१५

अथ श्रीहस्तिगिरिमाहात्म्ये पञ्चदशोऽध्यायः

नारदः –

विश्वास-प्रस्तुतिः

गजेन्द्रस्तत्र कल्हारपद्मकाननशोभिते ।
वसन्गोदावरीतीरे निनाय दिवसान्बहून् ॥ (१)

मूलम्

मृकण्डुश्च गजेन्द्रश्च कथयन्तौ शुभाः कथाः ।
परस्परं चिरात्कालात्सुखिनौ तौ बभूवुतुः ॥ (२)

स कदाचिन्मुनिश्रेष्ठं मृकण्डुं मुनिसत्तमम् ।
पप्रच्छ भुवि पुण्यानि नगराण्यचलाश्च ये ॥ (३)

सर्वपापहराण्यद्य वदस्व मुनिसत्तम ।
मृकण्डुः –

पृथिव्यां सन्त्यनेकानि नगराण्यचलांस्तथा ॥ (४)

विश्वास-प्रस्तुतिः

गदितुं न मया शक्यं तेषां सङ्ख्या न विद्यते ।
सप्तैतानि महाभाग नगराण्यचलांस्तथा ॥ (५)

येषां स्मरणमात्रेण क्षणान्नश्यन्ति किल्बिषाः ।
अयोध्या मधुरा माया काशी काञ्ची ह्यवन्तिका ॥ (६)

पुरी द्वारवती चैव सप्तैते मोक्षदायिकाः ।
मन्दरो रैवतस्सह्यो महेन्द्रो गन्धमादनः ।
तुषारो हस्तिशैलश्च सप्तैते गिरयस्तथा ॥ (७)

नगरीणाञ्च सर्वासां पुरी काञ्ची विशिष्यते ।
गिरीणान्तु तथान्येषां श्रेष्ठो हस्तिगिरिस्स्मृतः ॥ (८)

यः पुरा परितस्तत्र वेद्यर्थं विश्वयोनिना ।
शोभितो हयमेधेन पद्मयोनेः प्रियैषिणा ॥ (९)

अतस्तत्सदृशो नास्ति हरिस्सन्निहितो यत् ।
यत्स्मृतेस्सर्वपापानि संप्रणश्यन्त्यसंशयः ॥ (१०)

यस्स्मरेत्प्रातरुत्थाय हस्तिशैलं समाहितः ।
न तस्य दुष्कृतैर्बाधा भवत्यमलचेतसः ॥ (११)

पुरीणामपि सर्वासां श्रेष्ठा पापहरा हि सा ।
एका काञ्चीति विख्याता पुरी पुण्यविवर्धिनी ॥ (१२)

यस्यामिष्टो हरिस्साक्षादश्वमेधेन वेधसा ।
सैव भारतवर्षेऽस्मिन् पुरी पुण्यविवर्धिनी ॥ (१३)

यस्यान्तर्वर्तते साक्षाद्-व्यक्तरूपश्चतुर्भुजः ।
सर्वलोकगुरुस्साक्षात् हयमेधेन तोषितः ॥ (१४)

वेगवत्युत्तरे तीरे पुण्यकोटयां हरिः स्वयम् ।
वरदस्सर्वभूतानां अद्यापि परिदृश्यते ॥ (१५)

सत्यव्रतमिति ख्यातं तत्क्षेत्रं पुण्यवर्धनम् ।
न तस्य सदृशं किञ्चिद्-दृश्यते क्षेत्रमुत्तमम् ॥ (१६)

विमानं पुण्यकोट्याख्यं दृश्यते यत्र दूरतः ।
तस्य सन्दर्शनादेव सर्वपापैः प्रमुच्यते ॥ (१७)

यस्तु सत्यव्रतक्षेत्रे काञ्ची मध्ये जगद्गुरुम् ।
दर्शयेत् पुण्यकोट्यन्तः स पूज्यस्सर्वदेवतैः ॥ (१८)

वरदं पुण्यकोट्यन्तः वृश्चिकस्थे दिवाकरे ।
अर्चयेद्गन्धपुष्पाद्यैः स मुक्तो याति तत्पदम् ॥ (१९)

