१८

श्रीहस्तिगिरिमाहात्म्ये अष्टादशोऽध्यायः

भृगुः –

विश्वास-प्रस्तुतिः

कथितो विस्तरेणैव हयमेधस्त्वया विधेः ।
आविर्भावस्त्वया विष्णोः हस्तिशैलस्य मूर्धनि ॥ (१)

मूलम्

श्रुत्वैत्कृतकृत्योऽस्मि त्वत्प्रसादान्महामुने ।
न मया सदृशो लोके नरो धन्यतमः क्वचित् ॥ (२)

इदानीं श्रोतुमिच्छामि त्वत्प्रसादान्महामुने ।
त्वदन्यस्सर्वधर्माणां वक्ता मे भुवि कश्चन ॥ (३)

मेरुशृङ्गे पुरा ब्रह्मा याज्ञवल्क्याय धीमते ।
योगमष्टाङ्गसंयुक्तं यमाह कमलासनः ॥ (४)

तन्ममाचक्ष्व भगवन् शुश्रूषोर्योगमुत्तमम् ।
त्वामुपास्य न सर्वत्र विद्यते दुर्लभं नृणाम् ॥ (५)

नारदः –

विश्वास-प्रस्तुतिः

सर्वगुह्यतमं गुह्यं प्राहुः योगं योगविचक्षणाः ।
तथापि शृणु वक्ष्यामि त्वदनुग्रहकाम्यया ॥ (६)

यज्ञदानतपस्सत्यस्वाध्यायातिथिसत्क्रियाः ।
एतास्सर्वास्तु योगस्य कलान्नार्हन्ति षोडशीम् ॥ (७)

तव वक्ष्यामि तं योगं शृणुष्व सुसमाहितः ।
श्रवणार्हस्तु योगस्य न त्वदन्यो हि वर्तते ॥ (८)

मनसो निग्रहः प्रोक्तस्सर्वयोगस्य संग्रहः ।
तस्यैव संश्रयाद्योगी तस्मात्प्रच्यवतेऽवशः ॥ (९)

वैराग्यं समतास्तिक्यं धृतिर्मौनं विमानिता ।
मनसो निग्रहोपायः कीर्तितो योगवित्तमैः ॥ (१०)

व्याधिर्विषादो व्यायामः जडतानिष्टचिन्तनम् ।
समाजो विषयप्रीतिरेता योगविघातकाः ॥ (११)

योगाङ्गान्यधुना वक्ष्ये कीर्तितानि च वेधसा ।
येभ्यो योगस्य संसिद्धिर्भविष्यति नृणां ध्रुवम् ॥ (१२)

यमः प्रकीर्तितः पूर्व नियमश्च तथासनः ।
प्राणयामः संयमश्च प्रत्याहारश्च धारणा ॥ (१३)

तथा ध्यानसमाधिश्च प्रोक्तो योगविचक्षणैः ।
अष्टाङ्गानि तु सङ्ग्राह्याण्यन्यथा न भवेद्धि सः ॥ (१४)

सर्वभूतहितं प्रोक्तं योगस्यायतनं महत् ।
श्रद्धा च सौमनस्यञ्च विशुद्धिस्सत्यवादिता ॥ (१५)

चराचराणां भूतानां वाङ्मनःकायकर्मभिः ।
अनभिद्रोहशीलस्स्याद्योगी सततसंयुतः ॥ (१६)

न चैवानृतवादी स्यान्न वृथा जल्पतत्परः ।
असत्कथारतिर्न स्यान्न विषादपरो भवेत् ॥ (१७)

आत्मप्रशंसा निन्दां च परगर्हां परस्तुतिम् ।
असत्यहासोपालम्भपरिवादांश्च वर्जयेत् ॥ (१८)

पत्रपुष्पफलादीनि वस्त्रधान्यादिकं तथा ।
परक्रियान्यदत्तानि नाददीत कदाचन ॥ (१९)

मूलम्

पत्रपुष्पफलादीनि वस्त्रधान्यादिकं तथा ।
परक्रियान्यदत्तानि नाददीत कदाचन ॥ (१९)

विश्वास-प्रस्तुतिः

परदारान्न वीक्षेत परदोषान्न विस्तरेत् ।
परवादांस्तथा योगी स्वगुणान्न च कीर्तयेत् ॥ (२०)

