रिशतं तत्र यूपेषुच नियन्त्रितम्॥१५॥
विसृष्टाश्च तथैवान्ये वनं यान्ति स्वलंकृताः।
अग्निष्टोमातिरात्रेच पौण्डरकि मथो द्विदम्॥१६॥
अभिविश्वजितौ चोभौ वाजपेयमथापरम्।
आहरन्ति हितास्सर्वे चाश्वमेधे महाक्रतौ॥१७॥
परिक्रमन्ति विधिव द्याजका यज्ञकर्मसु।
कृतानि तत्र कर्माणि कुशलै र्याजकै र्मखे॥१८॥
आसन्नस्खलितान्येव मन्त्रै स्तन्त्रैश्च सर्वशः।
नाविद्वान्कश्चिदप्यासी न्नाव्रतो नाबहुश्रुतः॥१९॥
सर्वे वेदविदो मुख्या स्तत्रासन् क्रतुसत्तमे।
विशस्यच पश्स्तत्र तत्तदुद्दिश्य दैवतम्॥२०॥
प्रक्षिण्न्त्यजले पूते तत्तन्मन्त्रैः पृथक्पृथक्।
हवींषि हूयमानानि ऋत्विक्भिः कमलासनः॥२१॥
अर्पयामास सर्वाणि विष्णवे नन्तरूपिणे।
योनन्तनामानन्तात्मा यज्ञो यज्ञभुगव्ययः॥२२॥
हविर्भिरेभिर्मद्दतैस्व विष्णुः प्रीयतामिति।
उच्चैर्मन्त्रानुच्चरन्ति याजका स्तत्र सुस्वरैः॥२३॥
आश्रावयेति चाध्वर्यु रस्तुश्रो षडितीतरः।
यजेति चापरो ब्रूते येयजामहं इत्यपि॥२४॥
पुनस्ते वौषडित्युक्त्वा क्षिपन्त्याज्याहुती र्मर्खे।
एवमुद्युष्यतां तत्र काले कालेप्रजुह्वताम्॥२५॥
ऋत्विजां श्रूयते शब्द स्सर्वपापहरो नृणाम्।
प्रातस्सवनकम्पूर्वं कृत्वा माध्यन्दिनं ततः॥२६॥
कर्मान्तरे हेतुवादान्प्रवदन्ति द्विजोत्तमाः।
शीक्षाव्याकरणज्ञाश्च सर्वशास्त्रार्थ कोविदाः॥२७॥
तत्र तत्र सभायान्तु परस्परजिगीषया।
एवं मखे वर्तमाने प्रजुह्वति विधातरि॥२८॥
सर्वकार्यैस्समृद्धेषु ब्राह्मणेषु समन्ततः।
तत्र कर्माणि कुर्वन्तः परमानन्दसम्भृताः॥२९॥
सेन्द्राश्च केवलं देवाः परितस्सञ्चरन्ति हि।
तान्दृष्ट्वा तत्र दैतेया देवार्निद्रपुरोगमान्॥३०॥
विप्रचित्तिमुखास्सर्वे सहितास्सर्वराक्षसैः।
वयंच कुर्मः कर्माणि स्वीये पैतामहे मखे॥३१॥
निरोद्धुमस्मान्कश्शक्तइति संजातविस्मयाः।
धनानि तत्र वासांसि रत्नानि विविधानिच॥३२॥
ब्राह्मणेभ्यः प्रयच्छन्तस्सभायां परिचक्रमुः।
धनेभ्यो देवदत्तेभ्यो ददुर्दशगुणाधिकम्॥३३॥
स्पर्धया ददतां तेषामुद्यमं वीक्ष्य दासवः।
ससंरब्धतरो भूत्वा कुबेरं वीक्ष्यचाब्रवीत्॥३४॥
धनरत्नप्रदाने त्वं निर्दिष्टः किल वेधसा।
धनाध्यक्षोसि मन्दात्मन् भुत्या यक्षा नकिं तव॥३५॥
असुराणां करे दत्वा धनं वैतानिकंबहु।
दापयस्यसुरैर्दानं विप्रेभ्यस्त्वं विशेषतः॥३६॥
यद्दानं ब्राह्मणे दत्तं स्पर्धयावज्ञयापिवा।
तद्दानभासुरं प्राहुर्निष्फलं ब्रह्मवित्तमाः॥३७॥
तस्मात्त्वया कथं दत्तमसुराणां वशे धनम्।
इति शक्रवपस्प्रुत्ता कुबेरो वाक्यमब्रवीत्॥३८॥
ब्राह्मणेभ्यो वयमपि दास्याम इति चासुराः।
धनं मामभ्ययाचन्त रत्नानि विविधानिच॥३९॥
नचेदहं प्रदास्यामि धनं मामभियाचताम्।
बलवन्तः प्रकुप्यन्ति सोनर्थस्तुमहान्नवेत्॥४०॥
इति सञ्चिन्त्प मनसा दत्तं तेभ्यो धनम्मया।
इन्द्रः।
मदाज्ञया विना तेषां न दातव्यमितः परम्॥४१॥
किं कुर्वन्ति प्रपश्यामस्सर्वानस्मान्प्रकोपिताः।
इत्युक्त्वा वासवः क्रोधाद्गन्धर्वैस्सहितस्तदा॥४२॥
बहिर्निष्कासयामास सर्वानसुरपुङ्गवान्।
शालायाः पश्चिमे देशे गन्धर्वैर्वासवाज्ञया॥४३॥
निष्कासितास्ते दैतेयास्सङ्क्रुद्वाश्शस्त्रपाणयः।
प्रजघ्रुस्तत्र गन्धर्वांश्छतशोथ सहस्रशः॥४४॥
हन्यमानास्तु गन्धर्वा दैतेयैः क्रोधमूर्च्छितैः।
दिशः प्रदुद्रुवुः केचित्केचिच्छालां प्रपेदिर॥४५॥
तान्दृष्ट्वा विक्षतान् शस्त्रैर्गंधर्वानसुरैर्भृशम्।
बभूवुर्भयसंविग्नास्सर्वे तत्र सभासदः॥४६॥
ब्राह्मणा ऋत्विजश्चैव येच ब्रह्मर्षयोपरे।
त्यक्त्वा वैतानिकं कर्म तूष्णीं संभ्रान्तमानसाः॥४७॥
केनेदं किमिदञ्चेति जजल्पुश्च परस्परम्।
असुराश्चापि शालाया बहिः पश्चिमतः पृथक्॥४८॥
राक्षसैस्सहितास्सर्वैस्ततो मन्त्रममन्त्रयन्।
बाणश्च विप्रचितिश्च मुरश्शंवर एवच॥४९॥
दुग्धुर्मधुः कालनेमिर्मणिमात्रिशठो मयः।
एते चान्येच राजेन्द्र दैतेया राक्षसेम्सह॥५०॥
तेषां मध्ये विप्रचिति मंद्दानसुरपुङ्गवः।
तांश्च सर्वान् समालोक्य वाक्यमेतदुवाचह॥५१॥
दृष्टानि खलु देवानामकार्याणि सभातले।
दृष्टः खल्वस्य दुर्बुद्धे रनयो वासवस्यच॥५२॥
किंकर्तव्यमिहास्माभि र्वासवेन निराकृतैः।
एतेहि सर्वशा दृप्ता स्स्वयमाजानवैरिणः॥५३॥
अवमन्तुंभिलेच्छन्ति सर्वाजस्मान्दिवौकसः।
पयं धात्रा समाहूता यज्ञं द्रष्टुमिहागताः॥५४॥
तेप्यागता स्तथाचान्ये यज्ञं द्रष्टुं वयं यथा।
यष्टातु भगवान् ब्रह्मा सर्वेषां नः पितामहः॥५५॥
किमाधिक्यमिहैतेषां न्यूनताया किमद्यनः।
कोनामायाहि दुर्बुद्धि र्वसवो विस्मयान्वितः॥५६॥
स्पर्धते स्माभिरत्यर्थ स्वातंत्र्येण कृताविह।
विरुद्ध्यचास्मानखिला न्कथमतेन जीवितुम्॥५७॥
शक्यं तदिह पश्यामो दुर्बुद्धे स्वस्थ विक्रमम्।
अध ह्रस्वा सुरान्तर्वां स्तं जाल्मपि वालवम्॥५८॥
सुखेनकारयिष्यामो वयम्पैतामहं मखम्।
इति निश्चित्य मनसा योद्धुं तत्रामरै स्वह॥५९॥
हन्तुंच तान्समुद्वेगं चक्रुस्सर्वे सुरारयः।
तत्र यानै र्विमानैश्च रथवाजिगजै रपि॥६०॥
राक्षसै र्दानवैः पूर्णा दैतेयैश्च समन्ततः।
अक्षोहिण्य ष्वष्टिकोट्य स्संक्षुब्धार्णवसत्रिभाः॥६१॥
समागता स्तदा दृष्टा भूमौ चैवाम्बरेपिच।
नैऋत्यां राक्षसी सेना पश्चिमे चासुरी चमूः॥६२॥
एवं द्विधा विभज्यैव तां सेनां चतुरंगिणीम्।
हत्वा देवगणान्सर्वा न्दग्ध्वा काञ्चीपुरीमितः॥६३॥
बद्ध्वा गृहीत्वा देवेन्द्रं प्रयाम इति दर्पिताः।
विसृजन्तश्शरान्घोरान्प्रासशक्त्यष्टिमुद्गरान्॥६४॥
गर्जन्ति तत्र दैतेयाः प्रासूण्मेघा इवाम्बरे।
प्रहरन्तिच गात्रेषु गन्धर्वाणां दिवौकसाम्॥६५॥
गदाभिर्मिण्डिगलैश्च पुरींविध्वंसयन्तिच।
तै रर्दिता जनास्सर्वे क्रोशन्तः पुरवासिनः॥६६॥
त्यक्त्वा गृहाणि परिता दुद्रुवुर्भयकम्पिताः।
शालायामपि गन्धर्वा ब्राह्मणा ऋत्विजश्चये॥६७॥
सह स्त्रीबालवृद्धैश्च शालां त्यक्त्वा प्रदुद्रुवुः।
ततस्सेंद्रादिविषदो युद्ध्वा तै र्बहुशो नृप॥६८॥
यावच्छक्तिपरिश्रान्ता ब्रह्माणं शरणं ययुः।
तानुदीक्ष्य तदा ब्रह्मा देवानसुरक्षितान्॥६९॥
भीतान्ब्रह्मऋषींश्चैव पुरीं शालां च निर्जनाम्।
उद्धतानसरांश्चैव योद्धुकामानुपस्थितान्॥७०॥
महाविघ्नः प्रवृत्तोयं यज्ञस्येति विचिन्तयन्।
दध्यौ विघ्नविघाताय देवं नारायणं हरिम्॥७१॥
तंविना यज्ञगोप्तारं नजानेन्यं जगत्त्रये।
सर्वविघ्नप्रशमनं व्रजामि शरणं हरिम्॥७२॥
इत्यंबुजाक्षं मनसा नुचिन्तय
न्नुद्वीक्ष्य विघ्न समुपस्थितं क्रतोः।
निमीलिताक्षः कमलासनस्तदा
प्रणम्य बद्धांजलिरस्तुवद्धरिम्॥७३॥
नमो नमस्ते जगदादिहेतवे
नारायणायाखिंलकर्मसाक्षिणे।
निरंजनानन्तगुणामृतान्धये
निजाश्रितानन्दफलप्रदायिने॥७४॥
निरीश्वरं निर्मलबोधबोध्यं
निरंजनं निर्गुणमप्रमेयम्।
निरन्तरानन्दघनं निरीहं
निराश्रयं त्वां शरणं प्रपद्ये॥७६॥
सत्यं परं सत्यनिधिं विशुद्धं
सत्यस्य योनिं सचराचरस्य।
सत्यात्मकं सत्यरतिं प्रशान्तं
सत्यव्रतेशं शरणं प्रपद्ये॥७७॥
त्वदाज्ञयैवा भवमत्रयष्टुं
समुद्यतोहं सहितस्सुराद्यैः।
अतस्त्वमेवाशु समेत्यसांप्रतं
निरन्तरायं कुरुमे मखं विभो॥७८॥
एवं तदा संस्तुवतोब्जजस्य
गोप्तुं मखं भक्तजनार्तिहा हरिः।
तत्राविरासीदसुरान्मखघ्ना
त्रिहन्तुमुद्यम्य करेण शार्ङ्गम्॥७९॥
रथे स्थितः कांचनशैलकल्पे
गदी निषंगी कवची किरीटी।
मनुष्यराजन्यवपुर्महात्मा
विगर्जमानों बुदवद्घनाभः॥८०॥
स चापमुद्यम्य भुजंगकल्पं
शरैश्च वज्राशनिसन्निकाशैः।
ववर्ष रक्षस्तु तथासुरेषु
यथाश्मवृष्ट्या कलमेषु वज्री॥८१॥
तैरर्दिता विष्णुसमीरितैश्शरैः
प्रभिन्नवाहूदरपादकंधराः।
निपेतुरुर्व्यां निमिषात्सहस्रशः
प्रदुद्रुवुः प्राणपरीप्सवो परे॥८२॥
तदा नृपं वीक्ष्य सवासवास्तुरा
स्तं मन्यमाना हरिमप्रमेयम्।
तदाश्रयादागतसत्त्वधैर्या
निजघ्नु रेतेप्यसुरान्समन्तात्॥८३॥
यतो हरिर्नैऋतवाहिनीं ता
मुद्यम्य शार्ङ्गं विनिहन्तुमभ्यगात्।
अत स्तमद्यापि वदन्ति देवा
स्वत्यव्रते शार्ङ्गधराभिधानम्॥८४॥
सशार्ङ्गपाणिर्विसृजंश्छरौघा
न्विद्राव्य सेनाममराहितानाम्।
रराज तत्रैव सुरै स्समीडित
स्तमो विधून्वन्सवितेव रश्मिभिः॥८५॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये एकाशोध्यायः॥
————
श्रीरस्तु
अथ द्वादशोध्यायः।
————
नारदः
हन्यमानां स्वकां सेनां देवैर्विष्णुबलोद्धतेः।
तत्र विष्णोर्बलेचापि दृष्ट्वा दैतेयपुङ्गवाः॥१॥
वियचिनिमुखास्सर्वे गात्रेषु शरविक्षताः।
कर्तव्यमूढास्सम्भ्रान्तास्संलीनाः पुरवेश्मसु॥२॥
मन्त्रयन्ति मिथस्सर्वे दैवैस्तत्रानिरीक्षिताः।
योद्धुं नैवाद्य कालो नस्सर्वैर्देवगणैस्सह॥३॥
कालेन प्रहरिष्यामो वयं सर्वान् दिवौकसः।
क्षिप्रमद्य वयं यामः पातालं दानवालयम्॥४॥
तत्रास्ति हस्तिशैलस्य गुहायां सुमहद्बिलम्।
तत्प्रविश्यैव गच्छामो येन पूर्वं गता वयम्॥५॥
नृसिह्मेण कृतं पूर्वं हिरण्यकशिपोर्वधे।
विद्रावितास्तदा तेन सर्वे वयमितो बिलात्॥६॥
अलक्षिता नृसिह्मेण प्रविष्टा दानवालयम्।
पुरैतत्काननमभूद्विधिना द्य कृता पुरी॥७॥
शालाच यष्टुकामेन गुहायाः परितः कृता।
अद्य शालांप्रविश्यैव प्रविश्यच गिरेर्गुहाम्॥८॥
गन्तव्यं बिलमार्गेण तद्यतध्वमतन्द्रिताः।
भसन्ति देवाश्शालायां सर्वे योद्धुं बहिर्गताः॥९॥
एकएव जपन्नास्ते शालायां पद्मसम्भवः।
इति सर्वेपि निश्चित्य शालां दुद्रुवुरंजसा॥१०॥
इस्तिशैलरुस्य च बिलात्पातालं गन्तुमुद्यताः।
गमनत्वरया तत्र मृद्गन्तः कुशसंचयान्॥११॥
लोलयन्तश्च कलशानन्भिन्दतो वेदिकाअपि।
गुहां प्रविष्टमात्रैस्तैर्दृष्टस्तत्र नृकेसरी॥१२॥
तं दृष्ट्वा मीतभीतास्ते निवृत्ताः पुनरंजसा।
तदा नृसिह्मः कुपितो दृष्ट्वा तान्पूर्ववैरिणः॥१३॥
हन्तुमभ्याययौ वेगा द्गर्जन्घोरं मुहुर्मुहुः।
उत्पतन्नेकमुत्पातं सटा दंष्ट्राश्च दर्शयन्॥१४॥
सृक्वणी लेलिहंश्चापि जिह्वया तटिदाभया।
संस्थितस्त्वेकरूपेण तत्रैव बिलरक्षणे॥१५॥
रूपान्तरेण चाभ्यागा द्विनिष्क्रम्य गुहामुखात्।
शैलस्य पश्चिमे देशे सभायां पद्मजन्मनः॥१६॥
विदुतान्वीक्ष्य दैतेयां स्तत्रैवासीत्समास्थितः।
पादाभ्यां चक्रमंकुर्व न्नुदग्दक्षिणतो सकृत्॥१७॥
चक्षुषानलकल्पेन पश्यन्पश्चिमतो मुहुः।
विभीषयन्स नादेन सर्वानसुरपुङ्गवान्॥१८॥
जगजं तेन नादेन येनवित्रासिता दिशः।
सयज्ञशालाच मही साचला कम्पिता भवत्॥१९॥
दृष्ट्वा तमसुरास्सर्वे श्रुत्वाचास्य विगर्जितम्।
नृसिह्मोप्यद्य नो हन्तु मुपयातोहि पूर्ववत्॥२०॥
तन्न स्थेयमिहास्माभि रिदानीमिति दुद्रुवुः।
उत्तरादिशमुद्दिश्य नह्यत्रेति नृकेसरी॥२१॥
तेविन्ध्याद्रिंसमासाद्य बहुकन्दर निर्झरम्।
समेता स्वत्र कान्तारे स्वार्थं सर्वे न्वचिन्तयन्॥२२॥
देवा अपिसगन्धर्वा स्सहिताश्शार्ङ्गपाणिना।
नैऋत्यां पश्चिमे चापि संरुद्धां राक्षसींचमूम्॥२३॥
असुराणां चमूंचापि युद्ध्वा विद्राव्य तत्क्षणात्।
शुश्रूवुर्नरसिह्मस्य शालायां गर्जतस्स्वनम्॥२४॥
किमेतदिति सम्भ्रान्ताः पुनराजग्मुरञ्जता।
तेनचात्मसहायेन सहिताश्शार्ङ्गपाणिना॥२५॥
अजानन्तो नृसिह्मेण निगतेन गुहामुखात्।
असुरान्द्रावितान् सर्वान् गुहाम्प्रविशतो भयात्॥२६॥
आगत्य च सुरास्सर्वे विज्ञायासुरचेष्टितम्।
नृसिह्मं यज्ञरक्षार्थं माविर्भूतं गुहामुखात्॥२७॥
दृष्ट्वा सन्तुष्टहृदया स्सम्प्रणेमुस्समन्ततः।
तुष्टवुर्विविधैस्तोत्रै वंद्धांजलिपुटा स्तदा॥२८॥
नमो मत्स्य कूर्मादि नानास्वरूपै
स्सदा भक्तकार्योद्यतायार्ति हन्त्रे।
सुरारातिसंहार हेतोरिहाद्रे
र्गुहाद्वार देशाद्बहिर्निर्गताय॥२९॥
चक्राब्जहस्ताय भक्ताभयाय
संवर्तकालान लाभाननाय।
दंष्ट्राकरालाय विद्युत्सटाय
सिह्मायतुभ्यं नतास्मो नतास्स्मः॥३०॥
इति स्तुत्वा नारसिह्मं देवा स्तत्र सवासवाः।
नत्वा शार्ङ्गधरंचापि यज्ञकर्मा रभंतवै॥३१॥
नृसिह्मो यज्ञशालाया मध्ये शैलस्य पश्चिमे।
तत्रैवासीन्मखं रक्षव्रसुरेभ्यस्समन्ततः॥३२॥
नैऋत्यां हस्तिशैलस्य दिशि शार्ङ्गधरोप्यभूद्।
विद्रावयन् चमूं सर्वां दानवासुररक्षसाम्॥३३॥
ततश्चतुर्मुखो हृष्टस्सर्वैर्दैवगणैस्सह।
पुनर्यष्टुमुपाक्रामत्तृतीये दिवसे तदः॥३४॥
देवर्षिपितृगन्धर्वा येजनाः पुरवासिनः।
भयात्प्रविद्रुताः पूर्वं तेप्याजग्मुर्यथापुरम्॥३५॥
पुरीञ्च विश्वकर्मापि दानवैर्भिन्नगोपुराम्।
भिन्नतोरणवेश्मौघान्निर्ममे निमिषात्पुनः॥३६॥
तेपि ब्रह्मर्षयस्सर्वे याजका हृष्टमानसाः।
हुत्वा व्याहृतिभिस्तत्र शांतिं कृत्वा विधानतः॥३७॥
इष्टिकाचयनं हृत्वा प्रवर्ग्यं चक्रुरंजसा।
ततः प्रववृधे यज्ञो बह्णन्नो भूरिदक्षिणः॥३८॥
पितामहस्य देवस्य केशवं द्रष्टुमिच्छतः।
तत्र नन्दन्ति सुभृशं देवाश्शक्रपुरोगमाः॥ ३९॥
पितृगन्धर्वमनुजा स्सर्वेसम्पूर्णमानसाः।
असुराश्चापि विन्ध्याद्रौ समेतास्समचिन्तयन्॥४०॥
निहन्तव्यो यमस्माभिर्नरसिह्मस्सुराश्रयः।
कमुपायमुपाश्रित्य निहन्मो नृहरिं वयम्॥४१॥
इति मन्त्रयतां तेषामसुराणां सुरारिणाम्।
शम्बरोनाम दैतेयाश्शतमायो महाबलः॥४२॥
आभाष्य दितिजान्सर्वानिदं वचनमब्रवीत्।
विद्या चक्षुर्मुषीनाम तामसी शुक्रनिर्मिता॥४३॥
अग्न्यर्केेंदुमुखानांच ज्योतिषामपकर्षिणी।
देवगन्धर्वमर्त्यादि जन्तूनामन्धभावदा॥४४॥
मय्यस्ति तामसी माया, जगत्यंधत्वकारिणी।
तामद्य संप्रयोक्ष्यामि मायान्देवगणेष्वहम्॥४५॥
गाढ़ेंधवमसि व्याप्ते देवसंघेषु सर्वशः।
ज्योतिर्गणेषु स्तब्धेषु हनिष्यामस्सुरान्वयम्॥४६॥
नृसिह्मं केवलं हन्तुं नियोक्ष्यामः पिनाकिनम्।
सकिलात्रैव वसति श्रीशैलाख्ये चलोत्तमे॥४७॥
सम्यगाराधितस्सद्यो भक्तानामिष्टदो भवेत।
तं तोषयित्वा विधिवत्सह तेनैव शंभुना॥४८॥
गत्वा सत्यव्रतं क्षेत्रं ध्वंसयामत्सुरान्ययम्।
इति तस्य वचः श्रुत्वा सर्वे ते दानवोत्तमाः॥४९॥
सम्प्रहृष्टास्समुत्तस्थुश्श्रीशैले शंभुमर्चितुम्।
तत्र गत्वा महादेवं श्रीशैलाधःस्थितं हरम्॥५०॥
दक्षाध्वरहरं शंभुं त्रिपुरघ्नं त्रिलोचनम्।
भक्तानामिष्टदं सद्योभवं भक्तपयापहम्॥५१॥
दृष्ट्वा प्रणम्यसहसा तुष्टुवुर्विविधैस्तवैः।
देवदेवजगन्नाथ प्रणतार्तिहराव्यय॥५२॥
नृसिह्मं हन्तुकामावै त्वामद्यं शरणं गताः।
इत्युक्त्वा वैदिकां तत्र सम्यक्कृत्वा विधानतः॥५३॥
शस्त्रैश्च शरपत्रैश्च दर्भैरास्तीर्य वेदिकाम्।
तत्रपावकमादाय समिधोथ विभीतकाः॥५४॥
रक्तचन्दनपुष्पाद्यै रलंकृत्य समंततः।
कार्ष्णायसैस्स्रुवै स्रुग्भिर्हुत्वा चाज्याहुतीस्ततः॥५५॥
छागस्य सर्वकृष्णस्य जगृहुर्जीवतो गलम्।
अनेन कर्मणाशंभुस्सर्वेषान्नः प्रसीदतु॥५६॥
प्रसन्नोद्यैव नो भूयान्नृसिंह्मं हन्तुमुद्यतः।
इत्युक्त्वा प्राक्षिपन्नग्नौ छागंसर्वांगमासुराः॥५७॥
प्रक्षिप्तमात्रे क्षितिजैस्सस्तुष्टस्तेन कर्मणा।
उत्तस्थावथ कुण्डाग्नेरद्भुतश्शरभो महान्॥५८॥
तीक्ष्णतुंडनखो घोरो ज्वलद्घोराग्निलोचनः।
अष्टपादस्ताम्रचूडः प्रलयानसत्रिभः॥५९॥
विगर्जन्नुत्पपातोर्ध्वं त्रैलोक्यं क्षोभयन्निव।
तस्य पक्षानिलेनैव धरा साद्रिवना भृशम्॥६०॥
चचाल सागराश्चैव संक्षुब्धास्सर्वतो दिशः।
तं दृष्ट्वा शरभंसर्वे नृसिंह्मं इन्तुमुद्यतम्॥६१॥
बभूवुरसुरास्तत्र बलदर्पसमन्विताः।
भेनिरे निहतं सद्यो नृसिंह्मं समरुद्गणम्॥६२॥
ततस्तेनैव सहिताश्शरभेण बलोद्धताः।
निहन्तुममरान् सर्वान्पुनराजस्सुरंजसा॥६३॥
तत्र सत्यव्रतक्षेत्र काचीन्दृष्ट्वा न्तरिक्षगाः।
ससृजुश्शरजालानि शतशोथसहस्रशः॥६४॥
तेषाम्मध्ये महामायश्शंबरो नाम दानवः।
ससृजे तामसीम्मायां यया संव्याप्यते तमः॥६५॥
सर्वन्त त्तमसाकान्तं क्षेत्रं सत्यव्रतं तदा।
गाढ़ेन्धतमसि व्याप्ते नप्राज्ञायत किंचन॥६६॥
नाग्निर्जज्वाल र्वेद्यन्तर्नापि सूर्यःप्रकाशते।
न राजते शशांकोवा नदीपो वात्र दीप्यते॥६७॥
सर्वंहि तिमिराक्रान्तं जगच्च सचराचरम्।
दृष्ट्वा भीता स्तदा देवा बभूवुर्भ्रान्तचेतसः॥६८॥
तस्मिंस्तमसि सुव्यूढे दानवा व्योम्नि संस्थिताः।
नानाप्रहरणै र्घोरै रर्दयन्तिस्म सर्वतः॥६९॥
शरभोपि स्वपक्षाभ्यां नखैस्तुण्डेनचासकृत्।
अर्थयामास वेश्मौघान् रथवाजिगजानपि॥७०॥
तैरर्द्यमानाश्शस्त्रौघै स्तमसाच विमोहिताः।
कर्तव्यमूढ़ा विवशा विक्रांशन्ति सुरा स्तदा॥७१॥
चलितुं नैवशक्तास्ते नेक्षितुंवा परस्परम्।
क्रोशन्ति तत्रतत्रस्था ब्रह्माणं शरणैषिणः॥७२॥
तेर्षं विक्रोशमानानां श्रुत्वा शब्दं दिवौकसाम्।
दृष्ट्वाच तामसीम्मायां सर्वलोकनिमोहिनीम्॥७३॥
चोदितामसुरेन्द्रेण शम्बरेण दुरात्मना।
तमोभूतं जगत्सर्वं विज्ञाय चतुराननः॥७४॥
दध्यौ तदा रमानाथं निमीलितविलोचनः।
प्रयतः प्रणतो भूत्वा वध्द्वा शिरसि चाञ्जलिम्॥७५॥
नमोनन्ताय शान्ताय करुणामृतसिन्धवे।
नमः पङ्कजनाभाय परानन्दप्रदायिने॥७६॥
भव्याय भावगोप्त्रेच भयघ्नायाभयाय च।
भवबन्धच्छिदे तुभ्यं भक्तानामिष्टदायिने॥७७॥
त्राहि मां पुण्डरीकाक्ष भयादसुरजादिह।
व्यपोहय तमः क्षिप्रं येन मूढ़ा दिवौकसः॥७८॥
इतिस्तुतो जगद्धात्रा भगवान्भक्तवत्सलः
व्यपोहनाय तमसां तत्रैवाविरभूद्धरिः॥७९॥
ज्वालारूपधरो वह्नेः पातालादागतो विभुः।
जज्वालानन्तसूर्याभस्तमो धून्वन्समन्ततः॥८०॥
अधस्ताद्यज्ञशालायाः प्रज्वलन्नपि चोर्ध्वतः।
नददाह तदा शालां तदद्भुतमिवाभवत्॥८१॥
ज्वालामध्येतु पुरुषं शङ्खचक्रगदाधरम्।
रक्ताम्बरं रक्ततनुं ददृशु स्तत्र केचन॥८२॥
प्रकाशितं जगत्सर्वं यद्दीरामेन विष्णुना।
तस्माद्दीपप्रकाशाख्यां लभते पुरुषोत्तमः॥८३॥
ब्रह्मणो यज्ञशालायां हस्तिशैलस्य पश्चिमे।
हरिर्दीपप्रकाशाख्य स्तत्रास्ते मुक्तिदो नृणाम्॥८४॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये द्वादशोध्यायः॥
————
अथ त्रयोदशोध्यायः।
————
नारदः
ततो वितिमिरं व्योम दृष्ट्वा ते सुरसत्तमाः।
तत्रचै वासुरान्दृष्ट्वा संरम्भेणोद्यतायुधान्॥१॥
तथाष्टपादं शरभं विकृतं घोरदर्शनम्।
नृसिह्ममुद्यतं हन्तुं वज्रतुण्ड़नखैर्युतम्॥२॥
क्षोभयन्तं च पक्षाभ्यां पुरीं सगृहगोपुराम्।
दृष्ट्वा प्रकम्पितधियो बभूवुर्भृशदुःखिताः॥३॥
सिह्मारिश्शरभश्चापि पक्षावुद्यस्य भीषयन्।
असुराणां हितार्थाय नृसिह्मं हन्तुमभ्यगात्॥४॥
अजानन्सिह्मरूपेण तिष्ठन्तं हरिमव्यम्।
उद्यम्योग्रनखान्पादा नष्टौ पर्वतदारणान्॥५॥
आयान्तं शरभं वीक्ष्य चक्रे तत्राद्भुतं हरिः।
स्वयं चाष्टभुजो भूत्वा गरुडस्कन्धमास्थितः॥६॥
इन्तुमभ्याययौ वेगादसुरान्शरभाश्रयान्।
चक्राब्जपाशशार्ङ्गेषु गदाचर्मास्यलंकृतैः॥७॥
बाहुभिर्बद्धकेयूरैरष्टभिः परिघोपमैः।
संयुक्तश्शुशुभे श्रीमान्भुजंगैः पर्वतो यथा॥८॥
कौस्तुभाख्येन दिव्येन मणिनोरसि राजता।
किरीटेनार्कवर्णेन विरराज स्वलंकृतः॥९॥
यथा मेरुस्स्वशृंगेण बालार्कातपरंजितः।
विससर्ज शराघ्नोरान्शार्ङ्गमुद्यम्य लीलया॥१०॥
तं दृष्ट्वा दानवास्सर्वे विष्णुमुद्यम्यतमाहवे।
अर्दितास्तस्य बाणौघैः पुनस्ते दुद्रुवुर्भयात्॥११॥
शरभो ष्टभुजं दृष्ट्वा विष्णुं सर्वायुधोद्यतम्।
भीतः प्रणम्य देवेशं भक्त्या तं शरणं ययौ॥१२॥
ततः प्रणतमालोक्य शंकरं शरभाकृतिम्।
उवाचाष्टभुजो विष्णुरिदं वचनमर्थवत्॥१३॥
त्वयात्र यज्ञशालायां रक्षार्थं स्थीयतामिति।
तस्याज्ञां शिरसा धृत्वा शंकरोप्यतिहृष्टधीः॥१४॥
तत्रैव यज्ञशालायां रक्षन्पैतामहं मखम्।
इस्तिशैलस्य पश्चाद्वै वायव्यं देशमास्थितः॥१५॥
शरभेशइति ख्यातस्सर्वपापहरो हरः।
विष्णुरष्टभुजोप्यासीद्धस्तिशैलस्य पश्चिमे॥१६॥
दीपाकारस्य चाग्नेये प्रदेशे द्भुतदर्शनः।
केनचित्त्वथ कालेन विप्रः कश्चिन्महातपाः॥१७॥
आपन्नः कौंजरीं योनिमटमानो वनाद्वनम्।
तत्राभ्येत्यार्चयद्विष्णुमष्टबाहुं सरोरुहैः॥१८॥
ततः कदाचित्कमल माहर्तुमुदकस्थितम्।
तमभ्येत्याग्रहीत्पादे ग्राहः कश्चिज्जलेचरः॥१९॥
सपीड्यमानो बलिना मकरेण गजोत्तमः।
प्रपेदे शरणं देवं तत्रैवाष्टभुजं हरिम्॥२०॥
