१३

अथ श्रीहस्तिगिरिमाहात्म्ये त्रयोदशोऽध्यायः

नारदः –

विश्वास-प्रस्तुतिः

एतस्मिन्नेव काले तु विप्रे तपसि तिष्ठति ।
पूज्यमाने च वेद्यन्तः दिव्यैः परिजनैः हरौ ॥ (१)

मूलम्

गजेन्द्रः नाम धर्मात्मा विष्णुभक्तो दृढव्रतः ।
चचार वसुधां कृत्स्नां करिणीयूधसंवृतः ॥ (२)

यत्र यत्र सुगन्धीनि सन्ति पुष्पान्यनेकशः ।
तत्र तत्र चिरंकालं वसन्विष्णुमपूजयत् ॥ (३)

मेरुपार्श्वे चिरं कालं सर्वपुष्पसमन्विते ।
पूजयामास देवेशं भावभक्तिसमन्वितः ॥ (४)

प्रयागे पुष्करे रम्ये तथा बदरिकाश्रमे ।
गङ्गासागरयोश्चैव सङ्गमे पुरुषोत्तमे ॥ (५)

क्षेत्रेष्वन्येषु पुण्येषु निवसन् सुदृढव्रतः ।
गन्धपुष्पादिभिर्दिव्यैः अर्चयामास केशवम् ॥ (६)

स कदाचिन्महातेजाः पुण्यक्षेत्रदिदृक्षया ।
चिन्तयन्मनसा विष्णुं दक्षिणाभिमुखो ययौ ॥ (७)

ततो गोदावरीतीरे पुण्यवृक्षसमाश्रये ।
ददर्श सुखसंविष्टं मृकण्डं मुनिपुङ्गवम् ॥ (८)

ज्वलनार्कप्रतीकीशं चीरवल्कलवाससम् ।
जपन्तं विष्णुगायत्रीं भानुमण्डलवीक्षकम् ॥ (९)

समीपं तस्य सहसा जगाम स गजाधिपः।
धर्मशीलः प्रशान्तात्मा सर्वत्र समदर्शनः ॥ (१०)

स च दृष्ट्वा समीपस्थं गजेन्द्रममितद्युतिम् ।
उत्थाय सहसा तं वै ववन्दे तपसां निधिः ॥ (११)

मन्यमानश्च तं विष्णुमात्मरक्षार्थमागतम् ।
स्वागतैः पूजयामास मृकण्डुः परमार्थवित् ॥ (१२)

ततस्सत्कृत्य विधिवत् विष्णुभक्तं गजाधिपम् ।
विनयावनतो भूत्वा तमुवाच तपोधनः ॥ (१३)

मृकण्डुः –

विश्वास-प्रस्तुतिः

अधुना तपसां सिद्धिं महतामपि दुर्लभा ।
उपलब्धा मया यत्त्वं मत्समीपमिहागतः ॥ (१४)

दुर्लभं सर्वलोकेषु विष्णुभक्तस्य दर्शनम् ।
विपाकेनैव पुण्यानां लब्धमेतन्मयाधुना ॥ (१५)

अनन्यो विष्णुभक्तस्त्वं तत्पदाम्भोजसंश्रयः ।
निर्ममो निरहङ्कारस्सर्वत्र प्रियदर्शनः ॥ (१६)

तमेव सततं ध्यायन् तस्मिन्नेवाभिवर्तसे ।
तद्दर्शनपरो नित्यं तत्कीर्तनपरायणः ॥ (१७)

तत्कर्मपरमोऽसि त्वं कर्मणा मनसा गिरा ।
तमेव सततं युक्तं कर्मणो सिद्धिमिच्छसि ॥ (१८)

अतस्त्वद्दर्शननैव कृतार्थोऽस्मि गजेश्वर ।
अनायासेन मे प्राप्तो विष्णुभक्तसमागमः ॥ (१९)

स धन्यः खलु लोकेऽस्मिन् पुरुषः क्षीणकल्मषः ।
यत्समीपं समायाति विष्णुभक्तो दृढव्रतः ॥ (२०)