ब्रह्मचर्यरतो नित्यं गुरुशुश्रूषको भवेत् ।
धनधान्यादिकं योगी गृह्णीयान्न कदाचन ॥
गृह्णीयाद्देहरक्षार्थं अन्नपानादिकं मितम् ॥ (२१)

वाङ्मनःकर्मभेदेन त्रिविधं शौचमाचरेत् ।
येन निस्संशयं ज्ञानं स्वयमेव प्रकाशते ॥ (२२)

परप्रियहितालापो वाग्छुद्धिरिति कीर्तिता ।
शुभानुध्यानमनिशं मनश्शुद्धिरितीष्यते ॥ (२३)

स्वधर्माचारनिरताः कायशुद्धिरिति स्मृता ।
येन निष्कल्मषं चित्तं स्ववशे प्राप्यते हि सा ॥ (२४)

कैवल्यं(समत्वं) परमं यायात् संपदागमनाशयोः ।
तथा शीतोष्णयोोंगे दर्शने शत्रुमित्रयोः ॥ (२५)

प्रियाप्रियश्रुतौ तद्वत् सर्वत्र समतां व्रजेत् ।
व्रतोपवासनिरतो जपहोमपरायणः ॥ (२६)

देवानृषीन्मनुष्यांश्च पूजयेद्भक्तितो गृही ।
विशुद्धमन्नमश्नीयात् प्रतिषिद्धानि वर्जयेत् ॥ (२७)

ततोऽस्य विमलं चित्तं प्रत्यक्प्रवणतां व्रजेत् ।
स्वाध्यायपरमो योगी योगसिद्धिं च विन्दति ॥ (२८)

मौनी स्वाध्यायसंपन्नो न विघातैः विरुध्यते ।
जपेदष्टाक्षरं युक्तो द्वादशाक्षरमेव वा ॥ (२९)

ततः प्रक्रमते सम्यगात्मज्ञानं न संशयः ।
गन्धपुष्पादिभिर्विष्णुं अर्चयेत्प्रयतो वशी ॥
प्रदक्षिणस्तुतिध्यानैस्तस्मिन्नेव नयेन्मनः ॥ (३०)

यमैश्च नियमैश्चैव संयुक्तस्सत्यसङ्गरः ।
एकाकी नियताहारो युञ्जीत सततं नरः ॥ (३१)

मूलम्

यमैश्च नियमैश्चैव संयुक्तस्सत्यसङ्गरः ।
एकाकी नियताहारो युञ्जीत सततं नरः ॥ (३१)

विश्वास-प्रस्तुतिः

समे शुद्धे विविक्ते च निम्नोन्नतविवर्जिते ।
कुशास्तरणपर्यङ्के समासीत यतात्मवान् ॥ (३२)

आसनं स्वस्तिकं बध्वा पद्म-वीरासनं तथा ।
यतेन्द्रियमनोबुद्धिः वीतरागो विमत्सरः ॥ (३३)

उपविश्यासने युक्तः प्राणायामञ्च धारयेत् ।
त्रि चतुः पञ्च षट् सप्त दश द्वादश चैव वा ॥ (३४)

सगर्भ धारयेद्धीरो देहशुद्ध्यर्थमात्मवान् ।
ध्यानमन्त्रसमायुक्तस्सगर्भः परिकीर्तितः ॥ (३५)

निरोधः केवलं वायोरगर्भः प्राणसंयमः ।
पृथ्व्यंबुवायुतेजांसि विलाप्य स्वगुणेषु च ॥ (३६)

ज्ञानेन्द्रियाणि सर्वाणि तथा कर्मेन्द्रियाणि च ।
शब्दादिभ्यस्समाहृत्य भूतादौ विनिवेशयेत् ॥ (३७)

शब्दादींश्च तथा तस्मिन् प्रविलाप्य तथात्मनः ।
भूतादींश्च तथा बुद्धौ बुद्धिञ्च प्रकृतौ न्यसेत् ॥ (३८)

निवेशयेच्च तां भूयो निर्गुणे परमात्मनि ।
ततो निष्कल्मषं मत्वा पुरुषं पञ्चविंशकम् ॥ (३९)