ज्ञात्वातु मकर ग्रस्तं भक्ताना मार्तिहाहरिः।
अभ्यरक्षगजेंद्रं तं हत्वा मकरमंजसा॥२१॥
गजेंद्रोपि हरिं तत्र कंचित्कालं प्रपूजयन्।
कृपया देवदेवस्य प्रपेदे परमां गतिम्॥२२॥
इत्थं पुरा विष्णुरनन्तवीर्य
स्तत्राष्टपादं शरभं निरोध्दुम्।
दरारिचर्मासिगदेषुचाप
पाशान् दधानोष्टभुजो बभूव॥२३॥
इति श्रीब्रह्माण्डपुराणे काखीमाहात्म्य त्रयोदशोध्यायः॥
————
अथ चतुर्दशोध्यायः।
————
नारदः
ततो देवर्षिगंधर्वा स्सेंद्रा स्सर्वे सभासदः।
सम्प्रहृष्टा बभूवु स्ते विद्रुतान्वीक्ष्य चा सुरान्॥१॥
शरभं चा पि संशान्तं यज्ञरक्षणतत्परम्।
देवं दीपप्रकाशं च तथैवा ष्टभुजं दरिम्॥२॥
दृष्ट्वा प्रमुदिता स्सर्वे यज्ञकर्मा रभन्त वै।
ब्रह्मापि सह तैर्विप्रै र्देवेन कृतमद्भुतम्॥३॥
दृष्ट्वा संतुष्टहृदयः पुनर्यष्टुमुपारभत्।
असुराविद्रुतास्सर्वे सर्वतश्शरविक्षताः॥४॥
मन्त्रयन्ति पुनर्मन्त्रं गत्वा विन्ध्याद्रिकन्दरम्।
कथं वयं विजेष्यामो देवानिन्द्रपुरोगमान्॥५॥
तेवै विष्णुमुपाश्रित्य सर्वान्विद्रावयन्ति नः।
विष्णुरेवेज्यते तत्र ब्रह्मणा परमेष्ठिना॥६॥
यः पुरा वंचयित्वास्मान् देवेभ्योह्यमृतं ददौ।
वंचकः पिशुनो मूर्ख स्सविष्णुर्हि सुराश्रयः॥७॥
तस्यैव बलमाश्रित्य हन्तुमिच्छन्ति नस्सुराः।
तस्मान्न योद्धुं कालो य मस्माकं त्रिदशैस्सह॥८॥
केनोपायेन विबुधा न्युद्धादन्येन सांप्रतम्।
विजेष्यामो वयं सर्वान्स उपायो विचिन्त्यताम्॥९॥
इति मन्त्रयतां तेषां श्रुत्वा वचनमर्थवत्।
कालज्ञः सम्यगालोच्य कालनेमिर्वचो ब्रवीत॥१०॥
अद्य सर्वान्सुरान्हतु मुपायश्चिन्तितो मया।
येन भग्ना भविष्यन्ति सर्वे ते दानवारयः॥११॥
तमुपायमहं वक्ष्ये शृणुध्वं दानवोत्तमाः।
आत्मपत्न्या सरस्वत्या विरुद्धः कमलासनः॥१२॥
तया विनैवाश्वमेधं कुरुते ह्यन्यया सह।
केनचित्कारणेनैषा कोपिता ब्रह्मणा पुरा॥१३॥
गता ब्रह्माणमृत्सृज्य नदीरूपात्र विद्यते।
तयाकारयितव्योद्य वधस्सर्वदिवौकसाम्॥१४॥
यन्मया व्याहृतं वाक्यं भवतां यदि रोचते।
यत्नं कुरुध्वं सहता वाण्यास्सम्बोधने धुना॥१५॥
ते सर्वे तद्वचश्श्रुत्वा तत्तथेत्यभिनन्द्य तम्।
क्षिप्रं प्रजग्मुस्तां देवीं भूत्वावै विप्ररूपिणः॥१६॥
गंगायमुनयोस्संगे वायव्ये तां सरस्वतीम्।
नदीरूपां तदा दृष्ट्वा तुष्टुवुर्विविधैस्तवेः॥१७॥
नमस्ते देवि कल्याणि नमस्ते करुणाकरे।
नमस्ते त्रिजगद्वन्धे प्रसन्ना भव नश्शुभे॥१८॥
त्वं चक्षु सर्वलोकानां त्वं मतिर्धृतिरेवच।
त्वंविद्या त्वं स्मृतिश्शांतिस्त्वं वाक्प्रज्ञाच देहिनाम्॥१९।
त्वं हविस्त्वं वषट्कारस्त्वं स्वाहात्वं स्वधा तथा।
त्वमेव देवि च्छन्दांसि ज्योतींषिच जगत्त्रये॥२०॥
स्थावरं जगभंचापि भूतं भव्यं भवच्चयत्।
सदेवासुरगन्धर्वं त्वमेव सकलं जगत्॥२१॥
त्वां स्तोतुं न समर्थाः स्मो वयमत्यल्पमेधसः।
त्वमस्मान्कृपया सर्वा न्कटाक्षेणावलोकय॥२२॥
इति स्तुता तदा वाणी देतेयैः कामरूपिभिः।
साच सद्यस्स्वुतिप्रीता तेषां दृष्टिपथं ययौ॥२३॥
उवाच सम्यक्तान् ज्ञात्वा दैवेयान्विप्ररूपिणः।
सरस्वती।
प्रसन्नाहं द्विजश्रेष्ठाः स्तोत्रैर्भक्तिसमन्वितैः॥२४॥
वरं वृणीध्द्वं भद्रं वो यदर्थं मामुपागताः।
इत्युक्तास्ते सरस्वत्या प्रोचुः प्राञ्जलयो सुराः॥२५॥
त्वद्भक्ताहि वयन्देवि त्वामदृष्ट्वा सुदुःखिताः।
अदृश्या त्वं क्ववा याते त्यनुचिन्त्य मुहुर्मुहुः॥२६॥
अटमाना जगत्सर्व दुःखेन त्वां विचिन्महे।
एतस्मिन्नेव कालेतु यष्टुकामेन वेधसा॥२७॥
यज्ञार्थं वयमाहूता देवाश्चान्ये महर्षयः।
देवि सत्यव्रतेक्षेत्रे यजते किल पद्मभूः॥२८॥
तव दर्शनमस्माकं तत्रनूनं भवेदिति।
निश्चित्य मनसा सर्वे तव दर्शनकांक्षिणः॥२९॥
वयं सत्यव्रतं गत्वा यज्ञशालां प्रविश्य च।
तत्र सर्वामरगणा न्पश्यामो भवतीं विना॥३०॥
समागतेषु चास्मासु त्वद्भक्तेषु विशेषतः।
धर्मपत्नीं विहायत्वां धाता य ष्टुस्पचक्रमे॥३१॥
सावित्रीहि तवस्थाने ऋषिभिश्चोपवेशिता।
त्वामेव केवलं तत्र धिक्कुर्वन्ति सुगदयः॥३२॥
वयं कथं तत्र देव्या यशःपरिभवे कृते।
सोढुं विशक्तुमो देवि त्वद्भक्ता वरवर्णिनि॥३३॥
तद्दृष्ट्वाच वयं क्रुद्धाः प्रतिकर्म चिकीर्षवः।
निवेदयितुकामाश्च त्वत्समपिमिहागताः॥३४॥
प्रमाणमिह देवित्वं कर्तव्यं यदनन्तरम्।
त्वया देवा निहन्तव्या इत्येवं प्रतिभातिनः॥३५॥
अपकारप्रतीकार स्सतां सर्वत्र सम्मतः।
अपकारः कृतस्तेन विधात्रा त्वयि भामिनि॥३६॥
नारदः।
इत्युक्ता दानवैर्देवी तथैत्याह सरस्वती।
ततस्ते समनुज्ञाताः प्रययुस्सुरशत्रवः॥३७॥
ततो देवी भृशं क्रुद्धा सह्यं शैलमुपायौ।
तस्माच्छैलाद्विनिष्क्रम्य क्षेत्रे सत्यव्रते मखम्॥३८॥
गत्वासा स्रोतसो वेगा देच्छत्प्लावयितुंकिल।
अम्बरीषः।
किमर्थं मुनिशार्दूल पुरा रुष्टासरस्वती॥३९॥
नदीरूपधरा देवी गताचो त्सृज्य वेधसन्।
केन वा कारणेने यं जगत्पूज्या सरस्वती॥४०॥
विरोध मगम त्पत्या ब्रह्मणा परमेष्ठिना।
हन्तु मप्युद्यता देवा न्बभूव दितिजैस्सह॥४१॥
प्रारम्भ मश्वमेधस्य जेष्ठां पत्नीं सरस्वतीम्।
किं माहूय विधिश्चक्रे किं वा ना हूय पद्मभूः॥४२॥
विग्रह त्स्वनयो र्ब्रह्म न्दृश्यते सुमद्दा निव।
ना ल्पेन कारणेनायं विग्रहः प्रतिभाति मे॥४३॥
एत दिच्छाम्य हं श्रोतु वक्तुमर्हसि मेमुने।
सूत्रः
तस्य तद्वचनं श्रुत्वा नारदो भगवा नृषिः॥४४॥
विधिवाण्यो र्विरोधस्य कारणं वत्कु मारभत्।
नारदः
कदाचि न्मेरुशिखरे सभायां कमलासनः॥४५॥
उपविष्ट स्सरस्वत्या सार्धं देवगणै रपि।
उपासते च त न्देवं तत्र ब्रह्मर्षयो पि च॥४६॥
गायन्ति तत्रगंधर्वा नृत्यन्त्यप्सरसांगणाः।
तस्मि न्काले समाजस्तु र्मुनय स्तत्र केचन॥४७॥
वाणीभक्ता श्श्रियोभक्ता इति द्वेधा द्विजातयः।
वाणी मेवो त्तमा ङ्केचि द्वदन्त्यन्ये श्रियं तथा॥४८॥
वाग्भक्तास्ताम्प्रशंसन्ति श्रीभक्ताश्श्रियमेव हि।
प्रष्टुकामाश्चतुर्वक्त्रं विवदन्तः परस्परम्॥४९॥
ते दृष्ट्वा ऋषयस्सर्वे सभायां पद्मसम्भवम्।
नत्वा प्रांजलयस्तत्र पप्रच्छुर्विनयान्विताः॥५०॥
वयमत्रागता ब्रह्मन्प्रष्टुकामा यथातथम्।
का श्रेष्ठा श्रीसरस्वत्योरेतन्नः कथ्यतामिति॥५१॥
तैश्च पृष्टस्तदा ब्रह्मा संदिहानैर्द्विजोत्तमैः।
प्रोवाच निश्चयं तेषां सर्वलोकोत्तमां रमां॥५२॥
ईशाना सर्वलोकस्य विष्णुपत्नी जगत्प्रसूः।
मदादिसर्वदेवानामाधारा चाधिदेवता॥५३॥
ततो लक्ष्मीसमा नास्ति सैव सर्वोत्तमा मता।
वाणी तद्वचनं श्रुत्वा सव्रीला वाक्यमब्रवीत्॥५४॥
मम शैष्ठ्यं नदीभ्योवा प्रयच्छ कमलोद्भव।
त्वत्प्रसादान्नदीश्रेष्ठां सर्वे सम्भावन्तु माम्॥५५॥
इति संप्रार्थितो वाण्या तामनादृत्य पद्मभूः।
सुनीनां शृण्वतां तत्र तद्भक्तानांच सन्निधौ॥५६॥
निर्भत्स्य वाणीं सङ्कुद्ध इदं वचनमब्रवीत्।
श्रेष्ठा सर्वनदीनांश्च गंगा विष्णुपदोद्भवा॥५७॥
विष्णुपादोदकसमं नभूतं नभविष्यति।
ततो वाणी भृशं क्रुद्धा ब्रह्मणा परमेष्ठिना॥५८॥
भक्तानाम्पुरतस्स्वेषः मेवं परिभवे कृते।
सद्यः प्रणम्य धातारं समुत्थाय वरासनात्॥५९॥
अन्तर्धानं गता देवी प्राप्ता भूतल मंजसा।
गङ्गायमुनयो स्संगे स्वांशभूतां नदीं तदा॥६०॥
प्रविश्य वाणी राजेंद्र तत्रैव न्यवस च्चिरम्।
यदा श्वमेध माहर्तु मारभत कमलासनः॥६१॥
तदा त मृचु स्सहिता स्सर्वे षोडश ऋत्विजः।
आहूयता मिह ब्रह्मं स्तव पत्नी सरस्वती॥६२॥
समागतायां तस्यां हि कर्तव्यं यदनन्तरम्।
अत आहूयतां क्षिप्रं यज्ञे पत्नी सरस्वती॥६३॥
इति तेषां वच श्श्रुत्वा यष्टुकामः पितामहः।
वसिष्ठं प्रेषयामास वाणी मानेतु मंजसा॥६६॥
गत्वा तत्र बलिष्ठोसौ दृष्ट्वा देवीं प्रणम्य च।
स्तुत्वा ब्रह्मण आदेशं तस्यै सर्वं व्यजिज्ञपत्॥६५॥
नायास्यामी तिचाप्युक्तो वाण्या सङक्रुद्धया तया।
ततः प्रणम्य तां देवीं पुन र्गत्वा यथागतम्॥६६॥
न्यवेदयद् ब्रह्मऋषि स्तत्सर्वं ब्रह्मणे तदा।
वसिष्ठवचना ज्ज्ञात्वा कुद्धां वाणी प्रनागताम्॥६७॥
त मृचु र्मुनय स्सर्वे ब्रह्माणं ब्रह्मवादिनः।
भगव न्भर्तु राज्ञां या समुल्लंघितु मिच्छति॥६८॥
तस्या त्यागे न दोष स्स्या दिति वेदानुशासनम्।
धर्मविघ्नकरीं भायां मसती ञ्चातिकोपनाम्॥६९॥
त्यजेद्धर्मस्य रक्षार्थं तथैवाप्रियवादिनीम्।
नागता खलु सा देवी धर्मपत्नी सरस्वती॥७०॥
सावित्री कल्प्यतामद्य पत्नीत्वे तव पद्मज।
इत्युक्तो मुनिभिर्ब्रह्मा तथेति प्रीतमानसः॥७१॥
सावित्रीं कल्पयामाख पत्नीत्वे यज्ञकर्मणि।
एतत्ते कथितं राजन्वाण्याः कोपस्य कारणम्॥७२॥
ततस्तमुत्सृज्य विधिस्सरस्वती
मनागतामध्वरकर्मदीक्षितः।
चकार यज्ञं विधिवत्तया विना
जनार्दनविक्षणसौख्यलालसः॥७३॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये चतुर्दशोध्यायः॥
————
अथ पंचदशोध्यायः।
————
अम्बरीषः।
सम्प्रेरिता दानवेंद्रैर्भखभंगाय वेधसः।
दत्वा चैवाभयन्तेषां संक्रुद्धा सा सरस्वती॥१॥
सह्यपर्वतमासाद्य ततः किमकरोन्मुने।
चरितं मे सरस्वत्या वक्तुमर्हस्य शेषतः॥२॥
नारदः।
सोपत्यकायानिर्गत्य वेगात्सह्याख्यभूभृतः।
प्रलयाम्बुधिवद्घोरं गर्जमाना भयंकरी॥३॥
प्रययौ प्राङ्मुखी रोषा त्क्षेत्रं सत्यव्रतं प्रति।
महता स्रोतसा सर्वान् साचलग्रामकाननान्॥४॥
प्लावयन्ती भुवो भागां स्तत्र तत्र पुरःस्थितान्।
उत्पतद्भिः पतद्भिश्च कल्लोलैरचलैरिव॥५॥
संक्षुब्धार्णवसंकाशै घोषवद्भिस्समन्ततः।
लेलिहानेव सकलं जगज्जनसमाकुलम्॥६॥
अवलेपभराक्रान्ता भीमवेगा सरस्वती।
प्रेरिता दानवै स्सम्य क्पारिप्लवगतै स्तदा॥७॥
सयज्ञशालं सपुरं सनागाचलकाननम्।
सदेवऋषिगन्धर्वं क्षेत्रं सत्यव्रताभिधम्॥८॥
वेगेन स्रोतसो गृह्य पूर्वाब्धिम्प्रविशाम्यहम्।
इति निश्चित्यमनसा वेगादागात्मकोपिता॥९॥
तस्याः कल्लोलवेगेन वृक्षाश्चोन्मूलिताः पथि।
विधूयमानाश्शोभन्ते वायुनेव महाम्बुदाः॥१०॥
वेगेनोन्मूलितास्तस्याः पुरग्रामव्रजादयः।
जन्तवोपि मनुष्याद्याः पीड्यन्ते प्रलये यथा॥११॥
सां भीषयन्ती भुवनं गर्जन्तीच मुहुर्मुहुः।
व्याघूर्णिततरंगौघा व्याक्षिपन्तीव पर्वतान्॥१२॥
क्वचिद्द्रुततरं याति क्वचिद्याति शनैरशनैः।
क्वचित्संकुचितं याति कुटिलं क्वचिदायतम्॥१३॥
खलिलेनैव सलिलं समाहत्य क्वचित्क्वचित् \।
क्वचिच्चाचलसंघर्षा दुक्षिपन्त्यूर्ध्वमम्बरे॥१४॥
एवं सा प्रययौ वेगा त्तदा सत्यव्रतं प्रति।
प्रलयाम्बुधिसंकाशामायान्ती योजनोन्नताम्॥१५॥
योजनत्रयविस्तीर्णां गर्जन्तीं प्रेक्ष्य तां नदीम्।
किमेतदिति सम्भ्रान्ता स्वत्यव्रतनिवासिनः॥१६॥
जनास्सर्वेभयाक्रान्ता यज्ञशालां प्रपेदिरे।
ततस्ते मुनयो देवा येच तत्र सभासदः॥१७॥
यक्षविद्याधरास्सर्वे सम्प्रतस्थुर्भयान्विताः।
घोररूपां नदीन्दृष्ट्वा ब्रह्माणंशरणंययुः॥१८॥
प्रपच्छुश्च मयोद्विग्नः कारणं प्रलयागमे।
त्वमेव सर्व जानासि ब्रूहि नो भुवनेश्वर॥१९॥
आगतः प्रलयः कोवा जलंस्सम्प्लावयन् जगत्।
रक्षास्मान्प्रलयादस्मात्त्वं हि नः परमा गतिः॥२०॥
किमतदसुरैस्सृष्टा मायावा नः प्रबाधितुम्।
भाययांधतमस्सृष्ट्वा पुरास्मान्येह्यबाधयन्॥२१॥
त एवाद्यदृशीम्माया मसृजन्वा किमद्भुताम्।
ज्ञात्वतदखिल सर्वां स्त्रातुमर्हति नो भवान्॥२२॥
इत्युक्तस्तैस्तदा ब्रह्मा यजमानो जनार्दनम्।
ध्यात्वा विज्ञाय तत्सर्वमसुराणां विचेष्टितम्॥२३॥
दृष्ट्वा वाणीञ्च सङ्क्रुद्धां मखभंगार्थमागताम्।
विज्ञाय प्राणिपीडांच चिन्तयामास पद्मभूः॥२४॥
यद्येतद्वारयिष्यामि शापं दत्वा प्रकोपितः।
कोपस्य नहिकालोयं दीक्षितस्य मखे मम॥२५॥
तस्माद्व्रजामि शरणं देवदेवं रमापतिम्।
इति निश्चित्य मनसा वद्धांजलिपुटो ब्जभूः॥२६॥
अनन्यगतिरीशानङ्केशवं शरणं ययौ।
हृत्पुण्डरीकमध्यस्थं योगिध्येयं निरंजनम्॥२७॥
तदा तुष्टाव वरदं प्रणतार्तिहरं हरिम्।
पाहि मां पुण्डरीकाक्ष प्रणतं शरणागतम्॥२८॥
पिता माताच बन्धुश्च त्वमेव मम केशव।
सुहृद्धनानि रत्नानि विविधानि त्वमेव मे॥२९॥
दुःखशोकभयार्तानां त्वमेव गतिरव्यय।
त्वामेव शरणं यांति योगिनो वीतकल्मषाः॥३०॥
नैव त्वद्भक्तियुक्तानामशुभं विद्यतै क्वचित्।
ततो मां रक्ष देवेश भयादस्मादुपस्थितात्॥३१॥
इति बद्ध्वांजलिं मूर्ध्नि सम्मील्य नयने उभे।
मनसा देवमीशानं प्रध्यायति विधातरि॥३२॥
तत्र सर्वेषु भीतेषु क्षेत्रे सत्यव्रते तदा।
आविरासीज्जगन्नाथस्तां निरोद्धुं सरस्वतीम्॥३३॥
रक्षणार्थंच यज्ञस्य भक्तानामिष्टदो दरिः।
सत्यव्रतस्य क्षेत्रस्य सीमांत पंचयोजने॥३४॥
प्रतीच्यां हस्तिशैलस्य दिशि बीजगिरेरधः।
दक्षिणोत्तरतस्तिर्यक्छिश्ये सेतुरिवाद्भुतः॥३५॥
शङ्खचक्रधरः श्रीमान्पीतवासा जगत्पतिः।
शयानश्शेषपर्यंके ददृशे चलसन्निभः॥३६॥
तं दृष्ट्वा चलसंकाशं शयानं हरिमग्रतः।
निर्वेगा स्तंभिता चाभून्मुहूर्तं सा सरस्वती॥३७॥
बीजाद्रेरुत्तरं देशे यतश्शिश्ये जनार्दनः।
अतस्तं शयनेशाख्यं प्रवदन्ति मनीषिणः॥३८॥
ततस्वरस्वती स्थित्वा क्षणं तत्र व्यचिन्तयत्।
मां निरोद्धुमयं शेते ब्रह्मणा संस्तुतो हरिः॥३९॥
मया वचयितव्योयमिति निश्चित्य चांजसा।
अदृश्याभूत्तदा भूमौ सद्यस्संशोषितोदका॥४०॥
अदृष्ट्वा तत्र दैतेया नदीं संशोषितोदकाम्।
शयानंच हरिं दृष्ट्वा पातालं दुद्रुवुर्भयात्॥४१॥
याभूदन्तर्हिता भूम्यां शयनेशस्य पश्चिमे।
सा नदी शयनेशानं वचयित्वा तदा हरिम्॥४२॥
अन्तर्भूमिचरा भूत्वा शयानस्यहरेरधः।
मार्गेण तं समुल्लंघ्य निर्गता तस्य पूर्वतः॥४३॥
भित्वा भूमिं पुनर्वेगाद्विनिष्क्रम्य महानदी।
क्षणात्सत्यव्रतस्यान्तः प्रविवेश सरस्वती॥४४॥
तदद्भुतं सरस्वत्या ददृशुस्तर्वतस्सुराः।
यस्मादन्तर्हिता भूत्वा सा सद्यः पुनरुत्थिता॥४५॥
यत्रोत्थिता भवद्वेगाद्धरां भित्त्वा सरस्वती।
तत्र तीर्थमभूद्राजन्नाम्ना सारस्वतं शुभम्॥४६॥
शयनेशस्य चैशान्ये प्रदेशे पुण्यवर्धनम्।
ततस्वरस्वतीं वीक्ष्य शयनेशो हरिस्तदा॥४७॥
कथं मां वंचयित्वेयमितः प्राचीं दिशंगता।
भूम्यामन्तर्हिता दृष्टामम पश्चिमतो धुना॥४८॥
सत्यव्रतं प्लावयन्ती प्रसिद्धाकिल वेगतः।
विहिंसन्ती जनान्यावद्यज्ञशालां विशेदियम्॥४९॥
तावदेषा निरोद्धव्या मया यज्ञंहि रक्षता।
इति संचिन्य मनसा त्वरमाणो हरिस्तदा॥५०॥
स्वयंच लीलां देवेश स्वरस्वत्यै निदर्शयन्।
सरस्वत्याश्च पुरतः पुनश्शिश्ये जनार्दनः॥५१॥
पश्चिमे हस्तिशैलस्य प्रदेशे क्रोशपंचके।
स शेषशयनो भूत्वा ददृशे गिरिराडिव॥५२॥
प्रलयाब्धिसमा रोद्धुं नदीं शिश्ये यतो हरिः।
अतस्तमाहुर्मतुजा नाम्ना प्रलयरोधकम्॥५३॥
सरस्वती हरिन्दृष्ट्वा शयानं पुरतः पुनः।
तांच दृष्टा हरेर्लीलामासीदंतर्हिता पुनः॥५४॥
चिंतयामास संहृष्टा भूमावन्तर्हिता स्थिता।
अत्राश्वमेधं विधिव त्कृत्वा क्षेत्रे सुपावने॥५५॥
द्रष्टुमिच्छति यं देव श्रमेण कमलासनः।
तमेवानश्वमेधाह मपश्यं हरिमव्ययम्॥५६॥
दैतयैर्बोधिताया मे यज्ञन्न्या अपि केशवः।
आगतायाः प्रसन्नो भू त्सद्यः क्षेत्रानुभावतः॥५७॥
सत्यं सत्यव्रतक्षेत्रं विष्णुप्रियमसंशयम्।
यद्रोषादागतायामे रोषोप्यासीन्मखोपमः॥५८॥
अहम्पूर्वं समाहूता थज्ञार्थं ब्रह्मसुनुना।
यद्यहं चागतात्र स्यां नैवपश्यामि केशवम्॥५९॥
विदित्वा किल मामद्य मखभंगार्थमुद्यताम्।
दर्शयामास मे रूपं कृपया पुरुषोत्तमः॥६०॥
मया दुर्मेधया दृष्टो हरिस्त्रोतस्स्वरूपया।
नैवासोद्वन्दितो भक्त्या नच वाचापि संस्तुतः॥६१॥
नच प्रायत्यत मया स्तोतुं वा वन्दितुं तथा।
तस्मादतर्हितैवाहामतो गत्वा मखालयम्॥६२॥
तत्राह कुण्डमध्यात्तु बहिर्निगत्य ऋत्विजः।
अल्मम्बुधारया सर्वान्मीषयामि सभासदः॥६३॥
ते भीतास्तत्र मां दृष्ट्वा याम्यन्ति शरणं हग्मि।
तत्रासौ मन्निरोधार्थमेव प्रादुर्भविष्यति॥६४॥
तं दृष्ट्वा देवदेवेशं समुत्सृज्यौदकींतनुम्।
योषिद्रूपधरा भूत्वा स्तौमिवन्दामि केशवम्॥६५॥
इति सचित्य मनसा देवी ध्यात्वाच केशवम्।
तस्मै स्वचिन्तितं सर्वं निवेद्याभिप्रणम्यच॥६६॥
यास्यामि शालां देवेश तत्र मे देहि दर्शनम्।
इत्युक्त्वा जलरूपा सा ऽगादन्तर्भूचरैवहि॥६७॥
तदा तत्र सरस्वत्या स्सप्तस्रोतांसि जज्ञिरे।
अन्तर्भौमेन मार्गेण क्षणेन मखमागता॥६८॥
एकेन स्रोतसा देवी तत्र कुण्डाद्विनिर्गता।
आसीद्विप्लावयन्तीव वेगात्सर्वान्सभासदः॥६९॥
उद्वीक्ष्य यज्ञशालाया मध्ये कुण्डाद्विनिर्गताम्।
तोयधारां सरस्वत्या स्तत्र सर्वे दिवौकसः॥७०॥
किमेतदिति सम्भ्राता बभूवुर्भयकम्पिताः।
चतुर्मुखमुखास्सद्यश्शरणं जग्मुरच्युतम्॥ ७१॥
त्राहि नः पुण्डरीकाक्ष भयादस्मादुपस्थितात्।
त्वन्नायकां स्त्वत्प्रतीक्षां स्त्वामेव यजतो ध्वरे॥ ७२॥
त्राठुमर्हति कोवान्य स्त्वां बिना भुवनत्रये।
यतः प्रपन्नास्त्वामेव प्रणतार्तिहरं वयम्॥७३॥
अतस्त्वमेत्य तरसा रक्षास्मा न्मधुसूदन।
इत्थं सम्प्रार्थितो देवैर्भगवान् भक्तवत्सलः॥७४॥
आविर्बभूव सहला शंखचक्रगदाधरः।
शयानश्शोषपर्यंके कुन्देन्दुसदृशप्रभे॥७५॥
नवनीलाम्बुदश्यामः पीतवासा जगत्पतिः।
प्रदेशे यज्ञशालाया हस्तिशैलस्य पश्चिमे॥७६॥
यत्रोत्थिता चाग्निकुण्डा त्तोयरूपा सरस्वती।
तं दृष्ट्वा सम्पहृष्टास्ते देवा विगतसाध्यस्राः॥७७॥
ब्रह्माणमग्रतः कृत्वा तुष्टुवुर्मधुसूदनम्।
ततस्वरस्वती हृष्टा द्रष्टुक्रामा जगत्पतिम्॥७८॥
योषिद्रूपधरा देवी तस्मात्कुण्डाद्विनिर्गता।
दिव्याभरणसम्पन्ना शुभ्रमाल्याम्बरावृता॥७९॥
दृष्ट्वा प्रणम्य देवेशं हर्षोत्फुल्लाननाम्बुजा।
बद्धांजलिपुटा भूत्वा पादभागे स्थिता हरेः॥८०॥
तृष्टाव देवमीशानं ह्रिया किंचिदवाङ्मुखी।
सरस्वती।
नमस्ते देवदेवेश नमस्ते करुणाकर॥८१॥
पाहि मां त्वं जगन्नाथ प्रणतां भक्तवत्सल।
त्वमनादिरनन्तश्च त्वमनिर्देश्य एवच॥८२॥
अदृश्य स्सर्वभूताना मवाङ्मनसगोचरः।
केवलं कृपया मह्यं रूपं दर्शितवानसि॥८३॥
मया दुर्मेधया पूर्व मज्ञानादवछिप्तया।
द्विवारमिद दृष्टोपि नभवानभिवन्दितः॥८४॥
कृतापराधां भगव न्मामद्य शरणागतां।
करुणारसपूणाभ्यां लोचनाभ्यां विलोकय॥८५॥
इति स्तुत स्सरस्वत्या भगवा न्भक्तवत्सलः।
उवाच कृपयो द्वीक्ष्य वाणीम्मन्दस्मितो हरिः॥८६॥
वत्से वाणि नभेतव्यं त्वया मद्भक्तया धुना।
तवाहं सुप्रसन्नास्मि नापि मे पकृतं त्वया॥८७॥
अहं ते सम्प्रयच्छामि कांक्षितंवरमुत्तमम्।
मत्पादजायः गंगाया अपि ते श्रेष्ठ्य मुत्तमम्॥८८॥
दत्तं मया धुना क्षेत्रे मदीयेपुण्यवर्धने।
यस्मा द्वेगा दनुप्राप्ता क्षेत्रं सत्यव्रतं प्रति॥८९॥
तस्मा द्वेगवती त्याख्यां लब्ध्वा वस मदाज्ञया।
अहंचा प्युत्तरे तीरे तब वत्स्यामि शोभने॥९०॥
त्वया विचिंतयन्त्या मा मुक्तः पूर्व महं यथा।
यास्यामि शालां देवेश तत्रदेहीति दर्शनम्॥९१॥
तथा त्वयो क्तवाक्येन कृतं कार्यं मयायतः।
अतो यथोक्तकारीति नाम्ना हं प्रथितोभुवि॥९२॥
वत्स्याम्यत्र चिरं कालं तव प्रियचिकीर्षया।
त्वं चासि निर्गतायस्मा त्कुण्डा न्मां द्रष्टुमुत्सुका॥९३॥
तत्पुण्यं कुण्डतीर्याख्यं भूया न्मुक्तिप्रदं नृणाम्।
मया ह्युत्तमता दत्ता जाह्नव्या अपि ते शुभे॥९४॥
तद्गच्छ ब्रह्मणा सार्धं मामिहा र्चितु मर्हसि।
इति लब्धवरा देवी वाणी सम्पूर्णमानसा॥९५॥
हृष्टा प्रमुदिताचैव तथा संशान्तमानसा।
तं प्रणम्य हृषीकेशं ब्रह्माणं द्रष्टुमभ्यगात्॥९६॥
दत्वा वरं पद्मभुवो महिष्ये
देवोपि तत्रैव यथोक्तकारी।
आसीच्छयानो भुजगेन्द्रतल्पे
सम्पूज्यमानस्सुरसिद्धसंषैः॥९७॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये पंचदशोध्यायः॥
————
अथ षोडशोध्यायः।
————
ततो लब्धवरान्दृष्ट्वा मुकुन्देन सरस्वतीम्।
संप्रणम्य तदा देवाः प्रह्वाः प्राञ्जलयो ब्रुवन्॥१॥
स्वागतं ते महादेवि दिष्ट्या प्राप्तासि सुव्रते।
दिष्ट्या भवत्या देवोपि वीक्षितः कमलापतिः॥२॥
दिष्ट्या दत्तवराचासि देवेन परमात्मना।
