अथ श्रीहस्तिगिरिमाहात्म्ये षोडशोऽध्यायः
भृगुः –
विश्वास-प्रस्तुतिः
भगवन् हस्तिशैलाग्रे हरिर्देवपुरोधसा ।
कथमभ्यर्चितस्सम्यक् विस्तरेण वदस्व मे ॥ (१)
मूलम्

नारदः –
विश्वास-प्रस्तुतिः
त्रेतायुगे व्यतीतेऽथ द्वापरे तु समागते ।
सुराणामसुराणाञ्च महद्युद्धमभूद्दिवि ॥ (२)

निर्जिताश्च तदा देवाः दानवैर्बलदर्पितैः ।
परित्यज्य दिवं भीता वनं जग्मुरितस्ततः ॥ (३)

ततो निर्मन्थ्य दैतेयाः तां पुरीममरावतीम् ।
उद्यानानि विचित्राणि चक्रुः पीडां दिवौकसाम् ॥ (४)

ततस्संभूय विबुधाः सेन्द्रास्संक्षीणवृत्तयः ।
अभिगम्य च धातारं प्रणिपत्येदमब्रुवन् ॥ (५)

देवाः –
विश्वास-प्रस्तुतिः
भगवन् सह दैतेयैरस्मात्कस्मादभूद्रणम् ।
न चासीद्विजयोऽस्माकं वयं तैरेव निर्जिताः ॥ (६)

क्षीयन्तेऽस्मद्बलान्येव वर्धन्ते तद्बलानि च ।
कारणं तत्र नो ब्रूहि जगतस्त्वं हि कारणम् ॥ (७)

ब्रह्मा –
विश्वास-प्रस्तुतिः
शृणुध्वं कारणं तत्र वक्ष्येऽहं तु सुरर्षभाः ।
यस्माद्विनिर्जिता यूयं दैतेयैश्च दुरात्मभिः ॥ (८)

इदानीं दिवि युष्माकं गुरुश्शप्तो बृहस्पतिः ।
मुनिभिः क्रोधसंविष्टैः दिवः प्रच्यावितः पुरा ॥ (९)

अतो विनिर्जिता यूयं दैतेयैः सपुरोहितैः ।
तदा प्रभृति सङ्क्षोभः त्रिदिवस्याभवन्महान् ॥ (१०)

अवग्रहैः च बहुभिः पीड्यते च वसुन्धरा ।
अतः सध्यस्समाहूय गुरुं सर्वदिवौकसाम् ॥ (११)

पुरोहितं कुरुध्वं वो बहुवृद्धिर्भविष्यति ।
सत्यव्रतेऽधुना क्षेत्रे ह्यनन्तसरसस्तटे ॥ (१२)

तपश्चरति युक्तात्मा सुतः चित्रशिखण्डिनः ।
चित्रापूर्णासु तत्रैव वत्सरे वत्सरे पुनः ॥ (१३)

अहं संपूजयिष्यामि हरिं हस्तिगिरीश्वरम् ।
गच्छध्वं तद्दिने यूयं पुरीं काञ्चीं दिवौकसः ॥ (१४)

अहमप्यागमिष्यामि समारार्द्ध जगद्गुरुम् ।
तस्य तद्वचनं श्रुत्वा प्रणिपत्य पितामहम् ॥ (१५)

प्रययुर्ब्रह्मसदनात् कृतकृत्यधियस्तदा ।
सचित्रापौर्णमास्यां तु पद्मयोनिस्समाहितः ॥
देवदेवं समाराद्धुं पुरीं काञ्चीमुपागमत् ॥ (१६)

समेयुस्तत्र ते सर्वे देवास्सेन्द्रपुरोगमाः ।
प्रणम्य तुष्टुवुस्तत्र वरदं वेदिमध्यगम् ॥ (१७)

ददृशुश्च तपस्यन्तं द्विजरूपधरं गुरुम् ।
विमानं पुण्यकोट्याख्यं वीक्षमाणं समाहितम् ॥ (१८)

समाराध्य दिवानक्तं वरदं चतुराननः ।
ततो विज्ञापयामास सुरकार्यं च शार्ङ्गिणे ॥ (१९)

