अथ श्रीहस्तिगिरिमाहात्म्ये सप्तदशोऽध्यायः
नारदः –
विश्वास-प्रस्तुतिः
ततो देवगुरुस्तत्र पूतात्मा गतकल्मषः ।
हरिं हस्तिगिरेमूर्ध्नि नित्ययुक्तोऽभ्यपूजयत् ॥ (१)
मूलम्

पाञ्चरात्रोक्तमास्थाय विधिं भोगापवर्गदम् ।
अन्वपूजयदेकाग्रस्सदा तद्भावभावितः ॥ (२)

सत्वस्थस्सात्विकैर्भोगैरनन्यो वीतमत्सरः ।
प्रशान्तस्सत्यवाङ्मौनी नियतो दृढमानसः ॥ (३)

गुरुणाभ्यर्च्यमानेऽस्मिन् वेदिमध्ये जनार्दने ।
धनधान्यसुसंपूर्णा बभूव वसुधा मुने ॥ (४)

नाशक्नुवंश्च दैतेयाः पीडने त्रिदिवौकसाम् ।
प्रवर्तन्ते स्म सततं यज्ञदानतपःक्रियाः ॥ (५)

न कदाचिदनावृष्टिः नासीद्राष्ट्रपरिप्लवः ।
न धर्मव्यत्ययो लोके नैव धर्मव्यतिक्रमः ॥ (६)

कुशध्वज इति ख्यातस्तस्मिन्काले महामतिः ।
अयोध्याधिपतिः कश्चिदासीदिक्ष्वाकुवंशजः ॥ (७)

शशास स महातेजा महीं सागरमेखलाम् ।
स्वभुजाक्रान्तभूपालस्सत्यधर्मपरायणः ॥ (८)

स कदाचिन्नृपश्रेष्ठः पुत्रार्थी यतमानसः ।
ययाज धनधान्याभ्यां पुत्रीयामिष्टिमादधात् ॥ (९)

तदन्ते सङ्गतान् सर्वानभिष्ट्रय प्रसाद्य च ।
मुनीनभ्यर्थयामास स नृपः पुत्रमात्मनः ॥ (१०)

महर्षीणाञ्च सर्वेषां सर्वलोकनमस्कृतः ।
सर्ववेदार्थतत्त्वज्ञो वेदव्यासस्ततोऽब्रवीत् ॥ (११)

व्यासः –
विश्वास-प्रस्तुतिः
शृणु वत्स महीपाल तत्त्वतस्ते हितं वचः ।
भविष्यति सुतो येन सर्वलोकप्रकाशकः ॥ (१२)

स तु यज्ञेन भविता पुत्रस्तव महीपते ।
उपायं शृणु वक्ष्यामि येन सिद्धिर्भविष्यति ॥ (१३)

वेगवत्युत्तरे तीरे क्षेत्रे सत्यव्रताख्यके ।
अस्ति काञ्चीति विख्याता पुरी पुण्यविवर्धिनी ॥ (१४)

हस्तिशैल इति ख्यातस्तत्र तिष्ठति भूधरः ।
तन्मूर्ध्नि पुण्यकोट्याख्यं विमानञ्च विराजते ॥ (१५)

तन्मध्ये देवदेवेशः पद्मपत्रनिभेक्षणः ।
वरदस्सर्वभूतेभ्यो हरिस्तिष्ठति सर्वदा ॥ (१६)

तत्र गत्वा तु संपूज्य वरदं भक्तवत्सलम् ।
प्रार्थयस्वात्मनः पुत्रं किं वान्यद्यद्यदिच्छसि ॥ (१७)

तत्प्रसादान्महीपाल सर्वलक्षणसंवृतः ।
अचिरादेव पुत्रस्ते भविता नात्र संशयः ॥ (१८)

स तु तस्य वचश्श्रुत्वा वेदव्यासस्य भूपतिः ।
तं प्रणम्य समामन्त्र्य ययौ हस्तिगिरिं प्रति ॥ (१९)

बृहस्पतिमुखाल्लब्धं मन्त्रमष्टाक्षरं ततः ।
तत्र संपूजयामास वरदं वेदिमध्यगम् ॥ (२०)

अनन्तसरसि स्नात्वा नियतो नियतेन्द्रियः ।
विविधैरनपानैश्च दिव्यस्रक्चन्दनादिभिः ॥ (२१)