दिष्ट्या वयं कृतार्थास्मः सर्वे संदर्शनात्तव॥३॥
अम्ब त्वमागता हर्षाद्भागधेयेन नस्त्विह।
त्वया हीनो विधिरभूज्ज्योत्स्नाद्दीन इवोडुराट्॥४॥
तस्मादितस्त्वमभ्येत्यद्रष्टुमर्हसि वेधसम्।
ध्यायन्तं परमात्मानं त्वद्दर्शनसमुत्सुकम्॥५॥
इति स्तुता देवगणैस्तैश्च सर्वैर्महर्षिभिः।
संवीज्यमाना गंधर्वैश्चामरव्यजनैरपि॥६॥
गच्छन्ती ब्रह्मसविधं विरराज सरस्वती।
नखदीधितिसंदोहृराजत्पादांगुलीयका॥७॥
क्वणत्कनकमंजीर रंजितांघ्रिसरोरुहा।
सूक्ष्मशुक्लाम्बरधरा विलसद्रत्नमेखला॥८॥
रत्नग्रैवेयकेयूर कङ्कणांगदभूषिता।
रत्नताटङ्कविलस त्कपोलद्वयशोभिता॥९॥
नभस्युदितशुक्राभ नासामौक्तिकभूषिता।
अष्टमीचन्द्रविभ्राज दलीकस्थलशोभिता॥१०॥
बंधुकसुमसंकाश सिंदूरतिलकांकिता।
बालार्कबिंबवद्भ्राजच्छिरोमणिविभूषिता॥११॥
सा नीलकेशी विंबोष्टी पद्मपत्रनिभेक्षणा।
मरालीमन्दगमना मन्दाक्षावनतानना॥१२॥
एवं सरस्वती गत्वा समीपं पद्मजन्मनः।
ववन्दे चरणौ तस्य भक्त्या परमया युता॥१३॥
तदब्रह्मर्षयस्सर्वे प्रणतां पद्मयोनये।
निवेदयन्ति तां देवीमागतां यज्ञसंसदि॥१४॥
तेषां तद्वचनं श्रुत्वा दृष्ट्वाच प्रणतां प्रियाम्।
स्वयमेवागतां हर्षात्तुतोषात्यन्तमब्जभूः॥१५॥
उवाच वचनंचापि हर्षपर्याकुलेक्षणः।
उत्तिष्ठोत्तिष्ठ भद्रं ते स्वागतं वरवर्णिनि॥१६॥
दिष्ट्या चिरादपश्यन्त्वामिह भद्रे समागताम्।
दिष्ट्या देवस्त्वया दृष्टश्शंखचक्रगदाधरः॥१७॥
दिष्ट्या दत्तवराचासि देवेन परमात्मना।
दिष्ट्यामे सफलो यज्ञो बभूवागमनात्तव॥१८॥
इति प्रशस्य तां देवीं परिगृह्यच पाणिना।
उपोपावेशयद्ब्रह्मा सभायां परमासने॥१९॥
तदा दृष्ट्वा सरस्वत्या सहितं पद्मसम्भवम्।
देवास्सऋषिगन्धर्वा बभूवुर्हृष्टमानसाः॥२०॥
याश्चान्या ब्रह्मणः परत्न्यस्सवित्र्याद्यास्सरस्वतीम्।
दृष्ट्वा प्रणम्य हर्षेण परिष्वक्तास्तया पुनः॥२१॥
मुमुहुर्यज्ञशालायामत्यन्तं नृपसत्तम।
ततो निरीतिका दृष्ट्वा दिशस्सर्वास्समन्ततः॥२२॥
विद्रुतानसुरांश्चापि वीक्ष्य भग्नमनोरधान्।
संहृष्टा ऋत्विजस्सर्वे सहिताः पद्मयोनिना॥२३॥
पंचमे दिवसे राजन्पुनर्यष्टुमुपारभन्।
सच सार्धं सरस्वत्या हयमेधं पितामहः॥२४॥
चकार विधिव त्तत्र क्षेत्रे सत्यव्रते पुनः।
तदा ते ऋत्विजस्सर्वे परिक्रामन्ति शास्त्रतः॥२५॥
हुत्वा व्याहृतिभिस्सभ्य ग्यथाशास्त्रं यथाविधि।
प्रातस्सवनपूर्वाणि चक्रुस्सर्वे द्विजातयः॥२६॥
नियुक्ता ब्रह्मणा तत्र सेंद्रास्सर्वे दिवौकसः।
ब्राह्मणान्पूजयामासु स्सर्वतस्समलंकृताः॥२७॥
विविधैर्भक्ष्यभोज्यैश्च मिष्टैरन्नचश्च पुष्कलैः।
पुष्पचन्दनताम्बूलै र्वस्त्राभरणकांचनैः॥२८॥
गोभिरश्वैर्गजैश्चापि धनैर्धान्यैरजाविकैः।
मुक्तानांच मणीनांच रौप्यकाणांच वाससाम्॥२९॥
दृश्यन्ते राशयस्तत्र दीयमानास्समन्ततः।
दत्तानां दास्यमानानां ब्राह्मणेभ्यस्सहस्रशः॥३०॥
अत्रकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः।
तथैव पयसां दध्नां मधुपायससर्पिष म्॥३१॥
ह्रदास्तत्र प्रदृश्यन्ते दिवसे दिवसे नवाः।
ब्राह्मणाभुंजते नित्यं सर्वेचैवेतरे जनाः॥३३॥
स्त्रियोबालाश्च वृद्धाश्च पशवः पक्षिणोपिच।
अनिशं भुंजमानानां नतृप्तिरुपपद्यते॥३३॥
दीयतां दीयतामन्नं वासांस्याभरणानिच।
इति विक्रोशतां शब्दश्श्रूयतेहि दिवौकसाम्॥३४॥
सर्वे सम्पूजितास्सम्यग्बभूवुर्हृष्टमानसाः।
विशेषतोहि विप्रेन्द्राः पूजितास्तुष्टुवुर्विधिम्॥३५॥
दिवसे दिवसे तत्र ऋत्विग्भिश्चेष्टकाश्चिताः।
यूपास्स्वलंकृतास्सर्वे वस्त्रैः पुष्पैश्च चन्दनैः॥३६॥
बद्धाश्च पशवस्सम्यक्संस्कृताश्च स्वलंकृताः।
पशून् संज्ञपयन्ति स्म स्नपयित्वा विशेषतः॥३७॥
जुह्वन्ति ते वषट्कारैऋत्विजोथ हवींषिच।
ततस्सर्वेषु पशुषु हूयमानेषु पद्मभूः॥३८॥
तत्सर्वं विष्णुवइदमिति तस्मै न्यवेदयत्।
सएवकिल जग्राह वेद्यामग्नौ स्थितो हरिः॥३९॥
हवींषि मन्त्रपूतानि धातुः प्रियचिकीर्षया।
एवं कृत्वा विधानेन सर्वे तेषोडशर्त्विजः॥४०॥
द्वादशेहनि संप्राप्ते प्रयाताः प्रातरुत्थिताः।
प्रधाने वैष्णवेयूपे बबन्धुस्तुरगोत्तमम्॥४१॥
पवित्रपाशैरासक्तमश्वरत्नं विदार्यतम्।
वपां संगृह्यचाश्वस्य होमार्थं परमात्मनः॥४२॥
कृत्वा सुपूरां घृतां स्रुवे निक्षिप्य तां वपाम्।
आश्रावयेति चोढ्घुष्य वसिष्ठे होतुमुद्यते॥४३॥
ऋज्यजुस्सामघोषैश्च समुत्तस्थौ महान् स्वनः।
अभूदुद्घोषितं तेन सर्वं ब्रह्माण्डमण्डलम्॥४४॥
तदाध्वर्युः प्रसन्नात्मा संस्मरत्मनसाच्युतम्।
जुहाव चाग्नौ विधिव त्पावनीं वैष्णवीं वपाम्॥४५॥
यजमान स्तदा ब्रह्मा ध्यायन्विष्णुम्मखानले।
तस्मै निवेदयामास तां वपां परमात्मने॥४६॥
वासुदेवो जगद्योनि र्विष्णुर्नारायणो हरिः।
अनया वपया सद्यः प्रीयतां भगवानिति॥४७॥
तस्मिन्काले ववौ वायुः पुण्यगन्धवहश्शुचिः।
सरांसि विमलाम्भांसि सद्यश्च विमलोदकाः॥४८॥
आसन्मनांसि हृष्टानि तदा सर्वदिवौकसाम्।
ततो विज्ञानवेद्यन्त र्वह्निमध्यात्सुभास्वरम्॥४९॥
समुत्थितमभूद्राज न्विमानमतुलप्रभुम्।
अयुतादित्यसंकाशै रत्नशृङ्गैरलंकृतम्॥५०॥
येन प्रद्योतितमभू ज्जगद्धि सचराचरम्।
अभिभ्रंश्चैव रूपाणि रुचिराणि दिवौकसः॥५१॥
तत उत्तस्थुरव्यग्रा स्सर्वे प्रांजलयस्सुराः।
ऋत्विजश्च स्वकर्माणि समुत्सृज्य ससंभ्रमाः॥५२॥
तत्र मध्ये विमानस्य हस्तिशैलस्य मर्धनि।
प्रादुर्बभूव देवेशः पश्यतां त्रिदिषोकसाम्॥५३॥
वरदस्सर्वभूतानां ब्रह्मणो हितकाम्यया।
पूर्वाद्रिशिखरे सायमिन्दुः पूर्णकलो यथा॥५४॥
नीलजीमूतसंकाशः पद्मपत्रनिभेक्षणः।
पीतांबरधरस्स्रग्वी वनमालाविभूषितः॥५५॥
कटकांगदकेयूरकिरीटकटिबन्धनैः।
स्वलंकृतश्शुभैर्दिव्यैरन्यैराभरणैरपि॥५६॥
श्रीभूभ्यां सहितो देवो देवीभ्यां पार्श्वयोर्द्वयोः।
शङ्खचक्रगदापाणि स्स्मयमानमुखाम्बुजः॥५७॥
करुणारसपूर्णाभ्यां लोचनाभ्यां जगत्त्रयम्।
हलादयन्ददृशे तत्र कन्दर्पायुतसुन्दरः॥५८॥
वपां संगृह्य हस्तेन ब्रह्मदत्तां प्रभक्षयन्।
संवीक्षमाणः कृपया पद्मयोनिं र्मुहुर्मुहुः॥५९॥
स्तूयमानो निशं भक्त्या योगिभिस्सनकादिभिः।
सनन्दनन्दप्रमुखैः पार्षदैः परिवारितः॥६०॥
तदा सुमनसां वृष्टि र्वभूवाद्भुतसन्निभा।
दिव्यदुन्दुभयो नेदु र्ववुर्गन्धवहाश्शुभाः॥६१॥
तत उत्तरवेद्यन्त र्वह्नि र्मध्याद्विनिर्गते।
विमाने भास्करे दिव्ये तिष्ठन्तं पद्मलोचनम्॥६२॥
श्रीभूभ्यां सहितं देवं वरदं वांछितप्रदम्।
कन्दर्पकोटिलावण्यं करुणामृतसागरम्॥६३॥
पश्चिमाभिमुखं विष्णु शंखचक्रगदाधरम्।
ददृशु र्देवगन्धर्वा स्सर्वे च परमर्षयः॥६४॥
निगूढगुल्फौ नवपल्लवारुणा
बनर्घ्यरत्ना भनखान्वितांगुली।
ध्वजाब्ज वज्रां कुश लांछनांकितौ
सुतप्रकार्यस्वर नूपुरा न्वितौ॥६५॥
भक्तेष्टदौ मौनिहृदब्जमन्दिरो
विरिंचिमुख्या मरघृन्दवन्दितौ।
निक्षिप्य पादौ कनकाब्जपीठे
तिष्ठत मादित्य सहस्र रोचिषम्॥६६॥
मनोभवो दग्र निषंगशोभा
सम्भिन्न जंघायुगलो पपन्नम्।
सुवृत्तरंभातरु कांड मांसल
द्विपेंद्र हस्तप्रतिमोरु युग्मम्॥६७॥
विलंबि विद्यु न्निभपतिचेल
प्रच्छन्न कूर्माभ नितंब युग्मम्।
स्वावृत्त पार्श्व मृगराजमध्यं
सुनिम्न नाभसिरसीरुहा न्वितम्॥६८॥
कट्युल्लस त्कांचन सूत्रमण्डितं
चलित्रपालंकृत कन्दराधरम्।
लस द्विशालोन्नतवक्षसा धृत
श्रीवत्स सत्कौस्तुभ रत्नमण्डितम्॥६९॥
पीनै स्सुदीर्घै स्सद्दितं सुवृत्तै
र्भुजेश्च केयूर वरांगदाढ्यैः।
सुलक्षणै स्सूक्ष्मनखे स्सुकोमलैः
शुभै श्चतुर्भिः कमलोदरप्रभैः॥७०॥
विभ्राण मादित्य शशिप्रकाशौ
रथांगशंखावभयं गदांच।
अनर्घ्यरत्रोज्ज्वल कर्णकुण्डल
त्विषा समुद्योतितगण्डमण्डलम्॥७१॥
सुमुग्धमन्दस्मित चन्द्ररोचिषा
सम्फुल्ल रक्तोत्पल सन्निभाधरम्।
विनिद्ररक्तान्जदलाभलोचनं
विलोलबालालक संवृताननम्॥७२॥
कारुण्यपूर्णं करुणामृताब्धेः
कल्लोलमालाभ कटाक्षवीक्षणम्।
कस्तूरिकालंकृत फालदेशं
किरीटरत्नोज्ज्वलिता खिलाशम्॥७३॥
नवांबुदश्याम मनंगसुदरं
धरेन्दिरालंकृत सव्यदक्षिणम्।
विराजमानं वरदंवरेण्यं
विमानमध्ये ददृशु स्स्मदेवाः॥७४॥
प्रणम्य षद्धांनलयो तिवेल
प्रहर्षपीयूष पयोधिमग्नाः।
विष्टभ्यचित्ता न्यवशाविहर्षाः
प्रतुष्टुवु स्ते वरदं पुरस्स्थितम्॥७५॥
देवाः।
नमस्ते देवदेवेश नमस्ते पुरुषोत्तम।
नमस्ते पुण्डरीकाक्ष नमस्ते विश्चभावन॥७६॥
नमस्तुभ्यं भगवते वैकुण्ठा यात्मयोनये।
विश्वेश्वराय विश्वाय विश्वगभार्य विष्णवे॥७७॥
विश्वातीताय वेद्याय विधात्रे विश्वकर्मणे।
नम स्सहस्रशिरसे सहस्राक्षाय शार्ङ्गिणे॥७८॥
सहस्रबाहुपादाय सृष्टिस्थित्यन्तकारिणे।
नमःपराय पुण्याय पुरुषाय नमो नमः॥७९॥
परात्परम मीशानं पावनं पुण्यरूपिणम्।
त्वां प्रषन्ना स्स्मदेवेशं वरदं भक्तवत्सलन्॥८०॥
निर्मलं निर्गुणं शान्तं निरपेक्षं निरञ्जनम्।
त्वां प्रपन्ना स्स्मदेवेशं वरदं भक्तवत्सलम्॥८१॥
महत्तरं च महतो प्यणीयांस मणोरपि।
त्वां प्रपन्ना स्स्मदेवेशं वरदं भक्तवत्सलम्॥८२॥
सत्यं ज्ञानं परं सूक्ष्मं मनन्तम मृत म्परम्।
त्वां प्रपन्ना स्स्मदेवेशं वरदं भक्तवत्सलम्॥८३॥
यज्ञमूर्तिं यज्ञभुजं यज्ञांगं यज्ञवाहनम्।
त्वां प्रपन्ना स्स्मदेवेशं वरदं भक्तवत्सलम्॥८४॥
सर्वगं सर्वकर्तारं सर्वेश्वर मनीश्वरम्।
त्वा मेव शरणं प्राप्ता न्रक्षा स्मा न्मधुसूदन॥८५॥
त्वत्तो जात मिदं विश्वं रक्षितं च त्वया सदा।
त्वय्येव विलयं याति सदेवासुर मानुषम्॥८६॥
त्व मव्ययःपरः स्थाणु रनादि रकुतो भयः।
ईशानस्सर्वभूताना मादिकर्ता स्वयम्प्रभुः॥८७॥
त्व न्माया मोहितधियो मुह्य न्त्यज्ञानिनोभुवि।
त्वद्भक्ता नप्रमुह्यन्ति सदा त्व द्ध्यान तत्पराः॥८८॥
त्व मादि रन्तो मध्यश्च जगतः प्रभुरेवच।
देवा वेदास्तथा यज्ञाश्शास्त्राणि विविधानिच॥८९॥
इतिहासपुराणानि निरुक्तं लक्षणानिच।
चराचराणिभूतानि सरितस्सागराह्रदाः॥९०॥
आब्रह्मस्तंबपर्यन्तं त्वमेव सकलं जगत्।
त्वयि प्रोतमिदं सर्वं सूत्रे मणिगणा इव॥९१॥
अन्तर्बहिश्च सकलं व्याप्यतिष्ठन्निरंजनः।
भवांश्चेष्टयते विश्वं कर्मपाशनियन्त्रितम्॥९२॥
सूत्रैरिव नरोलोके योषितं दारुवल्पिताम्।
तारिताः स्म वयं सर्वे तवसन्दशंनादिह॥९३॥
अदृश्यस्सर्वभूतानां यस्त्वमस्माभिरीक्षितः।
यज्ञैर्दानैस्तपोभिश्च यात्राभिर्नियमैरपि॥९४॥
अदृश्यमद्यपरमं पश्यामःपुरतःस्थितम्।
इतिस्तुत्वासुरास्सर्वे नत्वाचहरिमच्युतम्॥९५॥
तत्रैवासन्मुदायुक्ताः पश्यन्तस्तन्मुखाम्बुजम्।
इत्थं वैवस्वतमनोःकल्पेपूर्वेकृतेयुगे॥९६॥
क्षेत्रे सत्यव्रते पुण्ये हस्तिशैलस्य मृर्धनि।
आद्यर्तौप्रथमेमासि पक्षेचाद्ये सुशोभने॥९७॥
शुभे हस्ताभिधे ऋक्षे चतुर्दश्यां रवेर्दिने।
प्रातर्विष्णुसमुद्दिश्य वपांजुह्वति धातरि॥९८॥
प्रदक्षिणावर्तशिखे सम्यग्ज्वलति पावके।
हविर्गन्धेचमहति मनोज्ञे प्रसृतेशुभे॥९९॥
तत्राविरासीद्भगवान्मुकुन्दो
विधेर्वितानोत्तरवेदिमध्यात्।
संस्तूयमानस्सनकादिभिर्मुदा
श्रियो धरित्र्या सहितो ब्जहस्तया॥१००॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये षोडशोध्यायः॥
————
अथ सप्तदशोध्यायः
————
नारदः
ततोवितानवेद्यन्तर्वह्नि मध्यात्समुत्थिते।
विमानेभास्वरेदिव्ये दिव्यरत्नविभूषिते॥१॥
तिष्ठन्तमिन्दिराभूभ्यां देवीभ्यां सहितंहरिम्।
अतसीपुष्पसङ्काशं शङ्खचक्रगदाधरम्॥२॥
दिव्यपीतांबरधरं दिव्यमाल्योपशोभितम्।
स्फुरत्कटक केयूरकिरीटाङ्गदकुण्डलम्॥३॥
ज्वलद्रत्नकटीबन्ध हारनूपुरशोभितम्।
मुग्धमन्दस्मितमुख मपश्यद्वरदंविधिः॥४॥
ततस्तदास्यस्य विलोकनादति
प्रवृद्धमोदाब्धितरङ्गिताशयः।
चकार चेष्टाविविधास्तदग्रतो
ननर्तचोन्मत्तवदब्जसम्भवः॥५॥
क्ष्वेलन्हसंश्चैव ससव्य दक्षिणम्
परिभ्रमन्मण्डल मुच्चकैर्नदन्।
उद्धृत्यबाहू मुहुरूर्ध्वतोभृशं
चकारचाशाः करतालशब्दिताः॥६॥
इत्थं मुकुन्देक्षण जात्प्रहर्षा
द्विधिर्मुहूर्तं विवशान्तरात्मा।
विष्टभ्य धैर्येण पुनस्स्वचितं
ननाम भक्त्या वरदस्यपादयोः॥७॥
ततस्तमुत्थाय हरेरनुज्ञया
भवृद्ध मोदाम्बुनिरुद्धकन्धरः।
स्वरेण हंसस्वर गद्गदेन
तुष्टाव बद्धांजलिरादिदेवम्॥८॥
ब्रह्मोवाच.
नमोस्तुते पङ्कज पत्रलोचन
प्रसीदमह्यं प्रणतार्तिभंजन।
दृष्ट्वाभवन्तं वरदंवरेण्य
मद्यप्रपन्नोस्मि तवांघ्रियुग्मम्॥९॥
अनन्तमाद्यं पुरुषम्पुराण
मगोचरं सर्वमनोगिरामपि।
अदृश्यमग्राह्य ममोघविक्रमं
त्रिविक्रमं त्वां शरणं प्रपद्ये॥१०॥
अणोरणीयांस मचिन्त्यमव्ययं
महान्तमव्यक्त मनीशमीश्वरम्।
परात्परं कारणकारणं विभुं
निराश्रयं त्वां शरणं प्रपद्ये॥११॥
सहस्रवाहूदरपादकंधरं
सहस्रशीर्षोरुविलोचनाढ्यम्।
व्याप्यस्थितं विश्वमिदंसमन्ता
द्भवन्तमव्यक्त महम्प्रपद्ये॥१२॥
सवैकिलत्वं पुरुषःपुराणो
य एकएव प्रलयाब्धिमध्ये।
आसीच्छयानो भुवनानियोगात्
निगृह्यकुक्षौ सचराचराणि॥१३॥
सबैभवान्यो सृजदम्बुजान्माम्
स्वनाभिजावा ज्जगतस्सिसृक्षया।
दिदेश वेदानपि मह्यमर्थिने
विमुह्यमानाय विहङ्गरूपधृक्॥१४॥
यस्मादिदं विश्वप्रभूत्पुरस्ता
यस्मिन्पुनश्चैष लयंप्रयाति।
यःपाति लोकत्सचराचरानिमा
न्सवैकिलत्वं पुरुषःपुराणः॥१५॥
जनिष्यमाणोजनितो थवाजनो
नतेमहिम्नः परमंतमाप।
वीर्याणिते वेदनकोपिविष्णो
यथैव भौमानि रजासिमाम्॥१६॥
यथाम्बुसङ्गृह्य पयोधरोव्धे
स्स्वयंप्रवर्षत्य निलेरितभुवि।
तथैवचा हम्भवतामदत्तं
प्रगृह्यविश्वं ह्यसृजंत्वदाज्ञया॥१७॥
आद्यं पवित्रस्परमञ्चसत्यं
विज्ञान मानन्दमयंपरञ्च।
यद्योगिगभ्यं निगमादिबीजं
त्वमेव तद्ब्रह्मजगन्निदानम्॥१८॥
त्वन्माययामोहित बुद्धयोजना
नत्वां विजानन्ति विपश्चितोपि।
अन्तःस्थित ते हृदयेषुनित्यं
विभ्राजमानं निहितं गुहायाम्॥१९॥
अप्राकृतानन्त गुणार्गवन्त्वां
स्तोतुं नशक्नोम्यद्द मल्पमेधाः।
तयापि मह्यङ्कृपया द्यकेवलं
प्रसीद देवेश कृपांबुराशे॥२०॥
क्षेत्रेत्वदीयेत्र तवाज्ञयैव
त्वांसंयजन्तं तवदर्शनोत्सुकम्।
त्वन्नाभि पद्मार्ज्जनितंत्वयैव
त्वमेववीक्ष्योद्धर मां मुकुन्द॥२१॥
अदृष्टपूर्वं त्रिदिवौकसाङ्गणै
स्सुनिर्मलै र्योगिभिरप्यलभ्यम्।
दृष्ट्वाद्भुतं रूपमिदंतवाग्र्य
महङ्कृतार्थो भवमब्जनाभ॥२२॥
त्वमेव माताचवितात्वमेव
त्वमेवविद्याच गुरुस्त्वमेव।
त्वमेवबन्धुश्च सखात्वमेव
त्वमेसर्वम्ममजीवितंच॥२३॥
इतिप्रशस्तै स्तुतिभिर्मुकुन्दं
स्तुत्वाब्जयोनि र्वरदम्पुरःस्थितम्।
बभूवतन्मुग्ध मुखावलोकन
प्रवृद्धहर्षा दवशोहितूष्णीम्॥२४॥
तंवीक्ष्य देवोवरदःकृतांजलिं
स्तुवन्तमब्जोद्भवमब्जनाभः।
उवाच वाक्यं जलदस्वनोपमं
प्रहर्षयन्नबुज संभवन्तदा॥२५॥
तुष्टोस्म्यहं प्रसन्नोस्मिस्तोत्रेण तवसुव्रत।
दृष्टवानस्मि ते भक्ति मनन्यां सुदृढ़ामपि॥२६॥
मामुद्दिश्यचिरं कालं त्वयातप्तम्महत्तपः।
भक्त्याचैवाश्वमेधोपि कृतोह्यत्रमदाज्ञया॥२७॥
क्षेत्रेस्मिन्पावने पुण्ये ममप्रीतिविवर्धने।
द्रष्टुकामेन भवता यद्यज्ञेनास्मितोषितः॥२८॥
तस्माददर्शय महरूपंदिव्यमिदंतव।
भक्त्यात्वनन्यया ब्रह्मन्हयमेधस्त्वयाकृतः॥२९॥
अतः प्रसन्नेन मया दर्शितं रूपमुत्तमम्।
देवाअपिच गन्धर्वा ऋषयोवाजगत्त्रये॥३०॥
सर्वेपि नविजानन्ति ममैत्तद्रूपमद्भुतम्।
पश्यन्तिकेवलं भक्त्या मद्रूपसनकादयः॥३१॥
भक्त्या मम प्रियतमो भवानपि चतुर्मुख।
ततस्त्वद्दत्तमश्नामि हविरेतत्सुपावनम्॥३२॥
अत्राहं चाप्यभिव्यक्त स्तवप्रियचिकीर्षया।
विमानेनसहानेन प्रादुरासम्मखानलात्॥३३॥
एतद्विमानमतुलं दर्शनात्पुण्यवर्धनम्।
पुण्यकोटीतिविख्यातं स्मरणान्मुक्तिदंनृणाम्॥३४॥
हिताय सर्वजन्तूनां वैकुण्ठाद्भुवमागतम्।
अस्मिन्विमातिष्ठन्तं येमांपश्यन्ति मानवाः॥३५॥
विमुक्तास्सर्वपापेभ्य स्सद्यःपूताभवन्तिते।
त्वमत्र हयमेधेन यस्माद्यष्टासि भक्तितः॥३६॥
तस्मादहंप्रयच्छामि वृणीष्ववरमुत्तमम्।
तस्यतद्वचनंश्रुत्वा वरदस्याब्जसंभवः॥३७॥
प्रणिपत्यांजलिंकृत्वा प्रोवाचमधुसूदनम्।
त्वत्प्रसादान्मयालब्धं ब्राह्मंपदमनुत्तमम्॥३८॥
नैवान्यत्प्रार्थनीयं मे तवसंदर्शनाद्विना।
इदंहि परमंरूपं तवदिव्यंसुरेश्वर॥३९॥
चिरात्संप्रार्थितं द्रष्टुं लब्धमेतन्मयाधुना।
तवदिव्यमिदंरूपं दुर्लभंभुविदेहिनाम्॥४०॥
इदंतुप्रार्थनीयं मे तत्कुरुष्व जगत्पते।
सर्वलोकहितार्थाय यदिमय्यस्त्यनुग्रहः॥४१॥
रूपंते यन्मयादृष्टं मुक्तिदंपरमद्भुतम्।
श्रीवत्सकौस्तुभधरं शङ्खचक्रगदान्वितम्॥४२॥
पीतांबरधरंदिव्यं सर्वभूताभयप्रदम्।
अनेनैवहिरूपेण सहितस्सर्वदेहिनाम्॥४३॥
द्रष्टृणां वरदोभूत्वा वसमत्प्रीतिकारणात्।
अत्रैवपुण्यकोट्याख्ये विमानेपुण्यवर्धने॥४४॥
हस्तिशैलस्यशिखरे वसत्वं शाश्वतीस्समाः।
देवासुरमनुष्याणां सदाप्रत्यक्षतांगतः॥४५॥
अत्रतिष्ठतुदेवेशः क्षेत्रेसत्यव्रतनिशम्।
यथावैकुण्ठभुवने यथावा क्षीरसागर॥४६॥
तथैवात्रापि वासस्तेभवत्वितिमनोमम।
एषमेपरमःकाम स्तदनुज्ञातुमर्हसि॥४७॥
इति संप्रार्थितोधात्रा भगवान्भूतभावनः।
ब्रह्माणंकृपपोद्वीक्ष्य स्मयमानोव्रवीदिदम्॥४८॥
प्रादुरासमहंव्रह्मं स्वद्यज्ञेनात्रतोषितः।
केवलंतेहितार्थाय किंनकुर्या प्रियंतव॥४९॥
अहमत्रैव वत्स्यामि प्रीत्यथतेपितामह।
वांछितंसर्वभूतानां प्रयच्छन्शाश्वतीस्समाः॥५०॥
भक्तानां वरदोभूत्वा वसाम्यत्रैवपद्मज।
अत्रमां संप्रपश्यन्ति यजन्ति प्रणमन्तिये॥५१॥
तेषामहंप्रदास्यामि पुरुषार्थचतुष्टयम्।
योमन्तसरसिस्नात्वा मामर्चयतिमानवः॥ ५२॥
मुच्यतेब्रह्महत्याया नात्रकार्याविचारणा।
तुष्टास्मितेप्रसन्नास्मि हयमेधनसुव्रत॥५३॥
यदायदामां स्मरसि पद्मयोनेतदातदा।
स्मृतमात्रस्तवपुरो भविष्याम्यक्षिगोचरः॥५४॥
ममरूपमिददिव्यं चिदानंदमयंपरम्।
त्वयैकेनैव संद्रष्टुं शक्यं नान्येन केनचित्॥५५॥
नशक्यं मनुजै र्द्रष्टुं मम रूप मिदं भुवि।
तस्मा दन्तर्हितोभूत्वा प्रतिमायां वसाम्यहं॥५६॥
अत्रैव सर्वभूतानां भुक्तिमुक्ति प्रदायकः।
स्वेनैवैत त्स्वरूपेण दिव्येनचतुरानन॥५७॥
मम सन्दर्शनं भूया त्तवैकस्यैव केवलं।
नान्येषा मपि यत्तस्मा त्प्रतिमायां वसाम्यहम्॥५८॥
तस्मा द्यज्ञं समाप्य त्वं कृत्वा बभृथमज्जनं।
कृत्वा सल्लक्षणैर्युक्ताः प्रतिमाः पद्मसम्भव॥५९॥
तत्र मां पूजस्व त्वं प्रतिमायां समास्थितं।
देवाश्व ऋषयश्चैव गन्धर्वा मनुजा अपि॥६०॥
सर्वे पूजितमिच्छन्ति मा मत्र त्व स्मखोद्भवम्।
ते वै द्रष्टु मशक्तादि ममैत द्रूपमद्भुतम्॥६१॥
तस्मा ददं प्रतिकृतौ पूजांगृह्णामि तैरह।
त्रेतायुगेतु सम्णप्ते गजन्द्रो नाम नामतः॥६२॥
मद्भक्त स्समहाभागो मामिहार्चितु मेष्यति।
द्वापरे वाक्पतिर्वितो मामिहै त्यार्चयिष्यति॥६३॥
कलौ युगेत्र मांशेषः पूजयिष्यति नागराट्।
एत न्ममाद्भुतं रूपं यथा त्वं दृष्टवानषि॥६४॥
तथा त्व मिव ते सर्वे द्रष्टुं नार्हति कर्हिचित्।
तस्मा दद्येव धात स्त्वं कृत्या मां विवरूपिणम्॥६५॥
यावत् त्रेतायुगप्राप्ति स्तावदर्चय मामिह।
त्रेतायुगेतु संप्राप्ते श्रेष्ठं स्वायंभुवं पदम्॥६६॥
महत्त मनुभाक्तुं त्व मितोगच्छ पुनर्दिवम्।
सत्याख्य मुक्तो लोक मिति मच्छासनं कुरु॥६७॥
सम्य क्सम्पूजयित्वा मां प्रत्यहं तु कृते युगे।
तत स्त्रिष्वपि भूयस्त्वं त्रेतादिषु युगेष्विह॥६८॥
अभ्येत्य चैत्रपूर्णाया मनुवत्सर मर्चय।
इत्युक्तो देवदेवेन धाता संहृष्टमानसः॥६९॥
प्रणम्य वरदं भक्त्या कृत्वा चापि प्रदक्षिणम्।
तदाज्ञां शिरसा धृत्वा यज्ञशेषं चकारह॥७०॥
ऋत्विग्भि स्सहितस्सर्वै र्हृष्टै र्देवगणै स्सह।
समाप्य विधिवद्यज्ञ मृत्विग्भ्यो दत्तदक्षिणः॥७१॥
ब्राह्मणेभ्यश्च सर्वेभ्यो दत्वा दानान्यनेकशः।
कृत्वा चावभृथं स्नान मनन्त सरसीजले।
विसर्जयित्वा तान्सर्वा नृत्विजो ब्रह्मवादिनः।
देवायात्मकृतं यज्ञं वरदाय समार्पयत्॥७३॥
ततो देवर्षिगन्धर्वा स्सिद्धाश्च पतगैस्सह।
तत्र सर्वे हरिं दृष्ट्वा प्रणम्य प्रीतमानसाः॥७४॥
ब्रह्मणासमनुज्ञाताः पुनर्जग्मुर्यथागतम्। .