प्रोक्तं तीर्थद्वयं तत्र सर्वपापप्रणाशनम् ।
अनन्ताख्यं सरस्तावत् पुण्या वेगवती नदी ॥ (२०)

तयोश्शतगुणं पुण्यमनन्ताख्यं सरो महत् ।
न तस्य सदृशं तीर्थं विद्यते भुवि किञ्चन ॥ (२१)

स्नात्वा वेगवतीतोये सत्यव्रतसमीपतः ।
अश्वमेधसहस्राणां फलं प्राप्नोति मानवः ॥ (२२)

अनन्तसरसि स्नात्वा विमानच्छाययान्विते ।
विमुक्तस्सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ (२३)

क्षेत्रे सत्यव्रते तस्मिन् पुरी काञ्चीति विश्रुता ।
सर्वपापहरा पुण्या योजनत्रयविस्तृता ॥ (२४)

तन्मध्ये पुण्यकोट्याख्यं विमानं दृश्यतेऽधुना ।
दृश्यते देवदेवेशः तन्मध्ये वरदो हरिः ॥ (२५)

पुष्यमासे सिते पक्षे एकादश्यामुपोषितः ।
द्वादश्यां वेगवत्यान्तु स्नात्वा नियतमानसः ॥ (२६)

पायसेनैव वरदं पूजयेद्यः प्रसन्नधीः ।
स मुक्तस्सर्वपापेभ्यो न चेहाजायते पुनः ॥ (२७)

तत्र गत्वा महाभाग पूजयस्व जनार्दनम् ।
एकान्ते भगवान्विष्णुः तत्र तिष्ठति सांप्रतम् ॥ (२८)

तं दृष्ट्वा पुण्डरीकाक्षं वरदं वेदिमध्यगम् ।
तत्र साफल्यमक्ष्णोस्ते भविता नात्र संशयः ॥ (२९)

प्रथमं तत्र गत्वा त्वं स्नात्वा नागाह्वये ह्रदे ।
प्रणम्यानन्तरं देवं अनन्तं लोकपावनम् ॥ (३०)

ततो विवरमासाद्य तस्य शैलस्य मूलतः ।
पुलस्त्यं विवरान्तस्थमदृश्यं मुनिपुङ्गवम् ॥ (३१)

अभिवाद्य ततस्तेन प्रेषितं यत्कुरुष्व तत् ।
स हि तत्रैव वसति पुलस्त्यो मुनिसत्तमः ॥ (३२)

नृसिंहाख्यं स तत्रैव मन्त्रं द्वात्रिंशदक्षरम् ।
चतुर्मुखमुखाल्लब्धं तं सिसाधयिषुः स्वयम् ॥ (३३)

विष्णोः प्रतिकृतिं कृत्वा नृसिंहस्य सुशोभनम् ।
समर्चयति युक्तात्मा नृसिंहं मन्त्रदेवताम् ॥ (३४)

पिधाय च बिलद्वारं तं शिलाशकलेन च ।
सिंहव्याघ्रादिभिर्भीत्या समास्ते जपतां वरः ॥ (३५)

स त्वां दृष्ट्वा स्वकं रूपं दर्शयिष्यत्यसंशयः ।
ततस्तेनाभ्यनुज्ञातो नृसिंहं प्रणवप्रभुम् ॥ (३६)

ततः प्रदक्षिणीकृत्य नागाद्रिं तं महायशः ।
आरुह्य शिखरं तस्य पूजयस्व जगत्पतिम् ॥ (३७)

त्वया संपूजितस्तत्र वरदो भक्तवत्सलः ।
स दास्यत्यात्मसालोक्यं तव तवाभक्तसुदुर्लभा ॥ (३८)

तस्य तद्वचनं श्रुत्वा मृकण्डोश्च महामुने ।
गजेन्द्रस्तु महातेजा ययौ सत्यव्रतं प्रति ॥ (३९)

तत्रैव सुचिरं कालमर्चयामास केशवम् ।
अनन्तेनाभ्यनुज्ञातः पुलस्त्येन च धीमता ॥ (४०)