स्तोत्रैः प्रदक्षिणैर्दिव्यैः मन्त्रैः ध्यानैः जपैरपि ।
उपवासैश्च दानैश्च तोषयामास केशवम् ॥ (२२)

तत्प्रसादेन सहसा तस्यासीत्पृथिवीपतेः ।
सर्वलक्षणसंपन्नः पुत्रो धर्मविवर्धनः ॥ (२३)

सर्वविश्वजिदित्येव नाम चक्रे गुरुस्तदा ॥
तेजोबलसमायुक्तो ववृधे सोऽपि वीर्यवान् ॥ (२४)

तस्मिन्नेव विनिक्षिप्य पुत्रे स्वधुरमात्मवान् ।
कुशध्वजस्समभ्यर्च्य वरदं मुक्तिमभ्यगात् ॥ (२५)

विश्वजित्तु महीं कृत्स्नां सद्वीपवनसागराम् ।
शशास भुजवीर्येण महेन्द्रस्त्रिदिवं यथा ॥ (२६)

स काञ्चीं समनुप्राप्य कुशध्वजसुतो वशी।
छित्वा वनानि सर्वाणि पुरीं चक्रेऽथ पूर्ववत् ॥ (२७)

हर्म्यप्रासादसंयुक्तां हाटकोच्छ्रितगोपुराम् ।
वीथीशतसमायुक्तां विशालायतवेदिकाम् ॥ (२८)

नवीचकार सर्वाणि देवतायतनानि च ।
उद्यानानि विचित्राणि कारयामास पूर्ववत् ॥ (२९)

उपवास सुचिरं कालं तस्मिन्नेव पुरे नृपः ।
नृपशेखररत्नौघज्वलार्चितपदद्वयः ॥ (३०)

हेमरत्नविचित्राणि गोपुराणि समन्ततः ।
हस्तिशैलस्य परितः कारयामास विश्वजित् ॥ (३१)

प्रददा देवराजाय नगरग्रामपत्तनान् ।
सुबहूनभितो वीरः कुशध्वजसुतो वशी ॥ (३२)
मूलम्
प्रददा देवराजाय नगरग्रामपत्तनान् ।
सुबहूनभितो वीरः कुशध्वजसुतो वशी ॥ (३२)
विश्वास-प्रस्तुतिः
निधाय स्वधुरं तस्मिन् देवराजे तु विश्वजित् ।
तदाज्ञयैव सर्वाणि शशास भुवनानि च ॥ (३३)

अनावृष्ट्यादिकं नासीत् न च कालविपर्ययः ।
न व्याधिर्न भयं चोरात् न क्षुधार्तिः न चानृतम् ॥ (३४)

फलपुष्पसमृद्धाश्च वृक्षगुल्मलतास्तथा ।
बभूव मेदिनी कृत्स्ना समृद्धा सस्यमालिनी ॥ (३५)

यथाकालन्तु पर्जन्यो ववर्षात्यन्तभावितः ।
अन्तकोऽपि न जग्राह प्राणान् तस्मिन् प्रशासति ॥ (३६)

तोषितस्तत्र भगवान् हविर्भिः तेन देवराट् ।
पुरे तस्मिन्मुनिश्रेष्ठ काञ्चनानि ववर्ष ह ॥ (३७)

स तत्र सुचिरं कालं वसन् सत्यपराक्रमः ।
विविधैर्हेमपद्मैश्च वरदं पर्यपूजयत् ॥ (३८)

सत्यसन्ध इति ख्यातस्तस्यासीन्नृपतेस्सुतः ।
स तु तस्मिन्पुरे स्थित्वा देवराजमपूजयत् ॥ (३९)

मुचुकुन्द इति ख्यातो मुकुन्दसमविक्रमः ।
तस्यासीन्नृपतेः पुत्रो महाबलपराक्रमः ॥ (४०)

निवेद्य स च सर्वस्वं देवराजपदाब्जयोः ।
शशास जगतीं कृत्स्नां असपत्नामनाकुलाम् ॥ (४१)

तस्य पुत्रोऽथ सर्वज्ञः तस्य सन्तापनस्सुतः ।
सहस्रांशुश्च तस्यासीत् मरीचिरिति तत्सुतः ॥ (४२)

तस्य सत्यजिदित्यासीत् सुजनो नाम तत्सुतः ।
इत्थं तत्रैव नगरे बहवः पृथिवीभुजः ।
शशासुः पृथिवीं कृत्स्नां देवराजपदाश्रयाः ॥ (४३)