नश्यन्ति सर्वपापानि विष्णुभक्तस्य दर्शनात् ।
हृदये वर्तते यस्य गोविन्दो भक्तिसङ्गतः ॥ (२१)

न केवलमिहैव त्वं विष्णुभक्तो गजेश्वर ।
समर्चयसि देवेशं पूर्वस्मिन्नपि जन्मनि ॥ (२२)

पूर्वजन्मनि विप्रस्त्वं विष्णुभक्तो महातपाः ।
महाशान्त इति ख्यातः सर्वभूतहिते रतः ॥ (२३)

माययैव महेन्द्रस्य गजेन्द्रत्वमुपागतः ।
अतस्तव गजेन्द्रत्वं रूपमात्रं तु केवलम् ॥ (२४)

इत्थं संभावयामास गजेन्द्रं मुनिसत्तमः ।
मृकण्डुर्विविधैस्तोत्रैरुपचारैश्च भक्तितः ॥ (२५)

भृगुः –

विश्वास-प्रस्तुतिः

गजेन्द्रत्वं कथं प्राप्तः वासवस्यैव मायया ।
ब्राह्मणो वृत्तसंपन्नस्तद्वदस्व महामुने ॥ (२६)

महाशान्त इति ख्यातो ब्राह्मणो वेदपारगः ।
स्वाध्यायनिरतो विष्णुं सततं पर्यपूजयत् ॥ (२७)

वर्णाश्रमाचाररतो देवद्विजगुरुप्रियः ।
शान्तो दान्तो मृदुर्मौनी विष्णुभक्तो बभूव ह ॥ (२८)

अनाराध्य जगन्नाथं न चैवाश्नाति किञ्चन ।
न चानिवेदितं किञ्चित् क्षुधार्तोऽप्युपजीवति ॥ (२९)

विष्णुपादोदकादन्यत् ग्रीष्मार्तोऽपि न चापिबत् ।
यमैश्च नियमैश्चैव निर्जितं भुवनत्रयम् ॥ (३०)

संपरित्यज्य पुत्रादीन् क्षेत्राणि च धनानि च ।
एकाकी नियताहारः तर्तुं संसारसागरम् ॥ (३१)

त्रिकूटशिखरे रम्ये पुण्यवृक्षसमन्विते ।
निराशी निरहङ्कारो निर्द्वन्द्वो वीतमत्सरः ॥ (३२)

प्राणायामपरो धीरो नासाग्रन्यस्तलोचनः ।
अष्टाक्षरं जपन् ब्रह्म चकार परमं तपः ॥ (३३)

तपसा तस्य निष्कृष्टं चचाल वसुधा भृशम् ।
न तताप सहस्रांशुः क्षुब्धास्सप्त महार्णवाः ॥ (३४)

विमानानि नभो मध्ये न विचेरुस्त्रिदिवौकसाम् ।
ज्वलनो नापि जज्वाल न ववर्ष बलाहकः ॥ (३५)

न शशाक दिवि स्थातुं वृत्रहापि शचीपतिः ।
न ववौ श्वसनो व्योम्नि न शशासान्तको जगत् ॥ (३६)

इत्थं लोकत्रयं तस्य तपसा व्याकुलीकृतम् ।
न जानन्ति स्म विबुधाः तपसा तस्य वाञ्छितम् ॥ (३७)

ततस्तस्य तपोभङ्गं कर्तुकामश्शचीपतिः ।
आहूयाप्सरसस्सर्वा वचनं प्राह सादरम् ॥ (३८)

इन्द्रः –

विश्वास-प्रस्तुतिः

हिताय जगतां यूयं निसृष्टाः परमेष्ठिना ।
रूपयौवनसंपन्नाः फुल्लेन्दीवरलोचनाः ॥ (३९)

शुचिस्मिताः सुकेशान्ताः घनपीनपयोधराः ।
सुभ्रुवो मन्दगामिन्यो मदमन्थरगीतयः ॥ (४०)