काञ्चीमध्ये पुरा तेभ्यः निर्मिते विश्वकर्मणा ।
वापीकूपतटाकेभ्यो हेमाम्भोजानि चाग्रहीत् ॥ (४१)

अनन्ततीर्थपद्मानि नाग्रहीत्स कदाचन ।
दर्शनार्थं हि देवस्य स्थापितानि दिवानिशम् ॥ (४२)

ततस्तस्मिन् महापुण्ये शान्तव्याघ्रादिके तदा ।
पशवश्च मनुष्याश्च विचेरुर्विगतज्वराः ॥ (४३)

पुलस्त्योऽपि महातेजाः निर्भयस्तस्य तेजसा ।
गिरेर्विवरमुद्घाट्य नृसिंहं पर्यपूजयत् ॥ (४४)

अन्यैश्च विविधैः पुष्पैः स्वयं पक्वैः फलैस्तथा ।
पूजयामास वरदं भक्तियुक्तो गजाधिपः ॥ (४५)

सांस्पर्शिकैश्च विविधैस्तथैवाभ्यवहारिकैः ।
मनोरमैर्विचित्रैश्च भोगैरप्युपचारिकैः ॥ (४६)

प्रदक्षिणैर्जपैस्स्तोत्रैः कथालापैश्च सर्वदा ।
गजेन्द्रो वेदिमध्यस्थं वरदं पर्यपूजयत् ॥ (४७)

परिचर्यापरस्यास्य गजेन्द्रस्य महात्मनः ।
करिणीनां सहस्राणि पद्मानि च दिने दिने ॥ (४८)

मनोहराणि पुष्पाणि फलानि च समन्ततः।
समाहृत्योदकं रम्यं ददुस्तस्मै महात्मने ॥ (४९)

कदाचिद्योगनिरतः कदाचित्पूजने रतः।
अचिन्तयन्न चैवास्य मनसा विष्णुना विना ॥ (५०)

सदसं कल्पयामास गजेन्द्रः सुदृढः व्रतः ।
कर्मयोगेन देवेशं परितोषयितुं हरिम् ॥ (५१)

ददुर्दश सहस्राणि पद्मानि च दिने दिने ।
आहृत्यार्चयितुं विष्णुं मतिं चक्रे महामनाः ॥ (५२)

तथा संपूजितस्तेन गजेन्द्रेण महात्मना ।
वरदः पुण्यकोट्यन्तः यावत् त्रेतायुगावधि ॥ (५३)

त्रेतायाश्चरमे भागे महानासीदवग्रहः ।
वर्षाणाञ्च सहस्राणि न ववर्षुर्वलाहकाः ॥ (५४)

परिशुष्काभवत्पृथ्वी घर्मतप्ता समन्ततः ।
तृणवृक्षलतागुल्मान्यलक्ष्यन्त भुवि क्वचित् ॥ (५५)

गजेन्द्रश्च समाहृत्य कथञ्चित्कमलानि सः ।
पर्यपूजयदत्यर्थं दृढभक्तिसमन्वितः ॥ (५६)

कमलानि च नाद्राक्षीत् पृथिव्यां स कदाचन ।
तदा न किञ्चिद्बुभुजे गजेन्द्रो नियतव्रतः ॥ (५७)

कदाचित्प्रययौ तूष्णीं उदीचीन्दिशमात्मवान् ।
सहितः करिणीयूथैः पद्मान्वेषणतत्परः ॥ (५८)

नदीगिरितटाकेषु कमलानि विचिन्वता ।
कमलानि न लब्धानि गजेन्द्रेण न कानिचित् ॥ (५९)

ततस्सञ्चिन्तयामास गजेन्द्रो भृशदुःखितः ।
अरण्ये निर्जने घोरे क्षुत्पिपासादिपीडितः ॥ (६०)

का गतिर्मम सर्वत्र न लभ्यन्तेऽम्बुजानि च ।
चरता वसुधां कृत्स्नां सर्वत्रापि विचिन्वता ॥ (६१)

श्लथानि मम गात्राणि घूर्णिते च विलोचने ।
परिभ्रमति चित्तञ्च किं मया क्रियतामिति ॥ (६२)

