अथ श्रीहस्तिगिरिमाहात्म्ये चतुर्दशोऽध्यायः
नारदः-
विश्वास-प्रस्तुतिः
अथाग्र्यबुद्धिर् वरदं वरेण्यं
तम् आत्मयोनिं मुनिर् आत्म-गुप्त्यै ।
अशेष-दुःखौघ-विघात-हेतुं
प्रणम्य तुष्टाव वचोभिर् अग्र्यैः ॥ (१)
मूलम्
अथाग्र्यबुद्धिर्वरदं वरेण्यं तमात्मयोनिं मुनिरात्मगुप्त्यै ।
अशेषदुःखौघविघातहेतुं प्रणम्य तुष्टाव वचोभिरग्र्यैः ॥ (१)
विश्वास-प्रस्तुतिः
अनाद्यनन्तं पुरुषं पुराणं
परं परस्मात् भुवनेशम् ईड्यम् ।
निराश्रयं निष्कलम् अप्रमेयं
हरिं हृदिस्थं शरणं प्रपद्ये ॥ (२)
मूलम्
अनाद्यनन्तं पुरुषं पुराणं परं परस्मात् भुवनेशमीड्यम् ।
निराश्रयं निष्कलमप्रमेयं हरिं हृदिस्थं शरणं प्रपद्ये ॥ (२)
विश्वास-प्रस्तुतिः
आजन्म-वृद्धि-क्षय-काल-हेतुं
हिरण्मयं शङ्ख-रथाङ्ग-पाणिनम् ।
गुणाश्रयं निर्गुणम् अप्रमेयं
जगन्-निवासं शरणं प्रपद्ये ॥ (३)
मूलम्
आजन्मवृद्धिक्षयकालहेतुं हिरण्मयं शङ्खरथाङ्गपाणिनम् ।
गुणाश्रयं निर्गुणमप्रमेयं जगन्निवासं शरणं प्रपद्ये ॥ (३)
विश्वास-प्रस्तुतिः
विरिञ्चि-रुद्रेन्द्र–मरुत्-सखानां
स्थितिर् यद्-आज्ञा-परिपालनाय ।
तमीश्वराणां परमं परेशं
सरोजनाभिं शरणं प्रपद्ये ॥ (४)
मूलम्
विरिञ्चि-रुद्रेन्द्र-मरुत्-सखानां स्थितिर्यदाज्ञापरिपालनाय ।
तमीश्वराणां परमं परेशं सरोजनाभिं शरणं प्रपद्ये ॥ (४)
विश्वास-प्रस्तुतिः
नभोमरुद्वह्निजलक्षितीनां समाश्रयो यस्सकलं बिभर्ति ।
तमात्मतृप्तं विमलं विशोकं सहस्रबाहुं शरणं प्रपद्ये ॥ (५)

यतः परन्नापरमन्यदस्ति जगत्त्रयं यत्र निविष्टमेतत् ।
प्रधानपुंसौ च यतः प्रसूतौ तमेव विष्णुं शरणं प्रपद्ये ॥ (६)

मदव्ययं नित्यमजं शिवञ्च सनातनं ब्रह्मविदो वदन्ति ।
तमीशितारं ध्रुवमप्रमेयं सहस्रनेत्रं शरणं प्रपद्ये ॥ (७)

यस्मात्प्रसूतानि जगन्ति पूर्वं विनिर्गता यस्य मुखाश्च वेदाः ।
तमेकरूपं बहुरूपरूपं श्रियःपतिं विश्वगुरुं प्रपद्ये ॥ (८)

यतो विभातेन्दुहुताशनार्काः यमक्षरं वेदविदो वदन्ति ।
यदव्ययं ज्योतिरजं शिवञ्च जगन्निवासं शरणं प्रपद्ये ॥ (९)

समस्तभूतानि चराचराणि विसृज्य देवो मनसैव पूर्वम् ।
महार्णवान्तः स्वपिति स्वयं यस्तमादिदेवं शरणं प्रपद्ये ॥ (१०)

महार्णवादेव तरङ्गभेदा यथैव जाता बहुधा विकीर्णाः ।
तथैव यस्मात्पुरुषाच्च जाताः तमेकमीशं शरणं प्रपद्ये ॥ (११)

अपारसंसारमहार्णवान्तर्निमज्जतां प्राणभृतां गतिर्यः ।
तमच्युतं पुष्करपत्रनेत्रं चतुर्भुजं विश्वसृजं प्रपद्ये ॥ (१२)

जगत्त्रयत्राणविधित्सयैव नभैर्हिरण्यं निजघानदैत्यम् ।
सनातनं सादितदैत्यसङ्घं तं श्रीनृसिह्मं शरणं प्रपद्ये ॥ (१३)