युष्माभिर्मोहितं सर्वं सदेवासुरमानुषम् ।
युष्मद्दृष्टिनिपातास्त्रैः मम शत्रुजयस्सदा ॥ (४१)

पुरतो योषितो दृष्ट्वा कस्समाधौ प्रतिष्ठति ।
निर्गच्छति मनस्तस्य धनुषस्सायको यथा ॥ (४२)

यूयमेव हि सर्वत्र बलमस्माकमापदि ।
नाशक्यमस्ति युष्माकं त्रिषु लोकेषु किञ्चन ॥ (४३)

उपस्थितमिदानीं नस्सर्वानर्थकरं भयम् ।
प्रशमस्तस्य कर्तव्यो युष्माभिरसितेक्षणाः ॥ (४४)

तच्छ्रुत्वाऽप्सरसां श्रेष्ठा रंभा मधुरभाषिणी ।
प्रणम्य प्राञ्जलिस्स्थित्वा तमुवाच सुरेश्वरम् ॥ (४५)

रंभा –

विश्वास-प्रस्तुतिः

यत्प्रशासति देवोऽस्मान् तत्तथैव विदधीमहे ।
तत्प्रदेहि सदास्माकं जीविताशा सुरेश्वर ॥ (४६)

कैलासं ब्रह्मलोकं वा श्वेतद्वीपमथापि वा ।
प्रवेश्यामो वयं यत्र वर्तन्ते यत्र शत्रवः ॥ (४७)

अस्मद्दृष्टिपातास्त्रैर्मोहितास्तव शत्रवः ।
अर्चयिष्यन्ति नः पादान् शेखरीकृत्य च स्वयम् ॥ (४८)

तस्यास्तद्वचनं श्रुत्वा तदानी वृत्रसूदनः ।
कृतकृत्यमिवात्मानं मन्यमानोऽब्रवीदिदम् ॥ (४९)

त्रिकूटशिखरे रम्ये तपश्चरति तापसः ।
महाशान्त इति ख्यातः सर्वत्र प्रियदर्शनः ॥ (५०)

जितेन्द्रियो जितक्रोधो वासुदेवपरायणः ।
निराशीर्निरहङ्कारो निर्द्वन्द्वो वीतमत्सरः ॥ (५१)

तप्यते तपसा तस्य जगत्स्थावरजङ्गमम् ।
मतन्तस्य न जानीमः तपतस्सु दुरात्मनः ॥ (५२)

यूयं तत्रैव गच्छध्वं मत्प्रियार्थं समत्सराः ।
रूपयौवनसंपत्तिं दर्शयन्तश्च तां स्वयम् ॥ (५३)

उपविष्टास्ततस्तत्र तपस्यन्तं दृढव्रतम् ।
तपसस्तं महाघोरात् क्षोभयध्वं विलोभनैः ॥ (५४)

तमामन्त्र्य तु ताः सर्वा महेन्द्रं सुरयोषितः ।
ययुः त्रिकूटशिखरं यत्रास्ते स तपोधनः ॥ (५५)

घृताची मेनका रम्भा मिश्रकेशी तिलोत्तमा ।
ऊर्वशी पुण्डरीका च मन्थराक्षी मदोद्धता ॥ (५६)

एतास्सर्वानवद्याङ्ग्यः सङ्गता मदविह्वलाः ।
निर्वातदीपनिष्कम्पं ददृशुस्तं तपोधनम् ॥ (५७)

कुशास्तरणसंविष्टं नासाग्रन्यस्तलोचनम् ।
तपः कृषितसर्वाङ्गं ज्वलन्तमिव पावकम् ॥ (५८)

हृत्पुण्डरीकमध्यस्थं पुण्डरीकाक्षमच्युतम् ।
ध्यायन्तं तदनुध्यानजनिताह्वाननिर्व्यथम् ॥ (६०)

तं दृष्ट्वा तत्समीपस्थास्सर्वा मधुरं जगुः ।
ननृतुश्च मदोद्रिक्ता वीणावेणुसमन्विताः ॥ (६१)