चतुर्मुखोषि राजेंद्र हरेराज्ञा मनुस्मरन्॥७५॥
कारयित्वा विधानेन प्रतिमा विश्वकर्मणा।
श्रीवत्सकौस्तुभधरा स्सर्वलक्षण संयुताः॥७६॥
तास्वाबाह्य रमानायं संकल्प्यविधिवद्विधिः।
पूजयामास वरदं सरस्वत्या समन्वितः॥७७॥
कुर्वं स्त्रिषवणं नित्यं भक्त्या परमया युतः।
[हंसो] पद्मोक्त तन्त्रविधिना विष्णुप्रीतिकरेणच॥७८॥
अर्घ्यैः पाद्यै राखनैश्च तथैवाचमनीयकैः।
कामधेनूद्भवैः क्षीरै र्दिव्यैः पञ्चामृतै रपि॥७९॥
शुद्धोदै र्गंधतोयैश्च देवं समभिषेचयन्।
वस्त्रैर्दीपेश्च धूपैश्च नैवेद्यै र्विविधैरपि॥८०॥
विविधै र्भक्ष्यभोज्यैश्च मृष्टै रन्नैश्च पायसैः।
पुष्पचन्दनताम्बूलै र्वरदं प्रीणयन् हरिम्॥८१॥
किरीटकेयूरमुखै र्दिव्याभरण संचयेः।
अलङ्कुर्वन् रमानाथं देवीभ्यां सहितं हरिम्॥८२॥
नृत्यैर्गीतैश्च वाद्यैश्च छत्रव्यजनचामरैः।
विविधै रुत्सवैश्चापि प्रीणय न्पुरुषोत्तमम्॥८३॥
भूत्वा तदर्चनानन्द मग्नेन्द्रियगणो विधिः।
तत्रोवास चिरङ्कालं हरे राज्ञानुशासनात्॥८४॥
देवोपि हस्तिशैलाग्रे ब्रह्मणा पूजितोनिशम्।
तत्रैवोवास वरदो लोकानुग्रह काम्यया॥८५॥
एवंपुरी तत्रनृपेन्द्रकाञ्ची
विनिर्मिता भूत्किल विश्वकर्मणा।
विधातृयज्ञोत्तर वैदिमध्या
हेवोपि तत्राविभूत्किलैवम्॥८६॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये सप्तदशोध्यायः॥
————
अथ अष्टादशोध्यायः।
————
नारदः
अम्बरीष महाप्राज्ञ शृणु वक्ष्याम्यहं तव।
पुण्यानि काञ्व्यां स्थानानि पुनरन्यानि चक्रिणः॥१॥
यानिश्रुत्वा नरःपापा न्मुक्तोमोक्षमवाप्नुयात्।
तानिते कीर्तयिष्यामि विष्णोरायतनान्यहम्॥२॥
पुराकृतयुगेराज न्भृगुर्ब्रह्मर्षिसत्तमः।
विज्ञातुमिच्छन् लाकेषु देवान्सत्वगुणाधिकान्॥३॥
योवैसत्वगुणश्रेष्ठ स्तमोराजसवर्जितः।
तस्मा न्मया परं तत्वं विज्ञेयं वीतकल्मषात्॥४॥
इविनिश्चित्य मनसा तत्वविज्ञानकारणात्।
परिभ्रमं स्त्रिलोकेषु सेन्द्रान्सर्वान्दिवौकसः॥५॥
रजस्तमोगुणाक्रांता न्मन्यप्रानश्चसर्वतः।
सतुमत्वात्रिलोकेशं रुद्रंसत्त्वगुणाधिकम्॥६॥
तस्माद्वेत्तुञ्च विज्ञान माययौ शङ्करालयम्।
तत्ररम्येवनोद्देशे क्रीडंतमुमयासह॥७॥
शकरम्मदरक्ताक्षं शुष्मिणंचदिगम्बरम्।
ददर्श मैथुनेसक्तं भृगुर्ब्रह्मर्षिसत्तमः॥८॥
तदा क्रीडान्वितादेवी तं वीक्ष्य द्विजमंजसा।
लज्जया हरमुत्सृज्य क्षणा दन्तर्हिता भवत्॥९॥
त मागत मभिप्रेक्ष्य नौरुर्या दसमये भृगुम्।
क्रुद्धस्तु भगवान्रुद्र स्तम्प्रहर्बु मुपाययौ॥१०॥
वेगा द्दिगंबर स्तस्मै दर्शयं ल्लिंगमात्मनः।
तं दृष्ट्वा कुहुमायान्तं शङ्करं च दिगम्बरम्॥११॥
तामसो य मितिज्ञात्वा शशापै नं द्विजोत्तमः।
यस्मा द्वृषाकपे मह्यं भवां ल्लिङ्ग मदर्शयत्॥१२॥
तस्मा त्तवैदृशं रूपं भवे ल्लिंगात्मक म्भुवि।
स्वलिंगं परलिंगंवा श्रेयोर्थी नावलोकयेत॥१३॥
ब्राह्मणेभ्योपि देवेभ्यः स्त्रीभ्यो वा न प्रदर्शषेत्।
ननग्नां स्त्रिय मीक्षेत बिना जायांतु सङ्गमे॥१४॥
पश्ये त्प्रदर्शये ल्लिङ्गं यदि मोहान्नराधमः।
सतु स्नायुरुज स्भुक्त्वा पैशाचीं योनि माप्नुयात्॥१५॥
तस्मा त्स्वं रूपमुत्सृज्य भत्र लिंगाकृतिर्भव।
पाषण्डा स्संवहन्तु त्वां तामसा ब्राह्मणद्विषः॥१६॥
इति शप्त्वा भवं विप्रो निर्जगाम तदा नृप।
लब्ध्वा शापन्तु विप्रेंद्रो विधिं सत्वगुणान्वितम्॥१८॥
तेनैव तत्वं परमं वेत्तव्य मखिलं त्विति।
निश्चित्य मेरुशिखरे सभायां पद्मसंभवम्॥१९॥
आसीन मृषिभिस्सार्धं सृजन्तं भुवनत्रयम्।
जीवां श्चतुर्विधा नुद्भि दण्डस्वेद जरायुजान्॥२०॥
तत्र गत्वा विधिं दृष्ट्वा प्रणिपत्य कृतांजलिः।
तुष्टाव तिष्ठ न्पुरत स्संवत्सरशतं नृप॥२१॥
नैवासी द्ब्रह्मणस्सृष्टे र्विरामो ब्धे स्तरंगवत्।
प्राञ्जलिं तत्र तिष्ठन्तं भृगुं ब्रह्मर्षिसत्तमम्॥२२॥
नैवा बालोकय त्स्रष्टा नचैनं वाक्य मब्रवीत्।
ततः प्रकुपितो विप्र स्तिष्ठ न्सोथ सभातले॥२३॥
तथा ब्जसम्भवं मत्वा त्वं राजसगुणान्वितम्।
शशापरोषा त्तमपि बतेस्त्वायतनं भुवि॥२४॥
यस्मा दुपस्थितं विप्रं भवा न्नैवावलोकयत्।
कुशलं च न पृष्टोस्मि त्वया स्वागत मित्यपि॥२५॥
अतस्त्वां नैवमनुजाः पूजयन्तु धरातले।
इत्युक्त्वा प्रययौ विप्र स्त मतिक्रम्य वेधसम्॥२६॥
भृगु र्योगबला द्राजन् श्वेतद्वीपं हरेःपदम्।
विज्ञातुं परमं सत्वं तत्र विष्णोर्मुखाम्बुजात्॥२७॥
त मायान्तं भृगुं ज्ञात्वा शिश्ये सुप्तव दच्युतः।
तत्रगत्वा भृगुर्देवं शयानंयोगमायया॥२८॥
दृष्ट्वा तस्यान्तिके तिष्ठ न्कांक्ष न्निद्राप्रबोधनम्।
तिष्ठत स्तत्र तस्यैव मभू दब्दशतं नृप॥१९॥
तत स्संकुपितो विप्र स्वन्माया मोहिताशयः।
श्रीवत्सलांछनेदेवं पादे नोरस्यताडयत्॥३०॥
तस्मा त्समुत्थिता लक्ष्मी स्स्वाश्रया द्वक्षसो हरेः।
ताडिता भृगुणा सभ्य कपादेनैनं शशापच॥३१॥
मूढ मा मत्र पादेन यद्भवा नभ्यताडयत्।
तस्मा त्वं तपसा भ्रष्टो भव दारिद्र्यपीडितः॥३२॥
देव्या मेवं शपन्त्यांतु सं प्रबुद्ध स्तदाहरिः।
दृष्ट्वा पार्श्वगतं विप्रं देवीं चोवाचविस्मितः॥३३॥
किमर्थ मागतो विप्र स्त्वया शप्तः कुतोह्ययम्।
देवै रपि सगन्धर्वै र्मनुष्यै र्वा जगत्त्रये॥३४॥
ब्राह्मणो नासमन्तव्य इति मच्छासनं किल।
तद्विस्मृत्य त्वया विप्रः किमर्थ मवमानितः॥३५॥
तस्य तद्वचनं श्रुत्वा देवी वचन मब्रवीत्।
देवायं स्वेनपादेन तवोरसि मदाश्रये॥३६॥
अताडय द्रुपाभ्येत्य तस्मा दशपमंजसा।
इत्युक्त स्तत्क्षणा देव स्समुत्थाय ससंभ्रमम्॥३७॥
प्रार्थयामास विप्रेंद्रं दृष्ट्वा तिष्ठंतमन्तिके।
ब्रह्म न्वज्रसमेव्यूढ़े किणबद्धे ममोरसि॥३८॥
संलग्न स्यांवुजाभस्य मृदुपल्लव रोचिषः।
बभूव तवपादस्य काीदृशी हन्त वेदना॥३९॥
इत्युक्त्वा विप्रवर्यस्य सङ्गृह्यांव्रिद्वयंहरिः।
समालभ्य स्वपाणिभ्यां ममर्दा म्बुजलोचनः॥४०॥
ततः प्रक्षाल्य पादौद्वौ श्रियासह जगत्पतिः।
पृष्ट्वा तं कुशलं विप्रं पप्रच्छा गमकारणम्॥४१॥
ततः खिन्नमनाविप्रः पश्चात्तापेन यन्त्रितः।
लज्जया बनतो भूत्वा प्रणिपत्येदमब्रवीत्॥४२॥
पाहिमां देवदेवेश पाहिमां पंकजेक्षण।
कृतापराधं विश्वेश पाहिमां करुणानिधे॥४३॥
विशुद्धसत्वं त्रिगुणातिगन्तं
त्रयीमयं विश्वनिधानमाद्यम्।
विश्वोदरं कारणकारणं विभुम्
परात्परं त्वां शरणं प्रपद्ये॥४४॥
त्वत्तः परंतत्व मिह प्रवेत्तु
मभ्येत्य मोहा दह मद्रुहं त्वाम् \।
अतः प्रपन्नोस्मि तवांघ्रियुग्मे
कृतागसम्मा म्परिपाहि विष्णो॥४५॥
इतिप्रपन्नं शरणैषिणं भृगुं
पश्चा त्तपन्तं स्वकृतापराधात्।
भक्तानुकम्पी भगवान् मुकुन्दः
प्रोवाच विप्रं परिसान्त्वयन्गिरा॥४६॥
माभैषी र्मुनिशार्दूल मातेस्तु मनसोव्यधा।
मद्भक्तेन त्वयाविद्वन् रोषा दागत्य वक्षसि॥४७॥
पदाहतोपि तुष्येहं पुष्पै स्संपूजितो यथा।
इयं प्रकुपिता लक्ष्मी र्भवन्त मशपद्यतः॥४८॥
तस्मा त्त्व मभवो विप्र तपः पुण्यविवर्जितः।
ज्ञेयं किल परं तत्त्वं तपसा सुकृतेन च॥४९॥
ममरूपाणि वाद्रष्टु मशक्यं तपसा विना।
तद्गच्छ त्व मितो विप्र मरो र्दक्षिणतोभुवि॥५०॥
पावने भारते खंडे तपश्चर समाहितः।
द्रक्ष्यसि त्वं यदा तन्न मांच वामनरूपिणं॥५१॥
तदा परमतत्त्वज्ञो भविता नात्र संशयः।
तदा ते दर्शयिष्यामि रूपा ण्यत्यद्भुतानि च॥५२॥
दृष्ट्वा त्वं मम रूपाणि तत्वं श्रुत्वा च वामनात्।
लब्धकामः प्रहृष्टात्मा तदा त्वं भविता ध्रुवं॥५३॥
मदाज्ञया विना चेयं लक्ष्मी स्त्वा मशपद्यतः।
तस्मा त्तव सुता भूत्वा तत्र त्वां नंदयिष्यति॥५४॥
इत्युक्त्वा भगवान्देव स्तत्रैवावर्हितो भवत्।
अन्तर्हिते भगवति भृगुः परम दुर्मनाः॥५५॥
देव्या श्शापाभिभूतस्तु नष्टज्ञानां ल्पसत्त्ववान्।
भ्रष्टयोगगतिर्भूढ़ स्तपोबलविवर्जितः॥५६॥
पद्भ्यामेवा जगामाथ मंदं मदं सुदुःखितः।
यदात्मना कृतं पापं चिन्तयं स्तदनुक्षणम्॥५७॥
कथमिंदीवरश्यामं योगिध्येयं रमापतिम्।
अताडयमहं मूढः पादेना म्बुजलोचनम्॥५८॥
इति संस्मृत्य मनसा निश्वसंश्च मुहुर्मुहुः।
क्षुत्तृङ्भ्यां पीडितो नित्यं तथैवाध्वश्रमेणच॥५९॥
कालेन महता राज न्भारतंखण्ड माययौ।
तत्र पश्य न्वनोद्देशा न्सरितश्च गिरीनपि॥६०॥
क्रममाणः क्रमेणैव पुष्करंक्षेत्र माययौ।
तत्र दिव्ये वनाद्देशे मन्दाकिन्या स्तटे शुभे॥६१॥
तिष्ठ न्स्थाणुव दव्यग्र श्चचार तपसत्तमम्।
तस्य सन्तप्यमानस्य द्रष्टुकामस्य वामनम्॥६१॥
अतीतं तत्र राजेंद्र वर्षाणा मयुतं तदा।
ततो यदृच्छया भ्येत्य तत्रा पश्यं मदं भृगुम्॥६३॥
पुष्करेपावनेक्षेत्रे तप्यन्तं परमंतपः।
यां दृष्ट्वा सोपि विप्रेंद्रो शृगुः परमहृष्ट धीः॥६४॥
पूजयामास विधिव त्पाद्यार्व्या सनभोजनैः।
संपूजितश्व तेनाहं तं चापृच्छममामयम्॥६५॥
तपश्चरति विप्रेंद्र किमर्थं त्व मिहाश्रमे।
कोवा प्यर्थश्च तेभाव्यः सिद्धसा ब्रह्मवादिनः॥६६॥
इति पृष्टो मयाविप्रो दुःखितः खिन्नमानसः।
पापं शशंसमेसर्व मात्मनैव कृतं हरौ॥६७॥
शापं चैवात्मने दत्तं तपः क्षयकरं श्रिया।
कथयित्वा सुदुःखार्तः पुनर्मां भृगुरब्रवीत्॥६८॥
शृणु नारद वक्ष्यामि यत स्तप्वाम्यहं तपः।
वामनं द्रष्टुकामेन मयेदंतप्यते तपः॥६९॥
पश्येयं वामनं देवं कदा वा कवच वा मुने।
वक्तुमर्हसि सर्वज्ञ कृपया मम नारद॥७०॥
इति ब्रुवंतं विप्रेंद्रं दृष्ट्वा तमह मव्रुवम्।
हंत ते कथयिष्यामि यथा द्रक्ष्यसि वामनम्॥७१॥
बलिर्वैरोचनिर्ब्रह्म न्नयज द्यज्ञमुत्तमम्।
क्षेत्रे सत्यव्रते पुण्ये द्रष्टुकाम स्त्रिविक्रमम्॥७२॥
कांच्यां ब्रह्मर्षिभि स्सार्धं वापन स्त मयाजयत्।
असुरेंद्रोपि कृपया वामनस्य महात्मनः॥७३॥
ददर्श किल देवेशं कांच्यां त्रैविक्रमाकृतिम्।
शेषाकारं रमानाथं तथा मेघाकृतिं हरिम्॥७४॥
एवं दिव्यानि रूपाणि दर्शय न्बलये हरिः।
सर्वलोकहितार्थाय तत्रैवास्ते किला धुना॥७५॥
तस्मा त्त्व मपि विप्रेंद्र गच्छ कांची मितोञ्जसा।
तत्र सत्यव्रतक्षेत्रे वामनं द्रष्टु मर्हसि॥७६॥
पातालस्य बिलद्वारे तिष्ठंतं सर्वकामदमू।
यत्र वामनमाराध्य रुद्रशापसमन्विता॥७७॥
गिरिजा लब्धकामाभू द्वामनात्तु महात्मनः।
कामाक्षीति च विख्याता पतिं लेभे स्वकं पुनः॥ ७८॥
यत्र हस्तिगिरौ पुण्ये पुण्यकोट्यां हरि स्स्वयम्।
अध्यास्ते वरदो नृणां ब्रह्मणा पूजितो निशम्॥७९॥
तस्मा त्त्वं तत्र गत्वा शु वामनं सर्वकामदम्।
सम्पूजयस्व विप्रेंद्र सर्वान्कामा नवाप्स्यसि॥८०॥
इत्यवोच महं राज न्पृच्छते भृगवे पुरा।
तस्मै निवेद्य तत्सर्वं निर्गतो हन्तदन्तिकात्॥७१॥
निशम्य मद्वाक्य मतिप्रहर्षा
त्तप त्समुत्सृज्य भृगु स्तदानीम्।
जगाम काञ्चीं नृपवर्य तत्र
ददर्श देवं खलु वामनंच॥८२॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये अष्टादशोध्यायः॥
————
अथ एकोनविंशोध्यायः।
————
अम्बरीषः।
कथं वैरोचनिर्ब्रह्म न्वालिर्यज्ञ मुपाहरत्।
याजयामास तं देवो वामनःकथमासुरम्॥१॥
कथं संदर्शयामास तस्मै त्रैविक्रमंवपुः।
किमर्थ शेषरूपोभून्मेधाकारश्च वामनः॥२॥
सर्वं तञ्चरितं विष्णो र्विस्तराद्वक्तुमर्हसि।
नारदः।
शृणुराजन्प्रवक्ष्यामि वामनस्य महात्मनः॥३॥
चरितं सर्वपापघ्नं यज्ज्ञात्वा मोक्ष्यसे ऽशुभात्।
प्रह्लादोनामराजेन्द्र भक्तोभगवतोहरेः॥४॥
अस्तिहि श्रुतपूर्वश्च त्वयाचापि महासुरः।
ब्रह्मण्यो विष्णुभक्ताना मग्रगण्धो हरिप्रियः॥५॥
तस्य पुत्रो महा नासी द्विरोचन इतीरितः।
विरोचनस्य पुत्रोभु द्बलि र्नाम महासुरः॥६॥
सशशास बलिर्जित्वा लोका न्सामरदानवान्।
पूजयन् सततं विष्णुं ध्यायंश्चैवा निशं हरिम्॥७॥
सकदाचि द्धरिं यष्टु मारभ त्क्रतुभि श्शतैः।
गत्वा तु हिमवत्पार्श्वे पुण्ये हैमवतीतटे॥८॥
याजयामास तं शुक्रो भार्गवो ब्रह्मवित्तमः।
तस्मि न्यज्ञे महापुण्ये बह्वत्रे भूरिदक्षिणे॥९॥
यं यं कामयते कामं तं तमाप्नोति भूसुरः।
एवं शतेषु यज्ञेषु तत्रैकोनेषु भक्तितः॥१०॥
कृतेषु दानवेंद्रेण देवानां भय माविशत्।
ततस्सेंद्रा दिविषदो भयकंपित मानसाः॥११॥
क्षीराब्धौ विष्णुमीशानं शयानं शरणंयसुः।
नत्वा स्तुत्वा च देवेशं विबुधा वाक्यमब्रवन्॥१२॥
अयं त्वां यजते देव बलि र्वैरोचनि र्हरे।
तं जतुं न वयं शक्ता यत स्त्वत्पादसंश्रयः॥१३॥
त्वमेव पाहि नस्सर्वा न्नियम्य बलि भोजसा।
वामनं रूपमासाद्य वंचयित्वा बलिं हरे॥ १४॥
तं प्रवेशय पाताल सुपायेनैव चा सुरम्।
त्वं चापि तद्गृहद्वारे तिष्ठ तद्द्वारपो यथा॥१५॥
नयथा पुनरागच्छे दस्मान् हंतु म्महासुरः।
इति तेषां वचः श्रुत्वा सुराणां विष्णुरात्मवान्॥१६॥
वामनोभू त्तदा राजन् देवानां हितकाम्यया।
अभ्येत्य यज्ञशालाया मयाचत बलिं धरां॥१७॥
बले वदान्य सर्वज्ञ विमाणां सर्वकामद।
दातुमईखि भूमिम्मे पादैः परिमितां त्रिभिः॥१८॥
इति विप्रं प्रयाचंतं वामनं वीक्ष्य चासुरः।
ज्ञात्वा तमागतं देषं यज्ञरूपिण मच्युतम्॥१९॥
कृतार्थोस्मीति हृष्टात्मा ददौ तस्मै धरां बलिः।
धरायां संप्रदत्तायां बलिना वामनो हरिः॥२०॥
ववुधे किल तां राज न्परिमातुं त्रिभिः क्रमैः।
पवैकेनाखिला भूमि राक्रन्ता सवनाचला॥२१॥
तौ र्द्वितीयेन वा क्रांता पदा विष्णो महात्मनः।
तृतीयस्या वकाद्योभू न्नैवक्वापि पदोहरेः॥२२॥
समाक्रम्य दिवं गांच पादाभ्यां ददृशे हरिः।
ग्रसन्निव महाराज ब्रह्माण्ड मसुरैस्सह॥२३॥
तद्रूपं दुस्सहं घोरं कालान्नि मिव भीषणम्।
सर्वेपि नेश्चित्तुं शक्ता मूर्च्छिताः पतिता स्सुराः॥२४॥
एकएव तदा ब्रह्मा देष मद्भुतरूपिणम्।
दृष्ट्या तुष्टाव विविधैः स्तोत्रै रम्यर्चयम् हरिम्॥२५॥
तदादेवस्य पादेव सभ्यगाच्छादिताधरा।
अभूत्स्वगिरिकांतारा सयज्ञायतनानृप॥२६॥
भौमाद्य जन्तवस्तत्र गर्तेषु विवरेषु च।
विष्णुपादतलस्छत्राः सर्वेसम्मुमुहुर्भृशम्॥२७॥
यजमानो बलिस्तस्मि न्विष्णोः पादलांतरे।
संलग्नो मूर्छितो धैर्या त्प्रविवेशरसातलम्॥२८॥
प्रविष्टमात्रे पातालं बलौ बलवतांवरे।
वामनस्तत्क्षणादेव बभूवसपुनर्विराट्॥२९॥
तवस्सुराश्च संहृष्टाः प्रापुस्त्वं स्वं पदं पुनः।
वामनोपि पुनर्गत्वा पातालं दानवालयम्॥३०॥
दृष्ट्वा तत्र बलिंराज न्प्रहसन्वाक्यमब्रवीत्।
दानवेन्द्र महाप्राह बदान्यस्त्वं वसंशयः॥३१॥
यन्मेत्व मददाभूमि मतस्तुष्टोस्मि ते भृशम्।
अश्वमेधैश्च बहुभि र्यतोमामयजद्भवान्॥३२॥
अतस्ते संप्रयच्छामि सन्तुष्टः कांक्षितान् बराम्।
कल्पान्त मायुश्च परां श्रियंचैवा चलामहम्॥३३॥
यावदावर्ततेकालो यावत्स्थास्पति मेदिनी।
तावत्त्वमिपाताले वसन् राज्याधिपोभव॥३४॥
त्वां रक्षितु महंचापि सततं तेक्षिगोचरः।
वत्स्यामि ते गृहद्वारे तवप्रियचिकीर्षया॥३५॥
इत्युक्त्वा वामनोदेव स्वस्यदत्वावरान्वहून्।
तत्रैवोवास राजेन्द्र यदा तद्द्वारपोयथा॥३६॥
अथवैरोचनिश्चापि वामनाल्लब्धवैभवः।
न्यवस त्तत्र पाताले भक्त्या वामनमर्चयन्॥३७॥
स कदाचिद्वलिर्देवं प्रणम्योवाच वामनम्।
देव देव जगन्नाध जगदाधारवामन॥३८॥
त्व त्प्रसादान्मालब्धं राज्यमायुश्चशाश्वतम्।
त्वथि प्रसन्ने देवेशे संस्थिते संविधेयम्॥३९॥
करस्थमेवमन्येहं पुरुषार्थचतुष्टयम्।
तथापि त्वमिमां वाञ्छां कुरु मे यां ब्रवीम्यहम्॥४०॥
पुरात्वां द्रष्टुकामोह मयजंक्रतुभिश्शतैः।
तत्रत्वं वामनोभ्येत्य सुराणां हितकाम्यया॥४१॥
मत्तस्संगृह्यवसुधां ततस्त्रैविक्रमोभवः।
मातुकामस्स्वपादेन वसुधां सागराम्बराम्॥४२॥
भवान्प्राच्छादयत्सर्वां तदापादतलेनगाम्।
तत्राहं पीडितो भूत्वा लग्नः पादतलांतरे॥४३॥
संविग्नहृदयोमूर्छा मगमं व्याकुलेन्द्रियः।
पातालं वा कथंप्राप्तो नजानेहं विमूर्च्छितः॥४४॥
ततस्तवैवकृपया र्सज्ञांप्राप्यसमुत्थितः।
अचिन्तय महं भूम्याः पातालं कथमागतः॥४५॥
त्वन्माययैवेदमिति पुनर्निश्चित्यचेतसा।
त्वामेव संस्मरन्नास माश्चर्येण च संभृतः॥४६॥
जम्बूद्वीपमिदं सर्वं सशैलवनकाननम्।
मातृ स्तवैकपादस्य नालमासीद्यतोहरे॥४७॥
अतस्तादृशपादाढ्यं रूपं ते कीदृशंत्विति।
सद्रूपं तु तदारभ्य द्रष्टुं वांछति मे मनः॥४८॥
तस्मा त्त्व मद्यभूयोपि रूपंत्रैविक्रमंमहत्।
प्रदर्शय तथादेव यथातुष्ये न्मनोमम॥४९॥
दृष्ट्वा ते परमं रूप मद्भुतं रोमहर्षणम्।
यथाभीति र्न मेभूया त्तथा दर्शय वामन॥५०॥
एवमुक्तस्तु बलिना वामनःप्रहसन्निव।
प्रत्युवाच पुनर्वाक्यं बलिं वैरोचनिंतदा॥५१॥
नशक्यं हि त्वया राज न्द्रष्टुं तद्रूपमद्भुतम्।
ऋषिभिश्चापि गंधर्वै र्देवैरपि सवासवैः॥५२॥
अश्वमेधसहस्रेण यदायष्टासिकेशवम्।
तद्रुपदर्शनेशक्ति स्तवभूयात्तदानृप॥५३॥
तथापि कृपयातुभ्यं तत्रोपायं वदाम्यहम्।
श्रुत्वातु तमुपायं मे कुरुष्वयदिरोचते॥५४॥
यदेकेनैव यज्ञेन सुकृतेन विधानतः।
सहस्रयज्ञफलदं नृणांभवतिभूवले॥५५॥
तत्तादृशं क्षेत्रवरं विष्णुप्रीतिकरंशुभम्।
अस्तिसत्यव्रतंनाम स्मरणान्मुक्तिदं नृणाम्॥५६॥
जम्बूद्वीपे महापुण्ये मेरोर्दक्षिणयोगिरेः।
तत्रास्ते भारते खण्डे कांचीनाम महापुरी॥५७॥
तत्र गत्वा श्वमेधेन त्व मेकेन यजाच्युतम्।
तेन त्रैचिक्रमंरूपं द्रक्ष्यसित्वं नसंशयः॥५८॥
इति तस्य वचश्श्रुत्वा बलिः परमहृष्टधीः।
तमेव प्रार्थयामास तत्रयाजयितुं हरिम्॥५९॥
नजाने देव कांचींवा क्षेत्रेवा भुक्तिमुक्तिदम्।
त्वमेव तत्रनीत्वामां कांचीं दर्शयपुण्यदाम्॥६०॥
त्वमेव याजकोभूत्वा मखमुद्धर्तु मर्हसि।
यथाहं लब्धकामस्स्यां तथा कुरु दयां मयि॥६१॥
इवि संप्रार्थितस्तेन बलिनावामनोहरिः।
तमुवाच पुनर्वाक्य मर्थसिद्धिकरंबलेः॥६२॥
कारयिष्यामि ते यज्ञं क्षेत्रे सत्यव्रतेधुना।
नयामित्वामितो राज न्निमेषेणैव भूतलम्॥६३॥
सर्वैर्ऋषिगणै स्सार्ध मृत्विग्भि स्सपुरोहितैः।
मां स्पृशत्वं करेणाशु तथामीलितलोचनः॥६४॥
प्रापयिष्यामि वः कांचीं तध्यतध्य मतंद्रिताः।
इति तद्वचनं श्रुत्वा बहिः परमहृष्ट धीः॥६५॥
ऋत्विग्भि र्मंत्रिभिस्सर्वे स्सहित स्सपुरोहितैः।
देवं पस्पर्श हस्तेन वामनं मीलितेक्षणः॥६६॥
काव्यः पुराहितस्तेषा माचार्यो ब्रह्मवित्तमः।
जरत्कारुश्च ब्रह्मर्षि रष्टावक्रश्च भूसुर;॥६७॥
शतंचकापिलेखाानां ब्राह्मणाना म्महात्मनाम्।
एतेचान्येव विप्रेंद्राः पस्पृशु र्वामनंकरैः॥६८॥
मीलिताक्षेषु सर्वेषु भगवा न्वामनो हरिः।
स्वयं शेषाकृतिरभू द्दीर्घपृष्ठो भयंकरः॥६१॥
भिन्द न्निश्वासवातेन धरां वेगाद्रसातलात्।
विलमत्यद्भुतं कृत्वा पृच्छाग्रेणोपगृह्यतान्॥७०॥
प्रागाद्विलेनतेनैव क्षणा त्सत्यव्रतंकिल।
तद्बै शेषबिलं कांच्यां वामनाख्यंच भूतले॥७१॥
ततस्सर्वा न्समुत्सृज्य स्वपुच्छाग्रेण वेष्टितान्।
शेषाकारो हरिस्तत्र वामनश्चाभवत्पुनः॥७२॥
उवाचल बलिंवीक्ष्य सर्षिसंघं सऋत्विजम्।
दानवेंद्र महाभाग पश्योन्मीलय लोखने॥७३॥
इयमेवपुरीकांची मुक्तिदा ब्रह्मनिर्मिता।
इति तस्य वचश्श्रुत्वा वामनस्य महात्मनः॥७४॥
नेत्राण्युन्मील्यतेसर्वे कांचीं ददृशु रद्भुताम्।
वयं क्षणा दिह प्राप्ताः पाताला द्बहुयोजनात्॥७५॥
कृपया किल देवस्य वामनस्य महात्मनः।
इति संहृष्टमनस स्सर्वे पश्यन्ति तां पुरीम्॥७६॥
वामनस्तु बिलद्वारे शेषेण सहितो वसत्।
शेषो विलस्य वायव्ये समीपे भूतले नृप॥७७॥
भोगेनकोष्टकीकृत्य न्यवस त्कामदोनृणां।
सतं समुद्बीक्ष्य बलि र्महांतं सर्पमुत्फणम्॥७८॥
कोष्टकीकृत्य वसुधां तिष्ठंतं विलपार्श्वतः।
विस्मयाविष्टहृदयः परिपप्रच्छ वामनम्॥७९॥
कोयं सर्पो महाभाग दृश्यते ऽद्भुतदर्शनः।
त्वत्समीपगतो ह्येष तं ममाचक्ष्व वामन॥८०॥
वामनः।
शृणु राजन्प्रवक्ष्यामि योवा सर्पोयमद्भुतः।
अयं नारायणो देवः परमात्मा सनातनः॥८१॥
त्वया सम्पूजितः पूर्वं क्रतुभि र्भूरिदक्षिणैः।
कृपया त्वयि विश्वेशी रक्षितुं त्वा मुपागतः॥८२॥
अनेन किल पाताला त्त्व मिहोर्ध्वमुपागतः।
अस्माद्बिलान्मया सार्धं सर्वै ऋषिगणै रपि॥८३॥
सर्वकामप्रदोनृणा मयमेव सनातनः।
सर्वा न्मनोगता न्कामां स्तव दातुं हि केवलम्॥८४॥
हन्तुं च तव यज्ञघ्ना निन्द्रादी नाततायिनः।
तस्य प्रियतमे क्षेत्रे त्वा मयं गोप्तुमागतः॥८५॥
तस्मात्त्व मश्वमेधस्य दीक्षां कृत्वा विधानतः।
अद्यैव तुरगं चापि क्षिप्रं मोक्तु मिहार्हसि॥८६॥
त्वमनेन सहायेन शेषेणाद्भुततेजसा।
अश्वानुयात्रां तरसा कर्तुमर्हसिसांप्रतम्॥८७॥
अहमत्रैवतिष्ठामि यावदागमनंतव।
इत्यादिष्टो भगवता वामनेन बलिस्तदा॥८८॥
प्रविश्यदीक्षांविधिव त्प्रमुमोचाश्वमंजसा।
तस्याश्वचर्यामहती बभूवाद्भुतदर्शना॥८९॥
शेषोनुयात्रा मश्वस्य चकारबलिनासह।
ततःप्राचीं दिशंगत्वा क्षेत्रात्सत्यव्रताद्बहिः॥९०॥
तत्र तीरे समुद्रस्य वेदिंकृत्वाविधानतः।
नारायणं समुद्दिश्य महति बलिमाचरत्॥९१॥
हुत्वाचैवाज्य होमेन ऋत्विग्भि र्ब्राह्मणैस्सह।
प्रययौ दक्षिणामाशा मनुसृत्य हयंततः॥९२॥
एवं क्रमेण राजेंद्र दिशस्सर्वाः परिभ्रमन्।
आययै वत्सरस्यांते क्षेत्रं सत्यव्रतं बलिः॥९३॥
शेषोपि जित्वा पथि वीर्यदृप्तां
स्तुरंगमं हंतु मुपागता न्सुरान्।
विजित्य शक्रं च विदीपयन्जग
त्फणासहस्रोत्थित रत्नकांतिभिः॥९४॥
विधूय विघ्नां स्तुरगानुयाने
विनिर्मिता न्वज्रधरेण रोषात्।
पुनश्च सत्यव्रतमेत्य कांचीं
प्रावेशयद्दैत्यपतिप्रहर्षात्॥९५॥
स्वयंच भोगेनबलात्खमन्ता
दाक्रोश मधिष्ट्य मुरारिरुत्फणः।
तत्रैव कांच्या मवसत्समीपे
बिलस्य पार्श्वे किछ पूर्वदक्षिणे॥९६॥
एवं हि राजन् कमलापति र्हरि
श्शेषाकृति स्तत्र बभूष कांच्याम्।
तद्दर्शनं सर्वसमृद्धिदं नृणां
पापापह म्पुण्यफलप्रदंच॥९७॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये एकोनविंशोध्यायः।
————
अथ विंशोध्यायः।
————
नारदः।
ततोवैरोचनिश्चापि नत्वा शेषाकृतिं हरिम्।
वामनंच बिलद्वारे नत्वा तिष्ठंतमच्युतम्॥१॥
तत स्तदाज्ञया राजा यष्टुं समुपचक्रमे।
तस्याभूद्यज्ञशालाहि क्रोशमात्रायतानृप॥२॥
बिलस्य परितोयाव च्छेषभोगानुवेष्टिता।
एकविंशतियूपाश्च शालायां स्थापिताः क्रमात्॥३॥
शालामध्ये महान्यूपः प्रधानः स्थापितो द्विजैः।
विलस्य पार्श्चे वायव्ये वेदिकापि विनिर्मिता॥४॥
यत्रासी त्कोष्ठकीकृत्य शेषः पूर्वं धरातले।
तत्रैव रचिता वेदिः कुशलै र्यज्ञकोविदैः॥५॥
देशे बिलस्य चाग्नेये निर्माय सरउत्तमम्।
तोयं सम्पादयामास यज्ञार्थं वामन स्तदा॥६॥
आसीत्काव्य स्तदा ध्वर्यु र्ब्रह्मा तत्रकहोलजः।
आस्ता मुद्गातृहोतारौ चण्डोमत्कश्च ब्राह्मणौ॥७॥
आसन् सर्वे कापिलेया ब्राह्मणा हि सभासदः।