प्रसीद देवदेवेश पुराण पुरुषोत्तम ।
त्वमेव कर्ता भोक्ता च जगत्त्राता सनातनः ॥ (२०)

भवत्यखिललोकेषु यदा धर्मस्य संक्षयः ।
तस्य त्राता हि सर्वत्र त्वमेव मधुसूदन ॥ (२१)

इदानीं त्रिदिवस्यासीत् विनाशो धर्मसंक्षयात् ।
परिभ्रमन्ति दैतेयैरर्दिताश्च दिवौकसः ॥ (२२)

अपराधगुरुं स्वर्गं मयि तिष्ठति वृत्रहा ।
अतस्संपीड्यते स्वर्गो दैतेयैर्धर्मसंक्षयात् ॥ (२३)

इमे समागता देवाः वृत्रशत्रुपुरोगमाः ।
निर्जिता दानवैर्देवास्त्वामेव शरणं गताः ॥ (२४)

गुरुं पुरोधसं कृत्वा परित्राहि जगत्त्रयम् ।
अस्मिन्पुरोहिते जाते धर्मबुद्धिर्भविष्यति ॥ (२५)

मुनिशापान्मनुष्यत्वमुपेत्य स बृहस्पतिः ।
त्रिदिवात्प्रच्युतोऽत्रैव वर्तते भुवनेश्वर ॥ (२६)

तेनाज्ञानात्परि त्यक्ताश्ववधूश्शरणं गतौ ।
तद्दोषक्षालनायास्मिन् क्षेत्रेऽनन्तसरस्तटे ॥ (२७)

बहून्यब्दसहस्राणि तेन तप्तं परं तपः ॥ (२८)
नारदः –
विश्वास-प्रस्तुतिः
स तु तद्देहमुत्सृज्य मानुषं दुःखसागरम् ।
ततो विष्णोः प्रसादेन दिव्यं रूपमुपागमत् ॥ (२९)

ततस्तं सर्वदेवानामुवाच वचनं गुरुः ।
गुरुः –
कृतकृत्योऽस्म्यहं नाथ तारितस्त्वत्प्रसादतः ॥ (३०)
विश्वास-प्रस्तुतिः
पातकानि प्रणष्टानि दुःखानि प्रशमं ययुः ।
मुनिशापाद्विनिर्मुक्तः स्वरूपं प्राप्तवानहम् ॥ (३१)

त्वामेव दृष्टवांश्चात्र परितो लभ्यमात्मना ।
मम विज्ञापनमिदं प्रसीद पुरुषोत्तम ॥ (३२)

त्वयि प्रत्यक्षतां याते लब्धमेवाभिवाञ्छितम् ।
यथा त्वं पूजितस्तेन गजेन्द्रेण महात्मना ॥ (३३)

त्रेतायां द्वापरे तद्वत् पूजां प्रतिगृहाण मे ।
मयैतत्सुचिरं कालं प्रार्थितं तव दर्शनम् ॥ (३४)

लब्धमेवं प्रसादं मे त्वत्पदाम्भोरुहार्चनम् ।
नारदः –
विश्वास-प्रस्तुतिः
इत्युक्तस्तेन गुरुणा प्रत्युवाच जनार्दनः ।
प्रसन्नवदनः श्रीमान् वरदो भक्तवत्सलः ॥ (३५)

श्रीभगवान् –
विश्वास-प्रस्तुतिः
तव मत्पूजनं दत्तं द्वापरे तु मया युगे ।
यावत्कलियुगप्राप्तिः तावत्संपूजयस्व माम् ॥ (३६)

अत्रैव तु गुरो नित्यं मत्पूजाप्रवणे त्वया ।
नश्यन्तु दिवि दुःखानि सर्वसंपद्भविष्यति ॥ (३७)

इत्युक्ते विष्णुना तेन विधातृप्रमुखास्सुराः ।
तं प्रणम्य समामन्त्र्य प्रययुः प्रीतमानसाः ॥ (३८)

इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे श्रीहस्तिगिरि–माहात्म्ये बृहस्पति–शापमोक्षणं नाम षोडशोऽध्यायः