कथाः कन्दर्पदलिताः कथयन्ति स्म विह्वलाः ।
क्ष्वेलन्ति स्म नदन्ति स्म हसन्ति स्म मदालसाः ॥ (६२)

इत्थं तत्पुरतः स्थित्वा समस्तास्सुरयोषितः ।
चेष्टाश्च विविधाश्चक्रुः चारुवल्गुनपूर्विकाः ॥ (६३)

न तताप रविस्तत्र तीव्रमिन्द्रप्रचोदितः ।
संह्लाद-सुरभिर्वायुर्ववौ स्पर्शसुखावहः ॥ (६४)

अमृतांशुश्च ववृधे मदयन् सुरयोषितः ।
सर्वर्तुकुसुमोपेतस्तत्र कालोऽभवत्तदा ॥ (६५)

इत्थं बहुविधाश्चेष्टाः कुर्वन्त्यस्तास्सुरस्त्रियः ।
न शेकुलोचने तस्य समुन्मीलयितुं मुनेः ॥ (६६)

स च ध्यात्वा जगन्नाथं शङ्खचक्रगदाधरम् ।
नारायणं हृषीकेशं जगतः कारणं परम् ॥ (६७)

मूलम्

स च ध्यात्वा जगन्नाथं शङ्खचक्रगदाधरम् ।
नारायणं हृषीकेशं जगतः कारणं परम् ॥ (६७)

विश्वास-प्रस्तुतिः

विश्वेश्वरमजं देवं सुहृदं सर्वदेहिनाम् ।
नाचिन्तयत्समीपस्थाः स्त्रियस्ता मुनिपुङ्गवः ॥ (६८)

तं समीक्ष्य सुदुद्धर्षमूचुरप्सरसस्ततः ।
व्रीळारोषभयाविष्टाः परितस्तस्य विष्टिताः ॥ (६९)

अप्सरसः –

विश्वास-प्रस्तुतिः

कोऽयमास्ते सुदुर्मेधा निमीलितविलोचनः ।
उपस्थितमनादृत्य स्वयमप्सरसां गणम् ॥ (७०)

समीपस्थमसंप्रेक्ष्य तत्सर्वं तपसः फलम् ।
किमत्र चिन्त्यतेऽनेन मूग्धेनैव दुरात्मना ॥ (७१)

मुखान्यप्सरसां दृष्ट्वा सहस्राक्षश्शचीपतिः ।
सुराधीशः सुखेनाक्ष्णां साफल्यं समुपाश्नुते ॥ (७२)

यज्ञादीनि च कर्माणि कुर्वन्त्यस्मत्कृते नराः ।
धनधान्यादि दास्यन्ति ब्राह्मणेभ्यो बहूनि च ॥ (७३)

विचरन्ति च घोराणि तथाप्यस्मत्कृते नराः ।
सर्वधर्मांश्च कुर्वन्ति नियता विजितेन्द्रियाः ॥ (७४)

यश्चास्माकं प्रियालापान् न शृणोति मनोहरान् ।
अचेतनो वृथा जीवी कीर्त्यते स नराधमः ॥ (७५)

स्तनाश्लेषन्तु सुतन्वङ्ग्या लभते यस्सुदुर्लभम् ।
न धन्यः पुरुषो लोके कीर्त्यते पुण्यकोविदैः ॥ (७६)

विद्यानामार्जितं बाल्ये ब्राह्मणस्य विधीयते ।
यौवने विषया भोगो वृद्धभावे तथा तपः ॥ (७७)

अयमत्यन्तसुभगः सुकुमारनुर्युवा ।
घोरे तपसि दुर्बुद्धिः तिष्ठत्यत्यन्तदुष्करे ॥ (७८)

अदेशकाले चरितं यत्तपः तन्निर्धमकम् ।
तन्नजानाति मूढोऽयमनाथो ज्ञानवञ्चितः ॥ (७९)