वामनो भू दुपद्रष्टा तत्र यज्ञे महात्मनः॥८॥
एवं प्रवर्तिते यज्ञे बले स्तस्य महाद्भुते।
देवानां वासवादीना मभू त्किल महद्भयम्॥९॥
तत स्सर्वा न्सुरान्वीक्ष्य वास्तवो वाक्य मब्रवीत्।
अयं वैरोचनिर्देवाः क्षेत्रे सत्यव्रते धुना॥१०॥
इष्ट्वा देवं हरिं यज्ञै रस्मान् जेतुं किलेच्छति।
उपेक्षित श्चेदद्याय मस्माभिः पूर्व वत्पुनः॥११॥
स्वर्गमाक्रम्य वीर्येण सर्वा ब्रोबाधते ध्रुवम्।
यथास्य नभवेद्यज्ञ स्तथानीति र्विधीयताम्॥१२॥
भृशं तुरगयात्राया मस्माभिः पीडितो प्ययम्।
विधूय विघ्ना नखिला न्यष्टु मेवा रभत्किल॥१३॥
इति तस्य वच श्श्रुत्वा वासवस्य दिवौकसः।
तथैवेति विनिश्चित्य सर्वे यज्ञजिघांसवः॥१४॥
उपेत्य कांची मभितः परिवायार्तरिक्षगाः।
तोयं संशोषयांचक्रु श्शोषणास्त्रेण सर्वतः॥१५॥
तदा निस्तोयमभव त्सर्वं तत्क्षेत्रमण्डलम्।
वापीकूपतटाकाश्च ह्रदानद्यश्च दीर्घिकाः॥१६॥
कुल्यापल्वलकासारा बभूवु र्निर्जला स्तदा।
मेघा न्विद्रावयामातु रासारो नभवेद्यधा॥१७॥
तदा महेन्द्रकोपेन कांच्यासीत्तोयवर्जिता।
तदाहि जन्तवस्सर्वे सत्यव्रतनिवासिनः॥१८॥
भर्जिता इव सन्तप्ता बभूवु स्तोयवर्जिताः।
यजमानं बलिं दृष्ट्या बदान्य मतुरोत्तमम्॥१९॥
तच समेत्य मनुजा स्सत्यव्रतनिवासिनः।
अभ्ययाचंत तोयानि तृषार्ता स्सलिलैपिणः॥२०॥
ततो दृष्ट्वा बलिः कांचीं संशोषितजलाशयाम्।
किमेत दिति संभ्रांतो वामनं वाक्य मव्रवीत्॥२१॥
अभू किमिद माश्चर्य मतोयं क्षेत्रमण्डलम्।
केनेदं भयमुत्पन्नं मम यज्ञजिघांसुना॥२२॥
जीवंति वा कथं देव जंतवो जीवनं विना।
यज्ञोयं देवदेवेश कथं भूया ज्जलं बिना॥२३॥
प्रतिश्रुत्य ददामीति सर्वेषां वांछिता न्यहम्।
कथ मद्य प्रदास्यामि तोय म्मामभियाचताम्॥२४॥
यदि दातुं शक्नोमि त्यक्ष्या म्येवा द्य जीवितम्।
तस्मा दानय देवेश तोय म्मे दानकारणात्॥२५॥
इति संप्रार्थित स्तेन भगवा न्वामनोहरिः।
इत्युवाच प्रसन्नात्मा पश्य त्वं पुर्वतोवले॥२६॥
अयमायाति वै मेघ स्सुनील स्तोय पूरितः।
तं प्रार्थय महाबाहो सते दद्या ज्जलंबहु॥२७॥
इत्युक्त्वा वामनो राजन् बलेः प्रिय चिकीर्षया।
तदा मेघाकृति र्भूत्वा समुद्रा ज्जल मुद्बहन्॥२८॥
सविद्यु द्रूपया लक्ष्म्या सहितो म्बुदरूपभृत्।
पूर्वा त्समुद्रा त्सहसा गर्जन् घोर मुपाययौ॥२२॥
आसारै रम्बुदो त्सृष्टै र्नद्य स्सद्यः प्रपूरिताः।
जलपूरितकासार वापीकूपशतान्विता॥३०॥
बभूव कांची राजेंद्र विष्णुना मेघरूपिणा।
ततः प्रसुदितास्सर्वे बभूवु र्भुविजन्तवः॥३१॥
ब्राह्मणास्तुविशेषेण प्रहृष्टा स्तुष्टुवु र्बलिम्।
दानवेंद्र महाप्राज्ञ धन्यस्त्वं नात्रसंशयः॥३२॥
यदस्मभ्यं तृषार्तेभ्य स्सर्वेभ्य स्तोय मद्भुतम्।
दत्तं त्वयाद्ययज्ञेन वृष्टिमानयताद्भुतां॥३३॥
इति संश्लाघितो विप्रै र्बलि स्संहृष्ट मानसः।
ददर्श मेघे पुरुषं मेघाभं पीतवाससम्॥३४॥
लसत्किरीटकेयूरं शंखचक्रगदाधरम् \।
दृष्ट्वा संहृष्टसर्वाङ्गः परिपप्रच्छ वामनम्॥३५॥
कोह्ययं पुरुषोमेघे दृश्यते द्भुतदर्शनः।
ह्लादय न्निव मे चेत स्त म्ममाचक्ष्व वामन॥३६॥
बलेर्वचनमाकर्ण्य वामनो वाक्य मब्रवीत्।
योसो दृष्ट स्त्वया मेघे पुरुषः पुष्करेक्षणः॥३७॥
सएव राजन्भगवा न्विश्वात्मा विश्वभावनः।
विश्वगर्भो विश्वपरो विश्वसृड्विश्वभुग्विभुः॥३८॥
सर्वयज्ञभुगव्यक्तो यज्ञांगो यज्ञभावनः।
यज्ञेन यजमानंत्वा मिह गोप्तु मुपागतः॥३९॥
देवा न्मखघ्ना नुद्वीक्ष्य जन्तुं श्चार्तान् जलैषिणः।
स्वयमेवाम्बुदो भूत्वा प्रववर्ष किलोदकम्॥४०॥
केवलं त्वद्धितार्थाय प्रादुरासीदिहाच्युतः।
तथापि सर्वजन्तूनां सततं सर्वकामदः॥४१॥
स्थास्यत्यत्रैव देवेश स्तव प्रियचिकीर्षया।
तस्मा त्त्वं संप्रणम्यैन स्मख मारब्धु मर्हसि॥४२॥
इति तद्वचनं श्रुत्वा बलिः परमहृष्टधीः।
प्रणम्य पूजयामास मेघरूपिण मच्युतम्॥४३॥
मेघरूपो हरिश्चापि दत्वा तोयं बलेर्मखे।
तत्रैवावसदाग्रेये देशे शेषविलस्यतु॥४४॥
ततो बलिः प्रहृष्टात्मा सहसर्वै द्विजोत्तमैः।
यष्टुमारब्धवान्यज्ञं वामनेन समन्वितः॥४५॥
एवं कांच्यामभूद्राज न्मेघाकारोहरिःपुरा।
तद्दर्शनं भवेन्नृणा म्भुक्ति मुक्तिप्रदायकम्॥४६॥
ततः प्रवबृधेषज्ञो बलेस्तस्यमहात्मनः।
बह्वाश्चर्यकरोलोके बह्वन्नधनधान्यवान्॥४७॥
बहुधेनुप्रदानाढ्यो बहुपुण्यमदांनृणाम्।
भुंजतेरुक्मपात्रेषु ब्राह्मणास्सततंनृप॥४८॥
यंयंकामयतेकामं तं तमाप्नोति ब्राह्मणः।
तत्रयज्ञेमहापुण्ये बह्वन्नेभूरिदक्षिणे॥४९॥
सर्वेकर्माणिकुर्वन्ति याजकायज्ञसंसदि।
प्रवर्ग्यं शास्त्रतश्चक्रुस्तथैवोपसदंद्विजाः॥५०॥
गारुडंचयनंचापि चक्रुस्सर्वेद्विजर्षभाः।
यूपेषु पशवोबद्धा संस्कृताश्च स्वलंकृताः॥५१॥
श्रपयन्तिस्म तान्सर्वा न्प्रजुह्वत्यनलेशुचौ।
हूयमानेषु पशुषु तत्तदुद्दिश्य दैवतम्॥५२॥
यजमान स्समुत्सृज्य सर्वान् देवगणान्मखे।
न्यवेदयद्धरेरेव सर्वाश्चैवाहुतीर्बलिः॥५३॥
तदर्पितं हविस्सर्वं भक्तिपूतन्तुवामनः।
स्वयमेवाग्निमध्यस्थो जग्राहचतदामुदा॥५४॥
शामिवेतु ततस्सर्वे विशस्यतुरगोत्तमम् \।
वपां संगृह्यविधिवत्सम्यक्संस्कृत्यमन्त्रतः॥५५॥
जुहवांचक्रिरे वह्नौ वपां तां परमर्षयः।
तां वपांं विष्णवइति यजमानोबलिस्तदा॥५६॥
तस्मै निवेदयामास देवाय परमात्मने॥५७॥
ततोहयस्य चांगानि हुत्वासर्वाणि शास्त्रवत्।
ऋत्विग्भ्यो दक्षिणां प्रादाद्रत्नानिचवसूनिच।
ब्राह्मणेभ्यश्च सर्वेभ्यो ददौ बहु धनं नृप॥५८॥
ततस्समाप्यतं यज्ञं कृत्वावभृथमज्जनम्।
समाप्य दीक्षानियमं ववंदेवामनंबलिः॥५९॥
तं वन्दमानसुद्बीक्ष्य प्राप्तयज्ञफलंबलिम्।
वामनः परयाप्रीत्या स्मयमानो ब्रवीदिदम्॥६०॥
दानवेंद्रमहाभाग धन्योसित्वं नसंशयः।
यन्मामिहाश्वमेधेन सम्यगिष्ट्वाभ्यनंदयः॥६१॥
तस्मात्तेहंकरिष्यामि सर्वान्कामा न्मनोगतान्।
मम त्रैविक्रमं रूपं यत्त्वया द्रष्टुमीप्सितम्॥६२॥
तत्पश्यतु भवानद्य सम्यक्संहृष्टचेतसा।
इत्युक्तवति देवेशे वामने तत्क्षणान्नृप॥६३॥
सहस्रादित्यसंकाश ददृशेज्योतिरंबरे।
तस्मिन्ज्योतिषिराजेंद्र प्रादुरासीन्महोन्नतम्॥६४॥
विमानं पुष्पकंनाम दिव्यपुष्पसुगन्धवत्।
तस्मिन्नाविरभूद्देवो हरिस्त्रैविक्रमाकृतिः॥६५॥
तिष्ठन्नेकेनपादेन वसुधामाक्रमन्निव।
द्वितीयेनोद्धृतेनोर्ध्वं पदाद्यामाक्रमन्निव॥६६॥
प्रासार्यबाहूविपुलौ सम्यगुत्तरदक्षिणौ।
पीतांबरधर स्स्रग्वी वनमालाविभूषितः॥६७॥
किरीट केयूरधर स्स्फुरन्मकरकुण्डलः।
श्रीवासकौस्तुभधरो नीलनीरदसन्निभः॥६८॥
विमाने ददृशेतिष्ठ न्द्यांगांचैवाक्रमन्निव।
तदा देवर्षिगन्धर्वा स्सिद्धविद्याधरोरगाः॥६९॥
तदद्भुतं हरेर्दृष्ट्वा रूपं त्रैविक्रमम्प्रहत् \।
अदृष्टपूर्वमस्माभि रितिसंहृष्टमानसाः॥७०॥
सृजन्तः पुष्पवर्षाणि तुष्टुवुर्विविधैस्तवैः।
वलिर्वैरोचनिश्चापि दृष्ट्वादेवं त्रिविक्रमम्॥७१॥
तीरे वामनतीर्थस्य पश्चिमे परमाद्भुते।
विमाने पुष्पकेदिव्ये तिष्ठंतमचलोपमम्॥७२॥
पश्चिमाभिमुखं शांतं प्रणम्यपुरतस्स्थितम्।
बद्धांजलिपुटोराजा तुष्टावपरयामुदा॥७३॥
प्रसीद देवदेवेश प्रसीदपुरुषोत्तम।
वामनानन्तविश्वेश प्रसीदकरुणाकर॥७४॥
त्रिविक्रमत्रिलोकेश त्रिगुणातीत शाश्वत।
त्वां प्रपन्नो स्म्यहं विष्णो पाहिमां भवसागरात्॥७५॥
तवरूपमिदं द्रष्टुं चिरात्स्रं प्रार्थितंमया।
अद्यदृष्ट्वाकृतार्थोस्मि रूपंतव महाद्भुतम्॥७६॥
इतिस्तुवंत मुद्वीक्ष्य बलिं पार्श्वगतोहरिः।
वामनःप्रहसन्वाक्य मुवाचासुरपुंगवम्॥७७॥
पादत्रयमिताभूमि र्मह्यंदत्तापुरात्वया।
राजं स्त्रैविक्रमस्यास्य ममरूपस्यपादयोः॥७८॥
द्वयोरेवनपर्याप्ते द्यावाभूमीबभूवतुः।
एकपादमितामह्यं दातव्याकिलभूस्त्वया॥७९॥
तामद्यदेदिराजेंद्र पूर्वदत्तांधरांमम।
एवमुक्तस्तुदेवेन बलिर्वाक्यमुवाचह॥८०॥
सर्वंत्वयैवचाक्रांतं जगद्धिसचराचरम्।
कुत्रापिनावकाशोस्ति दातुंतेमच्छिरोषिता॥८१॥
तस्मान्निक्षिपदेवेश त्वत्पादम्मस्तकेमम।
इत्युक्त्वा तस्यपादाब्जस्पर्शसन्तोषलालसः॥८२॥
पादमूले हरस्तस्य बभूवानम्रमस्तकः।
ततस्त्रिविक्रमोवीक्ष्य स्वपादानतमस्तकम्॥८३॥
बलिंसंहर्षयन्राजन्निदमाहवचस्तदा।
सुप्रसन्नोस्म्यहंराजन्बले त्वद्दानवैभवात्॥८४॥
तुष्टश्चानेन यज्ञेन किंते भूयःकरोम्यहम्।
इति देवस्य तद्वाक्यं श्रुत्वाबलिरुवाचह॥८५॥
एतत्त्रैविक्रमंरूपं भवतादर्शितम्मम।
अनेनैवहिरूपेण कांच्यांयज्ञालयेमम॥८६॥
सर्वलोकहितार्थाय ममचप्रियकाम्यया।
आब्रह्मसंप्लवन्देव भवानत्रैवतिष्ठतु॥८७॥
एषमेपरमःकाम स्तदनुज्ञातुमर्हसि।
मांचप्रेषयपातालं कृत्वात्वत्पादपीडितम्॥८८॥
इतितस्य वचश्श्रुत्वा तमुवाच त्रिविक्रमः।
अहमत्रैव वत्स्यामि बले त्वद्धितकाम्यया॥८९॥
तवयज्ञालये कांच्यां सर्वेषामिष्टदोनृणाम्।
येमां त्रिविक्रमंकांच्यां पश्यन्तिमनुजाभुवि॥९०॥
ते लभन्ते परांभूति मायुरारोग्यमेवच।
इत्युक्त्वा देवदेवेश स्स्वपादं तस्यमूर्धनि॥९१॥
निक्षिप्य प्रेषयामास पातालंबलिमंजसा।
विष्णुपादतलाक्रांतमस्तको सुरपुंगवः॥९१॥
क्षणात्प्रविश्य पातालं प्रमुमोदसबांधवः।
त्रिविक्रमपि राजेंद्र बलेर्यज्ञसभातले॥९३॥
सहितश्शेषरूपेण मेधरूपेण विष्णुना।
तत्रैव कांच्या मवसत्सर्वसिद्धिप्रदोनृणाम्॥९४॥
वामनोपि नृणांदातुं सर्वान्कामानभीप्सितान्।
यज्ञकुंडस्यचाग्नेये विलद्वारस्य दक्षिणे॥९५॥
प्राङ्मुखोयज्ञशालायामासीत्सर्वेष्टदोनृणाम्।
पातालस्य विलद्वारं वामनाधिष्ठितं नृप॥९६॥
सर्वकामप्रदंनॄणां स्मरणात्पुण्यदंयतः।
कामकोष्ठमितिख्यातमतस्तद्वामनप्रियम्॥९७॥
सर्वपापहरंस्थानं दर्शनात्सर्वसिद्धिदम्।
कामकोष्ठे सकृत्कांच्यां यः पश्येद्वामनं नरः॥९८॥
सर्वान् सकामान्सम्प्राप्य मोक्षमन्ते व्रजेद्ध्रुवम्।
कांच्यां शेषाकृतिं विष्णुं तथा मेघाकृतिं हरिम्॥९९॥
त्रिविक्रमं च यः पश्ये त्सभूयान्मोक्षभाङ्नरः।
एवं स कांच्यां बलिरश्वमेधम्
चकार भक्त्या नृप वामनाज्ञया।
त्रैविक्रमञ्चापि ददर्शरूपम्
मेघाकृतिं शेषतनुंच विष्णुम्॥१००॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये विंशोध्यायः।
————
श्रीरस्तु।
अथ एकविंशोध्यायः।
—————
अम्बरीषः।
वामनान्तिकमासाद्य भृगुर्ब्रह्मर्षिसत्तमः।
ततः किमकरोत्तत्र तन्ममाचक्ष्वनारद॥१॥
अथकांचीमनुप्राप्य भृगुर्ब्रह्मर्षिसत्तमः।
कामकोष्ठे बिलद्वारे वामनं संददर्शह॥२॥
ततःपरमसंहृष्टः परिक्रम्य प्रणम्यतम् \।
पूजयन्वामनंदेवं तत्र यज्ञालये बलेः॥३॥
तिष्ठंस्तदन्तिकेविप्र श्चकार तपउत्तमम्।
तत स्संवत्सरे पूर्णे तप्यन्तम्परम न्तपः॥४॥
आत्मान मनिशं सम्य गर्चयन्तं भृगुं हरिः।
दृष्ट्वा प्रसन्नो भगवा न्वामनो वाक्य मब्रवीत्॥५॥
कमर्थं त्वमिहोद्दिश्य तपसा पूजया च माम्।
सम्प्रीणयसि विप्रेन्द्र वद किन्ते करोम्यहम्॥६॥
इत्युक्तो देवदेवेन प्रसन्नेन भृगु स्तदा।
प्रोवाच वाक्यं प्रणतः प्रांजलिः परयामुदा॥७॥
नमस्ते देवदेवेश नमस्ते वामनाच्युत।
त्वं प्रपन्नोस्मि कृपया पाहिमां भवसागरात्॥८॥
अहं तपोबला त्पूर्वं श्वेतद्वीपं हरेः पदम्।
गतो विवित्सुः परमं तत्त्वं तत्र हरेर्मुखात्॥९॥
तत्र तत्प्रेरितक्रोधकलुषी कृतमानसः।
तमेवाद्रुहमब्जाक्ष महितल्पेशयं यतः॥१०॥
अतोमामशपल्लक्ष्मी र्देवसंकुपिता तदा।
अभव्यस्तपसा भ्रष्टो निश्श्रीक स्त्वं भवेतिच॥११॥
तस्मात्सुदुःखसंतप्त स्तपोबलविवर्जितः।
अटमानश्च वसुधां चिरादहमिहागतः॥१२॥
त्वामेव शरणं म्प्राप्तो नान्यश्शरणमस्तिमे।
तस्मान्मा मुद्धरहरे प्रणतं शरणागतम्॥१३॥
इति प्रणत मालोक्य वामनः करुणानिधिः।
भृगुमुद्वीक्ष्य कृपया प्रहृष्टोवाक्यमब्रवीत्॥१४॥
माभैषी स्त्वंद्विजश्रेष्ठ शरणंते भवाम्यहम्।
तत्त्वं ते कथयिष्यामि शापान्मुक्तं करोमिच॥१५॥
आगतस्त्व मिदंक्षेत्रं यतोमत्प्रीतिवर्धनम्।
अतस्तुभ्यं प्रदास्यामि वरान् बहुगुणानहम्॥१६॥
इत्युक्त्वा तं समाश्वास्य समीप मुपवेश्यच।
प्रोवाचचात्मनस्तत्त्वं परमं भृगवेतदा॥१७॥
शृणुतत्त्वं द्विजश्रेष्ठ परमं गुह्यमुत्तमम्।
वत्तेहं सम्प्रवक्ष्यामि यज्ज्ञात्वामोक्ष्यसे ऽशुभात्॥१८॥
अहमेव परं तत्त्वं विज्ञानं ज्ञानमेवच।
सत्यं ज्ञान मनन्ताख्यं निरवद्य मतीन्द्रियम्॥१९॥
तत्परं ब्रह्ममामेव प्रवदन्ति मनीषिणः।
अहं सर्वस्य प्रभवो मत्तस्सर्व मिदं ततम्॥२०॥
अहमादिश्च मध्यंच भूतानामन्तएवच।
अध्वरोहमहं वेदा स्स्वधाहं हविरेवच॥२१॥
स्वाहावषट्स्वरोदर्ण श्छन्दांस्यग्नि र्महीचखम् \।
अहं त्रिमूर्ति स्त्रियुग स्त्रिपात्त्रिगुणकारणम्॥२२॥
त्रिधामात्रिगुणातीत स्त्रिवर्ण स्त्रियुगोद्भवः।
त्रिविक्रम त्रिकालज्ञ त्रिलोकेश स्त्रयीमयः॥२३॥
अहमेव जगत्सर्वं व्याप्यविष्णुरितिस्मृतः।
वासना त्सर्व जीवेषु वासुदेव इतीरितः॥२४॥
यतश्चाप्सु शयानोह मतो नारायण स्मृतः।
अणोरणीया न्सततं जीवेषु करणेष्वपि॥२५॥
निधसामियतश्चाहमतोमां वामनं विदुः।
कृत त्रेता द्वापरेषु युगेषु त्रिषु केवलम्॥२६॥
पश्यन्ति सततं सर्वे तस्मान्मान्त्रियुगंविदुः।
शुक्लरूपं कृतयुगे त्रेतायां रक्तरूपिणम्॥२७॥
द्वापरे पीतवर्णंच मां पश्यन्ति हि सूरयः।
तस्मा त्त्रिवर्ण इतिमा मवेहि द्विजसत्तम॥२८॥
पद्मासनेनोपविष्टं श्वेतद्वीपे श्रिया सह।
क्षीराब्धौ शेषपर्यंके शयानं रमया सह॥२९॥
तिष्ठन्तंचैव वैकुण्ठे वासुदेवं रमासखम्।
पश्यन्ति सततं धीरा स्त्रिषु स्थानेषु केवलम्॥३०॥
एतस्मा न्मान्त्रिधामान मवेहि द्विजसत्तम।
यइदं परमं तत्त्वं ममवेत्ति द्विजोत्तम॥३१॥
स एव तत्त्ववित्प्राज्ञो मद्भक्तश्चैव केवलम्।
तत्वानां परमं तत्वं ममैव ज्ञानमुत्तमम्॥३२॥
एतत्तेपरमंतत्वं कथितं द्विजसत्तम।
तव भक्त्याप्रसन्नेन मयातवहितैषिणा॥३३॥
मुक्तशापः प्रशांतात्मा तपोयोगबलान्वितः।
सर्वज्ञ स्सततं हृष्टो भवमस्पादसंश्रयः॥३४॥
इत्युक्त्वा वामनोराज न्भृगुंपुनरुवाचह।
यतस्त्वामशपल्लक्ष्मीः पुराक्रोधात्कृतागसम्॥३५॥
अतस्त्वं कुरु कामेष्टि मत्रलक्ष्मीप्रियांद्विज।
अस्मिन्नेवाग्निकुण्डेतु बलिनानिर्मितेपुरा॥३६॥
परमान्नेन कल्हारैः कमलैः कमलांद्विज।
संप्रीणयविचेत्तुष्टा त्वपिदेवीभविष्यति॥३७॥
प्रसन्नात्वयि संहृष्टा कुण्डादस्माद्विनिर्गता।
पुत्रीवतवविप्रेन्द्र वंश्याभूयान्नसंशयः॥३८॥
तस्मात्कुरुत्वं कामेष्टिं सर्वासद्धिप्रदांशुभाम्।
इत्युक्तोदेवदेवेन वामनेनमहात्मना॥३९॥
भृगुर्विज्ञाततत्वार्थ स्संप्रहृष्टोब्रवीत्पुनः।
श्रियासहोपविष्टस्त्वं श्वेतद्वीपेकथंहरिः॥४०॥
क्षीराब्धौ शयनं प्राप्तः कथं वात्वंश्रियासह \।
तिष्ठसित्वं कथं देववैकुण्ठे रमयासह॥४१॥
त्रिधाम्न स्तवरूपाणि दिव्यान्यत्यद्भुतान्यहम् \।
द्रष्टुकामोस्मि देवेश तन्मे दर्शयवामन॥४२॥
इति तस्यवचश्श्रुत्वा तस्यैव प्रियकाम्यया।
वामनो दर्शयामास त्रिधामानिद्बिजातये॥४३॥
कामकोष्ठाद्बिलद्वारा न्निर्गतान्यद्भुतानिहि।
श्वेतद्वीपेनिषण्णंच शयानं क्षीरसागरे॥४४॥
तिष्ठन्तंचैव वैकुण्ठे ददर्श द्विजसत्तमः।
तान्यद्भुतानि रूपाणि दृष्ट्वा भगवतोहरेः॥४५॥
निमील्य नयने भीतोभृगुः कंपितविग्रहः।
प्राक्रोशद्वामनं देवं भीतिगद्गदया गिरा॥४६॥
पाहि पाहि जगन्नाथ भीतं मामद्य वामन।
तवेदृशानिरूपाणि नैव शक्तोदमीक्षितुम्॥४७॥
इतिब्रुवंतमुद्वीक्ष्य भीतं द्बिजवरं तदा।
तत्रैवांतर्हितान्यासं स्त्रिविधानि पुनर्विले॥४८॥
अन्तर्हितेषु रूपेषु त्रिधाम्नः कमलापतेः।
भृगुस्संस्तभ्यचात्मानं वामनं पुनरब्रवीत्॥४९॥
अशक्यानि मयैतानि द्रष्टुं रूपाणि यत्तव।
तस्मात्सौम्यानि रूपाणि मह्यं संदर्शयाधुना॥५०॥
तथा दर्शय रूपाणि यथाच न बिभेम्यहम्।
कृतादिषुच देवेश युगेषु त्रिषु केवलम्॥५१॥
शुक्लोरक्तः पतिइति त्रिवर्गः कथितोभवान्।
तानिदर्शय रूपाणि त्रिवर्णानि जनार्दन॥५२॥
इत्युक्तस्तेन राजेंद्र त्रिवर्ण स्त्रियुगोहरिः।
तस्मै त्रियुगवर्णानि तदा रूपाण्यदर्शयत्॥५३॥
शुक्लं रूपं सुधाकारं योगिध्येयं कृते युगे।
रक्तरूपं प्रवालाभं ध्येयं त्रेतायुगेबुधैः॥५४॥
पीतंतु रूपं हेमाभं ध्येयं तद्वापरे सुरैः।
प्रादुर्बबूवुरेवं ते पीतरक्तसितास्त्रयः॥५५॥
तान्ददर्श भृगुर्देवान् शंखचक्रगदाधरान्।
पीतांबरधरान्दिव्य किरीटकटकोज्वलान्॥५६॥
तिष्ठतश्चश्रियासार्धं विमानेषु पृथक् पृथक्।
स्तूयमानांश्च गन्धर्वैर्देवैश्च परमर्षिभिः॥५७॥
दृष्ट्वा भृगुः प्रहृष्टात्मा देवांस्त्रियुगरूपिणः।
प्रणम्य विविधैः स्तोस्त्रैस्तुत्वा वाक्यमुवाचह॥५८॥
भवद्भिस्त्रिभिरत्रैव देवैस्त्रियुगरूपिभिः।
वस्तव्यमनिशं कांच्यां मम प्रियचिकीर्षया॥५९॥
इति संप्रार्थयन्तं तं दामनोवाक्यमब्रवीत्।
श्वेतप्रवालहेमाभा स्त्रयएते तपोधन॥६०॥
सर्वलोकहितार्थाय तवच प्रियकाम्यया।
निवसंत्विह वै कांच्यां सम्यगाचन्द्रतारकम्॥६१॥
यएतान्मनुजः पश्ये त्कांच्यां कमललोचनान्।
सोनुभूयाखिलान्कामानन्ते सायुज्यमाप्नुयात्॥६२॥
इति तस्य वचश्श्रुत्वा वामनस्य भृगुस्तदा।
संहृष्टमानखेोभूत्वा कामिकामिष्टिमारभत्॥६३॥
सुधाप्रवालहेमाभास्त्रयएतेहि विष्णवः।
तत्रैव कांच्या मवस न्कामकोष्ठे शुभप्रदे॥६४॥
बिलस्य कामकोष्ठस्य समीपे दक्षिणे नृप।
प्रदेशेन्यवस द्देव स्सुधाकार श्शुभप्रदः॥६५॥
बिलस्यपूर्वादिग्भागे प्रवालाभोवसद्धरिः।
विलस्योत्तरदिग्भागे हेमाभोप्यभवद्धरिः॥६६॥
बिलद्वारेवामनोभूत्सर्वकामप्रदोनृणाम्।
प्रवालवर्णस्व सुधाकृतेश्च
तथैव हेमाभतनोर्मुरारेः।
शृण्वन्ति ये वै चरितान्वजस्रं
ते यांति मुक्तिं भुवि भुक्तभोगाः॥६७॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये एकविंशोऽध्यायः।
—————
श्रीरस्तु।
अथ द्वाविंशोध्यायः।
—————
नारदः।
वामनानुज्ञया राजन्कामकोष्ठे भृगुस्ततः।
चकार कामिकामिष्टि मिंदिराप्रीतिकारणात्॥१॥
अधर्वशिरसि प्रोक्तैर्मंत्रैस्सद्यःफलप्रदैः।
दध्यक्षतकुशैर्लाजैः पुष्पहारिद्रचन्दनैः॥२॥
सम्यग्वेदिमलंकृत्य तामेव बलिनिर्मिताम्।
तस्यामग्निं समाधाय संकल्प्य विधिवद्भृगुः॥३॥
हविषा परमान्नेन कल्हारैः कमलैरपि।
जुहाव प्रयतोराजन् सर्पिषाच फलैरपि॥४॥
हविर्भिरेतैस्तुप्रीता लक्ष्मीर्भवतु मे सुता।
इति लक्ष्मीं समुद्दिश्य प्रजुह्वति भृगौ तदा॥५॥
संतुष्टा तत्र कुण्डाग्नेर्लक्ष्मीः प्रादुरभूत्किल।
दिव्यरूपधरा देवी लाकन्येद्याष्टहायनी॥६॥
दिव्यरूपधरा दिव्यपुष्पचन्दनमण्डिता।
तस्यांतु जातमात्राया अग्निकुण्डाद्भृगोर्मखे॥७॥
पुष्पवृष्टिर्स्रहत्यासी दन्तरिक्षात्सुभास्वरा।
ततोदेवर्षिगन्धर्वास्समेत्य भृगुमब्रुवन्॥८॥
सुता तवैषा विप्रेंद्र बभूवेयमयोनिजा।
अनया लोकधात्र्या त्वं सर्वान्कामानवाप्स्यसि॥९॥
इत्युक्त्वा संप्रहृष्टास्ते पुनर्जग्मुर्यथागतम्।
वामनोपि समुद्वीक्ष्य ताङ्कन्यां कमलेक्षणाम्॥१०॥
प्रहर्षमतुलं लेभे भृगुंचैवमुवाचह।
सुता भूत्वा तवोत्पन्ना सैव देवी किलाधुना॥११॥
या रोषात्पूर्वमशप द्भवंतं कृतकिल्बिषम्।
क्षेत्रस्यास्य प्रभावेन भक्त्याच तव सुव्रत॥१२॥
बभूव त्वयि संतुष्टा भृशमिष्ट्याचकाम्यया।
अभूदिवम्महालक्ष्मी र्यतस्तवसुताभृगो॥१३॥
अतोनाम्रा भार्गवीति लोकेख्यातिं गमिष्यति।
दिष्ट्या त्वं कृतकृत्योसि मुक्तशापश्च निर्वृतः॥१४॥
न केवलं तर्वाथाय समुत्पन्ना तु भूतले।
नराणामपि सर्वेषामियं दातुं किलेप्सितम्॥१५॥
अस्मादियं यज्ञकुण्डात्प्रादुरासीद्यतोरमा।
अतः कुण्डंभवत्वेत त्तीर्थंपरमपावनम्॥१६॥
लक्ष्मीतीर्थमितिख्यातं सर्वसम्पत्करं नृणाम्।
इत्युक्त्वावामनोराअं स्तत्कुण्डं तीर्थमुत्तमम्॥१७॥
कर्तुकामस्तदातोयं व्यसृजत्स्वकमण्डलोः।
वामनेनोदकंसृष्टं कुण्डे वैतानिकेयतः॥१८॥
अतस्तत्तीर्थमतुलं वभूव भुविपावनम्।
तीर्थस्य पञ्चनामानि सन्ति तस्य पुनर्नृप॥१९॥
शेषतीर्थं बलेस्तीर्थं भार्गवाख्यंच वामनम्।
श्रीतीर्थमिति यत्तस्मात्पंचतीर्थमुदाहृतम्॥२०॥
कामकोष्ठे पंचतीर्थे कांच्यां स्नाति नरोयदि।
पश्येद्वामनमीशानं सर्वान्कामानवाप्नुयात्॥२१॥
ततोभृगुस्सुतां लब्ध्वा तां देवीमनलोद्भवाम्।
प्रहृष्टस्स्वांकमारोप्य परिष्वज्य मुहुर्मुहुः॥२२॥
पुत्रीं शिरस्युपाघ्राय कृतार्थः प्रमुमोदह।
लब्धज्ञानोलब्धधनोबभूव श्रीकटाक्षतः॥२३॥
ततस्समाप्यविधिवदिष्टिं तां कमलाप्रियाम्।
लालयन्सततं पुत्रीं तत्रैवासीद्द्विजोत्तमः॥२४॥
सापि तं पितरं देवी मन्यमाना भृगुं तदा।
शुश्रूषन्ती च पितरं फलैर्मूलैर्जलैरपि॥२५॥
ब्रुवन्ती ताततातेति नन्दयन्ती भृगुं गुणैः।
एवं सान्यवसद्राज न्पितृशुश्रूषणैरता॥२६॥
कामकोष्ठे बिलद्वारे पश्यन्ती वामनं सदा।
ततः कदाचित्कालेन सुतां सम्प्राप्तयौवनाम्॥२७॥
दृष्ट्वा प्रोवाच तवनं भृगुस्तत्प्रियकाम्यया।
मद्वाक्यं शृणु वत्से त्वं यद्ब्रवीमि हित तव॥२८॥
वसत्यत्र बिलद्वारे वामनः पुरुषोत्तमः।
तमेव त्वं समाराध्य पतिं वरय सुव्रते॥२९॥
धृते तस्मिंस्त्वया देवे सोपि त्वामुद्वहिष्यति।
वाममेन कृतोद्वाहां दृष्ट्वा त्वां वरवर्णिनीम्॥३०॥
कृतार्थोहं प्रहृष्टश्च भवेयं नात्रसंशयः।
इति व्रुवाणस्य पितु र्वचनं तच्छुभानना॥३१॥
श्रुत्वा संहृष्टवदना प्रणम्य पितरम्मुदा।
सिषेवे वामनं गत्वा परया गुणसंपदा॥३२॥
आत्मानमुपसेवंती पतिकामांच भार्गवीम्।
उद्वीक्ष्य वामनो लक्ष्मी मुवाच वचनंतदा॥३३॥
त्वया विचिंतितं काममहं जानामि भार्गवि।
यमर्थं त्वमिहोद्दिश्य मामर्चयसि सुव्रते॥३४॥
तस्यैवार्थस्य लाभाय शृणुवक्ष्यामि ते हितम्।
श्वेतद्वीपे पुरा विप्रं मद्भक्तं समुपागतम्॥३५॥
मदाज्ञया विना रोषा दशपस्त्वं यतोभृगुम्।
अतोहमेव रोषात्वां तस्यैवाकरवं सुताम्॥३६॥
तदद्य हस्तिशैलाग्रे वरदं मामुपस्थितम्।
सम्पूजयस्वकमलैर्वर्षमेकं निरन्तरम्॥३७॥
तेनाहं सुप्रसन्नस्ते पाणिं गृह्णामि शोभने।
इत्युक्ता सा तदा तेन वामनेन महात्मना॥३८॥
प्रणम्य वामनं देवं ययौ हस्तिगिरिं प्रति।
पुत्र्या सह भृगुश्चापि प्रययौ वामनाज्ञया॥३९॥
तत्र निर्माय विपुलं सरः परमभास्वरम्।
तदुत्थितैश्च हेमाब्जै रर्चयामास केशवम्॥४०॥
वरदं हस्तिशैलाग्रे तिष्ठन्तं सर्वकामदम्।
ततस्संवत्सरस्यान्से वरदो भक्तवत्सलः॥४१॥
जग्राह पाणिं भार्गव्याः प्रसन्नेनान्तरात्मना।
भृगुश्चापि प्रहृष्टात्मा प्रणम्य वरदं हरिम्॥४२॥
पुत्रीं दृष्ट्वा कृतोद्वाहां कृतार्थःप्रमुमोदह।
तद्धि हेमाब्जकं नाम तीर्थं पापप्रणाशनम्॥४३॥
यस्स्नाति मनुजस्तस्मिन् सर्वान्कामानवाप्नुयात्।