इत्थं सञ्चिन्तयाने तु गजेन्द्रे दृविक्रमे ।
त्रिकूटशिखराद्वायुः ववौ स्पर्शसुखावहः ॥ (६३)

उद्वहान्कमलामोदं कल्लोलासङ्गशीतलः ।
भूतानि घर्मतप्ताः प्रीणयन्काननौकसः ॥ (६४)

तमाघ्राय ततो गन्धं प्रहृष्टस्स गजाधिपः ।
ययौ गन्धानुसारेण त्रिकूटशिखरं प्रति ॥ (६५)

तस्य शैलस्य शिखरे सरः फुल्लसरोरुहम् ।
दशयोजनविस्तारं शतयोजनमायतम् ॥ (६६)

मूलम्

तस्य शैलस्य शिखरे सरः फुल्लसरोरुहम् ।
दशयोजनविस्तारं शतयोजनमायतम् ॥ (६६)

विश्वास-प्रस्तुतिः

कुमुदोत्पलकल्हारैश्शोभितं सिद्धसेवितम् ।
वकुलैः पाटलैश्चूतैः चम्पकैश्च समावृतम् ॥ (६७)

ददर्श परमप्रीतः स्वच्छाम्भस्तज्जलाशयम् ।
यक्षकिन्नरगन्धर्वैर्मुनिभिश्च निषेवितम् ॥ (६८)

तत्प्रविश्य सरोमध्यं कुतूहलसमन्वितः ।
काञ्चनाब्जानि जग्राह सुबहूनि महामनाः ॥ (६९)

तत्र कश्चिन्महाग्राहस्तीक्ष्णदंष्ट्रो महाननः ।
जग्राहाङ्घ्रिं गजेन्द्रस्य तमश्चन्द्रमसं यथा ॥ (७०)

अनादृत्य तु तं ग्राहं गजेन्द्रो बलदर्पितः ।
कमलान्येव जग्राह पुनः पुनरनाकुलः ॥ (७१)

तस्मादुद्धर्तुमारेभे जलमध्यान्महागजः ।
तञ्चकर्ष गृहीत्वाङ्घि क्रूरदंष्ट्रो जलेचरः ॥ (७२)

तञ्चकर्ष महाग्राहं गजेन्द्रश्च सरस्तटे ।
स च तं सरसो मध्ये चकर्ष महतो बलात् ॥ (७३)

इत्थं ग्राह गजेन्द्रौ तौ युयुधाते परस्परम् ।
अन्योन्यबलसंदृप्तौ वर्षाणि सुबहूनि च ॥ (७४)

ततो जलचरस्यासीत् बलवृद्धिर्दुरात्मनः ।
बलहानिस्तथैवासीत् गजेन्द्रस्य महात्मनः ॥ (७५)

ततस्संशुष्ककण्ठोऽसौ घूर्णाक्षस्संश्लथद्वपुः ।
न शशाक गजाधीशः प्राणान्धारयितुं क्षणम् ॥ (७६)

ततस्तु चिन्तयामास कम्पमानवपुस्स्वयम् ।
विसृज्याश्रूणि निश्चेष्टः सन्निरुद्धमनोरथः ॥ (७७)

नाहं कलेबरस्यास्य त्राणार्थं मधुसूदनम् ।
त्रातारं सर्वभूतानां प्रार्थयामि जगद्गुरुम् ॥ (७८)

कथं वास्मान्महाक्लेशात् विमुक्तोऽहं सुखी पुनः ।
अर्चयिष्ये हरिं दृष्ट्वा वरदं कमलेक्षणम् ॥ (७९)

इत्थं सञ्चिन्त्य सहसा गजेन्द्रस्सुमहामतिः ।
प्रणतार्तिहरं दध्यौ वरदं वेदिमध्यगम् ॥ (८०)

विमाने पुण्यकोट्याख्ये हस्तिशैलस्य मूर्धनि ।
तिष्ठन्तमच्युतं नित्यं सर्वभूतहिते रतम् ॥ (८१)