धारयेत्तन्मनोध्येये वासुदेवे समाहितः ।
विषयेषु यथा चित्तं न निर्गच्छति संयुतः ॥ (४०)

तथैव धारयेद्विष्णौ योगयुक्तः स्थिरासनः ।
न किञ्चित् चिन्तयेद्धीरो नासाग्रन्यस्तलोचनः ॥ (४१)

चिन्तयेत्प्रथमं विष्णोः स्थूलं रूपमनाकुलः ।
आब्रह्म स्तंभपर्यन्तं स्थूलं विद्धि महामुने ॥ (४२)

ततः क्रमेण निर्दोषं सूक्ष्मरूपं विचिन्तयेत् ॥ (४३)

विश्वास-प्रस्तुतिः

सूक्ष्मञ्च द्विविधं प्रोक्तं तद्भेदं गदतश्शृणु ।
शङ्खचक्रगदापद्मलक्ष्मीकौस्तुभलक्षणम् ॥ (४४)

प्रसन्नवदनं सौम्यं पद्मपत्रनिभेक्षणम् ।
पीतांबरधरं चारु वनमालाविभूषितम् ॥ (४५)

मूलम्

प्रसन्नवदनं सौम्यं पद्मपत्रनिभेक्षणम् ।
पीतांबरधरं चारु वनमालाविभूषितम् ॥ (४५)

विश्वास-प्रस्तुतिः

शुद्धस्फटिकसङ्काशं विज्ञानमयमव्ययम् ।
निष्कलं निरवद्यं च निर्गुणं षड्गुणान्वितम् ॥ (४६)

अन्यत्सर्वगतं सूक्ष्ममप्रतर्क्यमलक्षणम् ।
अशब्दमक्षयं नित्यं निर्विकल्पं निरञ्जनम् ॥ (४७)

वासुदेवाख्यमव्यक्तं परमं ब्रह्म शाश्वतम् ।
इत्थं रूपद्वयं सूक्ष्मं विष्णोर्यत्नेन चिन्तयेत् ॥ (४८)

तथैव भावयेद्युक्तो मनः प्रत्यक्षगं हरिम् ।
सन्ततं चिन्तयेद्विष्णुं योगयुक्तो गतक्लमः ॥ (४९)

शब्दस्पर्शादिकान् भोगान् न कदाचिद्विचिन्तयेत् ।
एकाक्षरं परं ब्रह्म जपेन्नियतमानसः ॥ (५०)

ध्यायीत परमं ब्रह्म वासुदेवाख्यमव्ययम् ॥
योगविघ्नकरानन्यान्नियमानपि वर्जयेत् ॥ (५१)

न च युक्तस्य कर्तव्यमिति ब्रह्मविदो विदुः ।
इत्याचरंश्च तथाचारान् योगरक्षार्थमात्मवान् ॥ (५२)

करोति सततं तस्मात्तद्विघातांस्तु सता न्यसेत् ।
इत्थं ध्यात्वा हरिं योगी सुखासीनो गतव्यथः ॥ (५३)

निराशी निर्ममो भूत्वा प्रशान्तिमधिगच्छति ।
विकल्परहितं ध्यात्वा ततो विष्णुं सनातनम् ॥ (५४)

विनिष्पन्नसमाधिस्तु भूयस्तन्मयतां व्रजेत् ।
ततो विगलितक्लेशः क्षीणकर्माशयो वशी ॥ (५५)

निरस्तातिशयानन्दः तद्विष्णोः पदमृच्छति ।
इति सम्यक्समाख्यातो योगसारो मयाधुना ॥
साङ्खयं योगमथो वक्ष्ये शृणुष्व सुसमाहितः ॥ (५६)

नाडी भेदादपगततमः कल्मषस्तासु नीत्वा प्राणयामैः नियमितगतिं वायुमापूरणेन ।
हृत्वाद्यन्तः स्फुरितममृतं ज्योतिरष्टाक्षराख्यं यस्तं पश्येत् स भवति नरो निर्ममस्सर्वकालम् ॥ (५७)

इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे श्रीहस्तिगिरि–माहात्म्ये भृगु–नारद–संवादे अष्टादशोऽध्यायः

समाप्तोऽयं ग्रन्थः