भृगुस्स्वपुत्रीं देवाय वरदाय निवेद्य च॥४४॥
कृतकृत्यः प्रशान्तात्मा जगाम तपसे वनम्।
एतत्तेसर्वमाख्यातं हरेश्चरितमद्भुतम्॥४५॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये द्वाविंशोध्यायः।
—————
श्रीरस्तु।
अथ त्रयोविंशोध्यायः।
—————
अम्बरीषः।
कथं तत्रागता देवी शप्ता रुद्रेण पार्वती।
केन तामशपत्क्रोधा त्कारणेन वृषाकपिः॥१॥
कथं वामनमाराध्य कामकोष्ठे गीरीन्द्रजा।
पूताच पूर्णकामाच पतिं लेभे स्वकम्पुनः॥२॥
एतन्मे सर्वमाचक्ष्व श्रोतुकामाय नारद।
नारदः।
पुरा कदाचित्कैलासे नानाधातुविराजिते॥३॥
सेव्यमानस्सभामध्ये पार्षतैश्च गणाधिपैः।
आस्थितोरत्नपर्यङ्क मुमयासह शंकरः॥४॥
देवीं विनोदयन् गौरी मक्षैः क्रीडन्नुवासह।
तदा गौर्या शिवे सार्ध मक्षक्रीडां वितन्वति॥५॥
तत्र देवेन गिरिजा निर्जिता भूद्दुरोदरे।
पुनःपुन स्तथैवाक्षा न्विक्षिप्य प्रहसत्मृडः॥६॥
जिगाय देवी मक्षेषु कौशलं स्वं प्रदर्शयन्।
जित्वा तां प्रजहासोच्चै स्सह सर्वैश्च पार्षदैः॥७॥
ततः पराजिता देवी संक्रुद्धा पतिमब्रवीत्।
बलिं जित्वा त्रिलोकेशं पुरादेववरोहरिः॥८॥
सोपिनैवं जहासोच्चै र्यथाहसति माम्भवान्।
अक्षद्यूते स्त्रियं जित्वा किमाधिक्यं तवाधुना॥९॥
न्यूनंवा निर्जिताया मे कस्माद्धससिशंकर।
पराजितास्मि भवता कुशलेन दुरोदरे॥१०॥
अक्षैरेतैश्च विषमै स्तवाक्षैर्विषमैरिव॥११॥
इत्युक्तस्सूतया शम्भु स्तामुवाचहसन्निव।
विषमाणीवदृश्यन्ते किम्ममाक्षाणितेशुभे॥१२॥
इत्युक्ता शंकरेणार्या हसन्तीपुनरत्रवीत्।
न केवलन्तवाक्षाणि विषमाणि त्रिलोचन॥१३॥
नामानि तवसर्वाणि रूपाणि चरितानिच।
उग्रोरुद्रः कपर्दीति कपालीमुसलीतिच॥१४॥
व्योमकेशो विरूपाक्षां वामदेव स्त्रियम्बकः।
एतान्यन्यानि नामानि सुरम्याणि न किन्तव॥१५॥
भस्मान्यालिपितान्यङ्गे वासस्ते पितृकानने।
करे कपालोविधृतः कपर्द स्तव मस्तके॥१६॥
अक्षीणिच विरूपाणि वैव्याघ्र चर्मतेम्बरम्।
किं वर्णयामि ते चित्रं चरित्रं परमाद्भुतम्॥१७॥
इत्युक्त्वा सा वरारोहा शर्वाणी सर्वमंगला \।
जहास दृष्ट्वा देवेशं रुद्रं तत्र स्मयान्विता॥१८॥
प्रहसन्तीं तदा दृष्ट्वा स्मयन्तीमतिगर्विताम्।
शशापगिरिजां देवस्स्वपत्नीं शंकरोरुषा॥१९॥
यद्विनिंदसि मां मूढ़ पतिं त्रिभुवनेश्वरम्।
तस्माद्विरूपनयना भव त्वं घोरदर्शना॥२०॥
कालीच विकृताकारा सर्वलोकविनिंदिता।
इति शप्त्वा हरोगौरी न्तूष्णीमासीतदा नृप॥२१॥
ततस्तु गिरिजा देवी भयकम्पितविग्रहा।
प्रणम्य दण्डवद्भूमौ प्रार्थयामास शङ्करम्॥२२॥
देवदेव महादेव करुणाकर शङ्कर।
प्रपन्नां तव पादाब्जे न मां त्वंशप्तुमर्हसि॥२३॥
यन्मूढ़या मयाऽज्ञानादपराधः कृतस्तव।
क्षन्तव्यस्सोपराधोमे त्वया कारुण्यवेदिता॥२४॥
अभव्याहं त्वया शप्ता काङ्गतिं यामि दुःखिता।
अतस्त्वमेवमांपाहि त्र्यापादस्माज्जगत्पते॥२५॥
इति संप्रार्थितोदेव स्तामुवाच वृषध्वजः।
शापोयं देविमहत्तोनान्यथाभविताध्रुवम्॥२६॥
तथापि कृपया तुभ्यं यत्पवक्ष्यामि तच्छृणु।
धरायां दक्षिणं भागे खण्डे भारतसंज्ञके॥२७॥
अस्ति सत्यव्रतं नाम क्षेत्रं पापप्रणाशनम्।
तवकांचीति विख्याता पूरी पुण्यविवर्धिनी॥२८॥
तन्मध्ये कामकोष्ठाख्यं स्थानमस्तिमहोत्तरम्।
देवेन निर्मितम्पूर्वं वामनेन महात्मना॥२९॥
सर्वलोकहितार्थाय वामनस्तत्र तिष्ठति।
तत्रैव वामनंदेवं सम्यक्सम्पूज्यभक्तितः॥३०॥
प्राप्नुवन्ति हि सर्वेपि सर्वान्कामान्सुरादयः।
तस्मात्त्वमपि तत्रैव गत्वा कांचीभितश्शुभे॥३१॥
कामकोष्ठे बिलद्वारे तिष्ठन्तं दिव्यरूपिणम्।
यदिपश्यति देवेशं वामनं सर्वकामदम्॥३२॥
ततःप्रमुक्तमच्छापा भविष्यसि न संशयः।
इत्युक्ता शम्भुना गौरी तदा तच्छापदूषिता॥३३॥
बभूव विकृताकारा विरूपनयनात्तसा।
दुःखिताच विवर्णांगी परित्यक्ताच शम्भुना॥३४॥
आजगाम ततः कांचीं पत्युराज्ञाय शासनम्।
चामुण्डा चण्डवालाद्यैस्सहिता मातृकागणैः॥३५॥
इत्थंहि राजन्गिरिजा सुताभ्यां
समन्विता स्कन्दगजाननाभ्याम्।
काञ्चीं ययौ तत्रच कामकोष्ठे
समर्चितुंवामनमादिदेवम्॥३६॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये त्रयोविंशोध्यायः।
—————
श्रीरस्तु।
अथ चतुर्विंशोध्यायः।
—————
नारदः।
ततःकांची मनुप्राप्य गिरिजा शंकराज्ञया।
पंचतीर्थजले स्नात्वा ददर्शकिल वामनम्॥१॥
कामकोष्ठे बिलद्वारे तिष्ठन्तं सर्वकामदम्।
दृष्ट्वा सन्तुष्टहृदया परिक्रम्य प्रणम्यच॥२॥
पूजयामास विधिवत्सम्यक्संकल्प्य वाग्यता।
पूजयित्वा ततस्तत्र बिलद्वारे तदन्तिके॥३॥
तिष्ठन्त्येकेनपादेन वामनप्रीतिकाम्यया।
निधाय मस्तकेहस्तं चकार तप उत्तमम्॥४॥
तस्यां तपःप्रकुर्वन्त्यां सर्वास्ता अपिमातृकाः।
ररक्षुः परितोदेवीं परिचर्यांच चक्रिरे॥५॥
पुत्रौ च स्कन्द गणपा वुभौ तत्रैव मातरम्।
पश्यन्तौ वामनं चैव कामकोष्ठे किलोषितुः॥६॥
ततस्संवत्सरे पूर्णे वामनः करुणानिधिः।
प्रसन्नः पार्वतीं दृष्ट्वा तपस्यन्तीमुवाचह॥७॥
अल न्ते तपसा वत्से गोरि मा साहसं कृधाः।
भृशं तुष्टोहमभवं तपसा तव सुव्रते॥८॥
ततस्ते सम्प्रयच्छामि सर्वान्कामान्मनोगतान्।
रुद्रशापादनुप्राप्तं यद्रूपं विकृतं तव॥९॥
तद्रूपं विसृजाशु त्वं निर्मोकमिव पन्नगी।
सुनेत्रा सुभगाचैव भव त्वं दिव्यरूपिणी॥१०॥
अत्रैव सर्वजन्तूना मिष्टकाम्यार्थ दायिनी।
भूत्वामन्निकटे गौरि वसत्वं शाश्वतीस्समाः॥११॥
अत्रैवरुद्रोप्यागत्य त्वामुद्वहतुशंकरः।
तवनेत्रद्वयं पूर्वं रुद्रशापाद्विरूपितम्॥१२॥
यत्तदक्षिद्वयं वत्से सुमनोहरमस्तुते।
कामाक्षीतिच विख्याता नाम्नां त्वं भव भूतले॥१६॥
इति लब्धवरा देवी वामनेन महात्मना।
बभूव मुदिता गौरी मुक्तशापा सुरूपिणी॥१४॥
ततस्तत्रैव सर्वेषां नराणां वामनाज्ञया।
सर्वकामप्रदा भूत्वा न्यवसद्गिरिजानृप॥१५॥
ततः कदाचिद्गिरिजा तिष्ठन्ती वामनान्तिके।
उवाच वचनं मन्दं लज्जया वनतानना॥१६॥
अत्रैव मे पतिश्शम्भुरेष्यतीति त्वयोदितम्।
पृच्छामि त्वामहं तस्मा त्कदाव्याभ्येति शंकरः॥१७॥
कदा द्रक्ष्याम्यहं देव पतिं तद्वद वामन।
वामनः।
यदा त्वमिह तं शम्भुं भक्त्या सम्पूजयिष्यति॥१८॥
तदासमेत्यसन्तुष्ट स्त्वां नन्दयति ते पतिः।
यदि त्वमद्य गिरिजे पतिसंगमलालसा॥१९॥
समर्चय हरं क्षिप्रमद्यैवेह मदन्तिके।
संस्थाप्य सैकतं लिंग प्रदेशे पश्चिमोत्तरे॥२०॥
तस्मिंल्लिंगे हरं ध्यात्वा सम्यगावाह्य ते पतिम्।
उपचारैश्च सकलै रर्घ्यपाद्यादिभिर्भृशम्॥२१॥
पूजयस्व तत स्तुष्ट स्त्वामुपैष्यति शंकरः।
नारदः।
वामनेन तथोक्ता सा गौरी संहृष्टमानसा॥२२॥
प्रणम्य वामनं देवं तदाज्ञां गृह्य सत्वरम्।
तस्य वायव्यदिग्भागे प्रदेशे पुण्यवर्धने॥२३॥
संस्थाप्य पार्थिव लिंगं पूजयामास पार्वती।
तस्मिंल्लिंगे समावाह्य ध्यात्वा स्वपतिमंगना॥२४॥
अर्घ्यपाद्यादिकं दत्वा स्नाप्य पंचामृतैश्शुभैः।
वस्त्रचन्दनपुष्पैश्च धूपदीपैस्सुगन्धिभिः॥२५॥
नैवैद्यैर्विविधैः स्तोत्रैः परिक्रमणवन्दनैः।
एवं तत्रानिशं गौरी पूजयामास शंकरम्॥२६॥
तस्यामेवं पूजयंत्यां तदा विज्ञाय शंकरः।
द्रष्टुकामश्च तद्भक्तिमाययौ कालसूर्यवत्॥२७॥
अन्तरिक्षे स्थितोरुद्रस्तापयामास पार्वतीम्।
सन्तप्ता गिरिजा सम्यक्कालसूर्यातपाग्निना॥२८॥
इच्छन्ती चातपत्राणं तदा सस्मारवामनम्।
तस्याविचिंन्तितं ज्ञात्वा वामनोभक्तवत्सलः॥२९॥
तत्र तस्यै ददौ छायां सृष्ट्वाचैकाम्रमुत्तमम्।
दिव्यपुण्यफलैर्युक्तं पत्रसंचयसंकुलम्॥३०॥
दृष्ट्वा तत्रोत्थितं चैकमाम्रमद्भुतदर्शनम्।
तच्छाया माश्रिता देवी ननन्द गिरिजा नृष॥३१॥
शंकरोपि समुद्बीक्ष्य तत्राम्रतरुमुत्थितम्।
तच्छायामाश्रिताङ्गौरीं पुनश्चैवं चकारह॥३२॥
स्वनेत्रादनलं सृष्ट्वा ददाह तरुमंजसा।
तांच सन्तापयामास स्वनेत्राग्निकणैःपुनः॥३३॥
परितप्ता पुनर्देवी निर्दग्धे स्वाश्रये तरौ।
बभूव रौद्राग्निकणैः परिप्लुष्टांगपल्लवा॥३४॥
मृणालीवातपक्लांता छिन्ना मृदुलतेवच।
मूर्च्छिता पतिता भूमौ प्रदध्यौ मनसाहरिम्॥३५॥
पाहि मां देवदेवाग्नेरकस्मादुत्थितादिह।
परितप्तांच भीतांच पाहि मामेत्य वामन॥३६॥
इति ब्रुवन्तीं गिरिजां प्रपन्नां शरणैषिणीम्।
द्रुतमभ्याययौ गोप्तुं वामनः करुणानिधिः॥३७॥
सुधां प्रवर्षन्स्वकरैः पूर्णचन्द्राकृतिर्हरिः।
तापं खण्डयितुं गौर्याः प्रादुरासीत्तदन्तिके॥३८॥
शशांकबिंबमध्यस्थश्शंखचक्रगदाधरः।
सृजन्सुधामयीं वृष्टिं ददृशेद्भुतदर्शनः॥३९॥
ततस्तमागतं देवं शंखचक्रगदाधरम्।
चन्द्रमण्डलमध्यस्थं पीतांबरधरंहरिम्॥४०॥
श्रीवत्सकौस्तुभधरं वनमालाविभूषितम्।
ददर्श वामनं तत्र गौरीसंहृष्टमानसा॥४१॥
दृष्ट्वा प्रणम्य देवशमुवाच वचनम्मुदा।
अत्रैव तिष्ठ देवत्व मिहाद्य निकटे मम॥४२॥
न मे भीतिर्भवेत्तस्मा त्त्वयि सन्निहिते स्थिते।
इति तस्य वचश्श्रुत्वा तदा चन्द्राकृतिर्हरिः॥४३॥
सांत्वयन्वचसागौरी माचचक्षे वचश्शुभम्।
माभैषी र्गौरि वत्से त्वं मातेस्तु मनसोव्यधा॥४४॥
अहमत्रैव वत्स्यामि समीपे तव सुव्रते।
इत्युक्त्वा तत्र देवेशस्सरोनिर्मायचाद्भुतम्॥४५॥
तस्मिं त्स्वकिरणैस्सद्यः पूरयामासबै सुधाम्।
गौरींचोवाच सन्तुष्टः पूर्णचन्द्राकृतिर्हरिः॥४६॥
मया त्वत्तापशांत्यथ मत्रेदं निर्मितं सरः।
स्नात्वात्र गतसन्तापा भवत्वं वरवर्णिनि॥४७॥
इत्युक्ता देवदेवेन स्नात्वा तत्र गिरीन्द्रजा।
भूत्वा विगतसन्तापा तत्रैव पुरतोहरेः॥४८॥
तदाज्ञया पुनर्लिंगे शम्भुमर्चितुमारभत्।
तदा रौद्राग्निसन्दग्धश्चाम्रोप्यमृतवर्षणात्॥४९॥
अभूत्पल्लवितस्सद्यः फलैःपुष्पैश्च संभृतः।
तन्मूले लिंगमगजा सम्यक्संस्थाप्य सैकतम्॥५०॥
तस्मिन्नावाह्य देवेशम्पूजयामास शंकरम्।
यन्निर्मितं तत्र सरश्चन्द्ररूपेण विष्णुना॥५१॥
नाम्ना तच्चन्द्रतीर्थाख्यमभूत्पापापहं नृणाम्।
चन्द्रतीर्थे सकृत्त्कांच्यां भक्त्या स्नाति नरोयदि॥५२॥
तापत्रयाद्विनिर्मुक्त स्सर्वान्कामानवाप्नुयात्।
तीर्थस्य पश्चिमेतीरे पश्चिमाभिमुखं हरिम्॥५३॥
तिष्ठन्तंचन्द्रखण्डाख्य सुमायास्तापनाशनम्।
तन्दृष्ट्वा मनुजः पापान्मुक्तोमोक्षमवाप्नुयात्॥५४॥
यस्मात्सचन्द्ररूपेण गौर्यास्तापमखण्डयत्।
तस्मात्तंचन्द्रखण्डाख्यं प्रवदन्तिमनीषिणः॥५५॥
एवं सत्यव्रते क्षेत्रे चन्द्रखण्डाभिधोहरिः।
प्रादुर्बभूव राजेंद्र लोकानां हितकाम्यया॥५६॥
ततस्तु गौरी मुदिता हरेःपुर
स्तत्रैव चौकम्रतरोरधस्तात्।
चकार पूजां विधिवद्वृषाकपे
स्वदीयसन्दर्शनसौख्यलालसा॥५७॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये चतुर्विंशोध्यायः।
—————
श्रीरस्तु।
अथ पञ्चविंशोध्यायः।
—————
नारदः।
ततश्शम्भुः प्रसन्नात्मा तां परीक्षयितुम्पुनः।
द्रष्टुंच परमां तस्या भक्तिमात्मनि निश्चलाम्॥१॥
सतुगंगाधरोराजन् क्षेत्रे सत्यव्रते तदा।
गिरिजायाः पूजयन्त्याः पश्चिमे योजनत्रये॥२॥
स्थित स्तत्र जटाजूट जान्हवीमुत्ससर्जह।
उवाच च स्वशिरसो धरायामवतार्यताम्॥३॥
जान्हवित्वमितो गत्वा वेगात्स्त्रोत स्स्वरूपिणी।
प्लावयन्तीव गिरिजां विभीषयितुमर्हसि॥४॥
इत्युक्ता शम्भुनागंगा भूत्वा स्रोतस्स्वरूपिणी।
वेगादागात्प्लावयितुं पश्चिमाधोजनत्रयात्॥५॥
प्रेषयित्वा ततोगंगां गौरीं भीषयितुं हरः।
गंगाधर इतिख्यात स्तत्रैवोवास पश्चिमे॥६॥
तद्यस्स्रोतस्समुद्बीक्ष्य तत्राकस्मादुपागतम्।
सम्भ्रान्ता गिरिजा राजम् बभूवभयविक्लबा॥७॥
भयप्रकम्पितांगीसा दध्यौ देवं पुरः स्थितम्।
चन्द्रखण्डमुमा राजं स्तांश्वदेवोप्युवाचह॥८॥
गौरिगंगेयमभ्येति पूर्वजाभगिनीतव।
ताम्प्रार्थयवरारोहे भयमुत्सृज्य मानसम्॥९॥
कुर्यात्साहाय्यकं सा ते भगिनीस्नेहयंत्रिता।
इत्युक्ता चन्द्रखण्डेन गौरी सन्तुष्टमानसा॥१०॥
गंगां सम्प्रार्थयामास कृतांजलिपुटातदा।
सम्प्रार्थितापि सा गंगा भृशंगौर्या सुभीतया॥११॥
नैवशान्ताभवद्राजन् प्रवृद्धैवाभवत्पुनः।
सफेनबुद्भुदावर्त तरंगातिभयंकरी॥१२॥
महतास्रोतसापूर्णा गर्जन्ती घोरमभ्यगात्।
आप्लावयच्चपार्वत्याः पूजोपकरणान्यपि॥१३॥
पुष्पचन्दनमुख्यानि वस्त्राण्याभरणानिच।
पूजयन्तींच गिरिजां तच्चलिंगन्तदर्चितम्॥१४॥
प्लावयन्तीव वेगेन भीषयामास जान्हवी \।
ततस्तु गिरिजा दृष्ट्वा नद्याः पूरमुपागतम्॥१५॥
पूरात्पीडाभवेदस्य लिंगस्येति भयान्विता।
तल्लिंगं स्वार्चितं गोप्तुं सैकतंपुरतः स्थितम्॥१६॥
आलिलिंग दृढं दोर्भ्या मूरुभ्यां वक्षसासह।
अतोभूल्लिंगमगजास्तनकंकणमुद्रितम्॥१७॥
कांच्या माम्रतरोर्मूले सर्वपापहरं नृप।
ततः प्रकुपिता गौरी रोषसंरक्तलोचना॥१८॥
निर्दहन्तीव तां दृष्ट्वा गंगामप्रियकारिणीम्।
निर्भर्त्सयन्ती वचसा शशापकिलपार्वती॥१९॥
यन्मामिहैत्यगर्वेण विभीष्यसिदुर्भगे।
तस्मात्त्वमेतदारभ्य सर्वैर्लोकैश्चसामरैः॥२०॥
अस्पृश्या भव दुर्मेधे ममशापादमङ्गला।
त्यजन्तु त्वांजनास्सर्वे चण्डालीमिवदूरतः॥२१॥
योवात्वां संस्पृशेन्मोहात्सचण्डालो भवेद्ध्रुवम्।
इति शप्तातदागौर्या गंगासंभ्रांतमानसा॥२२॥
सुभीताशुष्कतोयाच बभूवभृशदुःखिता।
भीत्याप्रकंपिता भूत्वा भूम्यामन्तर्दधेकिल॥२३॥
यस्मात्सागिरिजाशापा त्कंपितावसुधांगता।
तस्मात्तां नामतःकंपां प्रवदन्तिमनीषिणः॥२४॥
ततःप्रशांतेतोयौघे गिरिजा हृष्टमानसा।
पुनस्संकल्प्य विधिवत्पूजयामास शंकरम्॥२५॥
विधूतविघ्ना देवेन चन्द्रखण्डेन रक्षिता।
अपूजयत्स्वभर्तारं तत्समागमकांक्षया॥२६॥
शंकरोपि समर्चंती मगजामात्मनःप्रियाम्।
दृष्ट्वा चिरायसन्तुष्ट स्तत्समागमलालसः॥२७॥
तस्मिंल्लिंगे स्थितस्सम्यग्भक्त्या सम्पूजितस्तया।
परिष्वक्तश्चबाहुभ्या मूरुभ्यामुरसासह॥२८॥
बभूवपरमप्रीत स्सर्वपापहरोहरः।
ततःप्रादूरभूद्देव स्तस्माल्लिंगा त्तदर्चितात्॥२९॥
वलर्क्षं वृषमारुह्य सर्वाभरणभूषितः।
संस्तूयमानो गन्धर्वैः ऋषिभिश्च स्वपार्षदैः॥३०॥
संवीज्यमानो गणपै श्चामरैर्व्यजनैरपि।
तत्रैकाम्रतरोर्मूले ददृशेद्भुतदर्शनः॥३१॥
तं दृष्ट्वा देवदेवेशं शंभुंत्रिभुवनेश्वरम्।
चिरायदृष्ट्वा भर्तारं गौरीपरमहर्षिता॥३२॥
गलन्मोदांबुसंसिक्तवक्षोजाग्रद्बयान्विता।
ननामपादयोस्तस्य भक्त्यापरमयायुता॥३३॥
अपिते कुशलं भद्रे दिष्ट्यादृष्टासिशोभने।
दिष्ट्याचिरादिहाद्यत्वा मपश्यमहमद्रिजे॥३४॥
दिष्ट्यादृष्टस्त्वयादेवो वामनःकरुणानिधिः।
दिष्ट्यालब्धवराचासि वामनेनमहात्मना॥३५॥
तांतदाप्रणतां दृष्ट्वा शंकरःकरुणाकरः।
समुत्थाप्यस्वबाहुभ्या मङ्कमारोप्यसस्वजे॥३६॥
पुनःपुनः परिष्वज्य समाश्वासयदद्रिजाम्।
उवाच वचनं चापि प्रेम्णापरमवल्गुना॥३७॥
दिष्ट्यात्वामकरोद्देवः कामाक्षीं कामरूपिणीम्।
दिष्ट्यातवहितार्थाय सर्वलोकेश्वरोहरिः॥३८॥
पूर्णचन्द्राकृति र्भूत्वारक्षितुं त्वामुपस्थितः।
कथं हरेःकृपया स्त्वमभवःपात्रमद्भुतम्॥३९॥
अहं त्वयि प्रसन्नोस्मि सन्तुष्टस्तवपूजया।
वसान्यत्रैव लिंगेस्मिंस्त्वयासंम्पूजितेशुभे॥४०॥
सर्वलोकहितार्थाय तवचप्रियकाम्यया।
आब्रह्मकल्पमत्रैव कांच्यामेकाम्र मूलगः॥४१॥
भविष्यामि त्वया सार्धं सर्वेषामिष्टदो नृणाम्।
इत्युक्त्वा शंकरो राजन् सहगौर्या सुहृष्टया॥४२॥
तत्रैव कांच्या मवस त्सहसर्वैश्च पार्षदैः।
यस्मादेकाम्रवृक्षस्य मूलआस्तेनिशंशिवः॥४३॥
तस्मादेकाम्रनाथाख्यं तंवदन्ति जना भुवि।
कांच्यामेकाम्रनाथस्य दर्शनं पुण्यवर्धनम्॥४४॥
सर्वाभीष्टप्रदं नृृणां आयुरारोग्य वर्धनम्।
कामाक्षींचापि यःपश्ये त्कामितार्थप्रदायिनीम्॥४५॥
ससर्वान् लभतेकामा नायुःकीर्तिं च विन्दति।
इत्थंहि रुद्रेण दुरोदरेपुरा
क्रुद्धेन शप्ता गिरिराजपुत्री।
पूता पुनः पूर्णमनोरथाच
बभूव कांच्यां किल वामनेन॥४६॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये पञ्चविंशोध्यायः।
—————
श्रीरस्तु।
अथ षड्विंशोध्यायः।
—————
अम्बरीषः।
आसीत्किल तदागंगा गौरी शापाद मंगला।
ततःकिमकरोद्देवी कथं पूता भवत्पुनः॥१॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन।
गंगायाश्चरितं सम्यग्वक्तुमर्हसि नारद॥२॥
नारदः।
शृणु राजन्प्रवक्ष्यामि गंगायामोक्ष मुत्तमम्।
शृण्वतां सर्वपापघ्न मायुरारोग्य वर्धनम्॥३॥
एधे शप्तातु पार्वत्या गंगा संक्रुद्धया तया।
बभूव तत्क्षणात्सर्वै रस्पृश्या चाप्यमंगला॥४॥
तस्यास्तत्तोय मखिलं दुर्गन्धं पूयसन्निभम्।
बभूवानुपभोग्यंच गौरीशापा द्विनिन्दितम्॥५॥
योषिद्रूपवतीचापि चाण्डालीव विरूपिणी।
बभूव दुःखिता देवी सर्वलोक विनिन्दिता॥६॥
ततस्सन्तप्तहृदया पश्चात्तापेन यन्त्रिता।
गौरीं सम्प्रार्थयामास योषिद्रूपेण संयुक्ता॥७॥
गौर्या श्चाग्नेयंदिग्भागे स्थित्वा तत्रैव दुःखिता।
दैवेशं चन्द्रखण्डाख्यं गौरींचापि मुहुर्मुहुः॥८॥
ध्यायन्ती सततं भक्त्या चकार तपउत्तमम्।
ततोदेवर्षिगन्धर्वास्सिद्धाः पतगपन्नगाः॥९॥
समुद्रास्सरितश्चैव तीर्थानि निखिला ह्रदाः।
दुर्गंधतोयामस्पृश्या मतिनिन्द्याममंगलाम्॥१०॥
दृष्ट्वा गंगां तदा भीताश्चण्डालीमिव रूपिणीम्।
ते समेत्य सुसंभ्रांता स्सर्वै मन्त्रममंत्रयन्॥११॥
स्वपत्नीं वरुणश्चापि दृष्ट्वा गंगां सुदुःखितः।
देवान्सम्प्रार्थयामास गंगायाश्शुद्धिकारणात्॥१२॥
कथं विना वयं सर्वे जीवामस्सुरनिम्नगाम्।
तस्माच्चतुर्मुखं देवं गच्छामश्शरणं वयम्॥१३॥
सम्प्रार्थयामस्तंसर्वे गंगायारशुद्धिकारणात्।
इति निश्चित्य विबुधा वरुणेन समन्विताः॥१४॥
प्रजग्मुस्सहितास्सर्वे ब्रह्माणं शरणं तदा।
कांच्यां सत्यव्रतक्षेत्रे शप्ता यत्रास्ति जान्हवी॥१५॥
तत्रैव हस्तिशैलाग्रे सोप्यास्ते चतुराननः।
अर्चयन्वरदं देवं तस्माद्याम स्वदन्तिकम्॥१६॥
इति निश्चित्य ते सर्वे समेता स्त्रिदशोत्तमाः।
प्रजग्मु र्हस्तिशैलाग्रे पूजयन्तं हरिं विधिम्॥१७॥
दृष्ट्वा तत्र चतुर्वक्त्रं नत्वा प्रांजलयस्स्थिताः।
तस्मै निवेदयामासु र्गंगाया श्शापकारणम्॥१८॥
स तेषान्तु वचश्श्रुत्वा ब्रह्मा ब्रह्मविदांवरः।
ध्यात्वा मुहूर्तं तान्सर्वा निदंवचनमब्रवीत्॥१९॥
जान्हवी गिरिजाशापा द्बभुवा मंगलाकिल।
गिरिजा व्यग्रजां गंगां नशशाप स्वयेच्छया॥२०॥
तत्रचन्द्रावतारस्य देवस्यैवाज्ञयाहरेः।
शशाप गौरी कुपिता जान्दवीं कृतकिल्बिषाम्॥२१॥
तस्माद्यूयं चन्द्रखण्डं व्रजध्वं शरणं हरिम्।
अहंच वोनुयास्यामि गंगाया श्शुद्धिकारणात्॥२२॥
इत्युक्ता ब्रह्मणादेवा स्सह तेन स्वयम्भुवा।
उपेत्य चन्द्रखण्डस्य नैऋत्यां दिशि संस्थिताः॥२३॥
समेताः पुरतो विष्णुं तुष्टुवुर्विविधै स्स्तवैः।
देवदेव जगन्नाथ करुणावरुणालय॥२४॥
त्वाम्प्रपन्ना स्स्म देवेशं पाह्यस्मान्शरणागतान्।
इयं सुरनदी गंगा सुरागांहितकारिणी॥२५॥
त्वयैव सृष्टा देवेश पादांगुष्ठाग्रतःपुरा।
जीवनं सर्वभूतानां गंगा त्रिपथगाकिल॥२६॥
तां विनाद्य कथं सर्वे जीवामः पुरुषोत्तम।
सा भीषयित्वा गिरिजां त्वद्भक्तां शंकराज्ञया॥२७॥
तया संक्रुद्धया शप्ता बभूवेयममङ्गला।
तस्मात्तामुद्धरहरे त्वामेव शरणं गताम्॥२८॥
तस्या विशुद्धि मिच्छन्त स्त्वांवयं शरणं गताः।
त्वमेव देव सर्वेषां सुराणाम्परमागतिः॥२९॥
इत्युक्त्वा तत्र ते सर्वे ब्रह्माद्यास्त्रिदिवौकसः।
प्रसीद देवदेवेति क्रोशन्त स्तत्र तस्थिरे॥३०॥
गंगापि तेषाम्पुरतः पृथगेकैवसंस्थिता।
चन्द्रखण्डस्य देवस्य चाग्नेयं देशमास्थिता॥३१॥
दध्यौ देवं रमानाथं गौरीशापादमंगला।
इति स्तुवत्सु देवेषु संगतेषु ततो नृप॥३२॥
तत्र सत्यव्रतक्षेत्रे कांच्या मध्ये कृतेयुगे।
वैशाखेमासि पौर्णन्यां समुद्यति दिवाकरे॥३३॥
व्योम्नि प्रादुरभूद्दिव्यं ज्योतिस्तौदामिनीप्रभम्।
ज्योतिषा नभसि व्याप्ते सहस्रादित्यरोचिषा॥३४॥
तत्र देवः प्रादरभू दन्तरिक्षा द्रमापतिः।
वरं दातुंहि गंगायै देवानां हितकाम्यया॥३५॥
छन्दोमय मनन्ताख्यं समारुह्य खगेश्वरम्।
दिव्यपीताम्बरधर स्स्रग्वी रुचिरकुण्डलः॥३६॥
दिव्यचन्दनलिप्तांगो वनमाला विभूषितः।
किरीटांगदकेयूर कटिसूत्रैरलंकृतः॥३७॥
सुवर्णस्कन्धनिक्षिप्तनितम्बोरुद्वयाम्वितः।
वैनतेयकरन्यस्तकोमलांघ्र्यम्बुजद्वयः॥३८॥
श्वेतचामरहस्तैश्चव्यजनछत्रपाणिभिः।
सनन्दनन्दप्रमुखैस्सेव्यमानश्च पार्षदैः॥३९॥
योगिभिस्सनकाद्यैश्च स्तूयमानपदाम्बुजः।
तत्रैत्थंददृशे विष्णु रयुतार्क समद्युतिः॥४०॥
प्रादुर्भूते तथादेवे सर्वेषांच दिवौकसाम्।
प्रसन्नानिमनांस्यास न्सतामपि च भूतले॥४१॥
ववौ वायुस्सुखस्पर्शः पुण्यगन्धवहश्शुचिः।
सरांसि विमलाम्भांसि नद्यश्च विमलोदकाः॥४२॥
गन्धवन्तिच पुष्पाणि स्वादून्यास्रन्फलानिच।
पुष्पवृष्टिर्महात्यासी दन्तरिक्षात्सुभास्वरा॥४३॥
ततश्च तंवीक्ष्य सुराःप्रहृष्टा
हरिं समारूढखगेन्द्रमाद्यम्।
नन्दन्ति नृत्यन्ति नदन्ति कचि
द्दध्मुर्मुदा काहलशंखगोमुखान्॥४४॥
स्तुवन्तिकेचि त्प्रणमन्तिकेचि
त्कुर्वन्ति केचित्करतालशब्दान्।
गायन्ति केचित्पणवानकादीन्
प्रवादयन्तिस्म सुवाद्यसंघान्॥४५॥
अथ सुरमनुजादयस्तदा
हरिमभिवीक्ष्य विहंगराजपृष्ठे।
दिवसकरमिवोदयाद्रिशृंगे
कमलवनानि यथाययुःप्रमोदम्॥४६॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये षड्विंशोध्यायः।
—————
श्रीरस्तु।
अथ सप्तविंशोध्यायः।
—————
नारदः।
ततस्तमुद्वीक्ष्य हरिं शङ्खचक्रगदाधरम्।
वैनतेयं समारुह्य संप्राप्तममरोत्तमम्॥१॥
प्रणम्य प्रांजलिर्भूत्वा तुष्टावचतुराननः।
देवदेवजगन्नाथ जगदाधारकेशव॥२॥
वयं त्वां शरणं प्राप्ता स्त्वन्नाथास्त्वत्परायणाः।
पाह्यस्मात्कृपया नाथ सततं मधुसूदन॥३॥
कोवानस्सर्वकार्येषु त्वत्तोन्यश्शरणं भवेत्।
इयं हैमवतीगंगा सर्वलोकैकपावनी॥४॥
सर्वलोकहितार्थाय त्ययैव जनितापुरा।
साद्य त्वद्भक्तया गौर्या संशप्ताभूदमङ्गला॥५॥
अतस्तां कुरुकल्याणीं वीतशापां सुमंगलाम्।
एषनः परमःकाम स्तद्दनुज्ञातुमर्हसि॥६॥
इति ब्रुवति देवेशे विधातरि रमापतिम्।
गंगापि संप्रणम्योच्चै स्तुष्टावपुरुषोत्तमम्॥७॥
नमस्ते पुण्डरीकाक्ष पुराणपुरुषाव्यय।
योगिध्येय रमानाथ नमस्ते विश्वभावन॥८॥
विश्वरूपं विश्वसृजं विश्वात्मानमनीश्वरम्।
त्वां प्रपन्नास्म्यहं देव योगिध्येयं रमापतिम्॥९॥
निर्गुणं निष्कलंशांतं निरवद्यं निरामयम्।
त्वां प्रपन्नास्म्यहं देव योगिध्येयं रमापतिम्॥१०॥
सूक्ष्मात्सूक्ष्मतरं विष्णु म्महतोपि महत्तरम्।
त्वां प्रपन्नास्म्यहं देव योगिध्येयं रमापतिम्॥११॥
विशुद्धविज्ञानघन मनन्तमजरामरम्।
त्वां प्रपन्नास्म्यहं देव योगिध्येयं रमापतिम्॥१२॥