तुष्टाव च परिश्रान्तो गजेन्द्रो गद्गदस्वरः ।
पुष्कराग्रं समुत्क्षिप्य विष्णुं तत्राह्वयन्निव ॥ (८२)

गजेन्द्रः –

विश्वास-प्रस्तुतिः

त्राहि त्राहि जगन्नाथ शङ्खचक्रगदाधर ।
महाग्राहगृहीतं मामनाथं भक्तवत्सल ॥ (८३)

मूलम्

त्राहि त्राहि जगन्नाथ शङ्खचक्रगदाधर ।
महाग्राहगृहीतं मामनाथं भक्तवत्सल ॥ (८३)

विश्वास-प्रस्तुतिः

मम सीदन्ति गात्राणि न च पश्यामि किञ्चन ।
न शक्नोमि क्षणं स्थातुमितो रक्ष जनार्दन ॥ (८४)

शरणं त्वां प्रपन्नोऽस्मि सर्वकारणकारणम् ।
अनादिमव्ययं विष्णुमच्युतं ब्रह्म शाश्वतम् ॥ (८५)

आधारं सर्वभूतानामनाधारमनामयम् ।
त्वां प्रपद्ये गतिं दिव्यां पुरुषं शाश्वतं विभो ॥ (८६)

त्वद्भक्तस्सर्वदुर्गाणि समतीत्य जनार्दन ।
कृतात्मा परमं दिव्यं शाश्वतं पदमश्नुते ॥ (८७)

पीड्यमानमनेनैव ग्राहेण जलचारिणा ।
रक्ष मां देवदेवेश वर्तते महती व्यथा ॥ (८८)

तस्य तद्वचनं श्रुत्वा वरदो भक्तवत्सलः ।
आरुह्य गरुडं शीघ्रं ययौ यत्र गजाधिपः ॥ (९०)

दृष्ट्वा ग्राहगृहीताद्धि गजेन्द्रं क्षपितौजसम् ।
बिभेद सहसा नक्रं चक्रेण क्रूरनेमिना ॥ (९१)

ततो जलात्समुत्थाय ग्राहो गन्धर्वरूपधृक् ।
हरिं प्रणम्य संस्तुत्य ब्रह्मलोकमुपाविशत् ॥ (९२)

ततो ग्राहग्रहान्मुक्तो गजेन्द्रो विष्णुपादयोः ।
करस्थकमलान्येव वरदाय न्यवेदयत् ॥ (९३)

ततः प्रसन्नो भगवान् पूर्णचन्द्रनिभाननः ।
पस्पर्श करपद्येन प्रणतं गजयूथपम् ॥ (९४)

संस्तुतश्च ततस्तेन वरदो भक्तवत्सलः ।
सालोक्यं तस्य दत्वाथ ययौ हस्तिगिरिं प्रति ॥ (९५)

निर्मुक्तगजरूपञ्च महाशान्तं तपोधनम् ।
दिव्यरूपधरं शान्तमारोप्य गरुडोपरि ॥ (९६)

माहात्म्यं विष्णुभक्तानां सर्वलोकेषु दर्शयन् ।
प्रययौ सर्वभूतात्मा सिद्धगन्धर्वसेवितः ॥ (९७)

निर्मुक्तकल्मषास्तत्र वर्तन्ते दिव्यसूरयः ।
अभितो हस्तिशैलस्य देवराजदिदृक्षवः ॥ (९८)

यथैव परमव्योम निर्गुणं दिव्यमव्ययम् ।
परितो हस्तिशैलस्य दिव्यं तेजोमयं तथा ॥ (९९)

तत्रैवाराधितो विष्णुर्वरदो वेदिमध्यगः ।
पुण्यकोटिविमानान्तः गजेन्द्रेण महात्मना ॥ (१००)

इत्थं पुरा करिवरः करिशैलशृङ्गे संपूज्य तत्र वरदं सरसीरुहाक्षम् ।
त्रेतावसानसमये परमस्य पुंसः सालोक्यसंज्ञमपवर्गमपि प्रपेदे ॥ (१०१)

इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे श्रीहस्तिगिरि–माहात्म्ये गजेन्द्रमोक्षो नाम पञ्चदशोऽध्यायः