त्वक्चर्ममांसास्थिपुरीषमूत्रश्लेष्मांत्रशुक्लादिसमुच्चयेषु ।
गात्रेष्वसारेषु यथा न मे स्यात् स्पृहा तथात्वं वरद प्रसीद ॥ (१४)

नमः परमकल्याणनिधये परमात्मने ।
अच्युतायाप्रमेयाय निर्गुणाय नमो नमः ॥ (१५)

नमस्सहस्रशिरसे नमस्सततभास्वते ।
नमः कमलनेत्राय नमोऽनन्ताय विष्णवे ॥ (१६)

नमस्त्रिमूर्तये धात्रे नमस्त्रियुगशक्तये ।
नमस्समस्तसुहृदे नमस्सततजिष्णवे ॥ (१७)

शङ्खचक्रगदापद्मधारिणे लोकधारिणे ।
स्फुरत्किरीटकेयूरमकुटाङ्गदधारिणे ॥ (१८)
मूलम्
शङ्खचक्रगदापद्मधारिणे लोकधारिणे ।
स्फुरत्किरीटकेयूरमकुटाङ्गदधारिणे ॥ (१८)
विश्वास-प्रस्तुतिः
निर्भयाय निरीशाय निर्विकाराय ते नमः।
पाहि मां पुण्डरीकाक्ष शरण्यं शरणागतम् ॥ (१९)

त्वमेव सर्वभूतानाम् आश्रयः परमा गतिः ।
त्वयि स्थितं यथा चित्तं न मे चञ्चलतां व्रजेत् ॥ (२०)

तथा प्रसीद देवेश शरणं त्वां गतोऽस्म्यहम् ।
न क्वचिद्विष्णुभक्तानां श्रुतपूर्वः पराभवः ॥
अतो मां रक्ष देवेश भयादस्मादुपस्थितात् ॥ (२१)

क्व कामविवशा बुद्धिः क्व ते पादांबुजस्मृतिः ।
द्वयोः स्थितिर्न चैकत्र तेजस्तिमिरयोरिव ॥ (२२)

त्वत्पदांभोरुहद्वन्द्व-मधुपानसमुद्यतम् ।
न मां कन्दर्पबाणास्तु भ्रमयन्तु मनीषिणः ॥ (२३)

मनस्त्वयि यथा नाथ वर्तते मम संप्रति ।
तथैव सर्वकालेषु वर्ततां त्वत्प्रसादतः ॥ (२४)

त्वयि प्रसन्ने सर्वत्र किमलभ्यं जगत्पते ।
त्वद्भक्तस्यापवर्गो वा स्वर्गो वा नैव दुर्लभः ॥ (२५)

यस्त्वया वीक्षितो मर्त्यः त्वद्भक्तिस्तस्य जायते ।
अपेक्षितस्त्वया यस्तु भोगेच्छा तस्य जायते ॥ (२६)

अतो मामधुना रक्ष मन्दप्रभवविह्वलम् ।
त्वमेवानन्यशरणो गतोऽस्मि शरणं हरे ॥ (२७)

समाधिभङ्गोऽयमुपस्थितो मम प्रचोदितः केनचिदल्पमेधसा ।
त्वमेव मां रक्ष भयार्तिनाशन त्वदन्यतो नास्ति गतिर्नचापदि ॥ (२८)

इति सहायमुदीर्य भूतयोनिं हृदयसरोरुहकर्णिकान्तरस्थम् ।
सरसिजदृशमीश्वरं स पश्यन् सपदि समाधिपरो बभूव भूयः ॥ (२९)

तं दृष्ट्वा तापसश्रेष्ठं निमीलितविलोचनम् ।
निराशाः प्रययुः सद्यः सुराणां दिव्ययोषितः ॥ (३०)

प्रशशंसुर्महेन्द्राय तापसं सुदुरासदम् ।
सुराङ्गना निरुत्साहा व्रीलिता मुक्तगौरवाः ॥ (३१)

स च तासां वचः श्रुत्वा विषण्णो बलसूदनः ।
गजरूपेण तपसो भङ्गं कर्तुं मनो दधे ॥ (३२)

ततः स्वयं गजो भूत्वा करिणीभिस्समावृतः ।
प्रययौ स तदा तत्र समास्ते हि तपोधनः ॥ (३३)

चचार करिणीयूथैः सह तस्य समीपतः ।
मदयन् मदगन्धेन मन्दमन्दगतिर्द्विजम् ॥ (३४)

चरन्तं परितः स्वैरं गजयूथं स तापसः ।
अशङ्कितमतिस्स्वस्थो ददर्शोन्मीलितेक्षणः ॥ (३५)

पुरतस्तस्य बलभित् गजेन्द्रः काममोहितः ।
रेमे कयाचिद्दुर्बुद्धिः करिण्या सह मायया ॥ (३६)