तपसां फलमित्याहुः स्त्रियश्शास्त्रविचक्षणाः ।
तन्न जानाति दुर्बुद्धिः अशास्त्रज्ञो मतिक्षयात् ॥ (८०)

तपसः फलमुत्सृज्य क्रियतेऽनेन किं तपः ।
करस्थं रत्नमुत्सृज्य मतिमानन्यदिच्छति ॥ (८१)

दिव्याङ्गना मनुष्याणां पूजनीया विशेषतः ।
अयमस्माननादृत्य किमास्तेऽत्यन्तदुर्मतिः ॥ (८२)

पूज्यपूजामकृत्यैव क्रियते येन यत्तपः ।
तत्तस्य निष्फलं प्राहुर्वेदशास्त्रविशारदाः ॥ (८३)

इत्थं सङ्कल्पमानासु तासु तापसपुङ्गवः ।
नाचिन्तयत् सतास्सर्वा घुष्यन्तीरिव गर्दभाः ॥ (८४)

मन्यमानस्ततस्ताभिः तपोविघ्नमुपागतम् ।
मनसा चिन्तयामास नियतस्स जितेन्द्रियः ॥ (८५)

किन्नेमाः प्रेषिताः क्रूराः मत्सकाशं दुरात्मना ।
सर्वाऽनर्थतरोर्मूलं स्त्रियः प्राहुर्मनीषिणः ॥ (८६)

श्रुतं विज्ञानमास्तिक्यं लज्जाधीः धर्मशीलता ।
स्त्रीणां दर्शनमात्रेण सर्वं नश्यत्यसंशयः ॥ (८७)

धैर्यपारङ्गतो यस्तु सर्वशास्त्रविशारदः ।
योषिद्दर्शनमात्रेण स च क्षुभ्यति मोहितः ॥ (८८)

स्त्रियो हि नरकद्वारं निर्मितं विश्वयोनिना ।
अतस्तद्दर्शनं पापं तापसानां विशेषतः ॥ (८९)

अयं हि जगतो भूत्यै धात्रा स्त्रीपुंविभागतः ।
निर्मितो देहिनां सर्गस्ततो लोकः प्रवर्तते ॥ (९०)

अन्योन्य-प्रणयादेव मुह्यन्त्यज्ञान-संवृताः ।
पुरुषाश्च स्त्रियो दृष्ट्वा ताश्च दृष्ट्वा नतास्तथा ॥ (९१)

तपसैवमुपस्तर्तुम् अहमज्ञानसागरम् ।
विषयेभ्यो निवृत्त्याऽत्र स्थितोऽस्मिन् विजने वने ॥ (९२)

अत्रैवोत्पादितो धात्रा विघातस्तपसो मम ।
स्त्रियो हि खलु सर्वत्र तपसो विघ्नहेतवः ॥ (९३)

दूरतः परिहर्तव्याः स्त्रियः प्राहुर्मनीषिणः ।
किं मयात्रैव कर्तव्यं कार्यं न प्रतिभाति मे ॥ (९४)

उत्तितीर्षुं महाघोरं दुस्तरं भवसागरम् ।
विषयाख्यो महाग्राहो मध्ये गृह्णाति पूरुषम् ॥ (९५)

इत्थं सञ्चिन्तयित्वा तु धर्मलोपभयार्दितः ।
जितेन्द्रियो जितक्रोधस्सर्वत्र समदर्शनः ॥ (९६)

अक्षोभ्योऽपि स्वयं क्रूरान्मत्वा मन्मथसायकान् ।
नारायणं हृषीकेशं सहसा शरणं ययौ ॥ (९७)

अथ सुरवनिताश्च निष्प्रकम्प्यं मुनिवरमभ्यभवन्न शापभीत्या ।
कलुषितहृदयाः वृथा प्रलापाः मदनमदाकुलितास्तदाभितस्थुः ॥ (९८)

इति ब्राह्म्ये पुराणे भृगु–नारदसंवादे अप्सरोगण–विप्रलोभो नाम श्रीहस्तिगिरिमाहात्म्ये त्रयोदशोऽध्यायः