ततः कलियुगे प्राप्ते वरदो वेदिमध्यगः ।
अर्चितो गुरुणा सम्यक् द्वापरे तु युगे तथा ॥ (४४)

अब्रवीत्परमप्रीतो बृहस्पतिमुपाश्रितम् ।
वीक्षमाणश्च संपूर्णं लोचनाभ्यां तदा मुने ॥ (४५)

श्रीभगवान् –
विश्वास-प्रस्तुतिः
अत्रैव सुचिरं कालम् अर्चितोऽहमनाकुलम् ।
अतश्च सुप्रसन्नोऽहं प्रार्थयस्व यदिच्छसि ॥ (४६)

गुरुः –
विश्वास-प्रस्तुतिः
प्रार्थनीयं च मे नाथ किमलभ्यं मयाधुना ।
यन्मयाभ्यर्चितो ह्यासीदभूमिस्त्वं मनोगिराम् ॥ (४७)

ममाप्यत्र निवासोऽस्तु सततं त्वत्प्रसादतः ।
प्रार्थनीयं न चैतस्माद्विद्यते मधुसूदन ॥ (४८)

तस्य तद्वचनं श्रुत्वा तमाह पुरुषोत्तमः ।
दर्शयन्नात्मनो भावं शरण्यः शरणार्थिनाम् ॥ (४९)

गुरुत्वं सर्वदेवानां तव दत्तं मया पुरा ।
निवासश्च सुरावासो यावदाभूतसंप्लवम् ॥ (५०)

रक्षिताहं सुराणान्तु विशेषेण सदा गुरो ।
अतो मत्प्रीतये तत्र निवसन्पूजयस्व माम् ॥ (५१)

पालयित्वा चिरं कालं त्रिदिवं मम शासनात् ।
लोकानां प्रलये प्राप्ते मामेवेष्यत्यसंशयः ॥ (५२)

मासि प्रोष्ठपदे पुण्ये श्रवणे प्रतिवत्सरम् ।
अत्रैवागत्य मामेव पूजयस्व दिवानिशम् ॥ (५३)

इत्युक्ते हरिणा तेन संस्तुत्य वरदं गुरुः ।
प्रणम्य देवदेवेशं जगाम त्रिदशालयम् ॥ (५४)

गते वाचस्पतौ तत्र वरदो वेदिमध्यगः ।
अनन्तेनार्चनीयोऽभूत् यावदाभूतसंप्लवम् ॥ (५५)

पूज्यमाने तु तेनैव हरौ हस्तिगिरौ स्वयम् ।
कलिदोषो न तत्रासीत् क्षेत्रे सत्यव्रते तदा ॥ (५६)

रक्षितं सर्वलोकानां पूज्यते तत्र तेन सः ।
अनन्तेनैव तत्रैव युगदोषः कथं भवेत् ॥ (५७)

तत्रैव सततं विष्णुः सन्निधत्ते जगत्पतिः ।
तदाज्ञयैव धर्मश्च चतुष्पाद्वर्तते तथा ॥ (५८)

उपास्य वरदं तत्र सर्वे भक्तिसमन्विताः ।
राज्यं पुत्रधनैश्वर्यं लभन्ते सार्वलौकिकम् ॥ (५९)

इत्येतत्कथितं सर्वं विस्तरेण मया तव ।
हस्तिशैलस्य माहात्म्यं क्षेत्रस्य नगरस्य च ॥ (६०)

य इदं शृणुयान्नित्यं विष्णुभक्तिसमन्वितः ।
कीर्तयेद्यश्च तौ विष्णोः सायुज्यमभियास्यतः ॥ (६१)

माहात्म्यं हस्तिशैलस्य ये स्मरन्ति दिने दिने ।
विमुक्तास्सर्वपापेभ्यो विष्णुभक्ता भवन्ति ते ॥ (६२)

सायं प्रातर्य इदमखिलं पुण्यमाख्यानमग्र्यम्
ध्यायन्विष्णुं प्रणतसुहृदं हस्तिशैलस्य मूर्ध्नि ।
सद्यस्त्यक्त्वा स हृदजनित-क्रोधलोभाभ्यसूयः
प्राप्नोत्यायुः श्रियमपि यशो देवदेवप्रसादात् ॥

इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे श्रीहस्तिगिरि–माहात्म्ये अनन्ताभ्यर्चनं नाम सप्तदशोऽध्यायः