रममाणञ्च तं दृष्ट्वा कुञ्जरं काममोहितम् ।
विचचार क्षणं चित्तं महर्षेस्तस्य धीमतः ॥ (३७)

ततस्सञ्चिन्तयन्विप्रः तपोभङ्गकरान्बहून् ।
गजाय स्पृहयामास मोहितस्तस्य मायया ॥ (३८)

तद्दोषात्सहसं स्पृष्टस्स तु जज्ञे महागजः ।
महाबलो महातेजा मत्तद्विजगणेश्वरः ॥ (३९)

स रेमे करिणीयूथैश्चिरकालमनाकुलः ।
न तु सस्मार मोहान्धः पूर्वजन्मकृतानि च ॥ (४०)

न चैवापूजयद्विष्णुं माययैव शचीपतेः ।
न कामविवशं चित्तं विष्णुं स्मरति चञ्चलम् ॥ (४१)

सालग्रामे गजश्रेष्ठस्स कदाचिद्यदृच्छया ।
चरंश्चक्रसरिन्मध्ये व्यगाहत मदोद्धतः ॥ (४२)

ततस्स दोषैर्निर्मुक्तो विषयासङ्गसंभवैः ।
सस्मार पुण्डरीकाक्षं पूजितं पूर्वजन्मनि ॥ (४३)

गर्भजन्मादिभिर्दुःखैः स्मृतिभङ्गो न चान्यथा ।
स सर्वसङ्गनिर्मुक्तः जितक्रोधो जितेन्द्रियः ॥ (४४)

सर्वभूतान्तरात्मानं विष्णुमेवाभ्यपूजयत् ।
विचरन् पृथिवीं कृत्स्नां पुण्यदेशदिदृक्षया ॥ (४५)

मुनिं गोदावरीतीरे मृकण्डुं सन्ददर्श ह ।
तमागतं मुनिश्रेष्ठो मृकण्डुर्गजयूथपम् ॥ (४६)

अभ्युत्थायाभिवाद्याथ श्रद्धया पर्यपूजयत् ।
स मुनिस्तं गजश्रेष्ठं साक्षाद्विष्णुमिवागतम् ॥ (४७)

मन्यमानः कृती भूयस्तुष्टाव विविधैः स्तवैः ।
कृतकृत्योऽस्म्यहं यत्त्वामागतोऽस्म्यविशङ्कितः ॥
अनालक्षित-संरम्भा लक्ष्यते पुण्यसिद्धयः ॥ (४८)

आराधितो मया पूर्वमच्युतः पुष्करेक्षणः ।
यदिदं दुर्लभं लब्धं विष्णुभक्तस्य दर्शनम् ॥ (४९)

स्वस्त्यस्तु तव कल्याणी वर्धते कीर्तिरव्यया ।
अनन्या विष्णुभक्तिस्तेन प्रच्युतिमृच्छति ॥ (५०)

आराधितस्त्वया पूर्वं भगवान्मधुसूदनः ।
तथैवाद्यापि सततं पूज्यते माधवस्त्वया ॥ (५१)

पुण्याणामपि पुण्योऽसि पूज्यानां पूज्य एव च ।
त्वय्येव सततं विष्णुः वर्तते भक्तवत्सलः ॥ (५२)

मया लब्धमिदं पुण्यं दर्शनं तव दुर्लभम् ।
परिणामेन तपसो न त्वमन्येन लभ्यसे ॥ (५३)

दर्शनं विष्णुभक्तानां कीर्तनं स्मरणं तथा ।
सर्वदा सर्वपापघ्नमिति वेदविदो विदुः ॥ (५४)

पूर्वजन्मकृतानां मे पुण्यानां फलसिद्धयः ।
अद्य प्राप्ता मया यत्त्वं दृष्टोऽसि भगवन् मया ॥ (५५)

जगत्पवित्रास्ते नित्यं विष्णुमभ्यर्चयन्ति ये ।
दुर्वृत्ता वा सुवृत्ता वा पूजनीया विशेषतः ॥ (५६)

अस्मिन्गोदावरीतीरे स्फुरत्कल्हारपङ्कजे ।
पूजयस्व महाभाग पुण्डरीकाक्षमात्मवान् ॥ (५७)

कानिचिद्दिवसान्यत्र नेयान्यस्मत्समीपतः ।
ममापि जन्मसाफल्यं भवितास्मत्प्रसादतः ॥ (५८)

इति मुनिवचनं निशम्य रम्यं नियतमना गजयूथपो महात्मा ।
उपचितफलपुष्पतोयगन्धैः हरिमखिलेशमपूजयत्तथैव ॥ (५९)

इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे श्रीहस्तिगिरि–माहात्म्ये मृकण्डु–गज–संवादो नाम चतुर्दशोऽध्यायः