अभीतमभयं स्थाणुमनादि मकुतोभयम्।
त्वां प्रपन्नास्म्यहं देव योगिध्येयं रमापतिम्॥१३॥
इति स्तुतोथ भगवान् गंगया भक्तवत्सलः।
सन्तुष्टस्तामुवाचेदं वचनं मधुराक्षरम्॥१४॥
भृशं तुष्टोस्म्यहं गंगे तपसा तव सुव्रते।
प्रीतस्तुभ्यं प्रदास्यामि मनसा कांक्षितान् वरान्॥१५॥
गौरीशापात्प्रमुक्तात्वं भव पूताच मंगला।
विपापा सुभगाचैव सर्वलोकैकपावनी॥१६॥
भव मच्छातनाद्गंङ्गे सर्वलोकेषु पूजिता।
इदञ्चाप्यपरं वाक्यं शृणु वक्ष्यामि ते हितम्॥१७॥॥
सर्वलोकहितार्थाय तवचख्यातिकारणात्।
यत्रस्थित्वात् मां द्रष्टुं तपस्त्वं कृतवत्यसि॥१८॥
तत्र तीर्थं महापुण्यं भवत्वघहरं नृणाम्।
यस्मादमंगलान्मुक्ता पुनःप्राप्तासि मङ्गलम्॥१९॥
तस्मान्मंगलतीर्थाख्यं लोके भवतु पावनं।
मंगलाख्ये पुण्यतमे तीर्थे वस्स्नातिमानवः॥२०॥
सोनुभूयाखिलान्कामा नन्तेमोक्षंचविन्दति।
इदं चैव परं वक्ष्ये शृणु मद्वचनं शुभे॥२१॥
ऐतेषि त्यामोधवितुं क्षापादस्मादमंगलात्।
सहिता स्संधज्ञो पत्र स्वित्वानां तुष्टुवुस्सुराः॥२२॥
तत्रापि सुमहृत्पुण्यं सरोभवतुपादनम्।
तस्मिन् सरसिते सर्वे वसन्त्विह मदाज्ञया॥२३॥
यस्मात्सर्वेपि तीर्थेस्मिन् निवसंत्यनिशंसुराः।
तस्मात्तत्सर्वतीर्थाख्यं सरोभवतुपावनम्॥२४॥
अत्र भक्त्या नरस्स्नात्वा कृत्वातु वपनक्रियाम्।
यः कुर्या त्पार्वणश्राद्धं तं विद्या दश्वमेधिनम्॥२५॥
एवं प्रसन्ने ब्रुवति गंगामुद्वीक्ष्यशार्ङ्गिणि।
बभूवु स्सम्प्रहृष्टास्ते ब्रह्माद्यास्त्रिदिवौकसः॥२६॥
गंगापि गिरिजाशापा न्मुक्ता सम्पूर्णमानसा।
अवदत्पुनरप्येवं भगवन्तंजनार्दनम्॥२७॥
भगवं स्तवदेवस्य दर्शनान्मुक्तकिल्बिा।
लब्धकामाविशुद्धांगी चाभवं नात्रसंशयः॥२८॥
तथापि त्वमिमं देव वरम्प्रेदातुमर्हसि।
नराः पातकिनोलोके प्रत्तोये कृतमज्जनाः॥२९॥
विसृजन्तिच मय्येव स्वानिपापानिनित्यशः।
विसृज्यमयिपापानि शुद्धास्तेयांति मानवाः॥३०॥
तानि मामेवबाधंते नरं कुक्षिरुजोयथा।
तवसंदर्शनं लोके सर्वपापहंकिल॥३१॥
सर्वाभीष्टप्रदंचापि सर्वोपद्रवनाशनम्।
अतस्त्वां द्रष्टुकामाह मिहैवास्मिदिनेदिने॥३२॥
तस्मात्तिष्ठतु देवेशो भवानत्रैव सन्ततम्।
यथानरैर्विसृष्टेभ्यः पापेभ्योदं दिनेदिने॥३३॥
दृष्ट्वा त्वामिह मुक्तास्यां तथाकुरुदयाम्मयि।
इति संप्रार्थितो देव्या गंगयालोककांतया॥३४॥
उवाच भगवान्वाक्यं जाह्नवीं संप्रहर्षयन्।
शृणुजाह्नविमद्वाक्यं यद्ब्रवीमिहितंवव॥३५॥
नराः पातकिनो लोके मत्वा त्वां पापनाशनीम्।
स्नात्वा त्वयि विमुंचंति स्वपापानि दिनेदिने॥३६॥
त्वामेवतानि सर्वाणि संश्रवन्तिहि केवलम्।
तस्मात्तत्पापशांत्यर्थ सुपायं शृणुजाह्नवि॥३७॥
अन्वहं त्वयिमुक्तानि स्नात्वा यानितुपापिभिः।
तानि सर्वाणि संगृह्य पातकान्यनुवत्सरम्॥३८॥
यत्रकुत्रस्थितावापि त्वमिहागन्तु मर्हसि।
अत्र सत्यव्रत क्षेत्रे तीर्थे स्मिन्मङ्गलाभिधे॥३९॥
वैशाखे मासि पौर्णम्या मिहसन्निहिताभव।
सुरास्सेंद्रा स्समेष्यन्ति सर्वेप्यत्र मदाज्ञया॥४०॥
तस्मिन् दिने त्वयं ब्रह्मा मांतेसन्दर्शयिष्यति।
वत्सरेवत्सरेण्येव मस्मिन्नेव शुभेदिने॥४१॥
वैनतेयसमारूढ मत्रमान्दर्क्षयिष्यति।
विधात्रा दर्शितं मांत्व मत्रदृष्ट्वानुवत्सरम्॥४२॥
पापात्सर्वजनैर्मुक्ता त्सद्यःपूताभविष्यसि।
तस्मिन्नहनियेमर्त्या स्तीर्थेस्मिंन्कृतमज्जनाः॥४३॥
मांप्रपश्यन्त्यकलुषा स्वेपियान्ति परांगतिम्।
एवमुक्त्वा हरिर्गंगां दत्वाचाभयमुत्तमम्॥४४॥
ततःपार्श्वगतंवीक्ष्य ब्रह्माणं वाक्यमब्रवीत्।
ब्रह्मन्नियं सुरनदी मामत्रशरणंगता॥४५॥
अतस्त्वामिह वक्ष्यामि मदाज्ञांकुरु पद्मज।
यदात्रहयमेधेन सम्यङ्मामयजद्भवान्॥४६॥
तदारभ्यत्वमत्रैव हस्तिशैलस्य मूर्धनि।
मदाज्ञयैव प्रतिमाः कृत्वामल्लक्षणै र्युताः॥४७॥
तत्रमां पूजयन्भक्त्या न्यवात्सीः किलपद्मज।
उत्सवान्कुरु मत्प्रीत्यै प्रतिमास्वास्थितस्य मे॥४८॥
मासेमासे च पक्षेच तथैवायनयोर्द्बर्योः।
जलैः फलैश्चकुसुमै र्वस्त्रैरत्नैश्च मौक्तिकैः॥४९॥
अन्यैर्भक्ष्यैश्च भोज्यैश्च प्लवादीनुत्सवान्कुरु।
संवत्सरोत्सवंचापि कुरुमत्प्रीतिवर्धनम्॥५०॥
वैशाखेमासि संप्राप्ते कुरुसंवत्सरोत्सवम्।
विष्वक्सेन बलिं कृत्वा गारुडं वलिमेवच॥५१॥
अभिषेकैश्च होमैश्च बलिभिर्वैष्णवैरपि।
दानैश्च बहुभिस्सम्यक्तथा ब्राह्मणभोजनैः॥५२॥
प्रीणयप्रतिमासंस्थं मामेवं वत्सरोत्सवे।
हंसोक्तविधिना सम्यक्प्रयतःप्रीतमानसः॥५३॥
कृत्वानवाहदीक्षां त्वमेवं कुरुमहोत्सवम्।
अंकुरारोपणं कृत्वा भेरीवाडनमेवच॥५४॥
धान्यमानं नदीयात्रां तयारत्नौघवीक्षणम्।
तथैवारामयात्रांच ग्रामयात्रांच कारय॥५५॥
वस्त्रैराभरणैः पुष्पैर्यानैश्च विविधैरपि।
अलंकुरुष्व मां सम्यक्प्रत्यहन्तु नवैर्नवैः॥५३॥
तदात्वं पौर्णमास्यान्तु वैशाखेमासिपद्मज।
वैनतेयसमारूढं कृत्वा मां विबुधैस्सह॥५७॥
नदीयात्रां प्रकुर्वाण स्तीर्थेस्मिन्मंगलाभिधे।
अभ्यागतायै गंगायै वरदम्मां प्रदर्शय॥५८॥
अत्रदृष्ट्वातु मांगंगा पापान्मुक्ता भवत्वियम्।
वत्सरे वत्सरेप्येवमस्मिन्नहनि पद्मज॥५९॥
तीरे मंगलतीर्थस्य गंगायै मां प्रदर्शय।
सापिप्रत्यब्दमभ्येत्य तीर्थेस्वन्निहितावहि॥६०॥
दृष्ट्वा मां मनुजोत्सृष्टा त्पापात्पूताभवत्वलम्।
तस्मिन्नहनियेमर्त्या स्तीर्थेस्मिन्कृतमज्जनाः॥६१॥
मां पश्यन्त्यत्रवरदं सद्यःपूताभवन्तिते।
इति ब्रह्माण मादिश्य तत्र देवेश्वरो हरिः॥६२॥
सम्यगाश्वास्य गंगांच तत्रैवांतर्हितोभवत्।
अन्तर्हितेभगवति ब्रह्माब्रह्मविदांवरः॥६३॥
तस्याज्ञां शिरसागृह्य तथा सर्वंचकारच।
हस्तिशैलस्य शिखरे वरदं पूजयन्हरिम्॥६४॥
उत्सवै र्बहुभिश्चापि प्रीणयामास केशवम्।
ततो गंगां समुद्वीक्ष्य विशापां वीतकल्मषाम्॥६५॥
देवास्सवासवास्सर्वे बभूवुर्हृष्टमानसाः।
रुद्रोपि गंगामालोक्य तत्रचैकाम्रमूलगः॥६६॥
मुक्तशापां पापहरां स्तोत्रयामासभक्तितः।
संप्रार्थ्यच पुनर्गंगां मंगलाम्मंगलावहाम्॥६७॥
चन्द्रतीर्थे सन्निहितां तस्यप्रार्थनयातदा।
दधारशिरसा भूयोभक्त्यागंगाधरोनृप॥६८॥
यतस्साचन्द्रतीर्थस्था बभूवकृपयाशिवे।
अतश्चन्द्रसरोराज न्शिवगंगेतिविश्रुता॥६९॥
एतत्तेसर्वमाख्यातं गंगायाश्शापमोक्षणम्।
तदिदमघकुलघ्नं देववर्यस्यविष्णो
श्चरितममरनद्या मोक्षणंयश्शृणोति।
पठतिच सकलार्थान्प्राप्य भूमौ समृद्धा
न्व्रजति सपुनरग्र्यं विष्णुसायुज्यमन्ते॥७०॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये सप्तविंशोध्यायः।
—————
श्रीरस्तु।
अथ अष्टाविंशोध्यायः।
—————
अम्बरीषः।
ब्रह्मंश्चतुर्मुखो ब्रह्मा हरेराज्ञायशासनम्।
कथंचकारप्रतिमा मुत्सवंचापिमेवद॥१॥
नारदः।
अनुज्ञां प्राप्यदेवस्य ततोविष्णोश्चतुर्मुखः।
कारयामास वैविष्णोरालयं विश्वकर्मणा॥२॥
हस्तिशैलस्य परितः प्राकारत्रयमण्डितम्।
सुवर्णविकृतैश्चित्रै रत्नशृंगै रलंकृतम्॥३॥
गोपुरैश्च विमामैश्च मण्टपैरुपशोभितम्।
स्फाटिकान्तरसोपानै श्शोभितं स्वर्णकुट्टिमैः॥४॥
जालधातायमोपेतै र्वितर्दीशतसंकुलैः।
रत्नस्तंभशताकीर्णैर्मण्टपै रुपशोभितम्॥५॥
उद्यामासवणोपेतं वापीकूपसमन्वितम्।
हस्तिशैलस्य शिखरे विमानमतुलप्रभम्॥६॥
प्रादुर्भूतंहियत्पूर्वं पुण्यकोट्याख्यमद्भुतम्।
तत्तथैवस्थितमभू त्सर्वपापहरंनृणाम्॥७॥
विष्वक्सेनंच गरुड मन्वानष्टौच पार्षदान्।
चकारसम्यग्विधिनाविश्वकर्मा समाहितः॥८॥
ततस्सप्रवर्तीविष्णो श्चकार प्रतिमात्रयम्।
शुद्धांदारुमयीमेकां चकारास्थानकारणात्॥९॥
तथाताम्रमयींचान्यां प्रतिमां भोगरूपिणीम्।
शुद्धांतीर्थमयींचान्यां प्रतिमां रजतात्मिकां॥१०॥
तांवितस्विमितांसूक्ष्मां चकार विधिपूर्वकम्।
देवीभ्यांसहितंविष्णो र्भोगबिंबमनुत्तमम्॥११॥
चकारविधिवत्तत्र वितस्तित्रयसम्मितम्।
विष्णोर्दारुमयंबिंबमाश्रयाख्यमनुत्तमम्॥१२॥
आहुरास्थानिकंबेरं पंचकिष्कून्नतंनृप।
एवं विधायविधिव द्विश्वकर्मा विधानवित्॥१३॥
न्यवेदयद्विधात्रे ताः प्रतिमाः परमात्मनः।
दृष्ट्वा ताः प्रतिमाब्रह्मा रचिताविश्वकर्मणा॥१४॥
तासुदध्यौ रमानाथं शंखचक्रगदाधरं।
देवेशोपि रमानाथः प्रतिमास्ताविवेशह॥१५॥
प्रतिमासुस्थितोवापि भगवा न्भूतभावनः।
आसीत्सर्वेषु कालेषु प्रजल्पन्नेववेधसा॥१६॥
ततश्चतुर्मुखोदेवं पूजयामासनित्यशः।
पवित्रपाणि स्संकल्प्य यतवाक्कायमानसः॥१७॥
ओमित्येकाक्षरं पूर्वं व्याहारन्मीलितेक्षणः।
ततोनमइति श्लक्ष्ण मुच्चरन्नक्षरद्वयम्॥१८॥
ततो भगवते वासुदेवायेति नवाक्षरैः।
दददर्घ्यंच पाद्यंच तथैवाचमनीयकम्॥१९॥
मूलमन्त्रेण संप्रोक्ष्य स्थंडिलेदर्भसंस्तरे।
तत्र संस्थापयामास पंचपात्राणिशास्त्रतः॥२०॥
अर्घ्यपात्रंतु वायव्ये नैर्ऋत्यांदिशिपाद्यकम्।
तथैवाचमनंपात्र मैशान्येस्थापितंकिल॥२१॥
स्नानपात्रं तथाग्नेये मधुपर्कंतुमध्यम।
एवं संस्थाप्यपात्राणि तोयैस्संपूर्यनिर्मलैः॥२२॥
मौक्तिकैः पुष्परागैश्च प्रवालैःकांचनैरपि।
एलालवंगकर्पूर चंदनै रधिवास्यच॥२३॥
जप्त्वाच विष्णुगायात्र्या सम्यगष्टाक्षरैर्मुहुः।
मूलमंत्रं समुच्चार्य निवेदयति विष्णवे॥२४॥
इदमर्ष्य मिदंपाद्यं मधुपर्कमिदंत्विति।
तथैव पौरुषैस्सूक्तैः कुर्वंश्चैवाभिषेचनम्॥१५॥
ततो वस्त्रैरलंकृत्य चन्दनैश्चसुगंधिभिः।
पुष्पैराभरणै श्चित्रै र्मुक्तामणिविचित्रितैः॥२६॥
स्वलंकृत्य विधानेन धूपदीपे निवेद्यच।
निवेदयति मृष्टान्नं विष्णवे कमलासनः॥२७॥
दघ्योदनंच मुद्गान्नंक्षीरान्नंच गुडोदनम्।
चित्रान्नं परमान्नंच शर्करान्नं तथैवच॥२८॥
भक्ष्यैर्नानाविधैर्दिव्यै स्सापूपैस्सगुडैरपि।
लेह्यैरुच्चावचैश्शाकै श्चोष्यैः खाद्यैरनेकशः॥२९॥
स्वादूदकैश्च ताम्बूलैर्निवेद्य सहितं विधिः।
ततःप्रदक्षिणं कुर्वन्प्रणम्यच कृतांजलिः॥३०॥
स्तोत्रैर्नानाविधैर्दिव्यैः प्रस्तुवंश्च मुहुर्मुहुः।
रात्रौच रत्नपर्यंके सम्यगावेश्य केशवम्॥३१॥
पादसंवाहनंकुर्वन्वीजयन्व्यजनैरपि।
एवंचकार देवस्य पूजामन्वहमब्जजः॥३२॥
मासान्ते चैव पक्षांते विशेषेणाकरोद्बलिम्।
ततःप्लवोत्सवमुखा तुत्सवांश्चाकरोद्विधिः॥३३॥
फलैश्च पल्लवैश्चैव पुष्पैस्ततदृतूद्भवैः।
रत्नैराभरणैस्सम्यगलंकृत्य जनार्दनम्॥३४॥
आंदोलिकायामारोप्य देवीभ्यां सहितं हरिम्।
वापीकूपतटाकेषु रम्योद्यनवनेषुच॥३५॥
वरदं रमायामास नृतैर्गीतैरनेकशः।
ततःकमलजोराज न्हरेराज्ञाय शासनम्॥३६॥
संवत्सरोत्सवंचापि वैशाखे मासिचाकरोत्।
पवित्रपाणिस्संकल्प्य बध्वा प्रतसरंकरे॥३७॥
चकार वैष्णवीं दीक्षा मानवाहमभोजनः।
आवाह्य वैष्णवान्देवा न्भेरीवादनपूर्वकम्॥३८॥
हंसोक्तागममार्गेण चकारांकुरमब्जभूः।
विष्वक्सेनबलिं कृत्वा गारुडंबलिमेवच॥३९॥॥
भक्ष्यैर्भोज्यैश्च मृष्टान्नै र्भोजयित्वा द्बिजोत्तमान्।
दत्वा दानानि विप्रेभ्य स्सहितस्तैर्महर्षिभिः॥४०॥
देवं पुष्पकमारोप्य सर्वाभरणभूषितम्।
देवर्षिपितृगंधर्वै स्सकिन्नरमहोरगैः॥४१॥
नृत्यद्भिश्चैव गायद्भिस्सह सर्वाप्सरोगणैः।
वीणामृदंगपणवभेरीदुन्दुभिवादकैः॥४२॥
ब्राह्मणैस्सहितस्सर्वै र्ऋग्यजुस्सामपरागैः।
कारयामास देवस्य ग्रामयात्रां पितामहः॥४३॥
तत्रतत्रबलिंचैव कृत्त्वैवंप्रथमेहनि।
द्वितीयेहनिचाप्येवं पूजयित्वाविधानतः॥४४॥
हंसमारोप्यवरदं चक्रेरत्नपरीक्षणम्।
तृतीयेदिवसे प्राप्ते पौर्णम्यामरुणोदये॥४५॥
हरेरनुज्ञया ब्रह्मासस्मारगरुडंतदा।
सोभ्यागारत्स्मृतमात्रस्तु वैकुण्ठात्खगसत्तमः॥४६॥
चन्दनानिचपुष्पाणि वस्त्राण्याभरणानिच।
वैकुण्ठात्स्ववमाजह्ने वरदयांडजेश्वरः॥४७॥
स्कन्धमारोप्यवरदं शंखचक्रगदाधरम्।
पक्षौवितत्वगरुड श्चकारोड्डीनमंबरे॥४८॥
ततस्सुरेंद्रा वसवोमुनींद्राः
गंधर्वविद्याधर पन्नगेंद्राः।
हरिंसुपर्णांसगतंदिदृक्षव
स्वदाभ्ययु र्देवगणाश्चसर्वे॥४९॥
नृत्यंतिगायंति समेत्यतत्र
नृत्यंप्रकुर्वंतिसुरेंद्रनार्यः।
वंशांश्चवीणाः पणवांश्चभेरी
स्संवादयन्तिस्मसहस्रशोन्ये॥५०॥
स्तुवंतिगायंति नदंतिचोच्चै
र्नदंतिनृत्यंति निरीक्ष्यदेवम्।
प्रसूनवृष्टिं ससृजुस्तदांबरा
त्सुरर्षि गंधर्वगणास्समेताः॥५१॥
एवं तृतीयेदिवसे पौर्णम्यामाज्ञयाहरेः॥५२॥
देवंदर्शयितुं देव्यै गंगायैकमलासनः।
नदीयात्रां प्रकुर्वाण स्समादायहरिम्मुदा॥५३॥
मंगलाख्यस्य तीर्थस्य तीरमभ्याययौनृप।
तद्दिने तत्रगंगापि देवंद्रष्टुमुपागता॥५४॥
तस्यै संदर्शयामास देवंदेवाज्ञयाविधिः।
गंगातु दृष्ट्वा देवेशं ब्रह्मणादर्शितंहरिम्॥५५॥
तत्र मंगलतीर्थस्या पापान्मुक्ताबभुवह।
ततोमंगलतीर्थेषु सामंसर्षाधनाशनम्॥५६॥
वैशाखमाशिपौर्णम्यां विक्षेपाद्भुक्तिमुक्तिदम्।
एवंचतुर्मुखोराजन् सर्वैर्देवगणैस्सह॥५७॥
कारयामासदेवस्य प्रदीपाद्मांतुतद्दिने।
गरुडोप्युद्वहन्भक्त्या तस्मिन्नेवदिनेहरिम्॥५८॥
तत्रैवहस्मिज्ञैलाग्रे न्यवसत्सुरतोहरेः।
ततश्चतुर्थेदिवसे कृत्वाशेषणतंहरिम्॥५९॥
आरामयात्रांतु हरेः कारयामासपद्मभूः।
अन्दोलिकायामारोप्य वरदं पञ्चमेहनि॥६०॥
धान्यमानं तथा चक्रे सर्वाभीष्टप्रदं नृणां।
षष्ठेचैरावतंचक्रे सप्तमे स्यन्दवं तथा॥३१॥
अष्टमे कल्पवृक्षंच चकार विधिवद्विधिः।
नवमंहयमारोप्य चकारोत्सवमब्जभूः॥३२॥
तस्मिन्नेवदिने राजन्नपराह्णेसुरैस्सह।
श्रवणाख्येहरेर्ॠक्षे चक्रेवभृधनज्जनम्॥६३॥
विसृज्य दीक्षां विप्रेभ्यः प्रददौ बहुदक्षिणां।
इत्थं वैशाखमासेतु विधिःप्रत्यब्दमुत्सवैः॥६४॥
वरदंपूजयन्भक्त्या तत्रैवासीत्कृतेयुगे।
ततस्त्रेतायुगेप्राप्ते वरदोभक्तवत्सलः॥६५॥
तत्रब्रह्माणमुद्वीक्ष्य वाक्यमेतदुवाचह।
भृशन्तुष्टोस्म्यहं ब्रह्मन् पूजयातवसुव्रत॥६६॥
एभिस्त्वयाकृतैस्सम्यक्प्रत्यब्दंवत्सरोत्सवैः।
यस्मादत्रत्वयाब्रह्मन् कृतस्संवत्सरोत्सवः॥३७॥
तस्माद्बह्मोत्सवइति प्रथितोयं भविष्यति।
इमंब्रह्मोत्सवंलोके ममपश्यन्तियेनराः॥६८॥
तेषामहं प्रदास्यामि पुरुषार्थचतुष्टयम्।
येचात्रकारयिष्यन्ति राजानोमन्महोत्सवम्॥६९॥
तेषामायुश्चशक्तिंच श्रियंदास्याम्यचञ्चलाम्।
पूजितोस्मिभृशं ब्रह्मन् सांगं कृतयुगेत्वया॥७०॥
तदलं त्वमितोगच्छ सत्यलोकं सनातनम्।
एतेषुत्रिषुभूयस्त्वं त्रेतादिषुयुगेष्वपि॥७१॥
वैशाखेमाखिपौर्णम्या मनुवत्सरमेत्यमाम्।
अत्र इस्तिगिरौ कांच्यां द्रष्टुमर्हसिपद्मज॥७२॥
तद्गच्छत्वमितःक्षिप्रं स्वलोकंसत्यनामकम्।
अहमत्रैववत्स्यामि हस्तिशैलस्यमूर्धनि॥७३॥
सर्वलोकहितार्थाय तवचप्रियकाम्यया।
इत्युक्तो देवदेवेन ब्रह्माब्रह्मविदांवरः॥७४॥
ततःप्रणम्यदेवेशं वरदंभक्तवत्सलम्।
तदाज्ञयैवप्रययौ सत्त्याख्यंलोकमुत्तमम्॥७५॥
एवं विधाताविधिवन्महोत्सवं
चकारकांच्यामनुवत्सरंहरेः।
कृतेयुगे तत्र समर्चयन् हरिं
ततस्स्वलोकं प्रययौतदाज्ञया॥७६॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये अष्टाविंशोध्यायः।
—————
श्रीरस्तु।
अथ एकोनत्रिंशोध्यायः।
—————
नारदः।
गतेचतुर्मुखेराजन् स्वलोकमृषिभिस्सह।
पुरंत्रेतायुगेप्राप्ते यथापूर्वमभूद्वनम्॥१॥
नानामृगगणाकीर्णं नानावृक्षैस्समाकुलम् \।
सिंहव्याघ्रगजाकीर्णं नानाशकुनिनादितम्॥२॥
ततःकालेन महता तस्मिंस्त्रेतायुगते।
आषीद्राजऋषिः कश्चिद्द्वापरांते कुरूद्वहः॥३॥
ब्रह्मण्यः सत्यसन्धश्च योनाम्ना जनमेजयः।
अभ्येत्यसपुरींचक्रे पुनःकांचींनृपोत्तमः॥४॥
ब्राह्मणानामालद्योश्च तथादेवालयानपि।
चकारविधिवद्यज्ञ मश्वमेवंच पार्थिवः॥५॥
देवंचदेवकीसूनुं तत्रयज्ञेददर्शह।
रुक्मिणीवल्लभंकृष्णं दृष्ट्वा स जनमेजयः॥६॥
उवास कांच्यां तत्रैव कृष्णं संपूजयन्हरिम्।
मन्त्रिभिस्सहितैस्सर्वै र्जनैर्जानपदैरपि॥७॥
राज्यंचकुर्वन् सत्वस्थः कंचित्कालमुवासह।
अम्बरीषः।
किमर्थमयजत्कांच्यां कौरव्योजनमेजयः॥८॥
कथंददर्शदेवंच तन्ममाचक्ष्वनारद।
नारदः।
शृणुराजन्प्रवक्ष्यामि कथांभागवतीमहम्॥९॥
अस्तिखल्विहराजेन्द्र हस्तिनाख्यामहापुरी।
तस्यामासीत्पुराराजा शन्तनुर्नामनामतः॥१०॥
विख्यातोभारतेवंशे यज्वा दानरतोवशी।
विचित्रवीर्यस्तस्यासी त्पुत्रःपरमधार्मिकः॥११॥
तस्यपुत्रौमहाप्राज्ञौ बभूवतुररिंदमौ।
धृतराष्ट्रश्चपांडुश्च श्रुतपूर्वौत्वायाचतौ॥१२॥
तयोस्त्ववरजःपांडुः धृतराष्ट्रोग्रजोभवत्।
पांडोर्हिपंचदायादा आसन्विष्णुपदाश्रयाः॥१३॥
धृतराष्ट्रस्यपुत्राणां शतमासीत्सुपापिनाम्।
ततस्तेषांकृतेभूमिरासीन्निःक्षवियातदा॥१४॥
कृष्णेनसहिताःपार्था हत्वातानाततायिनः।
अपालयंतपृथिवीं भगवत्पादसंश्रयाः॥१५॥
ततःकालेनतेसर्वे स्वर्गंगंंतुंकृतत्वराः।
हस्तिनायामभ्यर्षिचत् स्वषौवमभिमन्युजम्॥१६॥
स्वर्गताःपांडबाराज्ये स्थापयित्वापरीक्षितम्।
तस्यपुत्रोमहाप्राज्ञो नाम्नाभूज्जनमेजयः॥१७॥
सराज्यंप्राप्यराजर्षि स्स्वर्वातेपितरिस्वके।
हस्तिनाख्यांपुरींराजन् शशासामरराजवत्॥१८॥
सकदाचित्सभामध्ये रत्नसिंसनेशुभे।
आसीनोमंबिभिस्सार्धं ब्राह्मणैश्चैवनैगमैः॥१९॥
तत्राभ्यागतमुद्बीक्ष्य ब्रह्मर्षिवेदपारगम्।
वैशंपायनमाचार्यं व्यासशिष्यं नृपोत्तमः॥२०॥
संपूजयित्वा विधिवत्प्रष्टुं समुपचक्रमे।
ब्रह्मन्नत्रकुरुक्षेत्रे ममपूर्वपितामहाः॥२१॥
कथं युयुधिरेपार्थाः कौरवैस्सहपापिभिः।
तद्युद्धंश्रोतुकामाय मह्यंत्वंवक्तुमर्हसि॥२२॥
इत्युक्तस्तेनविप्रेंद्र स्तस्मैप्रोवाचपृच्छते।
भारताख्यानमखिलं व्यासप्रोक्तं सुपावनम्॥२३॥
तन्मध्ये वासुदेवस्य चरितंपरमाद्भुतम्।
दौत्यंकर्तुं पाण्डवार्थे हस्तिनामभ्युपेयुषः॥२४॥
कौरवेंद्रसभामध्ये समासनिस्यशौरिणः।
तत्र ब्रह्मर्षिभिस्सार्धं चित्राः कथयतःकथाः॥२५॥
सभायां तत्रसर्वेषां विश्वरूपप्रदर्शनम्।
श्रुत्वा तच्चरितं विष्णो स्सराजा जनमेजयः॥२६॥
वैशंपायनमाचार्यं पुनःपप्रच्छहृष्टधीः।
ब्रह्मन्नत्यद्भुतं विष्णो श्चरित्रं त्वन्मुखाच्छ्रुतम्॥२७॥
कुर्वतःपाण्डवार्थाय दौत्यं तैस्सन्धिमिच्छतः।
योयमस्मिन्सभामध्ये विश्वरूपमदर्शयत्॥२८॥
तमहं देवकीसूनुं पाण्डवानांहितंकरम्।
केनोपायेन पश्येयं तम्ममाचक्ष्वसुव्रत॥२९॥
इत्युक्तस्सतुविप्रेन्द्रः प्रोवाचजनमेजयम्।
धन्यस्त्वमस्ति राजेंद्र यस्यतेमतिरीदृशी॥३०॥
पावने सर्वपापघ्ने संजाता कृष्णदर्शने।
येनोपायेनदेवेशं कृष्णंद्रक्ष्यसिसुव्रत॥३१॥
तमुपायमहं वक्ष्ये शृणुष्वैकमनानृप।
अस्तिखल्वत्रपापघ्नः प्रयागस्तीर्थसत्तमः॥३२॥
तस्यचाग्नेयदिग्भागे देशेक्रोशसहस्रके।
अस्तिसत्यव्रतं नाम क्षेत्रं पापप्रणाशनम्॥३३॥
तत्र कांचीवि विख्यातापुरीपुण्यविवर्धनी।
स्मरणान्मुक्तिदातॄणा मस्तिविष्णोरतिप्रिया॥३४॥
तत्रगत्वाश्वमेधेन यष्टासियदिकेशवम्।
द्रक्ष्यसित्वंनसंदेहः कृष्णंपाण्डवसारधिम्॥३५॥
इत्युक्तस्तेन विपेण कौरव्योजनमेजयः।
सहैवतेन विप्रेण तथैवान्यैर्द्विजोत्तमैः॥३६॥
संप्रहृष्टमनाभूत्वा कृष्णदर्शनकांक्षया।
मन्त्रिष्वाधाय तद्राज्यं ययौसत्यव्रतंप्रति॥३७॥
तत्रकांचीपुरींदृष्ट्वा पुरीं पुण्यविवर्धनीम्।
नानामृगगणाकीर्णां नानावृक्षसमाकुलाम्॥३८॥
नानाशकुनि संघुष्टां नानातीर्थसमन्विताम्।
वनीभूतांपुरीं दिव्यां जीर्णैर्देवालयैर्युताम्॥३९॥
ननंद दृष्ट्वादेवेशं तत्रहस्तिगिरौहरिम्।
गुहायां नरसिह्मञ्च वराहंशेषपल्वले॥४०॥
पश्यन् स्थानानिदिव्यानि तत्रतत्रचशार्ङ्गिणः।
चचारसहितोविप्रै र्वैशंपायनपूर्वकैः॥४१॥
यथोक्तकारिणंदेवं तथैवाष्टभुजंहरिम्।
दीपाकारं नृसिंह्मच तथाशार्ङ्गधरं हरिम्॥४२॥
कामकोष्टेबिलद्वारे वामनं सर्वकामदम्।
शेषाकारं सुधाकारं मेघाकारं त्रिविक्रमम्॥४३॥
प्रवालवर्णं हैमाभं चन्द्रखण्डंच पार्थिवः।
दृष्ट्वाचैकाम्रमूलस्थं कामाक्ष्यासहितंहरम्॥४४॥
प्रणम्यभक्त्यातान्सर्वान् बभूवप्रीतमानसः।
तत्र तत्रच तीर्थेषु पुण्येषु कृतमज्जनः॥४५॥
तर्पयित्वा पितृृन्सर्वान् देवांश्च विधिवन्तृपः।
दत्वा दानानि विप्रेभ्यः पुरींकर्तुमुपारभत्॥४६॥
ततश्चक्रे पुरींरम्यां सौधप्राकारगोपुरान्।
वापीकूपतटाकाढ्यां योजनत्रयविस्तृताम्॥४७॥
ब्राह्मणानांच वेश्मानि चक्रेदेवालयानपि।
कृत्वा सम्यग्विधानेन ततोयष्टुमुपारभत्॥४८॥
प्रदेशेकामकोष्टस्य बिलद्वारस्यपश्चिमे।
यज्ञशालां सुविफुल्लां कृत्वावेदिंच शास्त्रतः॥४९॥
तोयार्थं तत्रयज्ञस्य निर्ममेसरउत्तमम्।
तद्वैपाण्डवतीर्थाख्यं सरःपरमपावनम्॥५०॥
स तत्र प्रारभद्यज्ञं बह्वन्नंभूरिदक्षिणम्।
तवकर्माणि विधिवच्चक्रुस्सर्वेद्विजर्षभाः॥५१॥
हवींषि हूयमानानि मन्त्रविद्भिर्द्विजोत्तमैः।
न्यवेदयत्ससर्वाणि विष्णवेराजसत्तमः॥५२॥
ततस्तस्याश्वमेधेन सन्तुष्टःपुरुषोत्तमः।
तत्राविरासीद्भगवान् देवकीनन्दनोहरिः॥५३॥
तदाचोत्तरदिग्भागा दन्तरिक्षादुपागते।
समासीनश्शुभेदिव्ये बिमानेरत्नसन्निभे॥५४॥
वेदकोटीतिविख्याते दिव्यरत्नविभूषिते।
रुक्मिणीसत्यभामाभ्यां सहितस्सुरसेवितः॥५५॥
किरीटांगदकेयूर कौस्तुभैस्समलंकृतः।
दिव्यपीतांबरधरो वनमालाविभूषितः॥५६॥
ददृशेदेवदेवेशः कन्दर्पायुतसुन्दरः।
तदासुमनसां वृष्टिर्बभूवाद्भुतदर्शना॥५७॥
दिव्यदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः।
तदा देवास्सगन्धर्वा स्सिद्धाश्चपरमर्षभः॥५८॥
तुष्टुवुर्देवकीपुत्रं दृष्ट्वातत्रनभोगताः।
ततो दृष्ट्वाविमानस्थं प्राङ्मुखं पुरतस्स्थितम्॥५९॥
देवं पाण्डवदूताख्यं ववन्दे जनमेजयः।
प्रणम्यपरयाभक्त्या तुष्टावच जगत्पत्तिम्॥६०॥
नमस्ते जगतांनाथ नमस्तेपुरुषोत्तम।
कंसमर्दनगोविन्द नमस्तेपूतनांतक॥६१॥
शकटासुरचाणूर तृणावर्तादिमर्दन।
प्रसीदकृष्णदेवेश पाण्डवार्तिहराच्युत॥६२॥
पाहिमां जगतां नाथ पद्मनाभ यदूद्वह।
इति स्तुतोथभगवान्राज्ञा पारिक्षितेनह॥६३॥
तमुवाच स्मयन्वाक्यं वेदकोटिस्थितोहरिः।
राजन्ननेनयज्ञेन क्षेत्रेस्मिन् सुकृतेनते॥६४॥
सुप्रसन्नोस्मिभद्रन्ते वृणीष्ववरमुत्तमम्।
जनमेजयः।
कृतार्थोस्मि जगन्नाथ तवसन्दर्शनादहम्॥६५॥
तथाप्येनं वरंदेव मह्यंदातुंत्वमर्हसि।
त्वमत्रैवचिरं काल मेतद्रूपेण संयुतः॥६६॥
वेदकोटिविमानेस्मिन् ऋषीणामभयप्रदः।
निवसन् सततंकांच्यां सर्वेषामिष्टदोभव॥६७॥
नारदः।
इत्युक्तःपुण्डरीकाक्षो राज्ञातेनमहात्मना।
तमुवाच पुनर्वाक्यं मन्दं मन्दस्मितोहरिः॥६८॥
जनमेजयराजेंद्र तवप्रियचिकीर्षया।
सर्वदा निवसाम्यत्र सर्वसंपत्प्रदोनृणाम्॥६९॥
इति दत्वा वरं तस्मै भगवान् देवकीसुतः।
तत्रैवोवासराजेंद्र कांच्यां सर्वेष्टदोनृणाम्॥७०॥
तंहि पाण्डवदूताख्यं प्रवदन्तिमनीषिणः।
तस्य खन्दर्शनं नृृणां भुक्तिमुक्तिप्रदायकम्॥७१॥
ततस्समाप्य विधिव दश्वमेधंसुपावनम्।
सकृतावभृथोराजा ऋत्विग्भ्योदत्तदक्षिणः॥७२॥
तत्रैवनिवसन्कांच्यां पूजयामासकेशवम्।
असंख्येयं धनं दत्वा ब्राह्मणेभ्योनृपोत्तमः॥७३॥
उत्सवैर्विविधैश्चापि प्रीणयामास केशवम्।
ततोदेवस्य कृपया तस्य राज्ञोमहात्मनः॥७४॥
सर्वलक्षणसंपन्नो जज्ञेपुत्रस्सुधार्मिकः।
क्षेमकाख्योमहाप्राज्ञः कन्दर्पइवमूर्तिमान्॥७५॥
ततोदेवाज्ञयाराज्ये स्वीयेस्थापयितुं सुतम्।
सराजा सचिवैस्सार्धं प्रययौ हस्तिनापुरीम्॥७६॥
सहितस्सचिवै स्सर्वैश्चतुरंगबलेनच॥७७॥
इत्थंहरेर्दर्शनकांक्षयामखं
चकारकांच्यां जनमेजयोनृपः।
ददर्शदेवं कृपयाहरेर्नृपः
पुत्रंच लेभेऽनुपमं गुणैर्युतम्॥७८॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमहात्म्येएकोनत्रिंशोध्यायः।
—————
श्रीरस्तु।
अथ त्रिंशोध्यायः।
—————
नारदः।
तस्मिन्नेवयुगेराजन् विदर्भनगरेनृपः।
आसीद्विरोचनोनाम सत्यसन्धोजितेंद्रियः॥१॥
रुक्मिणस्तनयोधीमान् प्रजानांच हितेरतः।
तस्यासीन्मंजुलानाम भार्यारूपगुणान्विता॥२॥
सशशासपुरींरम्यां कुण्डिनाख्यां तयासह।
तस्यैवं वर्तमानस्य प्रजाधर्मेणरक्षतः॥३॥
पुत्रार्थं तप्यमानस्य नासीद्वंशकरस्सुतः।
सकदाचित्समाहूय सर्वान्वेदविदोद्विजान्॥४॥
प्रणम्यपूजयित्वातान् पप्रच्छात्मजकाम्यया।
अनपत्यस्य मे पुत्रा भवेयुः केन कर्मणा॥५॥
तद्ब्रुवंतु भवन्तो मे विनिश्चित्यपरस्परम्।
इत्युक्तास्तेन विप्रेंद्रा स्तमूचुर्नृपतिंवचः॥६॥
शृणुराजन्प्रवक्ष्याम स्तवपुत्रागमंप्रति।
कैलासवासिनंदेवं यदाद्रक्ष्यसि शंकरम्॥७॥
तदैवपुत्रलाभस्ते भविष्यति नसंशयः।
सहिसर्वस्य लोकस्य शंभुस्सर्वार्थदायकः॥८॥
तमेव सर्वथाराध्य देवाश्च मनुजाअपि।
लभन्ते सकलान् कामान् सर्वेषु भुवनेष्वपि॥९॥
अनपत्या पुराभैष्मी राजन् तवपितृष्वसा।
कृष्णेनसहिताभर्त्रा समारुह्यखगेश्वरम्॥१०॥
कैलासं पर्वतंगत्वा समभ्यर्च्यैव शंकरम्।
लेभेकिलसुतंपूर्वं प्रद्युम्नं लोकविश्रुतम्॥११॥
तस्मात्त्वमपि देवेशं शंभुंकैलासपर्वते।
गत्वासंप्रार्थयहरं तेन पुत्रोभवेद्ध्रुवम्॥१२॥
इत्युक्तस्तैस्तदाविप्रैः प्रत्युवाचद्विजान्पुनः।
बहुयोजनसाहस्रे दूरेस्थितमगोत्तमम्॥१३॥
नैवशक्नोम्यहंगन्तुं कैलासंशंकरालयम्।
तस्माद्वदध्वं कैलास मुपायंद्रष्टुमंतिके॥१४॥
इतितस्य वचश्श्रुत्वा विप्राः प्रोचुःपुनर्नृपम्।
शृणुराजन्वचोस्माक मेतत्तवहितंशुभम्॥१५॥
यथापश्यति कैलासं भवानत्रैवचांतिके।
तथासम्यग्विनिश्चित्य वक्ष्यामस्तवपार्थिव॥१६॥
इतोस्ति दक्षिणेभागे पंचाशद्योजनेशुभे।
कांचीति सम्यग्विख्याता पुरीपुण्यविवर्धनी॥१७॥
तत्रास्तिपरमं स्थानं पुण्यदंपापनाशनम्।
कामकोष्ठमितिख्यातं सर्वाभीष्टप्रदंनृणाम्॥१८॥
विष्णुंवा तत्ररुद्रंवा संपूज्यविधिवन्नराः।
प्राप्नुवन्ति हि सर्वार्थान् क्षिप्रमेवनसंशयः॥१९॥
परीक्षित्तनयश्श्रीमान् राजापिजनमेजयः।
अभ्येत्य कांचीं यज्ञेन सम्यगिष्ट्वाजनार्दनम्॥२०॥
लेभे सुगुणसम्पन्नं क्षेमकाख्यंसुतंकिल।
तस्मात्त्वमपि राजेन्द्र गत्वाकांचीपुरीमितः॥२१॥
तपसापूजयावापि तोषयन्वैपिनाकिनम्।
कैलासवासिनं देवं तत्रद्रक्ष्यसि शंकरम्॥२२॥
इत्युक्त स्सतुविप्रेंद्रै राजासन्तुष्टमानसः।
पल्या मंजुलयासार्धं ब्राह्मणैस्सचिवैरपि॥२३॥
जगामकांचीं वेगेन तत्रपूजयितुं हरम्।
तत्र गत्वा स राजेंद्र स्तीर्थेषु कृतमज्जनः॥२४॥
स्थानस्य कामकोष्ठस्य नैऋत्यांदिशि संस्थितः।
पल्या मंजुलयासार्धं चकार तपउत्तमम्॥२५॥
पुत्रार्थं द्रष्टुमन्विच्छन् शम्भुं कैलासवासिनम्।
तत स्तस्यभृशंतुष्ट स्तपसा वृषभध्वजः॥२६॥
तस्मै सन्दर्शयामास कैलासं स्वालयंविभुः।
सोपश्य त्तत्रकैलासे नानारत्नविचित्रिते॥२७॥
भद्रपीठेसमासीन मुमयासहशंकरम्।
गन्धर्वैःपार्षदैश्चैव सर्वभूतगणैर्युतम्॥२८॥
सदृष्ट्वादेवमीशानं शम्भुं कैलासवासिनम्।
प्रणम्य प्रार्थयामास पल्यासह विरोचनः॥२९॥
नमस्ते देवदेवेश करुणाकर शंकर।
पाहि मां पार्वतीनाथ प्रणतं शरणागतम्॥३०॥
अनपत्योस्म्यहं तस्मात्पुत्रं मे दातुमर्हसि।
इतिस्तुतस्सभगवान् रुद्रस्तं नृपमब्रवीत्॥३१॥
भृशंतुष्टोस्म्यहंराजन् तपसा तव सुव्रत।
सन्तुष्टेनमया तुभ्यं कैलासोपि प्रदर्शितः॥३२॥
पुत्रौ च ते महाप्राज्ञ बलिनौ द्वौ भविष्यतः।
धर्मज्ञौ च वदान्यौच विष्णुपादसमाश्रयौ॥३३॥
केनचित्त्वथकालेन तावप्यत्रागमिष्यतः।
यक्ष्यन्तौ हयमेधेन विष्णुं लोकेश्वरं हरिम्॥३४॥
तयोरनुग्रहार्थाय विष्णुस्त्वत्पुत्रयोरिह \।
दर्शयिष्यति वैकुण्ठं भक्तयोस्स्वालयं भुवि॥३५॥
अहंचाप्यत्र कैलासे तुभ्यं सन्दर्शितेमया।
वसामिसततंकांच्यां नराणां हितकाम्यया॥३६॥
येवा मामत्रपश्यन्ति कांच्यां कैलासनायकम्।
तेषा महं प्रदास्यामि पुत्रपौत्रादि सम्पदम्॥३७॥
त्वंचापि भार्ययासार्ध मनयामञ्जुलाख्यया।
अत्रैवसततंलिंगै मां सम्यगभिषेचय॥३८॥
पञ्चामृतैश्च शुद्धोदै र्वर्षमेकं निरन्तरम्।
ततस्संनत्सरस्यान्ते पुत्रौ द्वौ ते भविष्यतः॥३९॥
पुत्राभ्यां सहितश्चैव स्वां पुरीं गन्तुमर्हसि।
इति दत्वा वरंतस्मै शंभुः कैलासनायकः॥४०॥
तत्रैव कांच्यां न्यवस त्सहसर्वैश्चपार्षदैः।
ततोविरोचनोहृष्टः तत्र देवस्य शूलिनः॥४१॥
चक्रेभिषेचनंभक्त्या वर्षमेकमहर्निशम्।
कुम्भेनजलमाहृत्य राजभार्यापिमञ्जुला॥४२॥
प्रददावभिषेकार्थ मनिशं भक्तिसंयुता।
अभिषेकोदकैस्तत्र जज्ञे स्रोतस्सुपावनम्॥४३॥
तदेव मञ्जुलाख्याभू न्नदीतत्र सुपावनी।
तोयै र्मञ्जुलयानीतै र्यद्रुद्र मभिषिक्तवान्॥४४॥
तस्मात्तां मञ्जुलां प्राहु रभिषेकोदवाहिनीम्।
ततस्संवत्सरस्यांते मंजुलायां नृपोत्तम॥४५॥
कृपया देबदेवस्य द्वौपुत्रौसम्बभूवतुः।
पल्लवो विल्लवश्चेति मन्मधाविवरूपिणौ॥४६॥
यौवैकुण्ठेपुराद्वार्स्था वभूतां विष्णुमन्दिरे।
जयश्च विजयश्चेति शङ्खचक्रगदाधरौ॥४७॥
तौ पूर्वद्वारपौ विष्णोरास्ता मादौकृतेयुगे।
कदाचित्तत्रदेवेशं द्रष्टुंप्रविशतोमुनीन्॥४८॥
वारयामासतुर्विप्रान् सनकादींश्चयोगिनः।
तेवैशेपुस्तदाद्वार्स्थौ प्रेरितौ तत्र विष्णुना॥४९॥
युवामिहाप्रपतितौ सद्योभवतमासुरौ।
पुनश्चराक्षसौवापि राजानौच भविष्यतः॥५०॥
एवं त्रिजन्मसुयुवां विष्णुद्वेषपरायणौ।
तत्रायमेवैत्यहरिर्हनिष्यति युवांमृधे॥५१॥
इतिशप्तौ तदाविप्रै र्द्वारपौसनकादिभिः।
तत्र दृष्ट्वा रमानाथं प्रार्थयामासतुर्नृप॥५२॥
पाहिनौ दैवसंशप्तौ त्वद्भक्तैस्सनकादिभिः।
यथा नौ नभवेज्जन्म रक्षोसुरनरात्मकम्॥५३॥
तथाकुरुदयांक्षिप्र मावयोश्शरणैषिणोः।
इति संप्रार्थितस्ताभ्यां प्रोवाचद्बारपौहरिः॥५४॥
शापोयुवाभ्यां योदत्तो मद्भक्तैस्सनकादिभिः।
स तथैवानुभोक्तव्यो भवद्भ्यां नात्रसंशयः॥५५॥
कृतेयुगेयुवां भूमावसुरौद्वौ भविष्यतः।
त्रेतायां राक्षसौवापि द्वापरेमनुजौतथा॥५६॥
तत्राहमेव वामेत्यहनिष्यामि त्रिजन्मसु।
चतुर्थे जन्मनि पुनर्युवां भूमौजनिष्यथः॥५७॥
पल्लवोविल्लवश्चेति विदर्भेषु नृपोत्तमौ।
भविष्यतश्च मद्भक्तौ वदान्यौ ब्रह्मवित्तमौ॥५८॥
युवां तत्राश्वमेधेन क्षेत्रेमत्प्रीतिवर्धने।
सहितौ सर्वविप्रेन्द्रै र्ममुद्दिश्ययजिष्यतः॥५९॥
तदा वैकुण्ठभवनं तत्रवां दर्शयाम्यहम्।
तत्रैवपार्षदौ भूयो युवां ममभविष्यथः॥६०॥
इति लब्धवरौ राजन् विष्णुतोद्वारपौपुरा।
ततस्तावनुभूयैव जन्मानित्रीणिभूतले॥६१॥
चतुर्थे जन्मनिपुन स्तावैवैतौबभूवतुः।
पल्लवोविल्लवश्चेति मंजुलातनयौनृप॥६२॥
विरोचनोथवैदर्भः पत्न्यामञ्जुलयासह।
अनन्दतनयौलब्ध्वा कांच्यां शम्भोरनुग्रहात्॥६३॥
ततस्तस्याज्ञयाशम्भोः पुत्राभ्यां सहितोनृपः।
गत्वा स्वराज्येतौपुत्रा वभिषिच्यविरोचनः॥६४॥
पत्न्यामञ्जुलयासार्धं कैलासंप्रययौनृपः।
ततस्संप्राप्यतौराज्यं तदापल्लवविल्लवौ॥६५॥
ब्रह्मण्यौचवदान्यौच विष्णुभक्तौबभूवतुः।
कलौयुगेतुसंप्राप्ते कांचीमेत्यचतावुभौ॥६६॥
अश्वमेधेनयज्ञेन तत्रविष्णुंयजिष्यतः।
तेनयज्ञेनसन्तुष्टो विष्णुर्वैकुण्ठनायकः॥६७॥
तयोर्द्वारपयोःपूर्वं शप्तयोस्सनकादिभिः।
कांच्यांवैकुण्ठभवनं स्वालयंदर्शयिष्यति॥६८॥
वैकुण्ठेयानदीपुण्या विरजाख्यासुपावनी \।
सापितत्राश्वमेधान्ते वेद्यामाविर्भविष्यति॥६९॥
हस्तिशैलस्यवायव्ये देशेवैकुण्ठनायकः।
प्रादुर्भविष्यतिहरि र्नद्याविरजयासह॥७०॥
जयश्चविजयश्चोभौ मुक्तशापौतदानृप।
पुनःप्राप्नुवतः कांच्यां तद्विष्णोःपरमंपदम्॥७१॥
येचापिमानवाभूमौ कांच्यां वैकुण्ठनायकम् \।
पश्यन्तिविरजांचापि तेयास्यंति परांगतिम्॥७२॥
एवमष्टादशस्थानमाहात्म्यं शार्ङ्गधन्वनः।
कांच्यां सत्यव्रतक्षेत्रे कथितंतेमयानृप॥७३॥
अश्वमेधस्य शालायां ब्रह्मणःपरमेष्ठिनः।
स्थानान्येतानि राजेन्द्र प्रोक्तान्यष्टादशैवहि॥७४॥
एवं सुरेन्द्रैऋषिभिर्नृपेन्द्रै
र्दानैस्तपोभिर्यजनैस्सुपूजितः।
दातुंचतेभ्यस्सकलान् पुमर्थान्
तत्रा विरासीद्भगवान् मुकुन्दः॥७५॥
अतस्तु तत्क्षेत्र मभृत्सुपुण्य
सत्यव्रताख्यं परमंहरेःप्रियम्।
पुरीचकांची कलिकल्मषघ्नी
बभूववैकुण्ठफलप्रदानृणाम्॥७६॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये त्रिंशोध्यायः।
—————
श्रीरस्तु।
अथ एकत्रिंशोध्यायः।
—————
नारदः।
पुरादेवसभामध्ये महेन्द्रःपाकशासनः।
आसीत्सिह्मासनेदिव्ये समासीनस्सुरैस्सह॥१॥
तदाकेचिन्महाप्राज्ञा ब्राह्मणाब्रह्मवित्तमाः।
आजग्मु स्सहिताद्रष्टुं कदाचित्पाकशासनम्॥२॥
अगस्त्योभगवानत्रि र्मृकंडुर्गौतमोमहान्।
भार्गवश्च्यवनोविद्वान् तथान्येच महर्षयः॥३॥
तानागतान्समुद्वीक्ष्य गुरुणासहदेवराट्।
पूजयित्वा यथान्यायं पप्रच्छकुशलंद्विजान्॥४॥
तैश्चापिपृष्टःकुशलं निवेद्यस्वंपुरन्दरः।
ततःपप्रच्छधर्मार्थनिश्चयंद्विजसत्तमान्॥५॥
चतुर्णामाश्रमाणांहि गरीयान्कउदाहृतः।
तमाश्रमंपुण्यतमं मुनयःप्रब्रुवन्तुमे॥६॥
एवमिन्द्रेणसंपृष्टा स्तमूचुर्मुनिपुंगवाः।
आश्रमाणांहि सर्वेषां ज्यायानेवगृहाश्रमः॥७॥
नतादृशोस्तिलोकेन्यो ह्याश्रमोधर्मसाधनः।
ब्रुवन्तिमुनयस्सर्वे श्रेष्ठगार्हस्थ्यमाश्रमम्॥८॥
तस्मात्तमेवदेवेन्द्र श्रेष्ठंविद्याद्गृहाश्रमम्।
इतितेषुब्रुवाणेषु वाक्पतिर्विस्मयान्वितः॥९॥
तत्रधिक्कृत्यतान्विप्रा नुवाचवचनंनृप।
गरीयान्ब्रह्मचर्याख्यः परमःप्रथमाश्रमः॥१०॥
तमुल्लंघ्यकथं ब्रूत यूथं श्रेष्ठंगृहाश्रमम्।
अनालोच्यैव शास्त्रार्थान् सर्वेमूढधियोयथा॥११॥
इत्युक्तवन्तन्धिषणं तेसमीक्ष्याथगर्वितम्।
शेपुःप्रकुपितास्सद्य स्तमनर्थार्थवादिनम्॥१२॥
यस्मात्त्वमवलेपेन सर्वान्नस्सत्यवादिनः।
अधिक्षिपसिमन्दात्मन् हीनार्थंस्वर्थवद्ब्रुवन्॥१३॥
तस्मादितःप्रपतितो भूम्यांदारिद्र्यपीडितः।
सर्वदुःखसमायुक्तो भवरोगैः प्रपीडितः॥१४॥
इति शप्त्वा गुरुंसर्वे प्रजग्मुस्तेयथागतम्।
ततश्शप्तोगुरुर्विप्रै स्तत्क्षणान्न्यपतत्क्षितौ॥१५॥
कस्मिंश्चिन्नर्मदातीरग्रामे ब्राह्मणमन्दिरे।
उंछवृत्तेर्दरिद्रस्य जज्ञेतस्यसुतोनृप॥१६॥
जातमात्रेतु जननी जगामयमसादनम्।
क्लेशेनमहता पित्रा रक्षितोत्यन्यबालकः॥१७॥
ततस्संवत्सरेपूर्णे मृतोभूज्जनकोपिच।
रुदतोबालकस्यास्य नैवसंबधिबांधवाः॥१८॥
ययाकयाचित्कृपया रक्षितोबालकस्तथा।
मृदुशय्या न तस्यासीन्नचदंशनिवारकाः॥१९॥
एवं संवर्धितोबाल्ये शयानोयत्र कुत्रचित्।
उपनीतश्च कृपया केनचिद्ब्राह्मणेनसः॥२०॥
ततस्तुयौवनं प्राप्य कुचेलःकुत्सिताशनः।
बभूवभृशनिर्वेदमापन्नोत्यन्तदुर्भगः॥२१॥
पीडितोव्याधिभिर्नित्यं मनोरथशताकुलः।
सकदाचिन्नृपश्रेष्ठ तपसेकृतनिश्चयः॥२२॥
ययौभागीरथीतीरं पुण्यवृक्षलतायुतम्।
तत्रोपविष्टमद्राक्षी द्भरद्वाजंमहामुनिम्॥२३॥
तं प्रणम्यमहाभागं ब्राह्मणोवाक्यमब्रवीत्।
केनाहमस्मिविप्रेंद्र दरिद्रःपापकर्मणा॥२४॥
मातापितृभ्यां हीनश्च बाल्यादारभ्यदुःखितः।
निश्श्रीकोभ्रष्टसंकल्पः कदन्नादश्चकेवलम्॥२५॥
यद्यहंसुखमुत्सृज्य भौमंदुःखसमन्वितम्।
इच्छामिवा तपःकर्तुं परमंविष्णुतुष्टिदम्॥२६॥
तत्रदुर्निग्रहंचित्तं चंचलं मे भवत्यलम्।
तस्मादिहपराभ्याम्मां सुखाभ्यांहीनमागतम्॥२७॥
त्रातुमर्हसि विप्रेंद्र यथाहं मुक्तिमाप्नुयाम्।
इति तस्यवचश्श्रुत्वा भरद्वाजोमहामनाः॥२८॥
ध्यात्वामुहूर्तं तपसा तं विज्ञायबृहस्पतिम्।
शप्तं महर्षिभिःपूर्वमेवंभूतं सुदुर्भगम्॥२९॥
तस्य निष्कृतिमन्विच्छन्नुबाच द्विजपुंगवः।
शृणुविप्रप्रवक्ष्यामि वचस्तवहितंशुभम्॥३०॥
अस्तिदक्षिणतःक्षेत्रमितःक्रोशसहस्रके।
देशे सत्यव्रतंनाम विष्णुप्रीतिकरंपरम्॥३१॥
तत्रास्तिहस्तिशैलाख्यो भूधरःपुण्यवर्धनः।
तस्मिन्वसति देवेशो वरदस्सर्वदेहिनाम्॥३२॥
तस्य दर्शनमात्रेण मुच्यन्ते सर्वकिल्बिषैः।
नराःपातकिनोवापि विर्यंचोपिकुयोनिजाः॥३३॥
तस्मात्त्वं तत्रगत्वाशु तपश्चरहरेःप्रियम्।
तपसावरदस्तुष्टः प्रसन्नस्तेभवेद्ध्रुवम्॥३४॥
अत्रैवोदाहरिष्यामि प्रत्ययार्थंतवानघ।
तच्छृणुत्वमुपाख्यानं पल्लिकामोक्षणंद्विज॥३५॥
कश्चिदासीत्कुरुक्षेत्रे ब्राह्मणोवेदपारगः।
उपमन्युरिति ख्यातस्तपस्वीविजितेंद्रियः॥३६॥
विष्णुभक्तोजितक्रोधः प्रशांतात्मादृढव्रतः।
तस्यासील्लक्षणानाम भार्यारूपगुणान्विता॥३७॥
पतिव्रतामहाभागा विष्णुव्रतपरायणा।
तयासभार्ययासार्धं सततं विष्णुमर्चयन्॥३९॥
वर्तयन्नुंछवृत्त्यैव कुर्वन् त्रिषवणंद्विजः।
पूजयन्नतिथीन्नित्यं पितॄन् देवांश्चतर्पयन्॥३९॥
तस्यैवंवर्तमानस्य ब्राह्मणस्यमहात्मनः।
सुषुवेतनयंपत्नी लक्षणालक्षणैर्युतम्॥४०॥
ततःकदाचिद्विप्रेंद्रः पत्र्यासहसुतेनच।
तीर्थयात्रापरोभूमि सुपमन्युश्चचारह॥४१॥
तत्र तत्रच तीर्थेषु ह्रदेषुचनदीषुच।
स्नात्वालक्षणयासार्ध तर्पयंश्च पितृृन्द्विजः॥४२॥
क्षेत्रेषुच सुपुण्येषु पश्यन्विष्णुं रमापतिम्।
उंछवृत्त्यैवसतत मतिथींश्चापि पूजयन्॥४३॥
सतुगोदावरीतीर माययौसहभार्यया।
तत्रैकस्मिन्दिने मार्गे नद्यास्तीरेवनेशुभे॥४४॥
कस्मिंश्चिदाह्निकं कर्तुमवसद्ब्राह्मणोत्तमः।
तत्रस्नात्वा स गौतम्यां मध्याह्ने द्बिजसत्तमः॥४५॥
सन्तर्प्यचपितृृन् देवान् पूजयामासकेशवम्।
ततस्तत्र चरुं कृत्वा तण्डुलैः पंचमुष्टिभिः॥४६॥
सिलोंछवृत्त्योपहृतैस्तत्र लब्धेश्च तद्दिने।
बैश्वदेवबलिंचक्रे निवेद्यान्नंतुविष्णवे॥४७॥
शेषमन्नं सुपूर्वतच्चक्रे भागद्वयंतथा।
भागमेकंतु शिशवे पुत्रायादाद्धरिंस्मरन्॥४८॥
द्वितीयं भागमतनो त्स्वपत्न्याश्चात्मनोपिच।
एवं विभज्याविधिवदन्न विप्रवरस्तदा॥४९॥
प्रथमं भोजयामास बालं पुत्रं बुभुक्षितम्।
स्वयंचापि यदाभोक्तु मैच्छदन्नं द्विजोत्तमः॥५०॥
तदैवाभ्याययौ तत्रविप्रःकश्चिद्भुभुक्षितः।
सौभ्ययाचत विप्रेंद्र मन्नं देहीतियाचकः॥५१॥
तस्मैसप्रददावन्नं स्वभोज्यमपिहृष्टधीः।
सतुभुक्त्वान्न मतिथिर्नालमित्यब्रवीत्पुनः॥५२॥
ततस्स्वभोज्यमन्नंच लक्षणापिददौमुदा।
सतुभुक्त्वाद्बयोरन्नं प्रययावतिथिर्द्बिजः॥५३॥
उपमन्युस्तदा प्राप्तकोटियज्ञफलोद्विजः।
मुमोद सहितःपत्न्या भृशमत्रप्रदानतः॥५४॥
ततस्तद्गृह्यवोच्छिष्टं पत्रं भुक्तस्यचातिथेः।
चिक्षेपगर्ते कस्मिंश्चिल्लतागुल्मसमावृते॥५५॥
क्षिप्तमात्रे तदोच्छिष्टे ब्राह्मणेनोपमन्युना।
पतिताविन्दवोमूर्ध्नि तत्रपल्लिकयोर्विले॥५६॥
चिरंनिवसतोःपापा त्पल्लिकारूपिणोर्द्बयोः।
पतिताद्ब्राह्मणोच्छिष्टा त्पल्लिकायुगलस्यतु॥५७॥
बभूव तत्क्षणादेव शिरोमात्रंतुकांचनम्।
अभूत्पूर्वस्मृविश्चापि तयोस्तत्रकुजन्मनोः॥५८॥
पल्लीच पल्लिकाचोभौ दंपतीपापकर्मिणौ।
वाचाचुक्रोशतुर्दीनौ मानुष्या तंद्विजोत्तमम्॥५९॥
स्मृत्वापूर्वकृतं पापं त्राहित्राहीतिदुःखितौ।
क्रोशन्तं पल्लिकायुग्म मीक्ष्यकांचनमस्तकम्॥६०॥
पप्रच्छकृपयाविप्रः कौयुवामितिविस्मितः।
तमुवाच तदापल्ली स्मरन् दुष्कृतमात्मनः॥६१॥
अहं नृपसुतःपूर्व मासं जन्मनिसप्तमे।
अयोध्याधिपतेःपुत्रः सगरस्यमहात्मनः॥६२॥
असमंज इतिख्यातो बालघ्नःपापकर्मकृत्।
हत्वासहस्रशोबालान् सरय्वाःप्राक्षिपंजले॥६३॥
तदा मां पापिनं दृष्ट्वा राजाजनहितेच्छया।
सभार्यमनयद्रोषा त्सर्वस्वं गृह्यकाननम्॥६४॥
ततोहं भार्ययासार्धं वनेषु भृशदारुणः।
हत्वामृगान्पक्षिणश्च भक्षयन्नचरंद्बिज॥६५॥
ततः कदाचित्कांतारे व्याघ्रेणावांच घातितौ।
श्वानबोनिमनुप्राप्ता वेनसःपूर्वसंचितात्॥६६॥
मार्जारीं सौकरींचापि प्राप्ययोनिंचनाकुलीम्।
षष्ठेचजन्मनिपुनः श्वानोभूत्वासुदुःखितौ॥६७॥
अस्मिन्नेववनेपूर्वं शशंदृष्ट्वाबुभुक्षितौ।
भक्षार्थमनुधावन्ता वज्ञानात्पतिताविह॥६८॥
कूपेस्मिन्मरणंलब्ध्वा संप्राप्तौपल्लिकातनुम्।
तवसन्दर्शनादद्य पूर्वस्मृतिरभृच्चनौ॥६९॥
शिरश्चकांचनमभु दावयोस्त्वात्करोदकात्।
तस्मान्नाबुद्धरक्षिमं त्वामेवशरणंगतौ॥७०॥
इतितद्दुष्कृतंश्रुत्वा तावप्युद्वीक्ष्यदुःखितौ।
ब्राह्मणःकृपयाविष्ट स्समुद्धर्तुमियेषह॥७१॥
ततोवस्त्रेणसंगृह्य पल्लिकामिधुनंद्विजः।
पत्न्यापुत्रेणसहित स्तीर्थयात्रांचकारह॥७२॥
तत्रतत्रचतीर्थेषु स्नाप्यपल्लीद्वयंद्विजः।
क्षेत्राणिदर्शयामास मोक्षार्थंपल्लिकातनोः॥७३॥
पुनर्वाराणसींगरत्वा हरिद्वारंचपुष्करम्।
प्रयागंनैमिशंचापि वृषभाद्रिमहोबलम्॥७४॥
सिह्माद्रिमथगोकर्णं श्रीशैलंकौर्ममुत्तमम्।
एतान्यन्यानिपुण्यानि क्षेत्राणिविचचारह॥७५॥
पल्लीयुग्मस्यमोक्षार्थ मेवंविचरतस्तदा।
उपमन्योर्द्विजेन्द्रस्य महान्कालोबभूवह॥७६॥
नैवचासीत्तयोर्मोक्षः क्षेत्रेषुसकलेष्वपि।
ततःकदाचिद्विप्रेन्द्रः प्रभासन्तीर्थमाययौ॥७७॥
तपस्यंतम्मुनितत्र मार्कण्डेयंददर्शच।
तंप्रणम्यद्विजश्रेष्ठ मुपमन्युरुवाचह॥७८॥
मार्कण्डेयमहाप्राज्ञ ममोपायंवदानघ।
पलीयुग्ममिदंब्रह्मन् मामेवशरणंगतम्॥७९॥
तस्मादेतस्यमोक्षार्थ महंयामिक्ववाधुना।
इतितस्यवचश्श्रुत्वा मृकण्डुतनयोब्रवीत्॥८०॥
कांचीपुण्यतमालोके कलिकल्मषनाशिनी।
सैवमुक्तिप्रदानृृणा म्महापातकिनामपि॥८१॥
तत्रानन्तसरोनाम तीर्थमस्तिसुपावनम्।
तत्रस्नापयगत्वात्व मेतौगृह्यकुयोनिजौ॥८२॥
दर्शयस्वचदेवेशं वरदंहस्तिशैलगम्।
दर्शनादेतयोर्मुक्ति र्भविष्यतिनसंशयः॥८३॥
इतितस्यवचश्श्रुत्वा मार्कण्डेयस्यधीमतः।
उपमन्युर्जगामाशु कांचींसंगृह्यतावुभौ॥८४॥
तत्रानन्तसरस्तोये स्त्रापयित्वाविधानतः।
दर्शयामासदेवेशं वरदंहस्तिशैलगम्॥८५॥
तौचापिदृष्ट्वादेवेशं दम्पतीमुक्तकिल्बिषौ।
उत्सृज्यस्वर्गतौविप्र कुत्सितांपल्लिकातनुम्॥८६॥
तयोस्स्वर्गतयोस्तत्र दम्पत्योस्तत्कलेबरौ।
तत्रैवपल्लिकाकारौ स्थितौकांचनमस्तकौ॥८७॥
तदोपमन्युर्हृष्टात्मा ववन्देवरदंहरिम्।
सहितःपुत्रपत्नीभ्यां तुष्टावचजगत्पतिम्॥८८॥
तमुवाच तदादेवो वरदोभक्तवत्सलः।
उपमन्योमहाप्राज्ञ धन्यस्त्वमसिसुव्रत॥८९॥
यन्मां दर्शयताचात्र दंपतीउद्धृतौत्वया।
तयोः कलेबरावेतावत्रैवं स्वर्णमस्तकौ॥९०॥
तिष्ठेतां हस्तिशैलाग्रे तवचख्यातिकारणात्।
येचाप्रमनुजास्सम्यक् मां दृष्ट्वामत्प्रदक्षिणे॥९१॥
स्पृशन्तिपल्लिकायुग्मं नीरोगास्तेभवंत्यलम्।
इति दत्वा बरंतस्मै ब्राह्मणायोपमन्यवे॥९२॥
श्रियंचैवाचलां दत्वा ततश्चांतर्हितोहरिः।
उपमन्युःश्रियंलब्ध्वा शाश्वतींहृष्टमानसः॥९३॥
सहितःपुत्रपौत्रैश्च मुमुदेशाश्वतीस्समाः।
तस्मात्त्वमपि विप्रेन्द्र गच्छशीघ्रमितश्शुभाम्॥९४॥
तत्रदृष्ट्वातु वरदं पापान्मुक्तोभविष्यसि।
कुचेलस्त्वेव मुक्तस्तु भरद्वाजेनधीमता॥९५॥
जगामकांचीं वेगेन वरदंद्रष्टुमुत्सुकः।
तत्रानन्तसरस्तीरे चकार तपडत्तमम्॥९६॥
देवंचवरदंविप्रो ददर्शाद्भुतदर्शनम्।
ततोदेवाज्ञयातत्र पूजयन् द्वापरेयुगे॥९७॥
वरदं सततंभक्त्या जगामपरमांगतिम्।
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये एकत्रिंशोध्यायः।
—————
श्रीरस्तु।
अथ द्वात्रिंशोध्यायः।
—————
नारदः।
पुराकदाचित्कैलासे कस्मिंश्चित्कारणांतरे।
नन्दी रुद्रेण संशप्तः स्वानुपस्थानकारणात्॥१॥
रोषात्तेनपरित्यक्त श्शंकरेणमहात्मना।
कैलासंसम्परित्यज्य धरणींविचचारह॥२॥
सतुभूत्वा बलीवर्दोमहान्पर्वतसन्निभः।
सत्यव्रतस्यक्षेत्रस्य प्रतीच्यां दिशिकानने॥३॥
चचारपर्वतेरम्ये बहुभिर्गोगणैस्सह।
एतस्मिन्नेवकालेतु युगसन्धिरभून्नृप॥४॥
युगसन्धौमहत्यासी रनावृष्टिस्सुदारुणा।
तदागावश्च सकलाः प्रणष्टाधरणीतले॥५॥
तदादेवाज्ञया धेनुस्तत्राभ्येत्वच नन्दिना।
संगम्यससृजेबत्सान् शतशोथसहस्रशः॥६॥
क्षीराणितेषां पानार्थं ववर्षस्वोथसोमुहुः।
तस्मिन्नंदिगिरौराजन् क्षीरपुरोमहानभूत्॥७॥
नन्दिनाध्युषितोयस्मा त्सवैनन्दिगिरिस्स्मृतः।
क्षीरपूरेणमहता नन्दिनाम्रोमहागिरेः॥८॥
जाताक्षीरनदीपुण्या सत्यव्रतमुपाययौ।
क्षीराणिपीत्वा मुमुदुस्सत्यव्रतनिवासिनः॥९॥
मनुष्याःपशवश्चैव येचान्येमृगपक्षिणः।
सावैक्षीरनदीपुण्या बभूवकलुषापहा॥१०॥
ततोनन्दीसमभ्येत्य क्षेत्रंसत्यव्रतंप्रति।
आत्मनश्शापमोक्षाय पूजयामासशंकरम्॥११॥
उत्तरेहस्तिशैलस्य क्षीरनद्यास्तटेशुभे।
संस्थाप्यलिंगं रुद्रस्य पूजयामासवैवृषः॥१२॥
आस्येनतोय मुद्धृत्य कुर्वन्रुद्राभिषेचनम्।
तल्लिंगं वृषभेशानं प्रवदन्तिमनीषिणः॥१३॥
मुक्तशापश्च वृषभोह्यासीद्रुद्रसखःपुनः।
हरेरनुज्ञयाशम्भु रसुराणां हितायच॥१४॥
चकारमोहशास्त्राणि तामसानिवहून्यपि।
ततस्तद्दोषशांत्यर्थं कांचीमभ्येत्यशंकरः॥१५॥
अनन्तसरससस्तीर माश्रितस्तपउत्तमम्।
चकारपुण्यकोट्याख्यं विमानमवलोकयन्॥१६॥
अतस्तं पुण्यकोटीशं प्रवदन्तिहिशंकरम्।
क्षीराब्धिमधनेपूर्वमुत्थितं गरलंमहत्॥१७॥
पीत्वातद्गरलं धैर्यात्सुराणां हितकाम्यया।
सन्तप्तहृदयोरुद्रः कांचीमभ्येत्यसत्वरम्॥१८॥
स्नात्वावेगवतीतीये चकारतपउत्तमम्।
विषाग्निश्चैव शांतोभूत्सुखितश्च यतोहरः॥१९॥
तस्माद्रुद्रस्य तल्लिंगं शांतेशंप्रवदन्तिहि।
एतादृशानि स्थानानि कांच्यां रुद्रस्यभूमिप॥२०॥
अष्टौदशशतान्याहु स्सर्वकामप्रदानिद्दि।
सर्वमेतन्मयाप्रोक्तं कांचीमाहात्म्यमद्भुतम्॥२१॥
यइदं पठतेनित्यं शृणोतिचसमाहितः।
ससर्वान् लभतेकामान् आयुरारोग्यमेवच॥२२॥
सुतः।
इत्युक्त्वाभारदोविद्वान् राज्ञाहृष्टेनपूजितः।
अंबरीषमनुज्ञाप्य जगामत्रिदशालयम्॥१३॥
एतत्सत्यव्रतक्षेत्रमाहात्म्यं पुण्यवर्धनम्।
पापघ्नंमोक्षफलदं भवद्भ्यःकथितम्मया॥२४॥
एतत्सुपुण्यंपुरुषार्थसाधकं
सत्यव्रतक्षेत्रगतस्य विष्णोः।
माहात्म्य मत्यद्भुतमादरेण
श्रुत्वातिहृष्टा मुनयोबभूवुः॥२५॥
इति श्रीब्रह्माण्डपुराणे काञ्चीमाहात्म्ये द्वात्रिंशोध्यायः।
काञ्चीमाहात्म्यं समाप्तम्।
—————
]